Upadhikhandanam | Sarvamoola Grantha — Acharya Srimadanandatirtha

उपाधिखण्डनम्

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

उपाधिखण्डनम्

नारायणोऽगण्यगुणनित्यैकनलियाकृतिः । अशेषदोषरहितः प्रीयतां कमलालयः ॥1॥

अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन । उपाधिभेदाद्धटत इति चेत् स स्वभावतः ॥2॥
अज्ञानतो वा द्वैतस्य सत्यता स्वत एव चेत् । अनवस्थितिरज्ञानहेतौ वाऽन्योन्यसिद्धिता ॥3॥
चक्रकापत्तिरथवा भेदश्चोपाधितः कुतः । विद्यमानस्य भेदस्य ज्ञापको नैव कारकः ॥4॥
उपाधिर्दृष्टपूर्वो हि खेऽपि देशान्तरस्य सः । ज्ञापको विद्यमानस्य मूढबुद्धिव्यपेक्षया ॥5॥
न चेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः । एकदेशेऽनवस्था स्यात् सर्वगश्चेन्न भेदकः ॥6॥
सुखदुःखादिभोगश्च स्वरूपैक्ये न भेदतः । दृश्यो ह्युपाधिभेदेऽपि हस्तपादादिगो यथा ॥7॥
नानादेहगभोगानुसन्धानं योगिनो यथा । न चेद्भोगानुसन्धानं तदिच्छा योगिनः कुतः ॥8॥
अनुसन्धानरहितदेहबाहुल्यमन्यथा । सिद्धमेव हि तत्पक्षे विशेषो योगिनः कुतः ॥9॥
सिद्धौ हि कर्मभेदस्य स्यादुपाधिविभिन्नता । तत्सिद्धौ चैव तत्सिद्धिरित्यन्योन्यव्यपाश्रयः ॥10॥
आत्मस्वभावभेदस्य विदोषत्वेन चाखिलः । प्रत्यक्षादिविरोधाच्च दुष्टः पक्षोऽयमञ्जसा ॥11॥
चेष्टालिङ्गेन सात्मत्वे परदेहस्य साधिते । अन्यत्वं स्वात्मनस्तस्मात् सर्वैरेवानुभूयते ॥12॥
अज्ञता चाल्पशक्तित्वं दुःखित्वं स्वल्पकर्तृता । सर्वज्ञतादीशगुणविरुद्धा ह्यनुभूतिगाः ॥13॥
सार्वज्ञादिगुणा विष्णोः श्रुतिषु प्रतिपादिताः । 'सत्यः सो अस्य महिमे'त्यादिवाक्यान्मृषा न च ॥14॥
न च वेदोक्तमिथ्यात्वे मानं तन्मानताऽपि न । अतोऽज्ञासम्भवादेव नाधिकार्यैक्यवादिनाम् ॥15॥
अतो नाज्ञातमिति च विषयो विषयान्तरे । अज्ञाभावात् फलं कस्य योगः शशनृशृङ्गयोः ॥16॥
दुर्घटत्वं भूषणं चेत् स्यादविद्यात्वमात्मनः । अन्धन्तमोऽप्यलङ्कारो नित्यदुःखं शिरोमणिः ॥17॥
अतो 'परो मात्रये'ति पूर्वश्रुतिनिदर्शितः । 'अन्यमीश'मिति श्रुत्या भिन्नजीवदृशं गतः ॥ भिन्नत्वेनात्मसादृश्यदो 'यदे'ति श्रुतेः सदा ॥18॥
मायावादतमोव्याप्तमिति तत्त्वदृशा जगत् । भातं सर्वज्ञसूर्येण प्रीतये श्रीपतेः सदा ॥19॥
नमोऽमन्दनिजानन्दसान्द्रसुन्दरमूर्तये । इन्दिरापतये नित्यानन्दभोजनदायिने ॥20॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम् उपाधिखण्डनं समाप्तम् ॥