ध्यायेत् तं(ध्यायेत्) परमानन्दं यन्माता पतिमयदपरमानन्दम् ।
उज्झितपरमानं दम्पत्याद्याद्याश्रमैः सदैव परमानन्दम् ॥१॥
यस्य करालोलं चक्रं कालः परः स हि कराऽलोऽम् ।
यस्य गदा पवमानः सन्(गदा तु वायुर्बलसंविदात्मा) यो व्यासोऽभवत् सदापवमानः ॥२॥
यस्य रमा न मनोगं जगृहे विश्वम्भराऽपि न मनोऽगम् ।
यस्य पुमानानन्दं भुङ्क्ते यद् धाम कपतिमानानन्दम् ॥३॥
परमेषु यदा तेजः परमेषु चकार वासुदेवोऽजः ।
मानधि बिभ्रत्सु मनो माऽनधिमाऽऽसीन्न वासुदेवो जः ॥४॥
सोऽजनि देवक्यन्ते यस्मादनुकम्पनावदेव क्यन्ते ।
अवदन् देव क्यं ते भुवनं हि सुराः सदैवदेऽव क्यन्ते ॥५॥
नीतो वसुदेवेन स्वततेन स गोकुलं सुवसुदेवे न(सवसुदेवेन) ।
तत्र यशोदा तनयं मेने कृष्णं स्वकीयमवदातनयम् ॥६॥
ववृधे गोकुसमध्याद्यो(यो) देवो विश्वमद्भुताकुलमध्यात् ।
तत्र च पूतनिकाया वधमकरोत् यन्निजाः सुपूतनिकायाः(पूतनिकायाः) ॥७॥
अधुनोच्छकटं लोली पादाङ्गुष्ठेन वातपेशशकटं लोली ।
अतनोद् रक्षामस्य स्वाज्ञानाद् गोपिका सदेरक्षामस्य ॥८॥
मुखलालनलोला तन्मुखगं जगदचष्ट सालनलोलातत् ।
नाध्यैन्मायामस्य जगत्प्रभोः स्वधिकतततमायामस्य(स्वाधिकतततमायामस्य) ॥९॥
तस्य सुशर्माण्यकरो दरिणो गर्गः सदुक्तिकर्माण्यकरोत् ।
अवदन्नामानमयं जगदादि वासुदेवनामानमयम् ॥१०॥
तस्य सखा बलनामा ज्येष्ठो भ्राताऽथ यन्निजाबलना मा ।
यस्य च पर्यङ्कोऽयं पूर्वतनो विष्णुमजसपर्यं कोऽयम् ॥११॥
तेन हतो वातरयस्तृणचक्रो नाम दितिसुतोऽवातरयः ।
हरमाणो (बा)वालतमं स्वात्मानं कण्ठरोधिनाऽवालतमम् ॥१२॥
सोऽवनिमध्ये रङ्गन् अरिदरयुग् बालरूपमध्येरं गन् ।
अमुषन्नवनीतमदः (स्व)सगोकुले गोपिकासु नवनीतमदः ॥१३॥
तन्माता कोपमिता तमनुससारात्मवादवाकोपमिता(त्मवाकोपमिता) ।
जगृहे सा नमनं तं देवं (तं चिन्तयैव)तच्चिन्तयैव सानमनन्तम् ॥१४॥
अथ साऽन्तरिताऽमानं विष्णुं विश्वोद्भवं (तदाऽ)सदान्तरितामानम् ।
अनयद् दामोदरतां योऽरमयत् सुन्दरीं निजामोदरताम् ॥१५॥
चक्रे सोऽर्जुननाशं प्राप्नोति च (त)यत्स्मृतिः सदाऽर्जुनना शम् ।
तौ च गतौ निजमोकस्तेनैव नुतेन यन्निजो निजमोकः(यन्निजानिजमोकः) ॥१६॥
अथ वृन्दावनवासं गोपाश्चक्रुर्जगत्क्षिताऽवनवासम् ।
तत्र बकासुरमारः शौरिरभून्नित्यसंश्रितासुरमारः ॥१७॥
अहनद् वत्सतनूकं(वत्सतनुकं) योऽपाल्लोकं स्वयत्नवत्सतनूकम्(वत्सतनुकं) ।
सोपाद् वत्सानमरः सहाग्रजो गोपवत्सवत्सानमरः(गोपवत् सुवत्सानमरः) ॥१८॥
सः विभुः श्रीमानहिके ननर्त यस्य श्रमानमा मा न हि के ।
अकरोन्नद्युदकान्तं कान्तं नीत्वोरगं स नाद्युदकान्तम् ॥१९॥
हत्वा धेनुकमूढं बलात् प्रलम्बं च खेट् सधेनुकमूढम् ।
व्रजमावीदमृताशः पीत्वा वह्निं चरस्थिरादमृताशः(चरस्थितादमृताशः) ॥२०॥
गिरिणा रक्षाऽपि कृता व्रजस्य तेन स्वरक्षरक्षापिकृता ।
शक्राय व्यञ्जयता स्वां शक्तिं विश्वमात्मनाऽव्यं जयता ॥२१॥
रेमे गोपीष्वरिहा स मन्मथाक्रान्तसुन्दरीपीष्वरिहा।
पूर्णानन्दैकतनुः स विश्वरुक्पावनोऽप्यनन्दैकतनुः (प्यानन्दैकतनुः)॥२२॥
अथ हतयोर्गलिकेशयोः श्वफल्कजप्रापितः पुरीं गलिकेश्योः ।
भङ्क्त्वा धनुराजवरं जघान तेनैव च स्वयं राजवरम् ॥२३॥
मृत्नन्(मृद्गन्) गजमुग्रबलं सबऽलो रङ्गं विवेश सृतिमुग्रबऽम् ।
हत्वा मल्लौ बलिनौ कंसं च विमोक्षितौ(विमोक्षिता) ततौ लौ बलिनौ(रौ बलिनौ) ॥२४॥
प्रादात् सान्दीपनये मृतपुत्रं ज्ञानदीपसन्दीपनये(सान्दीपनये) ।
गुर्वर्थेऽज्ञानतमःप्रभेदिता नित्यसम्भृताज्ञानतमः ॥२५॥
जित्वा मागधराजं तोषितमकरोत् सदात्मयोगधराजम् ।
अनु कुर्वन् निजसदनं चक्रे रम्यां पुरीं(रम्यं पुरं) सुबोधनिजसदनम् ॥२६॥
प्रसभं सगजबलस्य क्षत्रस्योच्चैः समगधराजबलस्य ।
मानं शिशुपालवरं हत्वा भैष्मीमवाप शिशुपालवरम् ॥२७॥
हंसो (डिभि)डिभकश्चपलावमुना संसूदितौ यवनकश्च पला ।
कीर्तिर्विमला विरता प्रतता विश्वाधिपावनीलाविरता ॥२८॥
सत्याजाम्बवतीर्या भार्या विन्दाद्या भानुसाम्बवतीर्याः ।
प्रद्युम्नं (स्वमोदरतः)मोदरतः प्राप ज्येष्ठं हरिः सुतं मोदरतः ॥२९॥
यत्परिवारतयेशा जाता देवा नृपात्मजा रतयेशाः ।
यद्भरितं विषसर्पप्रभृति ध्वान्तं न मारुतिं विषसर्प ॥३०॥
येन हिडिम्बबकाद्या रक्षोधीशा निपातिता बबकाद्याः ।
भीमे प्रीतिममेयां व्यञ्जयता तेनैव(तेन) शेषपाति ममे याम् ॥३१॥
अथ कृष्णावरणे तान् प्राप्तान् राज्ञोऽशृणोत् सदावरणेतान् ।
द्रष्टुं यातः सबलस्तां चानैषीत् पृथासुतांस्ततः सबलः ॥३२॥
तानिन्द्रस्थलवासांश्चक्रे कृष्णः परो(पुरो) निजस्थलवासान् ।
स्वबलोद्रेचितमानैर्जुगोप धर्मं च तैः पराचितमानैः(पराञ्चितमानैः) ॥३३॥
वालिवधानुनयाय प्रणयी सख्यं सुसन्दधे नु नयाय ।
वासवजेन विशेषात् तेनैव पुनर्नृजन्मजेन विशेषात् ॥३४॥
मातुः परिभवहान्यै राज्ञा द्युसदामितश्च परिभवहाऽन्यैः(न्यै) ।
अभवन्नरकमुरारिर्योऽवासीदत्(योऽवात्सीदत्) समस्तनरकमुरारिः ॥३५॥
नीतो दिवि देववरै रेमे सत्यासमन्वितोऽदेववरैः ।
सर्वर्तुवने शशिना निशि सत्यां वासरे वनेऽशशिना ॥३६॥
सुरतरुमापाऽलिमतात् प्रकाशयञ्छक्तिमात्मनः पाळिमतात् ।
सुरवरवीरेषु दरी प्रधानजीवेश्वरः परेषुदरी ॥३७॥
पुरमभियायारिदरी दत्वा भद्रां पृथासुतायारिदरी ।
शक्रपुरीमभियातः प्रादाद् वह्नेर्वनं सतामभियातः ॥३९॥
शिवभक्तप्रवराद्यं पुमान् न सेहे गिरीशविप्रवराद्यम्(गिरिशविप्रवराद्यम्) ।
तं स्वात्मेन्द्रवरेण व्यधुनोद् भीमेन धूतरुद्रवरेण ॥३९॥
यस्याज्ञाबलसारैः पार्थैर्दिग्भ्यो हृतं धनं बलसारैः ।
जित्वा क्ष्मामविशेषां प्रसह्य भूपान् समस्तकामविशेषाम् ॥४०॥
अथ पार्थान् क्रतुराजं प्रापयदमरेट् सरुद्रशक्रतुराजम् ।
पूजा तेनावापि च्छिन्नश्चैद्यः सृतिं गते नावाऽपि ॥४१॥
निहतौ सौभकरूशौ शीतो भातश्च येन तौ भकरूशौ(भाकरूशौ) ।
अजयद् रुद्रं च रणे बाणार्थेऽवनतिपतितकचन्द्रं चरणे ॥४२॥
असृजज्ज्वरमुग्रतमःक्षयप्रदो लीलयाऽधिवरमुग्रतमः ।
क्रीडामात्रं विश्वं प्रकाशयन्नात्मनः स विहरकमात्रं विश्वम् ॥४३॥
यस्यावेशोरुबलान्न्यहनत् पार्थोऽसुरान् प्रजेशोरुबलान्(त्) ।
वरदानादस्यैव जगत्प्रभोरीरणात् समनुगतनादस्यैव ॥४४॥
यस्यावेशात् स बलः प्रचकर्ष पुरं प्रसह्य वेशात् सबलः ।
कुरुपतिनाम नु यमुना कृष्टा(कृष्णा) येनाहुरर्ह्यमतनु(येनाहुरर्घ्यमतनु) यमुना ॥४५॥
यद्बलवान् क्रोधवशान्निनाय नाशं वृकोदरः क्रोधवशान् ।
लेभे चान्यागम्यं स्थानं पुष्पाणि धाम चान्यागम्यम् ॥४६॥
यद्बलभारवहत्वान्नाचलदुरगादिभिः सुभारवहत्वात्(त्वम्) ।
धर्मादरिहाऽपि पदं भीमो येनैव साहसं (लिहाऽऽपि)रिहाऽऽपि पदम् ॥४७॥
न हि नहुषोऽलं नहितुं धर्मो द्रौणिस्तथेतरो(रे)ऽलं नहितुम् ।
नो राट् कर्णो(र्णौ) ब्रह्मवरी येन ध्वस्तोस्त्रमग्रहीत् सुब्रह्म वरी(सब्रह्मवरी) ॥४८॥
क्षात्रं धर्मं स्ववता गुरुवृत्त्यै केशवाज्ञया च मं (मे/मलं) स्ववता ।
सर्वं सेहे मनसा भीमेनेशैकमानिना हेमनसा ॥४९॥
यद्भक्तप्रवरेण प्रोतः स्वस्मिन् स कीचकः प्रवरेण ।
पतितास्तस्य सहायाः कृष्णार्थे मानिनः समस्य सहायाः ॥५०॥
यद्भक्त्याऽनुगृहीतौ पार्थो भीमश्च गोनृपौ नु गृहीतौ(निगृहीतौ)।
ऋणमुक्त्यै सुव्यत्यस्त्यै क्रमशो वीरावमुञ्चतां सुव्यत्यस्त्यै ॥५१॥
यद्भक्त्याऽमितयाऽलं कृष्णा कार्ये विवेश कृष्णाकार्ये ।
यामीरार्द्धतनुत्वान्नापाद् भीमादृतेऽपि नापाद् भीमात् ॥५२॥
यां स्प्रष्टुमिच्छन्तमजातशत्रुं न्यवारयत् स्वस्थमजातशत्रुम् ।
शंरूपाने नित्यरतेरियं श्रीरिति स्म देवेड्यदितेरियं श्रीः ॥५३॥
मनसामनसाऽमनसा मनसा यमनन्तमजस्रमवेदनुया ।
विलयं विलयं विलयं विलयन्निखिऽलं त्वशुभं प्रचकार च यः(या) ॥५४॥
सोऽगाद् दूतमुखेन प्रभुणेदं वर्तते यदूतमुखेन ।
पार्थार्थे बहुतनुतां यत्र प्रकाशयन्(त्) स्वयं सबहुतनुताम् ॥५५॥
गुरुकर्णनदीजानवधीच्चक्षुर्बलेन जनदीजादी ।
शक्त्या निजया परवान् स्वजनानुद्रेचयन्ननन्तयाऽपरवान् ॥५६॥
यस्य सुनीतिसहायान्न(सुनीतसहायान्न) रिपून् मेनेऽर्जुनः समेतसहा यान् ।
अकरोच्चासु परासुप्रततिं सेनासु धावनासुपरासु ॥५७॥
येन जयद्रथमारः पार्थः(पात्रा) शत्रूनवापतद्रथमारः ।
यद्विरहादपि देहे स रथः शश्वत् स्थितेः सदादपि देहे ॥५८॥
यद्भरितो भरताभः प्रभुरम्भाभावितोऽभिभरताभः ।
भीमो रभसाऽभिभवी प्रसभं भा भाभिभूर्भसा(भासा) भिभवी ॥५९॥
यदनुग्रहिपूर्णत्वाद्(यदनुग्रहपूर्णत्वाद्) भीमः सर्वानरीननहिपूर्णत्वात् ।
अदहत् बाहुबलेन क्रोधाग्नावाहितान् निजाहुबलेन ॥६० ॥
कृष्णाभीमाप्ततमः शीर्णं येन स्वकीयहृदयमाप्ततमः ।
धृतराष्ट्रसुतानवधीत् भीमेन स्थापितो मनसि सुसुतानवधीत् ॥६१॥
भीमविपाटितदेहानदर्शयत्(विपातित/निपातित) स्वानरीन् विपाटितदेहान् ।
कृष्णाया हितकारी सम्यगीरप्रियः सदाऽहितकारी ॥६२॥
अथ हरिणा पीतबलं द्रौणेरस्त्रं महारिणाऽपीतबलम् ।
दधता वासोमरणं नीतं चक्रेऽभिमन्युजं सोमरणम् ॥६३॥
तस्य च रक्षा सुकृता जनार्दनेनेशशेषकेक्षासुकृता ।
पार्थेषु प्रेमवता नित्यं भर्त्रासुतासुविप्रेमवता ॥६४॥
ज्ञानं परमं प्रादाद् भीष्मगतः सृतिविमोक्षचरमं प्रादात् ।
पाण्डुसुतानामधिकं चक्रे वेदं गुणोत्तरं स्वनामधिकम् ॥६५॥
तेनावापि सुजातैर्हरिमेधस्तुरगवर्तनेऽपि(तुरगावर्तनेऽपि) सुजातैः ।
पाण्डुसुतैः (सवसूकैराप्तैर्व्यासात्मना)सवसूकैः प्राप्तैर्व्यासात्मना च सुसवसूकैः ॥६६॥
तदनु स (सु)पाण्डुतनूजै रेमे क्ष्मां पालयन् सुपाण्डुतनूजैः ।
अनुपमसुखरूपोऽजः परमः श्रीवल्लभः सति खरूपो जः(सुखरूपो जः/सति सुखरूपोजः) ॥६७॥
सुगतिं (पर)चरमामददान्निजयोग्यां ज्ञानिसुततिं(ति) परमामददात् ।
पार्थानां सयदूनां स (परम)पितृप्रेष्यादिनामिनां सयदूनाम् ॥६८॥
रेमे तत्रापिसुखी परमोऽनन्तो ननन्द तत्रापि सुखी ।
प्राणेनेन्दिरया च प्रयुतो नित्यं महागुणेन्दिरया च ॥६९॥
एवं सर्वाणि हरे रूपाणि श्रीपतेः सुपर्वाणिहरेः ।
पूर्णसुखानि सुभान्ति प्रततानि निरन्तराणि (नि)सुभान्ति ॥७०॥
राम राम महाबाहो माया ते सुदुरासदा ।
वाद सादद को लोके पादावेव तवासजेत् ॥७१॥
जेत् सवातव वेदापाऽके लोकोदद सादवा ।
दासरादुसुतेयामाहोवाहा मम राम रा(राः) ॥७२॥
देवानां पतयो नित्यं मतं यस्य न जानते(नो मतं यस्य जानते) ।
तस्मै देव नमस्तेऽहं भवतेऽसुरमारये ॥७३॥
समस्तदेवजनकवासुदेवपरामृत ।
वासुदेव परामृत ज्ञानमूर्ते नमोऽस्तु ते ॥७४॥
देवादे देवऽलोकप पूर्णानन्दमहोदधे ।
सर्वज्ञेश रमानाथ देवाऽदेऽदेऽव लोकप ॥७५॥
यो निर्ममेऽशेषपुराणविद्यां यो निर्ममेशे षपुराणविद्याम् ।
योनिर्ममेशेषपुराणविद्यां योऽनिर्ममेशेषपुराणविद्याम् ॥७६॥
अनन्तपारामितविक्रमेश प्रभो रमापारमनन्तपार ।
महागुणाढ्यापरिमेयसत्त्व रमालयाशेषमहागुणाढ्य ॥७७॥
भा भा भा भा भा भा भा भा भा भा भा भा भा भा ।
भा भा भा भा भा भा भा भा भा भा भा भा भा भा ॥७८॥
नैव परः केशवतः परमादरस्मात् समश्च सुकेशवतः(सुखकेशवतः)।
सोऽयं शपथवरो नः शश्वत् सन्धारितः सुशपथवरोऽनः ॥७९॥
कृष्णकथेयं यमिता (सुश)सुखतीर्थेनोदिताऽनने यं यमिता ।
भक्तिमता परमेशे सर्वोद्रेका सदानुताऽप रमेशे ॥८०॥
इति (नारायणनामाव कतीर्थं)नारायणनामा सुखतीर्थपूजितः सुरायणना मा ।
पूर्ण गुणैर्धिक(गुणैरधिक) पूर्णज्ञानेच्छाभक्तिभिः(पूर्णज्ञानेच्छाशक्तिभिः) स्वधिकपूर्ण(र्णः) ॥८१॥