Yamakabharatam | Sarvamoola Grantha — Acharya Srimadanandatirtha

यमकभारतम्

ध्यायेत् तं परमानन्दं यन्माता पतिमयदपरमानन्दम् ।

उज्झितपरमानं दम्पत्याद्याद्याश्रमैः सदैव परमानन्दम् ॥1॥

यस्य कराऽलोऽलं चक्रं काऽलः परः स हि कराऽलोऽम् ।

यस्य गदा पवमानः सन् यो व्यासोभवत् सदापवमानः ॥2॥

यस्य रमा न मनोगं जगृहे विश्वम्भरापि न मनोगम् ।

यस्य पुमानानन्दं भुङ्क्ते यद् धाम कपतिमानानन्दम् ॥3॥

परमेषु यदा तेजः परमेषु चकार वासुदेवोजः ।

मानधि बिभ्रत्सु मनो मानधिमासीन्न वासुदेवो जः ॥4॥

सोजनि देवक्यन्ते यस्मादनुकम्पनावदेव क्यन्ते ।

अवदन् देव क्यं ते भुवनं हि सुराः सदैवदेव क्यन्ते ॥5॥

नीतो वसुदेवेन स्वततेन स गोकुऽलं सुवसुदेवे न ।

तत्र यशोदा तनयं मेने कृष्णं स्वकीयमवदातनयम् ॥6॥

ववृधे गोकुसमध्यायो देवो विश्वमद्भुताकुऽमध्यात् ।

तत्र च पूतनिकाया वधमकरोत् यन्निजाः सुपूतननिकायाः ॥7॥

अधुनोच्छकटं ऽलोली पादाङ्गुष्ठेन वातपेशशकटं ऽलोली ।

अतनोद् रक्षामस्य स्वाज्ञानाद् गोपिका सदेरक्षामस्य ॥8॥

मुखऽलाऽनलो तन्मुखगं जगदचष्ट साऽनऽलोतत् ।

नाध्यैन्मायामस्य जगत्प्रभोः स्वधिकतततमायामस्य ॥9॥

तस्य सुशर्माण्यकरो दरिणो गर्गः सदुक्तिकर्माण्यकरोत् ।

अवदन्नामानमयं जगदादि वासुदेवनामानमयम् ॥10॥

तस्य सखा बऽनामा ज्येष्ठो भ्राताथ यन्निजाबऽना मा ।

यस्य च पर्यङ्कोयं पूर्वतनो विष्णुमजसपर्यं कोयम् ॥11॥

तेन हतो वातरयस्तृणचक्रो नाम दितिसुतोवातरयः ।

हरमाणो बाऽतमं स्वात्मानं कण्ठरोधिनावाऽतमम् ॥12॥

सोवनिमध्ये रङ्गन् अरिदरयुग् बाऽरूपमध्येरं गन् ।

अमुषन्नवनीतमदः सगोकुऽले गोपिकासु नवनीतमदः ॥13॥

तन्माता कोपमिता तमनुससारात्मवादवाकोपमिता ।

जगृहे सा नमनं तं देवं तच्चिन्तयैव सानमनन्तम् ॥14॥

अथ सान्तरितामानं विष्णुं विश्वोद्भवं सदान्तरितामानम् ।

अनयद् दामोदरतां योरमयत् सुन्दरीं निजामोदरताम् ॥15॥

चक्रे सोर्जुननाशं प्राप्नोति च यत्स्मृतिः सदार्जुनना शम् ।

तौ च गतौ निजमोकस्तेनैव नुतेन यन्निजो निजमोकः ॥16॥

अथ वृन्दावनवासं गोपाश्चक्रुर्जगत्क्षितावनवासम् ।

तत्र बकासुरमारः शौरिरभून्नित्यसंश्रितासुरमारः ॥17॥

अहनद् वत्सतनूकं योपल्लोकं स्वयत्नवत्सतनूकम् ।

सोपाद् वत्सानमरः सहाग्रजो गोपवत्सवत्सानमरः ॥18॥

सः विभुः श्रीमानहिके ननर्त यस्य श्रमानमा मा न हि के ।

अकरोन्नद्युदकान्तं कान्तं नीत्वोरगं स नाद्युदकान्तम् ॥19॥

हत्वा धेनुकमूढं बऽलात् प्रऽम्बं च खेट् सधेनुकमूढम् ।

व्रजमावीदमृताशः पीत्वा वह्निं चरस्थिरादमृताशः ॥20॥

गिरिणा रक्षापि कृता व्रजस्य तेन स्वरक्षरक्षापिकृता ।

शक्राय व्यञ्जयता स्वां शक्तिं विश्वमात्मनाव्यं जयता ॥21॥

रेमे गोपीष्वरिहा स मन्मथाक्रान्तसुन्दरीपीष्वरिहा।

पूर्णानन्दैकतनुः स विश्वरुक्पावनोप्यनन्दैकतनुः ॥22॥

अथ हतयोर्गलिऽकेशयोः श्वफल्कजप्रापितः पुरीं गलिऽकेश्योः ।

भङ्क्वा धनुराजवरं जघान तेनैव च स्वयं राजवरम् ॥23॥

मृत्नन् गजमुग्रबऽलं सबऽलो रङ्गं विवेश सृतिमुग्रबऽम् ।

हत्वा मल्लौ बलिनौ कंसं च विमोक्षितौ ततौ ऽलौ बलिऽनौ ॥24॥

प्रादात् सान्दीपनये मृतपुत्रं ज्ञानदीपसन्दीपनये ।

गुर्वर्थेज्ञानतमःप्रभेदिता नित्यसम्भृताज्ञानतमः ॥25॥

जित्वा मागधराजं तोषितमकरोत् सदात्मयोगधराजम् ।

अनु कुर्वन् निजसदनं चक्रे रम्यां पुरीं सुबोधनिजसदनम् ॥26॥

प्रसभं सगजबऽस्य क्षत्रस्योच्चैः समगधराजबऽस्य ।

मानं शिशुपाऽवरं हत्वा भैष्मीमवाप शिशुपाऽवरम् ॥27॥

हंसो डिभकश्चपऽलावमुना संसूदितो यवनकश्च पऽला ।

कीर्तिर्विमलाला विरता प्रतता विश्वाधिपावनीऽलाविरता ॥28॥

सत्याजाम्बवतीर्या भार्या विन्दाद्या भानुसाम्बवतीर्याः ।

प्रद्युम्नं मोदरतः प्राप ज्येष्ठं हरिः सुतं मोदरतः ॥29॥

यत्परिवारतयेशा जाता देवा नृपात्मजा रतयेशाः ।

यद्भरितं विषसर्पप्रभृति ध्वान्तं न मारुतिं विषसर्प ॥30॥

येन हिडिम्बबकाद्या रक्षोधीशा निपातिता बबकाद्याः ।

भीमे प्रीतिममेयां व्यञ्जयता तेनैव शेषपाति ममे याम् ॥31॥

अथ कृष्णावरणे तान् प्राप्तान् राज्ञोशृणोत् सदावरणेतान् ।

द्रष्टुं यातः सबऽस्तां चानैषीत् पृथासुतांस्ततः सबऽलः ॥32॥

तानिन्द्रस्थऽवासांश्चक्रे कृष्णः परो निजस्थऽवासान् ।

स्वबऽलोद्रेचितमानैर्जुगोप धर्मं च तैः पराचितमानैः ॥33॥

वालिऽवधानुनयाय प्रणयी सख्यं सुसन्दधे नु नयाय ।

वासवजेन विशेषात् तेनैव पुनर्नृजन्मजेन विशेषात् ॥34॥

मातुः परिभवहान्यै राज्ञा द्युसदामितश्च परिभवहान्यैः ।

अभवन्नरकमुरारिर्यो वासीदत् समस्तनरकमुरारिः ॥35॥

नीतो दिवि देववरै रेमे सत्यासमन्वितोदेववरैः ।

सर्वर्तुवने शशिना निशि सत्यां वासरे वनेशशिना ॥36॥

सुरतरुमापालिमतात् प्रकाशयञ्छक्तिमात्मनः पािऽमतात् ।

सुरवरवीरेषु दरी प्रधानजीवेश्वरः परेषुदरी ॥37॥

पुरमभियायारिदरी दत्वा भद्रां पृथासुतायारिदरी ।

शक्रपुरीमभियातः प्रादाद् वह्नेर्वनं सतामभियातः ॥38॥

शिवभक्तप्रवराद्यं पुमान् न सेहे गिरीशविप्रवराद्यम् ।

तं स्वात्मेन्द्रवरेण व्यधुनोद् भीमेन धूतरुद्रवरेण ॥39॥

यस्याज्ञाबऽसारैः पार्थैर्दिग्भ्यो हृतं धनं बऽसारैः ।

जित्वा क्ष्मामविशेषां प्रसह्य भूपान् समस्तकामविशेषाम् ॥40॥

अथ पार्थान् क्रतुराजं प्रापयदमरेट् सरुद्रशक्रतुराजम् ।

पूजा तेनावापि च्छिन्नश्चैद्यः सृतिं गते नावापि ॥41॥

निहतौ सौभकरूशौ शीतो भातश्च येन तौ भकरूशौ ।

अजयद् रुद्रं च रणे बाणार्थेवनतिपतितकचन्द्रं चरणे ॥42॥

असृजज्ज्वरमुग्रतमःक्षयप्रदो ऽलीऽयाधिवरमुग्रतमः ।

क्रीडामात्रं विश्वं प्रकाशयन्नात्मनः स विहरकमात्रं विश्वम् ॥43॥

यस्यावेशोरुबऽान्नयहनत् पार्थोसुरान् प्रजेशोरुबऽलान् ।

वरदानदस्यैव जगत्प्रभोरीरणात् समनुगतनादस्यैव ॥44॥

यस्यावेशात् स बलः प्रचकर्ष पुरं प्रसह्य वेशात् सबलः ।

कुरुपतिनाम नु यमुना कृष्टा येनाहुरर्ह्यमतनु यमुना ॥45॥

यद्बऽवान् क्रोधवशान्निनाय नाशं वृकोदरः क्रोधवशान् ।

ऽलेभे चान्यागम्यं स्थानं पुष्पाणि धाम चान्यागम्यम् ॥46॥

यद्बऽभारवहत्वान्नाचऽदुरगादिभिः सुभारवहत्वम् ।

धर्मादरिहापि पदं भीमो येनैव साहसं रिहापि पदम् ॥47॥

न हि नहुषोऽं नहितुं धर्मो द्रौणिस्तथेतरोऽलं नहितुम् ।

नो राट् कर्णो ब्रह्मवरी येन ध्वस्तोस्त्रमग्रहीत् सुब्रह्म वरी ॥48॥

क्षात्रं धर्मं स्ववता गुरुवृत्त्यै केशवाज्ञया च मलं स्ववता ।

सर्वं सेहे मनसा भीमेनेशैकमानिना हेमनसा ॥49॥

यद्भक्तप्रवरेण प्रोतः स्वस्मिन् स कीचकः प्रवरेण ।

पतितास्तस्य सहायाः कृष्णार्थे मानिनः समस्य सहायाः ॥50॥

यद्भक्त्यानुगृहीतौ पार्थो भीमश्च गोनृपौ नु गृहीतौ ।

ऋणमुक्त्यै सुव्यत्यस्त्यै क्रमशो वीरावमुञ्चतां सुव्यत्यस्त्यै ॥51॥

यद्भक्त्यामितयाऽलं कृष्णा कार्ये विवेश कृष्णाकार्ये ।

यामीरार्द्धतनुत्वान्नापाद् भीमादृतेपि नापाद् भीमात् ॥52॥

यां स्प्रष्टुमिच्छन्तमजातशत्रुं न्यवारयत् स्वस्थमजातशत्रुम् ।

शंरूपाने नित्यरतेरियं श्रीरिति स्म देवेड्यदितेरियं श्रीः ॥53॥

मनसामनसा मनसा मनसा यमनन्तमजस्रमवेदनुया ।

विऽयं विऽयं विऽयं विऽयन्निखिऽलं त्वशुभं प्रचकार च यः ॥54॥

सोगाद् दूतमुखेन प्रभुणेदं वर्तते यदूतमुखेन ।

पार्थार्थे बहुतनुतां यत्र प्रकाशयन् स्वयं सबहुतनुताम् ॥55॥

गुरुकर्णनदीजानवधीच्चक्षुर्बऽलेन जनदीजादी ।

शक्त्या निजया परवान् स्वजनानुद्रेचयन्ननन्तयापरवान् ॥56॥

यस्य सुनीतिसहायान्न रिपून् मेनेर्जुनः समेतसहा यान् ।

अकरोच्चासु परासुप्रततिं सेनासु धावनासुपरासु ॥57॥

येन जयद्रथमारः पार्थः शत्रूनवापतद्रथमारः ।

यद्विरहादपि देहे स रथः शश्वत् स्थितेः सदादपि देहे ॥58॥

यद्भरितो भरताभः प्रभुरम्भाभावितोभिभरताभः ।

भीमो रभसाभिभवी प्रसभं भा भाभिभूर्भसा भिभवी ॥59॥

यदनुग्रहिपूर्णत्वाद् भीमः सर्वानरीननहिपूर्णत्वात् ।

अदहत् बाहुबऽलेन क्रोधाग्नावाहितान् निजाहुबऽलेन ॥60 ॥

कृष्णाभीमाप्ततमः शीर्णं येन स्वकीयहृदयमाप्ततमः ।

धृतराष्ट्रसुतानवधीत् भीमेन स्थापितो मनसि सुसुतानवधीत् ॥61॥

भीमविपाटितदेहानदर्शयत् स्वनरीन् विपाटितदेहान् ।

कृष्णाया हितकारी सम्यगीरप्रियः सदाहितकारी ॥62॥

अथ हरिणा पीतबलं द्रौणेरस्त्रं महारिणापीतबऽम् ।

दधता वासोमरणं नीतं चक्रेभिमन्युजं सोमरणम् ॥63॥

तस्य च रक्षा सुकृता जनार्दनेनेशशेषकेक्षासुकृता ।

पार्थेषु प्रेमवता नित्यं भर्त्रासुतासुविप्रेमवता ॥64॥

ज्ञानं परमं प्रादाद् भीष्मगतः सृतिविमोक्षचरमं प्रादात् ।

पाण्डुसुतानामधिकं चक्रे वेदं गुणोत्तरं स्वनामधिकम् ॥65॥

तेनावापि सुजातैर्हरिमेधस्तुरगवर्ततेनपि सुजातैः ।

पाण्डुसुतैः सवसूकैः प्राप्तैर्व्यासात्मना च सुसवसूकैः ॥66॥

तदनु स पाण्डुतनूजै रेमे क्ष्मां पाऽयन् सुपाण्डुतनूजैः ।

अनुपमसुखरूपोजः परमः श्रीवल्लभः सति खरूपो जः ॥67॥

सुगतिं चरमामददान्निजयोग्यां ज्ञानिसुततिं परमामददात् ।

पार्थानां सयदूनां स पितृप्रेष्यादिनामिनां सयदूनाम् ॥68॥

रेमे तत्रापिसुखी परमोनन्तो ननन्द तत्रापि सुखी ।

प्राणेनेन्दिरया च प्रयुतो नित्यं महागुणेन्दिरया च ॥69॥

एवं सर्वाणि हरे रूपाणि श्रीपतेः सुपर्वाणिहरेः ।

पूर्णसुखानि सुभान्ति प्रततनि निरन्तराणि सुभान्ति ॥70॥

राम राम महाबाहो माया ते सुदुरासदा ।

वाद सादद को ऽलोके पादावेव तवासजेत् ॥71॥

जेत् सवातव वेदापाके लोकोदद सादवा ।

दासरादुसुतेयामाहोवाहा मम राम रा ॥72॥

देवानां पतयो नित्यं मतं यस्य न जानते ।

तस्मै देव नमस्तेहं भवतेसुरमारये ॥73॥

समस्तदेवजनकवासुदेवपरामृत ।

वासुदेव परामृत ज्ञानमूर्ते नमोस्तु ते ॥74॥

देवादे देवऽलोकप पूर्णानन्दमहोदधे ।

सर्वज्ञेश रमानाथ देवादे देव ऽलोकप ॥75॥

यो निर्ममेशेषपुराणविद्यां यो निर्ममेशेषपुराणविद्याम् ।

योनिर्ममेशेषपुराणविद्यां यो निर्ममेशेषपुराणविद्याम् ॥76॥

अनन्तपारामितविक्रमेश प्रभो रमापारमनन्तपार ।

महागुणाढ्यापरिमेयसत्त्व रमाऽयाशेषमहागुणाढ्य ॥77॥

भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा ।

भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा भा ॥78॥

नैव परः केशवतः परमादरस्मात् समश्च सुकेशवतः ।

सोयं शपथवरो नः शश्वत् सन्धारितः सुशपथवरोनः ॥79॥

कृष्णकथेयं यमिता सुखतीर्थेनोदितानने यं यमिता ।

भक्तिमता परमेशे सर्वोद्रेका सदानुताप रमेशे ॥80॥

इति नारायणनामा सुखतीर्थपूजितः सुरायणना मा ।

पूर्ण गुणैर्धिक पूर्णज्ञानेच्छाभक्तिभिः स्वधिकपूर्ण ॥81॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं यमकभारतम् ॥