समिच्चर्वाज्यकान्हुत्वा सम्यक्पुरुषसूक्ततः ।
सर्वेषामभयं दत्वा विरक्तः प्रव्रजेद्धरिम्॥ १॥
श्रुत्वा भागवतं शुद्धमाचार्यं शरणं व्रजेत् ।
अधीहि भगवो ब्रह्मेत्यस्मै ब्रूयाद्गुरुः परम्॥ २॥
उच्चारयेत्त्रिशस्तारं दक्षिणे श्रवणे तथा ।
ऋषिच्छन्दोदैवतानि ब्रूयात्तस्य क्रमात्सुधीः॥ ३॥
अन्तर्यामीति गायत्री परमात्मेत्यनुक्रमात् ।
विश्वश्च तैजसः प्राज्ञस्तुर्यश्चाक्षरदेवताः॥ ४॥
कृष्णो रामो नृसिंहश्च वराहो विष्णुरेव च ।
परञ्ज्योतिः परम्ब्रह्म वासुदेव इति क्रमात्॥ ५॥
अकारादेस्तथा शान्तातिशान्तान्तस्य देवताः ।
एवमुक्त्वा तु तद्ध्यानं ब्रूयाच्छिष्याय सद्गुरुः॥ ६॥
अष्टपत्रे तु हृत्पद्मे मध्ये सूर्येन्दुवह्निगम् ।
पीठं तत्पद्ममध्यस्थं नारायणमनामयम्॥ ७॥
उद्यदादित्यसङ्काशं तेजसानुपमं सदा ।
सहस्रेणापि सूर्याणां सञ्ज्ञानानन्दरूपिणम्॥ ८॥
अतिरक्ततलं भास्वन्नखव्रातविभूषितम् वृत्तजङ्घं वृत्तजानुं हस्तिहस्तोरुमीश्वरम्॥ ९॥
महाकटितटाबद्धकाञ्चीपीताम्बरोज्ज्वलम् ।
सुनिम्ननाभिं त्रिवलिं सुवृत्तोदरबन्धनम्॥ १०॥
विशालवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ।
वनमालाधरं हारवैजयन्त्यादिभिर्युतम्॥ ११॥
पृथुदीर्घचतुर्बाहुं शङ्खचक्रगदाम्बुजैः ।
युक्तमुन्निद्रपद्माक्षं स्फुरन्मकरकुण्डलम्॥ १२॥
पूर्णचन्द्रायुतोद्रिक्तकान्तिमन्मुखपङ्कजम् ।
सुभ्रुवं सुललाटान्तं किरीटाबद्धमूर्धजम्॥ १३॥
निःशेषदुःखदमनं नित्यानन्दशुचिस्मितम् ।
विश्वादींश्चैव कृष्णादीनेवं भूतान्सनातनान्॥ १४॥
अभिन्नानेव सततं तस्माद्विष्णोः परात्मनः ।
वराभयोद्यतकरान्नित्यानन्दैकरूपिणः॥ १५॥
एवमुक्त्वा गुरुर्ध्यानं शपथं कारयेत्ततः ।
न विष्णुं वैष्णवांश्चैव विसृजेयमिति त्रिशः॥ १६॥
न चान्यदेवतासाम्यं तदैक्यमथवा हरेः ।
चिन्तयेयं मृतो वापि न चाप्येकत्ववादिभिः॥ १७॥
समत्ववादिभिर्वाहं सङ्गच्छेयं कदाचन ।
तन्निन्दकैश्च तद्भक्तनिन्दकैर्वा महामुने॥ १८॥
एवं कृते तु शपथे मस्तके हस्तपङ्कजम् ।
निधायोत्तीर्य संसारात्सुखी भव हरेः प्रियः॥ १९॥
सर्वदुःखादिभिर्मुक्तो नित्यानन्दैकरूपकः ।
सम्प्राप्य विष्णुसामीप्यं तत्रापि हरिभक्तिमान्॥ २०॥
भक्तिमांश्चान्यदेवेषु तारतम्यं च संस्मरन् ।
सर्वोत्कर्षं स्मरन्विष्णोर्भूयाश्चैव सदा सुखी॥ २१॥
न मुक्तौ विष्णुनैक्यं वा मुक्तानां साम्यमेव वा ।
स्मरेथा इति चोक्त्वाथ समयाननुशिक्षयेत्॥ २२॥
नित्यशश्च हरेः पूजा जपध्यानसमर्पणम् ।
कर्तव्यं तु त्वया वत्स जपश्च त्रिसहस्रकः॥ २३॥
मध्यमः प्रणवस्योक्तो योवरः स सहस्रकः ।
त्रिसहस्रात्परो यस्तु स उत्तमजपः ---स्मृतः॥ २४॥
आत्मानं प्रतिबिम्बत्वे ध्यायन् बिम्बं जनार्दनम् ।
ध्यायस्व सततं वत्स सपर्यां नित्यशः कुरु॥ २५॥
मानसैर्वाथ पुष्पैर्वा प्रणवेन समाहितः ।
अन्यांश्च वैष्णवान्मन्त्राञ्जपेथा भक्तिपूर्वकम्॥ २६॥
शृृणुष्व वैष्णवं शास्त्रं सदा वेदार्थतत्परः ।
वेदान्मन्त्रानुपनिषत्सहितान्सर्वदा शृृणु॥ २७॥
इतिहासपुराणं च पञ्चरात्रं तथैव च ।
तदर्थान् ब्रह्मसूत्रैश्च सम्यङ्निर्णीय तत्त्वतः ।
विष्णोः सर्वोत्तमत्त्वं च सर्वदा प्रतिपादय॥ २८॥