padyamala | Sarvamoola Grantha — Acharya Srimadanandatirtha

पद्यमाला

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

पद्यमाला

प्रणम्य श्रीपतिं सर्वान् गुरूंश्चाथ प्रवच्म्यहम् ।

यथामति हरेः पूजाविधिं वैष्णवसम्मतम् ॥ १ ॥

आदौ देवगृहे न्यस्य कलशान् सप्त पञ्च वा ।

आहरेत्तुलसीं दूर्वां पुष्पाण्यद्यतनानि च ॥ २ ॥

यथाकालोपपन्नानि स्वारामवनजान्यपि ।

अक्रीतान्यप्रदत्तानि चौर्याल्लब्धानि यानि च ॥ ३ ॥

शूद्राहृतानि वा भूमौ पतितानि तथैव च ।

एरण्डार्कजपत्रेषु चाहृतानि करे तथा ।

पटाहृतानि यानि स्युर्वर्जयेत्तानि यत्नतः ॥ ४ ॥

अर्घ्यपाद्यादिसम्भारान् यथाशक्ति विधाय च ।

प्रक्षाल्य पाणी पादौ चाप्याचम्य हरिवेश्मनः ॥ ६ ॥

पूर्वे नमो जयायाथ विजयायाथ दक्षिणे ।

श्रियै बलाय प्रबलायाथ प्रत्यक् श्रियैः नमः ॥ ७ ॥

नन्दायाथ सुनन्दाय श्रियै च कुमुदाय च ।

कुमुदाक्षायोत्तरे च द्वारपालांश्च पूजयेत् ॥ ८ ॥

तदनुज्ञामवाप्याथ ‘वायवायाहि दर्शत’ ।

अनेन वायुमन्त्रेण समुद्घाट्य कवाटकम् ॥ ९ ॥

कृत्वा तालत्रयं द्वारे देहलीमस्पृशन्विशेत् ।

दक्षिणाङ्घ्रिं पुरस्कृत्य ‘ह्यग्निनाग्निः समिध्यते’ ॥ १० ॥

अनेन वह्निमन्त्रेण दीपानुद्दीपयेत्ततः ।

ईक्षया पुष्पक्षेपेण पार्ष्णिघातत्रयेण च ।

दिव्यन्तरिक्षभूमिष्ठान्विघ्नानुच्चाटयेत्सुधीः ॥ ११ ॥

‘अपसर्पन्तु ये भूता’ इति मन्त्रं पठन्नपि ।

भूतानुच्चाट्य नाराचमुद्रया बन्धयेद्दिशम् ॥ १२ ॥

अपैवेत्यादि येभ्यश्च एवापित्र ऋचौ पठेत् ।

निवार्य मानुषं गन्धमेभिर्मन्त्रैस्तु पूजकः ॥ १३ ॥

कल्पयित्वा जवनिकां देवमात्मानमन्तरा ।

आरुह्य वेदिकां पश्चाद् ब्रह्मपारस्तवं पठेत् ॥ १४ ॥

‘आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् ।

कुरु घण्टारवं तत्र देवताह्वानलाञ्छनम्’ ॥ १५ ॥

अज्ञानाज्ज्ञानतो वाऽपि कांस्यघण्टां न वादयेत् ॥ १६ ॥

राक्षसानां पिशाचानां तद्देशे वसतिर्भवत् ।

तस्मात्सर्वप्रयत्नेन घण्टामावादयेत्ततः ॥ १७ ॥

ततो जवनिकां त्यक्त्वा निर्माल्यं विसृजेत्ततः ।

स्नानपात्रं तथा पीठं यथास्थानं निधाय च ।

सौवर्णं मण्टपं ध्यायेद्धेमरत्नोपमण्डितम् ॥ १८ ॥

अध्यासितासने स्वस्थोऽपक्रामन्त्विति पूर्वकान् ।

मन्त्रानुदीर्य भूतानि मुद्रया छोटिकाख्यया ॥ १९ ॥

उत्साद्यासनमन्त्रेण पृथिवीं प्रार्थयेत्ततः ।

आसने मण्डले चेन्दोः कूर्मस्कन्धेऽहमास्थितः ॥ २० ॥

कल्पयित्वेत्थमासीनो व्याहरेत् भूर्भुवःस्वरोम् ।

इत्यासनमुपस्पृश्य मण्डूकाय नमस्ततः ।

कूर्मायाथ वराहाय शेषयाथ नमस्ततः ॥ २१ ॥

नमः कालाग्निरुद्राय वज्राय च नमो नमः ।

सानुस्वारं चादिवर्णं प्रणवादिमुदीर्य च ।

नमोऽन्तमिति चैतेषु षट्कं चैव जपेद्बुधः ॥ २२ ॥

उक्तेषु वक्ष्यमाणेषु स्थानेष्वन्येषु सर्वशः ।

पूजाविधौ च देवानां पीठावरणयोर्वदेत् ॥ २३ ॥

तत्तन्नाम चतुर्थ्यन्तं प्रणवादि नमोऽन्तकम् ।

नमोऽस्त्राय फडित्युक्त्वा दिशो बध्वेषुमुद्रया ॥ २४ ॥

प्राकारावस्थितं वह्निं ध्यात्वा मुद्रां सुदर्शनीम् ।

दर्शयेदथ चेन्द्रादिदिक्षु बघ्नामि चाष्टसु ॥ २५ ॥

नमश्चक्राय स्वाहेति मन्त्रमेनमुदीरयेत् ।

ततस्तिथ्यादि सङ्कीर्त्य स्थितं देशं च संस्मरन् ॥ २६ ॥

‘अनन्तकल्याणगुणैकसिन्धुश्रीविष्णुना प्रेरितमानसोऽहम् ।

तस्यैव वीर्येण बलेन तेजसा सञ्जीवितस्वान्तवपुश्चिदिन्द्रियः ॥ २७ ॥

प्रीत्यर्थमस्यैव करोमि पूजाविधिं प्रदिष्टं खलु तन्त्रसारे ।

ब्रह्माण्डसाहस्रपतेर्दयालोर्भक्त्या यथाशक्ति यथैव सम्पत्’॥ २८ ॥

वाय्वग्निवरुणानां च बीजानि यरवाः क्रमात् ।

प्रत्येकं सम्पुटीकृत्य प्रणवेन च विन्दुना ॥२९ ॥

एभिः कार्यं क्रमात्षोढा करसन्धिषु शोधनम् ।

ततः सर्वान् गुरुन्नत्वा हृत्पद्माधिष्ठितं प्रभुम् ॥ ३० ॥

सुषुम्नामार्गतो नीत्वा विनिदध्यात्स्वमूर्धनि ।

ततश्च ब्रह्महत्येति ध्यायेत्स्वं पापपूरुषम् ॥ ३१ ॥

आनीय नाभिदेशेतं वायुबीजेन शोषयेत् ।

हृद्यग्निबीजतो दग्ध्वा भस्म वामनसा त्यजेत् ॥ ३२ ॥

वारुणेनाथ बीजेन शिरस्थामृतधारया ।

प्लावयेत्सर्वगात्राणि कृत्वाऽऽत्मानं ततो हृदि ॥ ३३ ॥

प्राणायामं ततः कृत्वा तत्त्वन्यासांस्ततः परम् ।

मातृकान्यासकान्कृत्वा प्राणानायम्य मूलतः ॥ ३४ ॥

अष्टाक्षरन्यासपूर्वं ध्यात्वो१३द्यद्भास्वदित्यथ ।

पूजाङ्गमिति मूलं च जपेदष्टोत्तरं शतम् ॥ ३५ ॥

पुनश्चाक्षरविन्यासं कृत्वा ध्यायेद्धरिं पुनः ।

ततः कृताञ्जलिर्भूत्वा निषुसीदेत्यृचं पठेत् ॥ ३६ ॥

‘आराध्यसे प्राणभृतां प्रणेत्रा प्राणाधिनाथेन समीरणेन ।

नारायण ज्ञानसुखैकपूर्ण स्वामिन्मम श्रीरमण प्रसीद ॥ ३७ ॥

बिम्बोऽसि प्रतिबिम्बोऽस्मि तव यद्यपि चान्तरम् ।

स्वामिन् निर्दोष मद्दोषं विरे(वे)चय नमोऽस्तु ते ॥ ३८ ॥

भगवन्यन्मया कर्म शुभं कारयसि प्रभो ।

तत्सर्वं विष्णुपूजाऽऽस्तु तव देवप्रसादतः’ ॥ ३९ ॥

सम्प्रार्थ्यैवं स्वबिम्बस्थं मुद्रया प्रार्थनाख्यया ।

कलशं पूजयेत् पश्चादाह्वयेद्देवताशतम् ॥ ४० ॥

मातृका एकपञ्चशच्चतुर्विंशतिमूर्तयः ।

केशवाद्यस्तथा विश्वतैजसप्राज्ञतुर्यकाः ॥ ४१ ॥

आत्मान्तरात्मपरमज्ञानात्मा वासुदेवकः ।

सङ्कर्षणश्च प्रद्युम्नोऽनिरुद्धो मत्स्यकच्छपौ ॥ ४२ ॥

क्रोडो नृसिंहः सवटू जामदग्न्यरघूद्वहौ ।

वासिष्ठयादवौ कृष्णावात्रेयो बुद्धकल्किनौ ॥ ४३ ॥

शिंशुमारश्चेति शतं मूलमूर्त्या समन्वितम् ।

आहूय पूजयेदेताः स्नानीयकलशे बुधः ॥ ४४ ॥

नैवेद्यप्रोक्षणार्थं च पञ्चपात्रप्रपूरणे ।

पानीयार्थं पृथक्चैकं कलशत्रितयं भवेत् ॥ ४५ ॥

पञ्चैते कलशाः प्रोक्ता गन्धार्थं द्वौ पुनः पृथक् ।

सम्भवे सप्त कलशाः पञ्च वाथ त्रयो द्वयम् ॥ ४६ ॥

असम्भवे च सर्वेषां भिन्नपात्राणि कारयेत् ।

एकस्माद्वाऽपि पश्चात्तं कलशं पूजयेद् बुधः ॥ ४७ ॥

इमं मे चाथ गङ्गे चेत्यादिमन्त्रानुदीरयेत् ।

सर्वक्षेत्रेति मन्त्रेण कलशं प्रार्थयेत्ततः ॥ ४८ ॥

शङ्खचक्रगदापद्मधेनुतार्क्ष्यादिमुद्रिकाः ।

प्रदर्श्य मूलमन्त्रं च द्विषड्वारं जपेत्ततः ॥ ४९ ॥

कलशोदकपूर्णं तु ततः शङ्खं प्रपूजयेत् ।

त्वं पुरेत्यादिकान् मन्त्रान् पठित्वा प्रार्थयेत्ततः ५० ॥

जपेत्त्रिः शङ्खगायत्रीं पुनः शङ्खादिमुद्रिकाः ।

दर्शयित्वाऽष्टवारं च मूलमन्त्रं जपेत्ततः ॥ ५१ ॥

पात्राण्यासादयेत्पूर्वं पञ्च पूजाविधौ सदा ।

अर्घ्यं वायुपदे प्रोक्तं नैर्ऋत्यां पाद्यमेव च ॥ ५२ ॥

ईशे त्वाचमनीयं च स्नानीयं चाग्निकोणके ।

मध्ये द्वे सर्वपात्राणां शुद्धतोयेन पूरयेत् ॥ ५३ ॥

एकं स्यान्मधुपर्केऽन्यत्पुनराचमने तथा ।

निक्षिपेन्द्गन्धतुलसीपुष्पादीनि यथाविधि ॥

तुलसीदलयुक्तेन शङ्खतोयेन पूजकः ।

पूजाद्रव्याणि सर्वाणि प्रोक्ष्य पीठं प्रपूजयेत् ॥ ५५ ॥

पूज्यश्च भगवान्नित्यमित्यध्याये यथाक्रमम् ।

श्रीमध्वगुरुणा प्रोक्तं पीठावरणपूजनम् ॥ ५६ ॥

सूत्रत्वात्तस्य बोधार्थं क्वचिद्वक्ष्यामि विस्तरम् ।

पीठपूजां विधायाथ २२तत्रावाह्येति सूत्रतः ॥ ५७ ॥

हरिमावाहयेद्भक्त्या तद्विधिः प्रोच्यतेऽधुना ।

अधोमुखं हृत्कमलं वायुबीजेन चोन्मुखम् ॥ ५८ ॥

कुर्यात्ततोऽस्य मुकुलं ज्ञानार्केण विकासयेत् ।

तत्कर्णिकास्थितं देवं नारायणमजं विभुम् ॥ ५९ ॥

उद्यद्भास्वदिति ध्यात्वा सपुष्पतुलसीकरः ।

कृताञ्जालिपुटो भूत्वा आत्मेत्येकामृचं पठेत् ॥ ६० ॥

मूलमन्त्रं ततो जप्त्वा यद्यात्मार्थं प्रपूजयेत् ॥ ६१ ॥

‘एह्येहि मम हृत्पद्मस्थितश्रीपुरुषोत्तम ।

आवाहयामि पीठे त्वां प्रतिमायां रमापते’ ॥ ६२ ॥

द्विरुच्चार्यैवमावाह्य तमावाहनमुद्रया ।

ततस्तु प्रार्थनामुद्रां विधाय प्रार्थयेद्धरिम् ॥ ६३ ॥

‘यागावसानपर्यन्तमत्र स्थित्वा जनार्दन ।

भक्तस्य मम पूजां त्वं गृहीत्वा पाहि मां विभो’ ॥ ६४ ॥

सम्प्रार्थ्यैवं स्वबिम्बख्यं मुद्रा आवाहनादिकाः ।

षण्मूलमन्त्रपूर्वं तु तं तमर्थमुदीरयेत् ॥ ६५ ॥

आवाहनं स्थापनं च सान्निध्यं सन्निरोधनम् ।

संमुखीकरणं चैव ह्यवगुण्ठनमेव च ॥ ६६ ॥

प्रदर्श्यैताश्च षण्मुद्राः स्नानार्थं प्रार्थयेत्ततः ।

परार्थं यदि पूजा स्यात्सूर्याग्न्यन्तर्गतं हरिम् ॥ ६७ ॥

आवाह्य पूर्ववत्कार्यं सर्वमावाहनाकम् ।

एहि श्रीभगवन्विष्णो स्नानार्थं मज्जनालयम् ॥६८ ॥

सम्प्रार्थ्यैवमिदं विष्णुरित्यृचा पादुकार्पणम् ।

स्नानालयं समायान्तं ध्यात्वा नारायणं प्रभुम् ॥६९ ॥

स्थापयेत्स्नानपीठे तं भद्रं कर्णेभिरित्यृचा ।

पुनस्तत्रापि षण्मुद्राः कुर्यादावाहनादिकाः ॥ ७० ॥

ततोऽर्घ्यं मूलमन्त्रेण पाद्यमाचमनीयकम् ।

मधुपर्कं ततो दद्यात्पुनराचमनं ततः ॥ ७१ ॥

आप्यायस्व दधिक्राव्णो घृतं मिमिक्ष इत्यृचः ।

मधुवाता तथा स्वादुरिति मन्त्रान्समूलकान् ॥ ७२ ॥

क्रमेणैतान्पठन्पञ्चामृतेन स्नापयेद्धरिम् ।

पयो दधि घृतं क्षौद्रं शर्करा पञ्चमामृतम् ॥ ७३ ॥

ततः शुद्धोदकस्नानं कारयेत्परमात्मनः ।

पौरुषं वैष्णवं घार्मं पवस्वेति त्रिवर्गकम् ॥ ७४ ॥

य इन्द्रोरेकवर्गश्च समुद्रादूर्मिरेव च ।

जितन्त इति च स्तोत्रं पठन्संस्नापयेद्धरिम् ॥ ७५ ॥

ततोऽङ्गमार्जनं वस्त्रं पीतं च परिधानकम् ।

ततः सर्वाङ्गभूषाश्च नूपुराद्याः किरीटकम् ॥ ७६ ॥

ध्यात्वैव भूषणं किञ्चिन्नवमप्यर्पयेत्सुधीः ।

यज्ञोपवीतं दत्वा तमासने चोपवेशयेत् ॥ ७७ ॥

अभिषेकात्पुरा वाऽपि पश्चाद्वा परमात्मनि ।

तत्त्वन्यासादि ध्यानान्तं कृत्वा पूजां समारभेत् ॥ ७८ ॥

आसनस्थं हरिं स्पृष्ट्वा मूलद्वादशकं जपेत् ।

अर्पयेद्गन्धपुष्पाणि मूलेन तुलसीं तथा ॥ ७९ ॥

ततश्चक्रायुधादीनि पूजयेत्क्रमशो दश ।

दुर्गा चक्राधिदेवी स्याच्छ्रीश्च शङ्खाधिदेवता ॥ ८० ॥

वायुर्गदाधिदेवः स्याद्भूमिः पद्माभिमानिनी ।

दुर्गैव खड्गदेवी स्याच्छार्ङ्गं चैव सरस्वती ॥ ८१ ॥

पञ्च प्राणाः पञ्च बाणा विरिञ्चः कौस्तुभात्मकः ।

श्रीरेव वनमालायां लक्ष्मीः श्रीवत्ससंस्थिता ॥ ८२ ॥

अथावरणपूजायां लक्ष्मीं वामे हरेर्यजेत् ।

धरां तु पश्चिमे पार्श्वे ततः पूर्वादिदिक्षु च ॥ ८३ ॥

क्रुद्धोल्काय महोल्काय वीरोल्काय नमस्ततः ।

द्यूल्काय च नमस्कुर्यादुदीच्यां दिशि च क्रमात् ॥ ८४ ॥

सहस्रोल्कायेति चतुर्नम अग्न्यादिकोणतः ।

पुनः पूर्वादिकाष्ठासु वासुदेवादिकान्यजेत् ॥ ८५ ॥

मायां जयां कृतिं शान्तिं यजेत्कोणेषु च क्रमात् ।

केशवाद्यास्ततो मूर्तीर्द्वादश क्रमतो यजेत् ॥ ८३ ॥

दिशि द्वे द्वे कोण एक ईशे दामोदरो भवेत् ।

सङ्कर्षणादिकृष्णान्ता मूर्तयो द्वादश क्रमात् ॥ ८७ ॥

मत्स्यादिमूर्तयोऽप्येवं द्वादशान्तं क्रमाद्यजेत् ।

ऐशान्यां विश्वरूपः स्यात्क्रमेणानेन पूजयेत् ॥ ८८ ॥

सर्वदिक्षु पुरश्चापि ह्यनन्तादीन् सभार्यकान् ।

इन्द्रादींश्च सपत्नीकान् परिग्रहयुतानपि ॥ ८९ ॥

पूजयेत्क्रमशो धीमान् स्वासु दिक्षु स्थितान् बहिः ।

पश्चात्पुरस्ताच्छेषं च विधिं चैव सभार्यकम् ॥ ९० ॥

पूजयित्वा ततः पूज्या द्वादशद्वारपालकाः ।

प्रथमो वज्रनाभश्च हरीशश्च ततः परम् ॥ ९१ ॥

तृतीयो गाङ्गतनयस्ततः शङ्खनिधीश्वरः ।

जयश्च विजयः पश्चाद्धाता सप्तमको मतः ॥ ९२ ॥

विधाता च ततो भद्रः सुभद्रोऽथामृतेश्वरः ।

विरूपाक्षोऽन्तिमश्चैव नमश्शब्देन पूजयेत् ॥ ९३ ॥

वनस्पत्युद्भवेत्यादिमन्त्रैर्मूलपुरस्सरैः ।

धूपं दत्वा ततो दीपं दद्यान्मूलमुदीरयेत् ॥ ९४ ॥

साज्यं त्रिवर्तिमन्त्रेण ततो नैवेद्यमर्पयेत् ।

देवस्याग्रे शुभं शोध्य श्रीबीजं तत्र संलिखेत् ॥ ९५ ॥

नैवेद्यमुपरिस्थाप्य शुद्धतोयेन प्रोक्षयेत् ।

सौवर्णैरिति मन्त्रेण मूलमन्त्रेण मन्त्रयेत् ॥ ९६ ॥

अमृतस्राविणीं धेनुं नैवेद्योपरि चिन्तयेत् ।

धेनुमुद्रां प्रदर्श्योच्चां सुरभ्यै नम इत्यपि ॥ ९७ ॥

हुंफडन्तं सह स्वाहेत्युक्त्वा मुद्रां सुदर्शनीम् ।

गारुडीं चाथ सन्दर्श्य गृहीत्वाऽथ करे जलम् ॥ ९८ ॥

परिषिञ्चामि सत्यं त्वर्तेनेति च क्रमाद्वदेत् ।

परितः सिञ्चयेत्तोयं तत आपोशनं क्षिपेत् ॥ ९९ ॥

‘सुधारसं सुविपुलमापोशनमिदं तव ।

गृहाण कलशानीतं यथेष्टमुपभुज्यताम् ॥ १०० ॥

इति मन्त्रमुदीर्याथ देवदक्षिणहस्तके ।

लक्ष्म्या प्रदीयमानं च सुधारसमयं शुभम् ॥ १०१ ॥

आपोशनमिदं ध्यात्वाऽमृतोपस्तरणमसि ।

इत्युक्त्वाऽऽपोशनोच्छिष्टं जलं पात्रान्तरे क्षिपेत् ॥ १०२ ॥

ततः प्राणात्मने पूर्वमुक्त्वा नारायणाय च ।

स्वाहान्तमिति पञ्चैता आहुतिः क्रमशो वदन् ॥ १०३ ॥

शङ्खतोयं क्षिपेत्पात्रे प्रत्याहुत्येकपात्रकम् ।

मधुवाता तथा स्वादु भोजं त्वेति पठेदृचः ॥ १०४ ॥

पानीयमर्पयेत्पश्चात्ततो जवनिकां क्षिपेत् ।

भुञ्जानं चिन्तयन्मूलं जपेदष्टोत्तरं शतम् ॥ १०५ ॥

उत्तरापोशनं पश्चादमृतापिधानमसि ।

इत्युक्त्वाऽपोशनोच्छिष्टजलं पात्रान्तरे क्षिपेत् ॥ १०६ ॥

वामे गण्डूषपात्रं स्यात्तत्र गण्डूषमर्पयेत् ।

हस्तप्रक्षालनं दत्वा पश्चादाचमनं क्षिपेत् ॥ १०७ ॥

मूलेन पुष्पत्रितयमर्पयित्वा ततो वदेत् ।

‘पूगीफलं सखदिरचूर्णकर्पूरसंयुतम् ॥ १०८ ॥

नागवल्लीदलैर्युक्तं ताम्बूलं गृह्यतां विभो’ ।

इति ताम्बूलकं दद्यान्नाकस्येति च दक्षिणाम् ॥ १०९ ॥

जयत्यादि पठन्मन्त्रान्पुनर्धूपं समर्पयेत् ।

अर्चतेत्यादिकानन्मन्त्रान्पठन्नीराजयेद्धरिम् ॥ ११० ॥

पुष्पाण्यष्टौ समार्प्याथ मूलमन्लेण वैष्णवः ।

वेदमन्त्रैश्च पौरणैरर्पयेत्कुसुमाञ्जलिम् ॥ १११ ॥

चामरं दर्पणं छत्रं वाहनादि निवेदयेत् ।

महाराजोपचारांश्च गीतवादित्रनृत्यकान् ॥ ११२ ॥

सर्वं निवेदयेद्भक्त्या मूलमन्त्रेण साधकः ।

ततः शुद्धेन तोयेन शङ्खमापूर्य मुद्रिकाः ॥ ११३ ॥

धेन्वादीः सम्पदर्श्याथ तोयं शङ्खगतं स्पृशेत् ।

अष्टवारं जपेन्मूलं भ्रामयेत्त्रिः प्रदक्षिणम् ॥ ११४ ॥

शङ्खोदकं तु तत्पात्रे स्थापयित्वा पृथक् सुधीः ।

प्रदक्षिणनमस्कारान्सूक्तपाठं ततश्चरेत् ॥ ११५ ॥

आरुह्य वेदिकां पश्चात्पूजासाद्गुण्यकारकम् ।

मूलमन्त्रं हरिं ध्यायन् जपेदष्टोत्तरं शतम् ॥ ११६ ॥

रमाब्रह्मादिदेवानां दत्वा तीर्थादिकं बलिम् ।

तत्त्वन्यासान् मातृकाश्च पुनर्मूर्तौ समाचरेत् ॥ ११७ ॥

पुनर्ध्यात्वा हरिं देवमात्मा देवेत्यृचं पठेत् ।

तत आवाहनीं मुद्रां व्युत्क्रमेण विधाय च ॥११८ ॥

एह्येहीति पुनः प्रोच्य पुनरावहयेद्धृदि ।

तथैव परपूजायां रव्यादौ तं निधापयेत् ॥ ११८ ॥

‘याचेऽहं त्वां हृषीकेश नमामि पुरुषोत्तम ।

हृदि मे कुरु संवासं श्रिया सह जगत्पते ॥११९ ॥

इति प्रार्थ्य हरिं पश्चाद्विदध्यात्तत्त्वमातृकाः ।

ध्यात्वा समर्पयेद्विष्णुं यस्य स्मृत्येति मन्त्रतः ॥ १२० ॥

तीर्थप्रसादगन्धादीन् दत्वा विष्णुपराय च ।

ततः स्वयं तु गृह्णीयाद्भक्त्या नत्वा हरिं स्मरन् ॥ १२१ ॥

पद्यपाठे मनुष्याणां श्रमो नातिभवेदिति ।

तन्त्रसारोक्तपूजायां पद्यमालोयमीरिता ।

अनेन भगवान् विष्णुः प्रीतो भवतु सर्वदा ॥ १२२ ॥

प्रमादतो निरोधाद्वा हरेः पूजा भवेन्न चेत् ।

पठनात्पद्यमालायाः नरः पूजाफलं लभेत् ॥ १२३ ॥

इति श्रीजयतीर्थार्यभिक्षुणा रचिता सती ।

तन्त्रसारोक्तपूजानुसारिणी पद्यमालिका ॥ १२४ ॥

॥ इति श्रीमज्जयतीर्थश्रीचरणविरचिता पद्यमाला समाप्ता॥