vadavali | Sarvamoola Grantha — Acharya Srimadanandatirtha

प्रथमः भङ्गः

प्रथमः भङ्गे

नमोऽगणितकल्याणगुणपूर्णाय विष्णवे।

सत्याशेषजगज्जन्मपूर्वकर्त्र मुरद्विषे ।। 1 ।।

मूलम्--ननु कथं सत्यता जगतोऽङ्गीकाराधिकारिणी। विमतं मिथ्या दृश्यत्वाज्जडत्वात् परिच्छिन्नत्वाच्छुक्तिरजतवदित्यनुमानविरोधादिति। मैवम्। मिथ्यात्वानिरुक्तेः।

मूलम्-तत्किमनिर्वचनीयत्वं वा असत्त्वं वा सद्विविक्तत्वं वा प्रमाणाविषयत्वं वा अप्रमाणविषयत्वं वा अविद्यातत्कार्ययोरन्यरत्वं वा स्वात्यन्ताभावसमानाधिकरणतया प्रतीयमानत्वं वा। नाद्यः। विकल्पासहत्वात्।।