tattvasankhyanam-tika | Sarvamoola Grantha — Acharya Srimadanandatirtha

तत्वसङ्ख्यानविवरणम्

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

लक्ष्मीपतेः पदाम्भोजयुगं नत्वा गुरोरपि । करिष्ये तत्त्वसङ्ख्यानव्याख्यानं नातिविस्तरम् ॥ १ ॥

मुमुक्षुणा खलु परमात्मा जगदुदयादिनिमित्तत्वेन अवश्यमवगन्तव्यः इति सकलसच्छास्त्राणामविप्रतिपन्नोऽर्थः। इदं च अवान्तरभेदभिन्नस्य जगतो विज्ञानमपेक्षते, इति जगदपि तथाऽवगन्तव्यम् । तदिदं प्रधानाङ्गभूतं, शास्त्रे विक्षिप्य प्रतिपादितम्, शिष्यहिततया संगृह्य प्रतिपादयितुं प्रकरणमिदमारभते भगवानाचार्यः ।

ननु प्रकरणादौ किमपि मङ्गलं कस्मान्नानुष्ठितम्? न तावत्तदफलमेव, प्रेक्षावद्भिरनुष्ठितत्वात् । नापि प्रारिप्सितपरिसमाप्त्यादिव्यतिरिक्तफलम् । नियमेन प्रारंभे तदनुष्ठानात् ।

उच्यते अनुष्ठितमेव भगवता मङ्गलम्, मानसादेरपि तस्य सम्भवात् । तच्च परमास्तिकत्वादनुमीयते ॥ यच्चायं स्वातन्त्र्यादिविशिष्टस्य विष्णोः आदितः एव सङ्कीर्तनं करोति । किं ततोऽन्यन्मङ्गलं नाम ? अन्यपरमपि तत् भक्त्या अनुष्ठितं स्वभावात् सम्पादयत्येव अखिलमङ्गलानीति ॥ इति ॥

तत्र तावत् तत्त्वं सामान्यतो विभागेन उद्दिशति स्वतन्त्रमिति ।

स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्वमिष्यते ।

तत्वम् अनारोपितिम् । प्रमितिविषयः इति यावत् । तेन ‘तस्य भावः तत्वम्’ इत्यादिखण्डनानवकाशः।

ननु शुक्तरजतादिकं कथं न तत्त्वम् ? न हि धर्मी वा रजतत्त्वं वा न प्रमेयम्, नापि तयोः सम्बन्धः । शुक्तिव्यक्तौ रजतत्त्वस्य स नास्ति इति चेत्, मा भूत् । न हि गृहे देवदत्तो नास्ति इत्येतावता न प्रमेय इति । स्यादिदम् आरोपितस्य अन्यत्र सत्तामभ्युपगच्छतां दूषणम्। अत्यन्तासदेव रजतं दोषवशात् शुक्तिकायाम् आरोप्यत इति वादे तु नायं दोषः।

एतेन ‘भाविपाकरागः कुंभः श्यामतादशायां रक्तपित्तिना रक्ततया उपलभ्यमानः तत्त्वं स्यात्’ इत्यपि परास्तम् । भाविनः प्रमेयत्वेऽपि पूर्वस्य तथाभावाभावात्, धर्मिणः तथाभावाङ्गीकारादिति।

तत् द्विविधम् । स्वतन्त्रमस्वतन्त्रञ्च इति इतिशब्दाध्याहारेण योज्यम् । अन्यथा स्वतन्त्रम् अस्वतन्त्रं च तत्त्वं प्रत्येकं द्विविधम् इति प्रतीतिः स्यात् ।

स्वरूप-प्रमिति-प्रवृत्ति-लक्षणसत्तात्रैविध्ये परानपेक्षं स्वतन्त्रम्। परापेक्षं अस्वतन्त्रम्। तदुपपादनायोक्तम् इष्यत इति ।प्रामाणिकैः इति शेषः ।

तथाहि यदि तत्त्वमेव नास्तीति ब्रूयात् तदा प्रत्यक्षादिविरोधः । भ्रान्तिः सा इति चेत् न, बाधकाभावात् । न च निरधिष्ठाना भ्रान्तिरस्ति, नापि निरवधिको बाधः । नास्त्येव तत्त्वम् इत्यस्यार्थस्य प्रमितित्वाप्रमितत्त्वयोर्व्याघातश्च।

यदि च एकमेव तत्त्वं तदा भेदोपलम्भविरोधः। तद्भ्रान्तितायाञ्च बाधकं वाच्यम् । तच्च अन्यत्र निरस्तम्। यदि वा सर्वमेव स्वतन्त्रं स्यात् तदा पारतन्त्र्यादिप्रतीतिविरोधः। नित्यसुखादिप्रसङ्गश्च।

यदि वा परतन्त्रमेव तत्त्वं भवेत् तदा अनवस्थितेः असम्भवाच्च न कस्यापि सत्तादिकं स्यात् । आगमविरोधश्च।

यद्यपि भावाभावतया वा चेतनाचेतनत्वेन वा नित्यानित्यतया वा अस्य द्वैविध्यं शक्यते वक्तुम् । तथापि अस्य वैय्यर्थ्यात् अयमेव विभागो न्याय्यः ।

परतन्त्रप्रमेयं स्वतन्त्रप्रमेयायत्ततया विदितं हि निःश्रेयसाय भवति । तथा च प्रकरणान्ते वक्ष्यति । अन्यथा गङ्गावालुकापरिगणनवदिदं तत्त्वं अपार्थकं स्यात् । अतः स्वतन्त्रास्वतन्त्रभेदात् द्विविधं तत्त्वम् ।

स्वतन्त्रतत्वस्य प्राधान्यात् तदेवादौ उद्दिष्टम् । उद्देशेनैव लक्षणं लब्धम् । अत एवादौ तन्निर्दिशति स्वतन्त्रेति

स्वतन्त्रो भगवान् विष्णुः...

अत्र भगवानिति विष्णोः स्वातन्त्र्योपपादकम् ॥ अन्यत् अस्वतन्त्रम् इति शेषः ।
अथवा, द्वे तत्वे इत्युक्ते स्वतन्त्रमिव परतन्त्रम् एका व्यक्तिरेव प्रसज्येत । तथा च प्रमाणविरोधो वक्ष्यमाणविभागविरोधश्च । अतः द्विविधमित्युक्तम् । ततश्च स्वतन्त्रमप्यनेकविधं स्यादित्यत इदमुक्तम् ।

अथवा स्वतन्त्रास्वतन्त्रभेदेन तत्वद्वैविध्यं अङ्गीकुर्वाणाः साङ्ख्यादयः प्रधानादिकं स्वतन्त्रतत्वमातिष्ठन्ते । तन्निरासायेदमुदितमिति ।

द्विविधमित्युक्त्या ‘परतन्त्रतत्त्वमवान्तरभेदवदिति सूचितम् । तत्कथम् ? तत्र आह भावेति ।

......भावाभावौ द्विधेतरत् ॥ १ ॥

इतरत्स्वतन्त्रात् अस्वतन्त्रतत्वं द्विधा। कथम् । भावः अभावः च इति।

अभावप्रतीतिः भावप्रतीत्यधीना नियमेन, इति प्राधान्यात् प्रथमं भावस्य उद्देशः।

प्रथमप्रतीतौ ‘अस्ति’ इति उपलभ्यते यः सः भावः।

यश्च प्रथमोपाब्धौ ‘नास्ति’ इति प्रतीयते सः अभावः।

कुत एतत् ? स्वरूपेण हि भावाभावौ विधिनिषेधात्मानौ, रूपान्तरेण तु निषेधविधिरूपौ। तत्र आपातजायां संविदि स्वरूपमेव भासते, द्वितीयादिप्रतीतौ रूपान्तरम्, कार्यगम्यत्वात् सामग्रीभेदस्य। तथाच प्रतीतिः— अस्त्यत्र घटः स न शुक्ल इति । एवं नास्ति घटः अस्ति घटाभाव इति॥

ननु स्वतन्त्रतत्वं भावोऽभावोऽन्यद्वा, नाद्यद्वितीयौ । भावाभावयोः परतन्त्रप्रभेदत्वात्, न तृतीयः व्याघातात्। मैवम् । भावलक्षणाऽऽक्रान्तत्वात्। ‘‘परतन्त्रं भावाभावतया द्विधा एव, न पुनरेकविधम्, नापि त्रिविधम् ’ इत्येवं परो विभागः, न पुनः ‘परतन्त्रमेव भावाभावात्मकमिति।

यथा भावेषु स्वतन्त्रतत्वं प्रविशति तथा विभागः क्रियताम् इति चेत्, नैवम् शङ्क्यम् । तद्धि प्रधानतया सर्वविविक्तमेव वेदितव्यम्। अन्यथा ‘‘द्विविधं तत्वं भावोऽभावश्च, भावोऽपि द्विविधः नित्योऽनित्यश्च, नित्योऽपि द्विविधः चेतनोऽचेतनश्च, चेतनोऽपि द्विविधः स्वतन्त्रोऽस्वतन्त्रश्च’’ इति कर्तव्यम् । एवं सति न प्राधान्येन प्रतिपत्तिः स्यात्, भगवद्व्यतिरिक्तस्य सर्वस्यापि अस्वातन्त्र्यप्रतीतिः न स्यात् ।

‘अस्मिन्पक्षे स्वतन्त्रस्य भावत्वं न विदितं स्यात्, इति सममेव’ इति चेत् न, पुरुषार्थोपयोगानुपयोगाभ्यां विशेषात्। अभावादीनां नित्यत्वाद्यनुक्तिश्च समैव। तस्मात् यथान्यासमेवास्तु ।

अथ अस्वतन्त्रं चेतनत्वादिना एव विभज्यताम् । किं चेतनत्वादिना विभज्य भावाभावतया विभागः कर्तव्य उताऽयं न कर्तव्यः एव । नाद्यः । विशेषाभावात् । अभावस्य अचेतनत्वं एवं सति न उक्तं स्यात् इति चेत्, तथा सति चेतनस्य भावत्वमप्युक्तं स्यादिति समम् । तर्हि केन विशेषेणास्य प्राधान्यम् ? इति चेत्, वादिविप्रतिपत्तिभावाभावाभ्यां विशेषात् । अत एव न द्वितीयोऽपीति ।

‘अभाव एव नास्तीति केचित् । तदसत्, ‘नास्ति’ इति प्रतीतेः दुरपह्नवत्वात् । ‘‘ ‘घटो नास्ति इति प्रतीतिः भूतलमात्रविषया’’ इति चेत्, ‘मात्र’ इति किम् ? भूतलमेव उच्यते उत अतिरिक्तं किञ्चित् । आद्ये घटवत्यपि प्रसङ्गः। अतिरिक्तोऽपि घटः चेत्, उक्तो दोषः । भावानन्तरं चेत् रूपवति घटे ‘गन्धो नास्ती’ति प्रतीतिप्रसङ्गः।

ननु घटाभावः घटाभाववति भूतले सम्बध्यते उत घटवति । नाद्यः । आत्माश्रयादिदोषप्रसङ्गात् । न द्वितीयः । विरोधात् । अतो वक्तव्यं ‘भूतलमात्रे’ति। तदेवास्तु ‘नास्तीति प्रतीतिविषय’ इति चेत् न ।

प्रश्न एव अयं विविच्यताम् । यदि अभावसम्बन्धात् प्राक् कीदृशं भूतलम् ? इति, यदि वा सम्बन्धसमये कीदृशं भूतलम् ? इति, यद्वा यदि अभावात् इदं विविच्येत तदा कादृशं नाम स्यात् इति ।

आद्ये ‘सघटम्’ इत्येव उत्तरम् । द्वितीये ‘घटाभाववत्’ इति । तृतीये यदि विवेको वस्तुकृतः तदा अभावस्य नष्टत्वात् । ‘घटवत्’ इति । यदि बुद्धिकृतः तदा ‘बुद्ध्या एव घटप्रसक्तिमत्’ इति । अन्यथा एवं भावप्रतिक्षेपोऽपि स्यात्। इति आस्तां विस्तरः ।

द्विधाइत्युक्त्या भावाभावतयोरवान्तरभेदोऽस्तीति सूचितम् ।

तत्र भावनिरूपणात् अभावनिरूपणस्य अल्पत्वात् सूचीकटाहन्यायेन पश्चादुद्दिष्टमप्यभावम् आदौ विभागेन उद्दिशति प्रागिति ।

प्राक्प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते ।

प्राक्त्वेन, प्रध्वंसत्वेन, सदात्वेन च उपलक्षितोऽभावः त्रिविधइष्यते । ‘प्रामाणिकै’रिति शेषः।

उत्तरैकावधिरभावः प्रागभागः । प्रतियोग्युत्पत्तेः प्रागेवास्ति, उत्पन्ने तु नास्ति इति कृत्वा ॥ पूर्वैकावधिरभावः प्रध्वंसाभावः । प्रतियोगिप्रध्वंसानन्तरमेव अभावः, न तु प्राक् अस्तीति ॥ न चैवम् । ‘‘प्रागभावप्रध्वंसः, प्रध्वंसप्रागभाव’’ इति प्रवाहौ प्रसज्ज्येते । प्रतियोगिन एव प्रागभावप्रध्वंसत्वेन प्रध्वंसप्रागभावत्वेन च अङ्गीकृतत्वात् । तर्हि घटप्रध्वंसो नाम ‘प्रागभावनिवृतेर्निवृत्तिः’ इति प्रागभावोन्मज्जनप्रसङ्ग इति चेत् न । घटवत् तद्ध्वंसस्यापि तद्विरोधित्वात् ॥ निरवधिकोऽभावः सदाऽभावः । सदा अभावः अस्ति इति कृत्वा ।

अथ ‘अत्यन्ताभावः’ इति प्रसिद्धसंज्ञाऽतिक्रमेण ‘सदाऽभावः’ इति संज्ञान्तरकरणं किमर्थम् । लक्षणस्यापि उद्देशेनैव सूचनार्थम्। यच्च अन्यैः अत्यन्ताभावस्वरूपम् उक्तम्— ‘संसर्गप्रतियोगिकाभावः अत्यन्ताभावः इति । यथा एतद्घटे एतद्भूतलसंसर्गाभाव’’ इति तदपि निराकर्तुं एतत्, तस्य निरवधिकत्वाभावात् ।तर्हि उदाहृतः चतुर्थः स्यात् इति चेत्, न । तस्यापि यथासम्भवं प्रागभावादिषु अन्तर्भावात् ।

एके ब्रुवते—‘संसर्गाभावः अन्योन्याभावश्चेति द्विविध एवाभाव इति । अन्ये तु ‘प्राक्प्रध्वंसात्यन्तान्योन्याभावात्मना चतुर्विध’ इति । तदुभयं निराकर्तुं इष्यतइत्युक्तम् । अन्योन्याभावो हि भेद एव । ‘स च स्वरूपमेव’ इति अन्यत्र उपपादितम् । कार्यकारणयोः संसर्गस्य अन्यत्र निराकृतत्वेन, प्रागभावप्रध्वंसाभावयोः संसर्गाभावत्वानुपपत्तेश्चेति ।

भावं विभज्य दर्शयति चेतन इति ।

चेतनाचेतनत्वेन भावोऽपि द्विविधो मतः ॥ २ ॥

न केवलमभावोऽपि भेदवान्, किन्तु भावोऽपि इति अपि शब्दः । चेतयत इति चेतनः । अनेवंविध अचेतनः । तेन विष्णोः चेतनत्वम्, अभवस्य अचेतनत्वञ्च ज्ञातव्यम् ॥

सर्वमचेतनं चेतनार्थम् इति चेतनस्य प्राधान्यात् पूर्वमुद्देशः । ‘ मृदब्रवीत्’ इत्यादिवचनात् सर्वं चेतनमेव’ इति मतनिरासाय मत इत्युक्तम् । तच्च अभिमान्यधिकरणे निरस्तम् ॥ चेतनादिविभागस्य नित्यादिविभागात् अभ्यर्हितत्वात् स एव आदौ उदाहृतः ।

यथोद्देशं चेतनाविभागमाह दुःखेति ।

दुःखस्पृष्टं तदस्पृष्टमिति द्वेधैव चेतनम् ।

कदाचिद्दुःखसंबद्धम् एव दुःखस्पृष्टम् । कदाऽपि दुःखासंबद्धं तदस्पृष्टम् ॥

‘कल्पितत्वात् दुःखादीनां न किञ्चित् दुःखस्पृष्टम्’ इत्येके । ‘ईश्वरातिरिक्तं सर्वमपि दुःखस्पृष्टमेव’ इत्यन्ये ॥ तदुभयनिरासाय एवकारः । आद्यस्य प्रत्यक्षविरुद्धत्वात्, द्वितीयस्य आगमविरुद्धत्वात् । परमेश्वरस्य दुःखास्पृष्टत्वं स्वातन्त्र्येणैव सिद्धम् ।

यद्यपि अनयोः दुःखास्पृष्टं चेतनं प्रधानम् । तथापि अभावस्य भावनिरूप्यत्वात् दुःखस्पृष्टस्य प्रथममुद्देशः ।

तथाऽपि प्राधान्यक्रमस्य मुख्यत्वात्, तदनुसारेण द्वे अपि निर्दिशति नित्येति ।

नित्यादुःखा रमाऽन्ये तु स्पृष्टदुःखास्समस्तशः ॥ ३ ॥

अन्येचेतनाः । एके तु व्यष्टिसमष्टिभेदेन जीवान् परिकल्प्य गरुडानन्तविष्वक्सेनादीन् समष्टिजीवानपि नित्यादुःखान् आचक्षते । तन्निरासाय समस्तश इत्युक्तम् । अत्र च आगमानां प्रामाण्यम्। अत एव दुःखास्पृष्टे प्रभेदाभावात्, दुःखस्पृष्टापेक्षया एव ‘धा’ प्रत्ययः पूर्वोक्तो ज्ञातव्यः ।

अत एव तद्विभागमाह स्पृष्टेति ।

स्पृष्टदुःखा विमुक्ताश्च दुःखसंस्था इति द्विधा ।

विमुक्ताःदुःखात्। दुःखसंस्थाःवर्तमानदुःखाः । चशब्दः दुःखसंस्थाःइत्यतःपरं योज्यः । अत्र प्राधान्यक्रमेण उद्देशः ।

दुःखसंस्थानां प्रभेदमाह दुःखसंस्थेति ।

दुःखसंस्था मुक्तियोग्या अयोग्या इति च द्विधा ॥ ४ ॥

अयोग्याःमुक्तेः । अयोग्याःइत्यतः परं च शब्दो ज्ञातव्यः । अत्रापि तदेव उद्देशक्रमे निमित्तम् ।

ननु च प्राधान्यात् विमुक्तभेदः प्रथमं वक्तव्यः । सत्यम् । योग्यायोग्यभेदस्य दुःखसंस्थेषु एव भावात्, तदभिधानानन्तरं मुक्तियोग्यभेदकथनस्य सौकर्यात् क्रमोल्लङ्घनम्।

इदानीं मुक्तानां प्रभेदमाह देवर्षीति।

देवर्षिपितृपनरा इति मुक्तास्तु पञ्चधा ॥

पान्तीति पाःचक्रवर्तिनः । नराःमनुष्योत्तमाः । तुशब्दोऽवधारणे । तेन ये मोक्षे तारतम्यं न मन्यन्ते तन्मतं निराचष्टे । गन्धर्वादीनां, केषाञ्चित् एषु एव अन्तर्भावात्, केषाञ्चित् अविवक्षितत्वात् न ग्रन्थान्तरविरोधः ।

‘दुःखसंस्था मुक्तियोग्यायोग्यभेदात् द्विविधा इति उक्तम् । तत्र मुक्तप्रभेदं योग्येषु अतिदिशति एवमिति

एवं विमुक्तयोग्याश्च ..

‘देवर्ष्यादिभेदेन पञ्चधा’ इत्यस्यानुकर्षणार्थश्चकारः ।

मुक्त्ययोग्यविभागमाह तमोगा इति ।

....................तमोगाः सृतिसंस्थिताः ॥ ५ ॥ इति द्विधा मुक्त्ययोग्याः

तमोगाःतमोयोग्याः । न तु प्राप्ततमसः, वक्ष्यमाणविभागविरोधात् । सृतिसंस्थिताः नित्यसंसारिणः । अयोग्यताऽतिशयानुसारेणोद्देशः ।

तमोयोग्यानां प्रभेदमाह दैत्येति

.... दैत्यरक्षः पिशाचकाः ।मर्त्याधमाश्चतुर्धैव तमोयोग्याः प्रकार्तिताः ॥ ६ ॥

मर्त्याधमाः इत्यतःपरम् इतिशब्दोऽध्याहार्यः ।

अप्रसिद्धत्वात् अस्य भेदस्य अश्रद्धेयत्वं निवारयितुम् एवशब्दः ।

प्रकार्तिताइत्यत्र आगमसम्मतिमाचष्टे। स च अन्यत्रोदाहृतः द्रष्टव्यः ।

चतुर्धा अपि एते प्रत्येकं द्विधा इत्याहते च इति ।

ते च प्राप्तान्धतमसः सृतिसंस्था इति द्विधा ॥

ते च चतुर्विधा अपि। सृतिसंस्थिताःसंसारे वर्तमानाः, न अधुनाऽपि तमःप्राप्ताः । योग्यतायाः चैतन्यस्वभावत्वेन, तमोयोग्यानाम् अयं विभागः न अनुपपन्नः ।

एवं चेतनविभागं विस्तरेण अभिधाय अवसरप्राप्तं अचेतनविभागमाह नित्या इति ।

नित्यानित्यविभागेन त्रिधैवाचेतनं मतम् ॥ ७ ॥

अत्रापि ‘अचेतनम् एव एवंविभागवत्’ इति अर्थानभ्युपगमात्, पूर्वोक्तत्वानामपि प्रमाणान्तरेण नित्यत्वादि ग्रहणं न विरुद्धम् ।

नित्यानित्यविभागेन इत्यस्य नित्यानित्यत्वेन तद्विभागेन च इत्यर्थः। तथा च नित्यानित्यं, नित्यम् अनित्यं च इति अचेतनं त्रिविधमित्युक्तं भवति ।

केचित् सर्वं क्षणिकं मन्यमानाः नित्यं न मन्यन्ते, अपरे तु सत्कार्यवादिनः अनित्यं न अंगीकुर्वन्ति, सर्वे अपि नित्यानित्यं विरोधात् न अभ्युपगच्छन्ति । तन्निरासाय एवकारः ।

न प्रतिज्ञामात्रेणार्थसिद्धिः इति प्रामाणिकत्वम् उक्तविभागस्य सूचयति मतमिति । तच्च लेशतो दर्शयिष्यामः ।

यद्यपि नित्यं, नित्यानित्यम्, अनित्यम् इत्युद्देशः कार्यः । प्राधान्यात् । तथापि उक्तिलाघवाय क्रमोल्लङ्घनम् ।

क्रमेण त्रयं दर्शयिष्यन् नित्यं तावत् दर्शयिष्यति नित्या इति ।

नित्या वेदाः.. ।

अत्र नित्यत्वं नाम कूटस्थतया आद्यन्तशून्यत्वम् । तच्च वेदानां ‘‘नित्या वेदाः समस्ताश्च’’ इत्यादि प्रमाणसिद्धम् । अत्र वेदाइत्युपलक्षणम् । पञ्चाशद्वर्णानां अव्याकृताकाशस्य च तथाभावात् ।

नित्यानित्यं विभागेन आह पुराणाद्या इति

... पुराणाद्याः कालः प्रकृतिरेव च ।नित्यानित्यं त्रिधा प्रोक्तं.. ।

पुराणाद्याःपौरुषेयग्रन्थाः एका विधा । कालःअपरा । प्रकृतिःअन्या । ननु च त्रिधा इति प्रकारत्रैविध्यमुक्तम्, न च अत्र कश्चित् प्रकारः दर्शितः । किन्तु वस्तुनिर्देश एव कृतः ।

नैष दोषः । यत् न सर्वथा कूटस्थम्, नापि अनित्यमेव । तदुच्यते नित्यानित्यमिति ।तस्य तिस्रः विधाः सम्भवन्ति — उत्पत्तिमत्वे सति विनाशाभावः, एकदेशैः उत्पत्तिविनाशौ एकदेशिनः तदभावः, स्वरूपेण उत्पत्त्याद्यभावेऽपि अवस्थाऽऽगमापायवत्त्वम् च इति । तदेतत् विधात्रयमुक्तवस्तुत्रये अस्ति इति तस्यैव ग्रहणं कृतम्।

ननु अत्र यस्य उत्पत्त्यादिकं तत् अनित्यमेव यस्य तु तत् नास्ति । तत् नित्यमेव, नित्यानित्यं क्वास्ति ? इति । मैवम् । स्यात् एतत् एवं यदि अंशांशिनोः विकारविकारिणोः वा अत्यन्तभेदः स्यात् । ‘न च एवम्’ इति अन्यत्र उपपादितम्॥

अनित्यं विभज्य दर्शयति अनित्यमिति ।

........................अनित्यं द्विविधं मतम् ॥ ८ ॥असंसृष्टं च संसृष्टम्.......................... ।

सम्यस्कृष्टं संसृष्टम्। अतथाभूतम् असंसृष्टम्। सम्यक्तायाः इयत्ताऽभावात् । त्रैविध्याद्यपि किं न स्यात् इत्यतः मतम्इत्युक्तम् । तद्वक्ष्यामः ।

तत्र असंसृष्टं निर्दिशति असंसृष्टमिति

असंसृष्टं महानहम् ।बुद्धिर्मनः खानि दशमात्रा भूतानि पञ्च च ॥ ९ ॥

संसृष्टं निर्दिशति संसृष्टमिति ।

संसृष्टमण्डं तद्गं च समस्तं सम्प्रकीर्तितम् ।

ननु एषां चतुर्विंशतितत्वानामसंसृष्टत्त्वं नाम यदि एकदेशेन उत्पत्तिः तर्हि अनुत्पन्नस्य असत्वात् उत्पन्नमेव तत्त्वम् । तच्च संसृष्टमेव, इति न द्वैविध्यम् । न च प्रकारान्तरम् अस्ति इति । मैवम् । सूक्ष्मरूपेण नित्यानां महदादीनां प्राकृताद्यंशैः उपचयमात्रं क्रियते इति तानि असंसृष्टानि ।

नच एवं ब्रह्मांडं तदन्तर्गतानि इति संसृष्टानि । ‘तेषामपि मूलरूपं नित्यम्’ इति चेत् , न । साक्षान्मूलरूपस्य विवक्षितत्वात् । एवंसति महदादीनां नित्यानित्यत्वं कथं न स्यात् ? इति चेत्, स्यादेवम् । यदि सूक्ष्मरूपे महदादिव्यवहारः स्यात्, किन्तु प्रकृतिरेव सा उच्यते ।

केचित् महदादिस्वरूपमेव न अभ्युपगच्छन्ति । दूरेण उक्तं विशेषम् । तेषामतिबहुतराऽऽगमविरोधं दर्शयितुं सम्प्रकीर्तितम्इत्युक्तम् ॥ आगमाश्च अन्यत्र द्रष्टव्याः । विस्तरभिया नेह उदाह्रियन्ते॥

यदि इदं विष्णुव्यतिरिक्तं भावाभावादिभेदभिन्नं जगत् अस्वतन्त्रम् तर्हि कस्मिन् आयत्तम् ? कस्मिन् च विषये ? इत्याकाङ्क्षायामाह सृष्टिरिति

सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने॥ १० ॥

नियमःव्यापारेषु प्रेरणम् ।

बन्धो मोक्षः सुखं दुःखमावृतिर्ज्योतिरेव च ।विष्णुनाऽस्य समस्तस्य................... ।

बन्धः प्रकृतेः। मोक्षः बन्धात् । आवृतिज्योतिषीबाह्यतमःप्रकाशौ । एवकारः विष्णुनाइत्यनेन सम्बध्यते । अस्य समस्तस्यअस्वतन्त्रस्य भवन्ति इति शेषः ।

ननु एतत् पूर्वविरुद्धम् । समस्तस्य सृष्टिस्थितिसंहारोक्तौ नित्यत्वोक्तिविरोधः, अचेतनस्य बोधविरोधः, इत्यादि । तत्र उक्तम् समासेति ।

.......................समासव्यासयोगतः ॥ ११ ॥

समासःसङ्क्षेपः । व्यासोविस्तरः । तौ एव योगौ उपायौ उक्तार्थघटनायाम् ततः । इदमुक्तं भवति— उक्तधर्मेषु यत्र तत्त्वे अल्पीयांसः सम्भवन्ति तत्र तावन्तः विष्ण्वधीनाः ज्ञातव्याः । यत्र तु बहवः तत्र तावन्तः सर्वथा स्वरूपस्वभावौ अस्य तदधीनौ इति । तत्र स्थितिनियमौ सर्वस्य, सृष्टिसंहृती नित्यानित्यस्य अनित्यस्य च, अज्ञानम् भावरूपं दुःखस्पृष्टस्य, ज्ञानाभावस्तु सर्वस्य, बोधनं चेतनस्य, सुखं प्राप्ततमसो विना, दुःखम् दुःखास्पृष्टं विना इत्यादि द्रष्टव्यम् ।

पदार्थानां सृष्ट्यादि अन्यतः अपि प्रतीयते । अतः एव इति उक्तम् । सकलसत्तादेः तदधीनत्वात् तत्तद्वस्तु निमित्तमात्रमेव । स्वातन्त्र्येण विष्णुरेव अस्य ईश्वर इति ।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिततत्वसङ्ख्यानप्रकरणविवरणं श्रीजयतीर्थभिक्षुरचितं समाप्तम् ॥