yamakabharata-tika-yadupatyam | Sarvamoola Grantha — Acharya Srimadanandatirtha

यमकभारतटीका-यादुपत्यम्

change script to    english देवनागरी ಕನ್ನಡ தமிழ் తెలుగు

पदच्छेदः— ध्यायेत् । तम् । परमानन्दम् । यत् । माता । पतिम् । अयत् । अपरमा । आनन्दम् । उझ्झितपरमानम् । दम्पत्याद्याध्याश्रमैः । सदा । एव । परमानन्दम् ॥ १ ॥

श्रीमुखाम्भोजहंसाय संसारभयसेतवे ।

सोमवंशावताराय नमः कंसाद्यसद्भिदे ॥ १ ॥

पदच्छेदव्यासं भारतकर्तारं मध्वं मूलकृतं तथा ।

पदच्छेदचेतोवाग्देवतां वाणी गुरूंश्च प्रणमाम्यहम् ॥ २ ॥

अथ योगीशवेदेशशिक्षाशाणनिशातधीः ।

पदच्छेदं करिष्ये मन्दबोधाय टीकां यमकभारते ॥ ३ ॥

पदच्छेदा यद्यपि श्लोकरूपास्ति टीकाऽस्य सुगमा न सा ।

अतस्तामनुसृत्यैव टीकेऽयं क्रियते मया ॥ ४ ॥

इह सकलसुजनानां प्रत्यहं पठनेन भातरपठनजनितफलसिद्ध्यर्थं सङ्क्षेपतो भारतार्थप्रतिपादकं काव्यं करिष्यन्भगवानानन्दतीर्तमुनिः स्वस्यातिशयविधुरतया ग्रन्थादौ हरिध्यानरूपं मङ्गलम् अवश्यं कर्तव्यमिति सुजनं शिक्षयति ध्यायेदिति ।

अत्र सुधीरिति कर्तृवाचिपदं विष्णुमिति कर्मवाचिविशेष्यपदं चाध्याहार्यम् । तमिति तच्छब्दात् यमिति सिद्ध्यति । ततश्च सुधीः परमः आनन्दो यस्यस तथोक्तः तं विष्णुं ध्यायेदिति क्रियाकारक सम्बन्धः । कुतोऽस्य परमानन्दत्वमित्यत उक्तं यन्मातेति । यत् यस्मात् । माता जगन्माता रमा । पतिं स्वस्वामिनं विष्णुम् । आनन्दम् । उद्दिश्येतिशेषः । अयत् प्राप । तस्मात् परमानन्दत्वमिति सम्बन्धः । ननु आनन्दमुद्दिश्य रमया प्राप्तत्वेऽपि तस्य कुतः परमान्दत्वमित्यतो रमां विशिनष्टि अपरमेति । अः विष्णुः परमः यस्यास्सा अपरमा । ब्रह्माद्युत्तमेत्यर्थः । ततश्च ब्रह्माद्युत्तमापि रमा स्वानन्दमुद्दिश्य यं प्राप्नोति स परमानन्द इति सिद्ध्यत्येवेति भावः । ननु कामादिवैरिकलुषिते मनसि श्रवणादिना ज्ञानमेव न सम्भवति । अतः कथं ध्यायेदिति ध्यानविधिरित्याशङ्कायां स्वस्वाश्रम विहितनिवृत्तकर्मभिः परिहृतकामादिवैरिणां प्रसन्नोविष्णुरेव ध्यानोपयुक्तं ज्ञानं ददातीत्याशेनाह उझ्झितेत्यादिना । दम्पतीशब्देन गृहस्थाश्रमो लक्ष्यते । एवञ्च तस्य आद्यः ब्रह्मचर्याश्रमः दम्पत्याद्य एव आद्यो येषां ते दम्पत्याद्याद्याः ते च ते आश्रमाश्च तैः तत्तदाश्रमविहित-कर्माभिरिति यावत् । उझ्झिताः परिहृताः परे कामादिवैरिणो येषां ते उझ्झितपराः तेषां मानं ज्ञानं यस्मात्स उझ्झितपरमानः तम् । (तेषां प्रतिबन्धकध्वंसपूर्वकं ज्ञानदमित्यर्थः ।) नन्वेवं ध्यातोविष्णुः किं फलं ददातीत्यपेक्षाया नित्यशुद्धानन्दरूपं मोक्षं ददातीत्याशयेनाह सदैवेति । सदैव । परपः नित्यः शुद्धः स्वरूपभूत इति यावत् । आनन्दो यस्मात्स तथोक्तस्तमित्यर्थः । यद्वा ननु विष्णुध्यानेन पूर्वं मुक्तिं प्राप्ताः केचित्सन्ति चेत्तर्हि तस्मिन्ध्यानविधौ विश्वासो भविष्यतीत्यपेक्षायां तादृशाः सन्तीत्याह यन्मातेति । यन्माता यत्प्रमाता यद्व्यानेति यावत् । ब्रह्मा दम्पत्याद्याद्याश्रमैः सम्पूर्णब्रह्मचर्याद्याश्रमसम्पन्नैर्देवादिभिस्सह । पतिं पालकं स्वोपास्यं विष्णुम् । अयत् प्राप । ततश्च पूर्वकल्पे विष्णुध्यानेन तत्प्राप्तिरूप-मुक्तिमन्तो ब्रह्माद्याः सन्तीत्युक्तं भवति । अस्यां योजनायां विष्णो-रेवध्येयत्वमुपपादयितुं अपरमानन्दं उझ्झितपरमानमितिविशेषणद्वयम् । न विद्यते परमोयस्मासोऽपरमः आनन्दयतीत्यानन्दः । (अहिकुण्डला-धिकरणन्यायेन आनन्दविशिष्टः आनन्दरूपश्च) ततः कर्मधारयः । उझ्झितपरमानं ध्वंसितवैरिदर्पम् । ततश्च विष्णोः सर्वोत्तमतया विशिष्टत्वात् आनन्ददातृत्वेन अनिष्टजनकवैरिदर्पहन्तृत्वेनेष्टत्वात् (विष्णुत्वेनाधिकृतकृष्णाभेदलाभेनाधिकृतत्वाच्च) तस्यैव ध्येयत्वमुपपन्नमिति भावः ॥ १ ॥

पदच्छेदः— यस्य । करालः । अलम् । चक्रम् । परस्य । हि । करालोलम् । यस्य । गदा । पवमानः । सन् । यः । व्यासः । अभवत् । सत् । आपवमानः ॥ २ ॥

अथ भारतस्याप्तकृततया प्रामाण्यमस्तीति सूचनाय तत्कर्तुर्व्यासस्य भगवदवतारत्वेनाप्तत्वं भगवतोऽपि सशरीरस्यैव प्रयेऽवस्थित्या जगद्व्यापारोपयुक्त नानावतारकरणं सूचयति यस्येति ।

यस्य परस्य पूर्वकालीनस्य प्रयेऽवस्थितस्येति यावत् नारायणस्य । अलं अत्यन्तम् । करालः क्रूरः । कालः कालाख्यदुर्गात्मकलक्ष्क्षरूप-विशेषः । महत्तश्चतुर्मुखादित्यादाविव अभिमताभिमानिनोरभेदव्यपदेशः । करालोलं करे सम्यक्भ्रमत् । चक्रं । पवमान । सर्वज्ञेवायुः । यस्य । करालोला गदा गदाभिमानी सर्वायुदोपलक्षणमेतत् । प्रय-कारि लीनतयाऽभ्यर्हितत्वाच्चक्रगदयोः स्वाब्देनोपादानम् । सः श्रीनारायणः आपवमानः आपवमानं पवमानमभिव्याप्य । सत् स्वोदरे विद्यमानं जगत् । भवत् भावयन् । स्वतन्त्र्यज्ञापनायव्यपञ्चद्विषट्-दशशताद्यात्मकोऽभवदित्यर्थः । यः सन् सर्वदा । विद्यमानः नाना-रूपः । यच्छब्दबलात् स इति लभ्यते । स व्यासः वेदव्यासोऽ-भवदितियोज्यम् । व्यासः कुत्रा्रवतीर्णइत्यतस्तं विशिनष्टि सदापवमान इति । अप्सुप्रवेशादापवेतिशक्रेणोक्तत्वादापवो वसिष्ठः । तत्सम्बन्धा-दापवो वसिष्ठान्वयः । ततश्च सन् निर्दुष्टश्चासौ आपवश्च सदापवः तस्मिन्मानं निर्माणं अवतरणं यस्यसतथोक्तः ॥ २ ॥

पदच्छेदः—यस्य । रमा । न । मनोगं । जगृहे । विश्वम्भरा । अपि । नमनः । अगम् । यस्य । पुमान् । आनन्दम्१ (आनन्दमित्यस्यावृत्तिः । भुङ्क्ते । यद्धाम । कपतिमानानन्दम् ॥ ३ ॥

ननु व्यासस्य भगवदवतारत्वेऽपि इन्द्राद्यवतारेऽर्जुनादाविव ज्ञानादिह्रासेनाप्तत्वं निर्णेतुमशक्यमित्यत आह यस्येति ।

विश्वम्भरा । देहेन मनसाचेति शेषः । मनसा विश्वम्पश्यन्त्यपि (देहेनसर्वधारकापि) रमा । यस्य मनोगं येन व्यासेन ज्ञातं विश्वं सर्वं तत्स्वर्यं । न जगृहे नापश्यत् । किञ्च यस्य नमनः नमस्कर्ता स्तोता वा पुमान् । अगं नगच्छतीत्यगं सर्वधाविद्यमानम् । आनन्दं भुङ्क्ते । अपि च आनन्दं आनन्दरूपम् । यद्धाम यस्य व्यासस्य स्वरूपम् । कपतिमानानन्दं कः ब्रह्मा पतिः शिवः (कः ब्रह्मा पतिः येषान्ते कपतयः अशेषदेवाः) मा रमा अनःप्राणः तेषामानन्दोयस्मात्ततथोक्तम् । यदित्यत्रत्य यच्छब्दस्य पूर्वश्लोकस्थेन स इत्यनेनान्वयः । तथा ....सस्य रमाद्य-ज्ञातज्ञातृत्वेनापरिच्छिन्नज्ञानत्वात्सकलसज्जनमेक्षदातृत्वाद्रमा-द्यनन्दोपजीव्यानन्दस्वरूपत्वाच्च मानादिह्रासेनानाप्तत्वशङ्का नेतिभावः ॥ ३ ॥

पदच्छेदः— परमेषु । यत् । आ । तेजः । परम् । एषु । चकार । वासुदेवः । जः । मानधि । बिभ्रत्सु । मनः । मा । अनधिमा । आसीत् । न । वासुदेवः । अजः ।

ननु व्यासोऽभवदिति कृष्णावतारोप्यादिका एवोक्तः स नयुक्तः ततात्वे तस्य वसुदेवजातत्वासम्भवेन वासुदेवशब्दवाच्यत्वानुपपत्तिप्रसङ्गात् । देवकीजठरभूरुडुराज इति प्रमाणविरोधाच्चेत्यतो वासुदेव-शब्दवाच्यत्वे उपपत्तिं तावदाह परमेष्विति ।

जः यः जययोरभेदात् । वासुदेवः विद्वद्रूढ्या हरिः सः । अजः अजोऽपि । वासुदेवः वासुदेवपदवाच्यः आसीत् । कस्मान्निमित्तात् । यत् यस्मात् । परमेषु इन्द्राद्यपेक्षया उत्तमेषु । मानधि मानानि ज्ञानानि धीयन्तेऽस्मिन्निति मानधि ज्ञानपूर्णम् । मनः चित्तम् । विभ्रत्सु । एषु ब्रह्मादिदेवेषु । परं लोकविलक्षणम् । आतेजः स्वविषयकं ज्ञानम् । चकार तस्मात् अनेन वं ज्ञानं सु समीचीनं पूर्णं यस्यतत्वसु ज्ञानेन पूर्णम्मनः तेन देवः देवनंस्तुत्यादि येषान्ते वसुदेवाः (वसु धनं ज्ञानधनं तेनदेवाः प्रकाशमानाः) पूर्वोक्ताः ब्रह्मादयः तेषामयंसम्बन्धीवासुदेवः । सम्बन्धश्चतद्ज्ञानदातृत्वादिरूप इति वासुदेवशब्दनिर्वचनं दर्शितमिति ज्ञातव्यम् । तथा कृष्णः स्वप्रादुर्भावानन्तरं स्तुत्यर्थमागतानां ज्ञानपूर्ण-मनस्कानामप्युक्तं तद्ज्ञानंस्तुत्युपयुक्तं चकार । तत एवनिमित्ता-द्वासुदेवाशब्दवाच्यः । न न तु वसुदेवजातत्वेग अजत्वविरोधादिति भावः । ननु आतेजश्चकारेत्युक्त्या रमाज्ञानं ब्रह्मादिमानस-ममेवेतिप्राप्तमत आह मानधिमेति । मा रमा । अनधिमा अधि अधिका मा ज्ञानंयस्यसः अधिमः नविद्यते अधिमोयस्याः सकाशात् एतेषूक्तदेवेषु सा अनधिमा आसीदित्यर्थः । यद्वा न वासुदेवः अज इति पदच्छेदः । निर्वचनाद्वाशब्दोनवेत्यर्थकः ततश्च अजजेऽपि पायुगुह्ययोरैक्याभिप्रायेण वानां नवानां असूनां इन्द्रियाभिमानिनां देव इति वा । वानाम् नवानामसूनां देवोऽपि जयोपि योगिनां यस्याद्भवतीतिवा वासुदेवशब्दस्यानिर्वचनान्तरं च प्रदर्शितं भवतीति ज्ञातव्यम् ॥ ४ ॥

पदच्छेदः—सः । अजनि । देवक्यन्ते । यस्मात् । अनुकम्पना । अव । देवक्यन्ते अवदन् । देव । क्यं । ते । भुवनम् । हि । सुराः । सदा । एव । देवक्यन्ते ॥ ५ ॥

इदानी देवकीजठरजातत्वप्रसिद्धिविरोधं परिहरन् देवैः कृतसमस्तुतिं लेशतो दर्शयति स इति ।

सः कृष्णः । देवक्याः अन्ते समीप एव । अजनि प्रादुर्बभूव । अत एव नतन्मलोत्थः । तत्समीप एव प्रादुर्भूतत्वात्तज्जठरजात त्वप्रसिद्धिरितिभावः । किमर्थं प्रादुर्भूत इत्यत उक्तं देवक्यन्त इति । देवानां कः कात्कारः येषामस्तीति ते देवकिनो दैत्याः । तेषामन्ते । तादर्थ्ये सप्तमी । विनाशायेत्यर्थः । कस्मान्नम-लोत्थ इत्यत उक्तं यस्मात् सुराः वेदाभिमानिनो देवाः । देवक्यन्तेऽ-वदन्निति कं सुखं एषामस्तीति किनः तेचते देवाश्च देवकिनः । कडारादित्वात्परनिपातः तेषामन्ते तारतम्यान्तगप्रकृतिपरं परिपूर्ण-सुखमेवावदन् । तस्मान्नमलसम्भावनमस्मिन्नितिभावः । सुराः ब्रह्माद्याः अवतारानन्तरं अनुकम्पना अव देव इति पदच्छेदः । तथात्र सज्जनेषु हरेः अनुकम्पना कृपा यथास्यात्तथा अवदन् अस्तुवन् । किमिति । हे देव । क्यं कोब्रह्मा तन्निर्मितं क्यम्भुवनं अव रक्ष । हि यस्मात् सदैव ते त्वदधीनं क्यं तस्मात् । क्यन्ते इत्यपिच्छेदः । किनां सुखिनां भुयनान्तर्गतानां सज्जनानां अन्ते नाशे नृजन्मभिर्दैत्यैः प्राप्तेसति अव । इति शब्दोध्याहार्यः । तस्य चावदन्नित्यनेनान्वयः । अनुकम्पनावत् एवेति पदच्छेदः । अत्रानुकम्पनायत् अवदन्नितिक्रियाविशेषणं । तथा च सुराणां यत्स्तुतिरूपं वचनं तल्लोकानुकम्पापूर्वकमेवेत्युक्तं भवति । अस्यां योजनायां सदैवदे अवेति च्छेदोविवक्षितः । तथा च सदैवदे नित्यमेवसर्वपुरुषार्थप्रदे त्वयि विद्यमानं भुवनमवेतियोज्यम् ॥ ५ ॥ सर्वपादगतान्तभागयमकरूपोयं श्लोकः ।

पदच्छेदः— नीतः । वसुदेवेन । स्वतनेन । सः । गोकुलम् । सुखसुदेवेन ॥ तत्र यशोदा । तनयम् । मेने कृष्णम् । स्वकीयम् । अवदातनयं ॥ ६ ॥

इतःपरं भारतोदितं कृष्णचरित्रं क्रमेणसक्षेपतोदर्शयत्युत्तर श्लोकैः नीत इति ।

सः कृष्णः । स्वततेन स्वस्मिन्व्याप्तेन हरिणाप्रेरितेन । यद्वा स्यस्य तातेन पित्रा वसुदेवेन । गोकुलं प्रति । नीतः । तत्र गोकुले । यशोदा नन्दभार्याम् । सुखसुदेवेन सु सुष्ठुवसुद्रव्यं येषां ते सुवसवः वैश्याः तेषां देवेन स्वामिना । यद्वा सु वसुदेवेन द्रोणनामकवसूत्तम-स्वरूपेणनन्देन सह । अवदातनयं अवदाताः शुद्धाः मुक्ताः तान्नयतीति अवदातनयः । नित्यमुक्त इति यावत् । तं कृष्णम् । स्वकीयं तनयम् । सु सम्यक् । मेने अमन्यतेत्यर्थः ॥ ६ ॥

पदच्छेदः— ववृधे । गोकुलम् । अधि । आद्योदेवः । (आत् । यः । देवाः ।) विश्वम् । अद्...ताकुलम् । अधि । आ । अत् ॥ तत्र । च । पूतनिकायाः वधम् । अकरोत् । यन्निजाः । पूतनिकायाः ॥ ७ ॥ अगोकुलमति वा च्छेदः ।

ववृध इति । द्योदेवः स्वर्गोपलक्षितसर्वलेकस्वामीकृष्णः । आगोकुलं अधि ईषत् (आसम्मतात्) गवां अज्ञदृष्टीनां कुलं समृहं इन्द्रियसम्मूढजनमधिकृत्य अज्ञदृष्ट्येति यावत् । ववृधे । न वस्तुतः । कुतः ? । अद्भुताकुलम् अद्भुतमनिर्वाच्य यथास्यात्तथा आकुलं व्याकूला विश्वम् । अध्यात् अधि आधिक्येन आसमेतात् अत्तीत्यत् संहर्तेति यावत् । तथा च प्रयेप्यवस्थितस्य न वस्तुतो वृद्धिरितिभावः । यद्वा । योदेवः अद्भुताकुलं विश्वं सर्वं अगोकुलं गोगुलविरोधितृणावर्तादिकम् । अध्यात् अधि आधिक्येन आसमन्तात् अत् संहर्ता यः तस्मात् । आत् अकारशब्दवाच्यात् कृष्णात् । गोकुलं अधि आधिक्येन । ववृधे अवर्धत । तृणावर्तादिवैरिपराभूतं नाभूदित्यर्थः । तत्र गोकुले । चशब्दः कर्मान्तरसमुच्चयार्थः । नाम्ना पूतनिकायाः राक्षस्याः वधमकरेत् । स्त्रीहत्यया पापंस्यादित्यत उक्तम् । यन्निजाः यद्भक्ताः । पूतनिकायाः पूतः शुद्धः कर्मवशात् निः नीचः कायो येषान्ते तथोक्ताः कर्मवशात् नीचयोनिं प्राप्ताः यद्भक्ता अपि शुद्धाः भवन्ति इति शेषः तस्यपापमसम्भावितमेवेति भावः ।

पदच्छेदः— अधुनोत् । शकट । लोली । पादाङ्गुष्ठेन । वातपेश-शकटम् । लोली । अतनोत् । रक्षाम् । अस्य । स्वामानात् । गोपिका । सदा । ईर•मस्या ।

अधुनोदिति । शकटं शकटगं तन्नामकमसुरम् । लोली देहचलनवान् । शकटस्याधः शायितः देहं चालयित्वा तत्समीपं प्राप्येति यावत् । पादा अङ्गुष्ठेन । अधुनोत् अकम्पयत् जघानेति यावत् । प्रये शेषशायित्वादिगुणकस्य नेदं चित्रमित्याशयेनाह वातपेशेति । वातो वायुः तं पिबन्तीति वातपाः नागाःतेशमीशःशेषः तल्लक्षणं शं सुखकरं कटं आस्तगणं द्वितीया-सप्तम्यर्थे तस्मिन् । लालीशयवनित्यर्थः अथवा वावपेशं शेषाम् । शकयाय सुखास्तरणायालोलयति प्रेरयतीति वातपेशाकटं लोली । तत्र मुमागमः छान्दसाबोद्ध्यः । यद्वा वाति प्रवर्तयति लोकं स्वोदयेनेतिवा सदागमनशील इति वः । सचसौ आतपेशः सूर्यः तस्यशकटं शकटपदोपलक्षितं (रथं) लोलयतीति तथोतः । गोपिका यशोदा । अस्य पूर्वप्रकृतस्य । अकारशब्द-वाच्यस्यवा कृष्णस्य । स्वाज्ञानात् । स्वसम्बन्धादज्ञानात् स्वः स्वतन्त्रोहरिः तदज्ञानाद्धा । रक्षां रक्षणं मन्त्रादिभिः । अतनोत् रक्षणं अज्ञानमूलमेवेत्युक्तमुपपादयति सदेति । सदा निरन्तरं । ई रमां रक्षतीति ईरक्षः । नविद्यते मा मर्यादा यस्येत्यमः परिच्छेद त्रयरहितः ईरक्षश्चासौ अमश्चेति ईरक्षामः तस्येत्यर्थः । यद्वा ईरो वायुः क्षामः कृशः यस्यात्सतथोक्तः तस्येत्यर्थः । तथा च वायोरप्यवमस्य रमारीकस्य कृष्णस्य रक्षाकरणममानमूलकमेवेति भावः ॥ ८ ॥

पदच्छेदः— मुखलालनलोला । तन्मुखङ्ग । जगत् । अचष्ट । सालनलोलातत् ॥ न । अध्यैत् । मायाम् । अस्य । गजत्प्रभोः । स्वाधिकतततमायामस्य ॥ ९ ॥

मुखलालनेति । गोपिकेति पदमनुवर्तते । गोपिका यशोदा । अस्य कृष्णस्य । मुखलालनलोला सती मुखस्य लालने चुम्बनादिरूपे लोला आसक्ता सती । तन्मुखगं तस्य कृष्णस्य मुखे विद्यमानम् । जगत् सावरणं ब्रह्माण्डम् । अच्•ष्ट अपश्यत् । कथं भृतं जगत् सालन-लोलातत् । रलयोर्नणयोरभेदात् सालनं सारणं सरक्षकमति यावत् । तच्चतत् लोलं चलं चेष्टमानमिति यावत् तच्चतत् अतच्चतद्व्यतिरिक्तं ततथोक्तम् । अनेन जगतो भगवदात्मकत्वात् तत्रजगद्दर्शनं नचित्रमिति शङ्का निरस्तेति ज्ञातव्यम् । भेदस्यान्यत्रसाधितत्वादिति भावः । इत्थञ्जगदाश्रयमुखवत्वरूपं माहात्म्यं पर्श्यत्यपि सा न साकल्येन तन्महिमानमपायदित्याह नाध्यैदित्यादिना । जगत्प्रभोः जगत् प्रकर्षेण भावयतीतिव्युत्पत्त्या जगदुत्पत्त्यादिकर्तुः । स्वाधिकतततमायामस्य सु सुष्टु आ अधिकः अत्युत्तमः अतिशयेन ततः तततमः व्याप्तः आयामः गुणक्रियारूपविस्तारो यस्य स तथोक्तः तस्य कृष्णस्य । मायां महिमानम् । नाध्यैत् नाध्यगच्छत् । अनयाऽज्ञातं जगदुत्यत्त्यादि-कर्तृत्वरूपं नियामकतयान्तर्बहिर्विस्तृतावयवत्वादिरूपं च माहात्म्या-न्तरमस्तीति भावः ॥ ९ ॥

पदच्छेदः— तस्य । सुशर्माण्यकरः । दरिणः । गर्गः । सदुक्ति-कर्माणि । अकरोत् । अवदत् । नामानम् । अयम् । जगदादिम् । वासुदेवनामानम् । अयम् ॥ १० ॥

तस्येति । सुशर्माण्यकरः सु समीचीनं शर्म सुखं येषान्ते सुशर्माणः मुक्ताः तैरण्यः प्राप्यः विष्णुः करे यस्य स तथोक्तः विष्ण्वर्चक इति यावत् । यद्वा स•र्माभिर्यादवैः अ•यः प्राप्यः करो बलिर्यस्य सतथोक्तः । यादवानां पुरोहित इति यावत् (सुशर्मवरेण्यकर इति वा पाठः । सुशर्मसमीचीनं सुखं तस्मै वरेण्यौ वरणीयौ करौ यस्य सः) गर्गः । दरिणः दरः अस्यास्तीति दरी तस्य शङ्खपाणेः । तस्य कृष्णस्य । सदुक्तिकर्माणि सत्यो निर्दुष्टाः उक्तयः श्रुतयो येषां तानि सदुक्तीनि श्रुतिविहितानीति यावत् । तानि च तानि कर्माणि जात-कर्मादीनि च तानि सदुक्ति कर्माणि । अकरोत् । अयं गर्गः । वासुदेवनामानं उक्तरीत्या वासुदेव नामकं कृष्णम् । अवदत् । नन्दादीन्प्रतीतिशेषः । वासुदेव इति नामास्य चकारेत्यर्थः । कथं भूतमवदत् । नामानं नविद्यते आ समन्तात् साकल्येनेेति यावत् प्रतिपादकं मानं प्रमाणं यस्य सतथोक्तः तम् । पुनःकथं भूतम् । अयं अयति प्रेरयतीत्ययः तं जगत्प्रेरकम् । पुनः कथं भूतम् । जगदादिं जगत्कर्तारम् । गर्गः जातकर्मनामकरणादीन् संस्कारान् कृत्वा उक्तगुरहर्यवताररूपं कृष्णं नन्दादीन् प्रत्युपदिष्टवानित्यर्थः ॥ १० ॥

पदच्छेदः— तस्य । सखा । बलनामा । ज्येष्ठः । भ्राता । अथ । यत् । निजा बलना । मा । यस्य । च पर्यङ्कः । अयम् । पूर्वतनः । विष्णुम् । अजसपर्यम् । कः । अयम् ॥ ११ ॥

तस्येति । तस्य कृष्णस्य । भ्राता । बलनामा । गर्गेण कृत इति शेषः । सः बलनामा तस्य सखा इष्टः ज्येष्ठश्च । इदं सखित्वं ज्येष्ठत्वं च स्वरूपतस्समत्वोत्तमत्वाभ्यां न किं त्ववतारेप्रियत्व पूर्वजत्वाभ्या-मेवेत्याशयेन कृष्णबलयोः स्वरूपस्थितिमाह यन्निजेति । मा रमा । यन्निजाबलना यत् यस्यकृष्णस्य निजाबलना स्वाभाविकावरणरूपा ‘लक्ष्मीघराभ्यामाश्लिष्ट इति वचनात्’ अत्र बकारस्यवत्वं लस्यरत्वं च तयोरभेदविवक्षया । (निजा स्वभावसिद्धा बलना बस्यलत्वं ललना भार्येतिवा) यस्य कृष्णस्य । अयं बलः । पूर्वतनः पुरातनः मूलरूपसम्बन्धी । पर्यङ्कः शय्याच । अथ तस्मात् । अजसपर्यं अजस्यब्रह्मणः सपर्या पूजायस्यस तथोक्तः तं ब्रह्मपूजितम् । विष्णुं विष्णुस्वरूपं कृष्णम्प्रति । अयं बलः । कः किंशब्द आक्षेपे नोत्तमो नापि सम इत्यर्थः । तस्मादवतारप्रयुक्तमेव ज्येष्ठत्वादिकमिति लभ्यत इति भावः ॥ ११ ॥

पदच्छेदः— तेन । हतः । वातरयः । तृणचक्रः । नाम । दितिसुतः । अवातरयः । हरमाणः । बालतमम् । स्वात्मानम् । कण्ठरोधिना । अबालतमम् ॥ १२ ॥

तेनेति ॥ वातरयः वातरो वायुः तद्वत् रयोवेगो यस्य स तथोक्तः । तृणचक्रो नाम तृणावर्तो नाम । दितिसुतो दैत्यः । स्वात्मानं द्वितीया षष्ठ्यर्थे स्वात्मनः । कण्ठरेधिना कण्ठगश्वासरोधिनेत्यर्थः । तेन कृष्णेन । अवातरयः श्वासरूपवातवेगरहितस्सन् । हतः । कुतोहत इत्यतो हेतुगर्भाविशेषणमाह हरमाण इति । अबालमं अबाडतमं नविद्यते वाट्वाहको यस्य स अवाट् अता व्याप्ता मा रमा (मितिः परिमाणम्) यस्य स अतमः अवाट्चासावतमश्च अवाडतमः तं बस्यवत्वं लस्यडत्वं च पूर्ववत् । बालतमं अतिशयेन बालरूपम् । स्वातनमित्यस्य द्वितीयान्तस्यैवात्रसम्बन्धः । अत्र स्वशब्दन हननकर्ता कृष्णः परामृश्यते । स्वत्त्रात्मानमितिवार्थः । तता च यतो हरमाणः (उन्नीतवान्) ततो हत इत्यर्थः ॥ १२ ॥

पदच्छेदः— सः । अवनिमध्ये । रङ्गन् । अरिदरयुक् । बालरूपम् । अधि । आ । ईरम् । गन् । अमुषत् । नवनीतम् । अदः । अगोकुले । गोपिकासुनवनीतमदः ॥ १३ ॥

स इति । सगोकुले गोकुलसहिते । अवनिमध्ये गृहप्रदेशमध्ये । रङ्गन् रिङ्खणङ्कुर्वन् । अरिदरयुक् चक्रशङ्खधरः । सः कृष्णः । बालरूपं अधि आ ईरं गन् इति पदच्छेदः । तथाच बालरूपं ईरम् वायुम् । अधि अधिरुह्य । आ समन्तान् । गन् गच्छन् । अदः दूरस्थितं शिक्योपरिगभाण्डे विद्यमानमिति यावत् । नवनीतम् । अमुषत् । कथम्भूतः । गोपिकासुनवनीतमदः । गोपिकानां सुशोभनो नवः स्तवः तेन नीतः प्राप्तः मदः सुखं यस्य स तथा । (अथवा गोपिकासु नवेन नूतनेन चौर्येण उत्पादितः मदः अनुग्रहसुखं आग्रहो वा यस्मात्स इति वा) ॥ १३ ॥

पदच्छेदः— तन्माता । कोपम् । इता । तम् । अनुससार । आत्मवादवाकोपमिता । जगृहे । सा । अ (आ) नमनम् । तम् । देवम् । तच्चिन्तया । एव । सानम् । अनन्तम् ॥ १४ ॥

तन्मातेति । तन्माता तस्य कृष्णस्य माता यशोदा । नवनीतचौर्यादिना कोपम् । इता प्राप्तासती । तं पलायमानं कृष्णम् । अनुससार अन्वगच्छत् । कथम्भूत । आत्मवादवाकोपमिता आत्मवादवाकः परमात्मप्रतिपादकवाक्यं वेदः (आत्मनोवाकः वेदः) तत्सदृशी । यथा वेदवाक्यं आपातप्रतीतं कर्मादिकं परित्यज्य मुख्यतः परमात्प्रानमेवानुगच्छति तथा यशोदापि इतरत् गृहकृत्यं परित्यज्य तमेवान्वगच्छदिति भावः । सा यशोदा । अनमनं न विद्यते नमनं प्रह्वीभवनं यस्य स तथा तमिति । मातृभक्त्या आ ईषत् नमनं यस्यसतथा तमितिवा । देवं क्रीडादिगुर विशिष्टं । तं कृष्णम् । तच्चिन्तयैव ‘इमं मां गृह्णात्विति तदिच्छयैव’ न स्वप्रयत्नेन । जगृहे जग्राह । पुनः कथम्भूतम् । सानं जगद्व्यापारसहितं (स चेष्टं धावन्तम्) पुनःकथम्भूतम् । अनन्तं गच्छन्तम् । अपरिच्छिन्नं वा ॥ १४ ॥

पदच्छेदः— तन्माता । कोषम् । इता । तम् । अनुससार । आत्मवादवाकोपमिता । जगृहे । सा । अ (आ) नमनम् । तम् । देवम् । तच्चिन्तया । एव । सानम् । अनन्तम् ॥ १४ ॥

अथेति । अथ अनन्तरम् । सा यशोदा । अन्तरितामानं अन्तः इतं प्राप्तं आसमन्तात् सर्वस्मिन् विषय इति यावत् मानं ज्ञानं यस्य स तथा तं (अन्तः इताः गताः अमानाः अभिमानरहिताः मुक्ताः यस्य स तथा तं) यद्वा अन्तः उदरे इताः प्राप्ताः अः ब्रह्मा च मा रमा च अनःप्राणश्च यस्यसतथोक्तस्तामित्यर्थः । विष्णुं व्यासम् । विश्वोद्भवं विश्वस्य उद्भवो यस्मात्सतथातं । सदा सर्वदा । अन्तरितामानं अन्तः इतं गतं अमानं अपरिमितं जगज्जातं यस्यसतथातम् । यद्वा सदा सर्वदा । अन्तरितामानं अन्तरितं व्यवहितं अमानं अज्ञानं यस्य सतथातम् । तथा च बन्धायोग्यमित्यर्थो लभ्यते । एतदुपपादनायैव प्राचीनविशेषणानि । तं कृष्णम् । दामोदरतां दाम रज्जुः उदरे बन्धकं यस्य स दामोदरः तस्य भावः । दामोदरता ताम् । अनयत् दाम्ना बद्धं चकारेत्यर्थः । । जडाज्ञानं तस्य बन्धकतया नास्तीति पूर्वमुक्तम् । इदानी तदभिमानिनी रमापि तदुपजीविनी न तद्बन्धिकेत्याशये नाह य इति । तमित्यन्वयः । तथा च बन्धायोयस्यापि यद्बन्धनं तत्तदिच्छयैवेति भावः । यः कृष्णः । निजामोदरतां निजः स्वरूपभूतः आमोदःपूर्णं इतरगुणोपलक्षरमेतत् तस्मिन्रतां स्निग्धाम् । सुन्दरी दुर्गी। सदेत्यावर्तते । सदा । अरमयत् नित्यमुक्तामकरोत् ॥ १५ ॥

पदच्छेदः— चक्रे । सः । अर्जुननाशम् । प्राप्नोति । यत्स्मृतिः । सदा अर्जुनना । शम् । तौ । च । गतौ । निजम् । ओकः । तेन । एव । नुतेन यत् । निजानिजमोकः ॥ १६ ॥

किञ्च संसारपाशात् मोचयन् कृष्णाः अन्यैर्न बद्धुं शक्य इत्याशये नाह चक्र इति ।

सः कृष्णः । अर्जुननाशं अर्जुनयोः तन्नामकवृक्षयोः नाशम् । चक्रम् । यत्स्मृतिः यस्य स्मरणवान् । अर्जुनना अर्जुनः धवलः शुद्ध सचासौ ना पुमांश्च सतथा । शुद्धोभूत्वेति यावत् । सदा । शं नित्यसुखं मोक्षञ्चाप्नोति । तौ वृक्षशरीरौ नकूबरमणिग्रीव-नामानौ सुरौ । नुतेन स्वकर्तृकस्तुतिविषयेण । तेनैव कृष्णेनैव । न स्वप्रयत्नेनेत्यर्थः श्री कृष्णानुग्रहेणैव शापमोक्षं प्राप्तौ । निजम् ओकः स्वकीयं स्थानं स्वर्गस्थानम् । गतौ प्राप्तौ । चशब्दात् तौ तदाविष्टौ धुनिचमुनामानौ दुष्टौ तावपि निजं स्वमोकः स्थानं तमोलक्षणङ्गताविति सूचयति । कुत एतदुभयमित्यतो भगवत्स्वभाव एतादृशा इत्याह यन्निजेति । यत् यस्मात् । निजानिजमोकः निजानिजयोः भक्तद्वेषिणोः मोकः मोचनं स्वस्वयोग्यं भवतीति शेषः । तेनेत्यन्वयः ॥ १६ ॥

पदच्छेदः— अथ । बृन्दावनवासम् । गोपाः । चक्रुः । जगच्छ्रिता । अवनवासम् । तत्र । बकासुरमारः । शौरिः । अभूत् । नित्यसंश्रिता सुरमारः ॥ १७ ॥

अथेति । अथ अनन्तरम् । गोपाः । बृन्दानवनवासम् गेपगोपीगवां बृन्दस्य समूहस्य अवनं रक्षणं यस्मात्तत्तथा तस्मिन् बृन्दावनसज्ज्ञेवने वासम् । जगच्छ्रिता जगन्निवासेन कृष्णेन सह । चक्रुः । कृष्णसाहित्यात् । न स वन वास इत्याह अवनवासमिति । न वनवासः अवनवासः तं स्वर्गतुल्यमिति भावः । तच्चोक्तं ‘बृन्दावनं यदधिवासत आस सद्ध्र्यङ्माहेन्द्रसद्मसदृशं किमुतत्र पुर्यामिति’ । तत्र बृन्दावने । शौरिः शूरस्य गोत्रापत्यं पुमान् कृष्णः । बकासुरमारः बकः तन्नामकश्चासावसुरो दैत्यश्च तं मारयतीति बकासुरमारकः । अभूत् इत्यन्वयः । कथम्भूतःशौरिः । नित्यसंश्रितासुरमारः असुश्च रमाच असुरमे नित्यं संश्रितेचते असुरमे च ते रमयतीति रः लोके मरणं मुख्यप्राणेन तमेमिान्यिादुर्गया च भवति तदुभयाश्च यस्य तदुभयरति-प्रदस्य कृष्णस्यासुरमारकत्वं नाश्चर्यकरमिति भावः ॥ १७ ॥

पदच्छेदः— अहनत् । वत्सतनूकम् । यः । अपात् लोकम् । स्वयत्नवत् । सतनूकम् । सः । अपात् । वत्सान् । अमरः । सहाग्रजः । गोपवत्सवत् । सानमरः ॥ १८ ॥

अहनदिति । सतनूकं उः रुद्रः को ब्रह्मा एतौ तनू विष्ण्वपेक्षया अल्पौ नीचाविति यावत् तौ च तौ उक्तौ च तनूकौ ताभ्यां सहितः सतनूकः तं लोकम् । स्वयत्नवत् सुष्ठु न विद्यते यत्नो यस्य सः स्वयत्नः पुमान् त्वतत् । यः । अपात् । यश्च अमरः मरणशून्यः । सानमरः अनः प्राणः मा रमा च अनेमे ताभ्यां सहितं सानमं जगत् तद्रमयतीति सानमरः । सहाग्रजः अग्रजेनसहितः कृष्णः । गोपवत्सवत् गोपालसूनुवत् । वत्सान् । अपात् पालयामास । तत्र प्राप्तं वत्सतनूकं वत्सरूपधरन्दैत्यम् । अहनत् हिंसितवान् जघान ॥ १८ ॥

पदच्छेदः— सः । विभुः । श्रीमान् । अहिके । ननर्त । यस्य । श्रमानमा । मा । न । हि । के । अकरेत् । नद्युदकान्तम् । कान्तम् । नीत्वा । उरगम् । सः । ना । आद्युदकान्तम् । (नाद्युदकान्तम्) इति वाच्छेदः ॥ १९ ॥

स इति । विभुः समर्थः । सः कृष्णः । अहिके सर्पशिरसि । ननर्त नृत्यं कृतवान् । तथापि सः श्रीमान् । सर्पविषेण तस्यशरीर-कान्तिर्नापगतेति भावः । प्रलयकाले सर्पशयनस्य नेदमाश्चर्य-मित्याशयेनाह यस्यश्रमेति । के प्रलयोदके । ‘अहिक’ इत्यस्या-वृत्तिः । अत्र क शब्दः शरीरपरः तस्मिन् शयानस्येति शेषः । तथा च प्रलयोदके अहिशरीरे शयानस्य तस्मिन् शयानस्येति शेषः । तथा च प्रलयोदके अहिशरीरे शयानस्य यस्य श्रीकृष्णस्य । मा श्रीः शरीरकान्तिः । श्रमानमा श्रमेण सर्पविषजन्यश्रमेण आ ईषदपि नमा नम्ना । श्रगकृतैषत्सङ्कोचवतीति । यावत् । न नबभूव । हि इत्यनेन तत्र प्रमाणप्रसिद्धिं दर्शयति । तथा च प्रलयोदके अहिशरीरे शयानस्य यस्य श्रीकृष्णस्य शोभा नसङ्कुचिता भवति तस्याहिमस्तके नर्तनमात्रेण शोभाऽनपगम इति किं वक्तव्यमिति भावः । सः श्रीमान् इति सम्बन्धः । ना परमपुरुषः । नद्युदकान्तं नद्याः यमुनायाः उदकस्य अन्तो नाशो विषेणदूषणं यस्मासतश्रातम् । उरगं कायिम् । आद्युदकान्तं द्वीपम् । आदौ अन्ते च उदकं यस्येति । योगात् द्वीपमेवहितादृशम् । यथा च समुद्रमध्यागतं रमणकाख्यद्वीपं प्रतीत्यर्थः । (नाद्युदकान्तं नादः घोषः अस्यास्तीति नादी समुद्रः तस्य उदकमध्यस्थ द्वीपं प्रतीत्यर्थ इति वा) नीत्वा प्रापयित्वा । तन्नद्युदकमिति शेषः । कान्तं मनोहरं निर्विषमिति यावत् । अकरोत् कृतवानित्यर्थः ॥ १९ ॥

पदच्छेदः— हत्वा धेनुकमूढम् । बलात् । प्रलम्बम् । च । खेट् । सधेनुकम् । ऊढम् । व्रजम् । आवीत् । अमृताशः । पीत्वा । वह्निम् । चरस्थिरादम् । ऋताशः ॥ २० ॥

हत्वेति । ननु विघ्नेश्वरवरेण दीर्घायुष्यवतो धेनुकस्यहननं कथं कृष्णेन कृतमित्यत उक्तं खेडिति । खेट् आकाशाभिमानिनः धेनकवरदातुर्विनायकस्येश्वरः कृष्णः । धेनुकमूढं धेनुकाख्यं मूर्खं खरमिति यावत् । ऊढं बलरामेणरूढम् । प्रलम्बम् च । बलात् बलरामाविष्टरूपेण । हत्वा । सधेनुकं देनुस्सिहितम् । व्रजम् । अमृताशः । (आनन्दामृताशनोऽपि) चरस्थिरादं चराचरभक्षकम् । वह्निम् । पीत्वा । आवीत् रक्षितवात् । ननु वह्निनाशः प्रकारान्तरेणापि कुतो नकृत इत्यस्य उक्तं ऋताशः सत्यसङ्कल्प इत्यर्थः ॥ २० ॥

पदच्छेदः—गिरिणा । रक्षा । अपि । कृता । व्रजस्य । तेन । स्वरक्षरक्षापिकृता । शक्राय । व्यञ्जयता । स्वां । शक्तिं । विश्वम् । आमात्मना । अव्यम् । व्यञ्जयता ॥ २१ ॥

गिरिणेति । तेन कृष्णेन । गिरिणा गोवर्धनपर्वतेन । व्रजस्य इन्द्रप्रमुक्ते मेघपीडितस्य गोकुलस्य । रक्षा । कृता । अपिशब्दः पूर्वोक्तरक्षणसमुच्चायकः । कथम्मूतेन तेन । स्वरक्षरक्षापिकृता स्वरः (स्वरित्यव्ययं स्वश्चासौ अश्च स्वरः स्वतन्त्रः) आनन्दरूपी कृष्णः तस्मै क्षीरं क्षरन्तीति स्वरक्षरा गावः तासां क्षः क्षयो येभ्यस्ते स्वरक्षरक्षाः मेघाः तान् आ समन्तात् पालयतीत्यापिरिन्द्रः तं करोतीति कृत् तेन इन्द्रस्य मेघपालकत्वप्रदेनेति यावत् । नन्विन्द्रेण कथं स्वोपजीव्यभगवद्विरोधः कृत इति चेत् कृष्णे भगवदवतारत्वस्य तेन विस्मृतत्वात् । अत एवाह शक्राय स्वां शक्तिं व्यञ्जयतेति । (स्वां स्वकीयां शक्तिं भगवदवता-रत्वस्मारकशक्तिं प्रकाशयतेत्यर्थः) प्रयोजनान्तरमाह विश्वमित्यादिना । अव्यमित्यस्य देहीदीपन्या-येनोभयत्रसम्बन्धः । तथा च । आत्मना स्वेन । अव्यं रक्ष्यम् । विश्वम् अव्यं (सत्) रक्ष्यम् । व्यञ्जयता । गोपान् प्रति विज्ञापयतेत्यर्थः । व्रजरक्षणेन सर्वजगद्रक्षणमपि मयैवक्रियत इति गोपानां ज्ञापितवानिति भावः ॥ २१ ॥

पदच्छेदः— रेमे । गोपीषु । अरिहा । सः । मन्मथाक्रान्त-तसुन्दरीपीषु । अरिहा । पूर्णानन्दैकतनुः । सः । विश्वरुक्पावनः । अपि । आनन्दैकतनुः ॥

रेमे इति । अरिहा शङ्खचूड•ख्यवैरिहन्ता । सः कृष्णः । गोपीषु। रेमे । कथम्भूतासु । मन्यथाक्रान्तसुन्दगीपीषु इः कामः पिः पाता यस्य तदिपि स्त्रीगुह्यं तदेव श्रीः सम्पत् यासां ताः ईप्यः मन्मथाक्रान्ताः कामाविष्टाश्चताः सुन्दर्यश्च ता ईप्यश्चतास्तथा तास्वित्यर्थः । कामिपुरुषेवत् तस्य स्त्रीसेवया रमणं नेत्याह अरिहेति । अत्र रस्य लत्वं विवक्षितम् । यमक संरक्षणार्थं तथोक्तम् । लिट्लोनं सेवनं तदभावो अलिट् तेन अलिहा असेवनेन सेवां विनेति यावत् । कुत इत्यत आह पूर्णोति । यतः इति शेषः । सः कृष्णः । यतः पूर्णानन्दैकतनुः पूर्णः सर्वेभ्योऽधिकः आनन्द एव एका मुख्या तनुः शरीरं यस्य सः अवाप्तसमस्तकाम इति यावत् । अतो असेवयेति गम्यत इति भावः । तर्हि किमर्थं रेम इत्यत आह विश्वरुगित्यादिना । अपि यद्यपि पूर्णानन्दैकतनुः विश्वरूक्पावनः विश्वेषां सर्वेषां भक्तानां कामाद्युपद्रवहन्तो । आनन्दैकतनुः आनन्दयतीत्यानन्दा । तत्प्रदा एका मुख्या तनुरवतारो यस्यस तथा । तथा च गोपिकानां भक्तत्वात् तासां कामाद्युपद्रवनाशायानन्दप्रदानाय च रमणं न स्वप्रयोजनायेति भावः ॥ २२ ॥

पदच्छेदः— अथ । हतयोः । गकिेश्योः । श्वफल्कजप्रापितः । पुरी गकिेशी । ओः भङ्क्त्वा । धनुः । आजवरम् । जघान । तेन । एव । च । स्वयम् । राजवरम् ॥ २३ ॥

अथेति । अथ अनन्तरम् । गकिेश्योः । गसाध्यध्वनिविशेषोऽस्यास्तीति गी वृषभाकारोऽरिष्टनामाऽसुरः । केशा अस्य सन्तीति केशी तुरगरूपो दैत्यः तयोर्गकिेश्योः । गकिेशिनोरिति वक्तव्ये इत्यर्थक इप्रत्ययोप्यस्तीत्याशयात् व्यत्ययः दैत्ययोः कुत्सनार्थ इत्यप्याहुः । हतयोः (सतोः) पुरी मधुरां (प्रति) । श्वफल्कजप्रापितः श्वफल्कजोऽक्रूरः तेन प्रापितः । गकिेशी गनिौ सुगौ (सुस्वरकण्ठै) स्तुवत्कण्ठाविति यावत् । तौ चतौ केशौ च को ब्रह्मा ईशो रुद्रः । तावस्य स्त इति तथोक्तः ब्रह्मरुद्राभ्यां स्तूयमान इति यावत् । स इत्यनुवर्तते । सः कृष्णः । स्वयं स्वयमेव नान्यवरादिनेति भावः । ओः उकारवाच्यस्य रुद्रस्य (अः अकारवाच्यः उक्ष उत्कृष्टः अश्चासौ उश्च ओः । आत् चतुर्मुखात् उः उत्कृष्टः ओः श्रीकृष्णः) धनुः रुद्रधनुरित्यर्थः । कथम्भूतं धनुः । आज वरं अजो ब्रह्मा रुद्रो वा तत्सम्बन्धी आजः वरो यस्य तत्तथोक्तं तत् । भङ्क्त्वा । तेन भग्नेन धनुषा तत्खण्डेनेति यावत् । राजवरं कं सबलम् । जघान । बसय वत्वं लस्य रत्वं च यमकार्थम् । एवमग्रेऽपि द्रष्टव्यम् ॥२३॥

पदच्छेदः— मृत्नन् । गजम् । उग्रबलम् । सबलः । रङ्गम् । विवेश । सृति । मुक् । रबलम् । हत्वा । मल्लौ । बलिनौ । कंसम् । च । विमोक्षितौ । ततौ । रौ । बलिनौ ॥ २४ ॥

मृत्नन्निति । सबलः बलरामेण सहितः । कृष्ण इत्यध्याहारः । कृष्णः । उग्रबलं उग्रो रुद्रः तद्वरो यस्य स तथोक्तः वबयोरभेदात् रलयेरभेदाच्च । उग्रं बलं यस्येति वा तम् । गजं कुवलयापीडसञ्ज्ज्ञाम्। मृत्नान् मर्दयन् । रबलं वबयो रलयेरभेदः रवेण बाद्यध्वनिविशेषण रं रमणीयम् । अथवा रं रमणीयं वरं वरणीयम् । रङ्गम् युद्धसन्नद्ध-शत्रुस्थानम् । विवेश । (तत्र) बलिनौ बलं बरोवा अनयोरस्तीति तौ । मल्लौ चाणूर मुष्टिकसज्ज्ञौ । कंसं चशब्दात्तत्सैन्यं च हत्वा ब्रह्मादिसंस्तुतोऽूदितिशेषः । ततौ तातौ देवकीवसुदेवौ । विमोक्षितौ । तेन बन्धादिति च शेषः । कथं भूतौ ततौ । रौ रमणीयौ भक्त्यादि-गुणोपेतावित्यर्थः । पुनः कथम्भूतौ । बलिनौ वबयोरलयोश्चाभेदः नस्यणत्वं च ‘अहं युवयोः पुत्रोभविष्यामीति’ पूर्वं स्वदत्तवरवन्तौ । संसारमोचकस्य निगडबन्धमोचकत्वं नाश्चर्यकरमित्याशयेनाह सृतिमुगिति । सृतिमुक् सृतेः संसारात् मेचयतीति तथा यतोऽत इति शेषः । (श्रुतिमुक्) इति पाठे जात इति शेषः । तथा च पश्चादुपनीतः सर्वश्रुत्यध्ययनं सान्दीपनिसकाशात्कृतवानित्यर्थः । श्रुतिं मुञ्जति उच्चारयतीति श्रुतिमुगिति व्याख्यानात् ॥ २४ ॥

पदच्छेदः— प्रादात् । सान्दीपिनये । मृतपुत्रम् । मानदीपसान्दीपनये । गुर्वर्थे । अज्ञानतमःप्रभेदिता । नित्यसम्भृताज्ञानतमः(पूर्वार्धे प्रदात्सान्दीपनये गुर्वर्थ मृतपुत्रं इति, उत्तरार्धे ततमाज्ञान तमः प्रभेदिता इति वा पाठः) ॥ २५ ॥

प्रादादिति । सबल इति कर्तृवाचकपदमनुवर्तते । तथा च सबलः कृष्णः । गुर्वर्थे तादर्थ्ये सप्तमी गुरुदक्षिणार्थम् । ज्ञानदीपसान्दीपनये ज्ञानमेव दीपः ज्ञानदीपः तस्य सम्यक् समन्तात् ये दीपकाः ते ज्ञानदीप सान्दीपाः पण्डिताः तानपि यो नयति शिक्षयतीति सः ज्ञानदीपसान्दीपनिः तस्मै । सान्दीपनये सान्दीपनि नाम्ने गुरवे । मृतपुत्रम् । प्रादात् । ननु गुरुकुलवासेन भगवता विद्याप्राप्ताचेत् तस्य ज्ञानं प्रसक्तम् । अतेऽज्ञानतम इत्यादि विशेषणद्वयेन तं विशिनष्टि अज्ञानेति । अज्ञानतमःप्रभेदिता सर्वसज्जनाज्ञानतमच्छेत्ता । नित्यसम्भृताज्ञानतमः नित्यं सम्यक् भृता धृता आज्ञा ययासा नित्यसम्भृताज्ञा सा चासौ नता नम्ना ब्रह्मादि नतावाच्छेता सकलविद्यादेवता रमा यस्य नमनपूर्वकं आज्ञाधारिणी स कथं अमानेन गुरुकुलवासं कुर्यात् । किन्तु लोकशिक्षार्थमेव कृतवानिति भावः । (ततमाज्ञानतमः प्रभेदिता ततत्वात्तं अतिशयेन तं ततमं तच्च तत् अज्ञानं तदेव तमः तस्य प्रभेदिता छेत्ता) ॥ २५ ॥

पदच्छेदः— जित्वा । मागधराजम् । तोषितम् । अकरोत् । सदा । आत्मयोगधराजम् । अनुकुर्वत् । निजसदनम् । चक्रे । रम्यम् । पुरम् । सुबोधजिसदनं ॥ २६ ॥

जित्वेति । कृष्ण इत्यध्याहारः । मागधराजं मगधदेशाधिपत्तिं जरासन्धम् । जित्वा । सदा निरन्तरम् । आत्मयोगधराजं आत्मनो योगः आत्मयोगः स्वविषयकध्यानादिरूपः तस्य धरः सचासावजो ब्रह्म च स तथोक्तः तम् । तेषितं सन्तुष्टम् । अकरोत् कृतान् । ब्रह्माहि जरासन्धायाजेयत्वं वरं दत्वा कृष्णो यदि मद्वचनगौरवेण जरासन्धं नजयेत्तर्हि महाननर्थो भविष्यतीति भीतो बभूव । अतः कृष्णः तं जरासन्धं जित्वा तदीयभयनिवारणं कृतवानित्याशयः । निजसदनं श्वेतद्वीपाभिधम् । अनुकुर्वत् अनुकरणशील समुद्रमध्यगतत्वात्तत्सदृश-धर्मोपेतमिति यावत् । अत एव रम्यं मनोहरम् । पुरं द्वारवत्याख्यं पुरम् । चक्रे निर्मितवान् । कथम्भूतं निजसदनम् । सुबोधनिजसदनं सुबोधेन समीचीनेन भगवत्साक्षात्कारेण निजाः स्वस्वरूपाविर्भावं प्राप्ताः मुक्ता इति यावत् तेषां सदनं आवासस्थानम् । सुबोधनिज-सदनमित्यावर्तते । समीचीनबोधवद्यादवादिसदनं पुरं चक्रे । भगवतः मुख्यकर्तृत्वाच्चक्र इति प्रयोगः ॥ २६ ॥

पदच्छेदः— प्रसभम् । सः । गजबलस्य । क्षत्रस्य । उच्चैः । समगधराजबलस्य । मानम् । शिशुपालवरम् । हत्वा । भैष्मीम् । अवाप शिशुपालवरम् ॥ २७ ॥

प्रसभमिति । सः कृष्णः । गजबलस्य गजशब्दोऽश्वाद्युपलक्षकः । तथा च गजादिरूपचतुरङ्गं बलं सैन्यं यस्य तद्गजबलं तस्येत्यर्थः । समगधराजबलस्य मगधराजसैन्येन सहितस्य । क्षत्रस्य रुक्म्यादिरूपस्य । उच्चैर्मानं उत्कृष्टमहङ्कारम् । हत्वा । प्रसभं यथास्यात्तथा । भैष्मी रुक्मिणीम् । अवाप । कथम्भूतं मानम् । शिशुपालवरं शिशुपालो वरो यस्मिन्विषयतयाऽस्तीति स तथोक्तः तं शिशुपालः रुक्मिण्यावरोऽस्माभिः कृतोऽस्तीत्येवं शिशुपालवरत्व-विषयकमित्यर्थः । नन्वेवं भूतो अहङ्कारः कतो जात इत्यतस्तं विशिनष्टि । शिशुपालवरं कृष्णस्य (शिरवश्चते पालाः लोकपालाश्च) शिशूभूताः पालाः पालकाः ये ब्रह्माद्याः तेषां वरो यस्मिन् अहङ्कारे कारणतयास्ति स तथोक्तस्तम् । ब्रह्मादिवरजन्यमिति यावत् ॥२७॥

पदच्छेदः— हंसः । डिभिकः । चपलौ । अमुना । संसूदितौ । यवनकः । च । पला । कीर्तिः । विमला । विरता । प्रतता । विश्वाधिपावनी । ईलाविरता ॥ २८ ॥

हंस इति । अमुना कृष्णेन । चपलौ चञ्चलौ हंसोडिभिकश्चेत्येतौ। संसूदितौ निहतौ । यवनकश्च कालयवनमामाऽसुरश्रच संसूदितः । पला परा । कीर्तिः । प्रतता प्रकर्षेण व्याप्त । कृतेति शेषः । पुनः कीर्ति विमलेत्यादि विशेषणचतुष्टयेन विशिनष्टि । विमला निर्मला । विरता वि विशिष्टाः रमाब्रह्मादयः सुराः रताः यस्यां सा तथा । विश्वाधिपावनी विश्वेभ्यो भागीरथ्यादितीर्थेभ्येप्याधिक्येन पावयतीति तथोक्ता । विश्वम् आधिक्येन पावयतीति वा । ईलाविरता ईलः रलयोरभेदः ईरः मुख्यवायुः तेन आविः आविर्भूता प्रकटिता अता व्याप्ताचेत्यर्थः । ईलाविश्वसा अताचेति विग्रहः ॥ २८ ॥

पदच्छेदः— सत्याजाम्बवतीर्याः । भार्याः । विन्दाद्याः । भानु-साम्बवतीः । याः । प्रद्युम्नम् । मोदरतः । प्राप । ज्येष्ठम् । हरिः । सुतम् । मोदरतः ॥ २९ ॥

सत्येति । हरिः कृष्णः । याः सत्याजाम्बवतीर्याः सत्याजाम्बवत्यौ ईर्ये आर्ये यासां ता स्तथाभूताः । तृतीयोऽतिशय सति आकारस्थाने ईकारः । विन्दाद्याः मित्रविन्दाद्याः । भार्याः ताः प्राप । कथम्भूताः । भानुसाम्बवतीः भानुः सत्यभामासूनुः साम्बो जाम्बवतीसुतः एतदादिक पुत्रवतीरित्यर्थः । मोदरतः मा रमारूपा रुक्मिमणी तस्याः उदरतः । प्रद्युम्नं प्रद्युम्नाख्यम् । ज्येष्ठं सुतं (च) प्राप । नन्वेवं विषयसापेक्षं हरेः सुखमित्यायातमत आह । मोदरतः रुक्तिमण्यादि विषयासम्बद्धे सम्भोदरूपं स्वस्मिन्नेवरत इत्यर्थः ॥२९॥

पदच्छेदः— यत्परिवारतया । ईशाः । जाताः । देवाः । नृपात्मना । अरतयेशाः । यद्भरितम् । विषसर्पभृति । ध्वान्तम् । न । मारुतिम् । विषसर्प ॥ ३० ॥

यत्परिवारतयेति । यत्परिवारतया यस्य कृष्णस्य परिवारतया (परि परितः वारयन्तीति व्युत्पत्त्या शत्रुनिवारकतया श्रीकृष्णकार्याङ्ग सेवतानिमित्तेनेति यावत्) ईशाः सर्वलोकानामिति शेषः । देवाः शेषाद्याः । नृपात्मना क्षत्रियत्वेन । जाताः । कथम्भूताः देवाः । अरतयेशाः अः परमात्मा तस्मिन् रतः अरतः याति सदा गच्छतीति यः मरुत् अरतश्चासौ यश्च अरतयः सईशो येषां ते तथोक्ताः । यद्भरितं तेन कृष्णेन भरितं पूर्णम् । मारुतिं भीमम् । विषसर्पप्रभृति विषसर्पजलवह्निपूर्वकम् । ध्वान्तं तमः मारकं वस्त्विति यावत् । न विषसर्प न विससर्प न प्राप । यमकार्थं सस्य षत्वम् । स हरिरिति पूर्वेणान्वयः ॥ ३० ॥

पदच्छेदः— येन । हिडिम्बबकाद्याः । रक्षोधीशाः । निपातिताः । बबकाद्याः । भीमे । प्रीतिम् । अमेयाम् । व्यञ्जयता । तेन । शेषपाति । ममे । याम् ॥ ३१ ॥

येनेति । येन कृष्णेन । बबकाद्याः बबकं मांसं अद्यं अदनयेग्यं येषां ते तथोक्ताः । बबकं मांसमज्जयोरित्यभिधानात् । हिडिम्बबकाद्याः हिडिम्बकिर्मीरपूर्वकाः । रक्षोधीशाः राक्षसेश्वराः । तेन भीमेव निमितेन । निपातिताः निषूदिताः । ननु कृष्णेन राक्षसहनने भीमः कस्मान्निमित्तीकृत इत्याशङ्का परिहारायोक्तं भीम इति । अमेयां भीमादन्यत्र निर्मातुमयोग्याम् । प्रीतिम् । व्यञ्जयता अभिव्यक्ती कुर्वता । भीमस्य निमित्ततयाऽनुसरणे हि भीमेनैव रक्षोधीशा निपातिता इति लोके यशोदानेन तस्मिन् प्रीतिः प्रकटिता भवतीति ज्ञातव्यम् । प्रीते रमेयत्वं अज्ञेयत्वं बाधितमतो विवृणोति शेष-पेत्यादिना । शेषपाति शेषोऽनन्तः पो रुद्रः गरुडो वा ताभ्यामतिशयो यथास्यात्तथा । यां प्रीतिम् । ममे निर्ममे । तां प्रीतिमित्यन्वयः । अनेनान्यत्र मातुं (निर्मातुं कर्तुं) योग्या न भवतीत्यमेयेति पूर्वोक्तमेयत्वं प्रीतेर्विवृतमिति ज्ञातव्यम् । यच्छब्दलब्धस्य स कृष्ण इत्यस्य उत्तरश्लोनान्वयः ॥ ३१ ॥

पदच्छेदः— अथ । कृष्णावरणेतान्। प्राप्तान् । राज्ञः । अश्रुणोत् । सदावरणेतान् । द्रष्टुम् । यातः । सबलः । ताम् । च । अनैषीत् । पृथासुतान् । ततः । सबलः ॥ ३२ ॥

अथेति । अथ अनन्तरं । राज्ञः । कृष्णावरणेतान् कृष्णासयाः द्रौपद्याः वरणेन वरत्वेच्छया इतान् युक्तान् । प्राप्तान् द्रौपदीवरणाय प्राप्तान् सतः । अश्रुणोत् । कथम्भूतान् राज्ञः । सदावरणेतान् सत्सुविषये (पाण्डवविषये) आवरणममानं तेन इतान् युक्तान् । सन्तो भीमाद्याबलाधिकास्तेभ्योऽस्माकं मानभङ्गो भविष्टतीति ज्ञानवर्जिता-निति यावत् । सबलः बलरामेण सहितः । सः कृष्णः । पृथासुतान् । तां च । कृष्णां च । द्रष्टुं द्रष्टुमेव । यातः प्राप्तः । तां कृष्णाम् । पृथासुतान् प्रति । अनैषीत् प्रापितवान् । (तां चानैषीत् पृथासुता-नित्यावर्तते) ता पृथासुतांश्च । ततः । पाञ्चालपुरात् । सबलः सवरः आशीर्वादरूपं वरं दत्वेति यावत् । अनैषीत् गजाह्वयं पुरं प्रतीति शेषः (अनेन श्रीकृष्णस्य पाण्डवेषु सार्वकालिकी निरुपाधिकप्रीतिः सूचिता भवति) ॥ ३२ ॥

पदच्छेदः— तान् । इन्द्रस्थलवासान् । चक्रे । कृष्णः । परः । निजस्थलवासान् । स्वबलोद्रेचितमानैः । जुगोप । धर्मं । च । तैः । पराचितमानैः ॥ ३३ ॥

तानिति । कृष्णः । तान् पृथासुतान् । इन्द्रस्थलवासान् इन्द्रस्थले इन्द्रपस्थे वासो येषां ते तथोक्ताः तान् चक्रे । कथम्भूतः कृष्णः । परः सर्वोत्तमः तस्याशक्यं न किमपीति भावः । कथम्भूतान् तान् । निजस्थलवासान् निजेषु भृत्यरूपेषु स्वेषु स्थः संस्थितः यः लवः रवः आज्ञारूपः शब्दः तत्रैव असान् विद्यमानात् स्वविषयकहर्याज्ञानुसारेण प्रवर्तमानानिति यावत् । अथवा निजानां स्वरूपर्वेषां स्थं स्थितं यद्राज्यं तस्य लवे लेशे एकदेशे अर्द इति यावत् तत्र असान् इत्यर्थः । (तत्र वसत इति यावत्) स्वपितृराज्यार्दराज्यास्थितां श्चक्र इति भावः । तैः पार्थैर्निमित्तैः । धर्मं जुगेपच रक्षितवान् (ररक्षापि) । कथम्भूतैः । स्वबलोद्रेचितमानैः स्वः कृष्णः तस्य बलेन उद्रेचितं अभिवृद्धं मानं सन्मानं अखिलराजवन्द्यत्वादिरूपं येषां ते तथोक्ताः तैः । पुनः कथम्भूतैः । पराचितमानैः परैः उक्तमैः शत्रुभिर्वा आचितं सम्यक्कृतं मानं सन्मानं येषां ते तथोक्ताः तः ॥ ३३ ॥

पदच्छेदः— वालिवधानुनयाय । प्रणयी । सख्यम् । सुसन्दधे । नु । नयाय । वासवजेन । विशेषात् । तेन । एव । पुनः । नृजन्मजेन । विशेषात् ॥ ३४ ॥

ननु कृष्णो विशेषेणार्नुनसखः कस्माज्जात इत्यतस्तत्र कारणमाह पवालिवधेति ।

्रणयी भक्तवत्सलः कृष्णः । वालिवधानुनयाय अपराधाभावेऽपि मया वालिवधः कृत इति यः पश्चात्तापः (चिततोदः) स इह वालिवधशब्देन लक्ष्यते अनुनयः परिहारः तस्मै । (वालिनः वधः यस्मै सः वालिवधः सुग्रीवः तस्य अनु अनन्तरं कर्णजन्मनि नयाय परित्यागायैव) विशेषात् धर्मनकुलसहदेवापेक्षया विशेषेण । वासवजेन अर्जुनेन । सख्यं सखित्वम् । नु इदानी कृष्णावतारे । सुसन्दधे अतिदृढतयाऽनेकप्रकारेण कृतवानित्यर्थः । नन्विदं व्यधिकरणं वालिनोर्जुनस्य भिन्नत्वादित्याशङ्का परिहारायोक्तं पुनर्नृजन्मजेनेति । नृजन्मना अर्जुनतया जेन जातेन । तेनैव वालिनैव । अनेन य इन्द्रांशः पूर्वं वालितया जातः स एवेदानीमर्जुनतयोत्पन्नः । अतो नोक्तशङ्केत्युक्तं भवति । ननु प्रत्यवाय गन्धविधुरस्य भगवतः कथं चित्ततोदः येन तत्परिहारायार्जुनसख्यकरणमुपपन्नं स्यादित्यत उक्तं नयायेति । नयाय लोके नीतिप्रदर्शनायेत्यर्थः । ननु भगवतोऽपि चेतनत्वादितरचेतन-वत्प्राप्तप्रत्यवशङ्काजनितचित्ततोदःसम्भावितः किं नस्यादित्यस्य उक्तं विशेषादिति । विशेषात् विर्गरुडः शेषोऽनन्तः उपलक्षणमेतत् तावत्तीति सः (वि विशेषेण शेषस्य उपसर्जनभूतस्य ब्रह्मादिसमुदायस्य अत् अत्ता) तथा च प्रलयकाले अपराधाभावेऽपि सकल प्राणिहिंसकाय श्रीनृसिंहात्मनः श्रीकृष्णास्य प्रत्यवायजनितचित्ततोदः असम्भावित एवेति भावः ॥ ३४ ॥

पदच्छेदः— मातुः । परिभवहा । अन्यैः । राज्ञा । द्युसदाम् । इतः । च । परिभवहान्यै । अभवत् । नरकमुरारिः । यः । अवात्सीत् । अत्समस्तनरकम् । उरारिः ॥ ३५ ॥

मातुरिति । अत्राद्यपादे परिभवहा अन्यैरिति पदच्छेदः । द्युसदां द्यौः स्वर्गः सत् सदनं येषां तेषां देवानाम् । राज्ञा इन्द्रेण । मानुः स्वमातुः अदित्याः । परिभवहान्यै नरकेण हि अदित्याः कुण्डलापहारेण परिभवः कृतः तत्कृतपरिभवनाशाय । अन्यैश्च मुनिभिश्च । इतः शरणं प्राप्तः । परिभवहा परितोभावः परिभवः संसारस्तस्यहन्ता । श्रीकृष्णः । नरकमुरारिः नरकश्च मुरश्च तौ तता तयोररिः विनाशकः । अभवत् । य उरारिः इकारस्थाने उकारः तृतीयोऽतिशय इति वचनादतिशयार्थः (द्वयोरपिरवर्णयोर्लत्वं विवक्षितम्) लयोरभेदश्च । तथा च इा भूमिः आमर्िार्या यस्य स इाःि वराहरूपस्य हरेः भूदेवता धरा भार्या प्रसिद्धा तदभिप्रायेणेदम् । अथवा भूसज्ज्ञकरमावतारभूता सत्यभामा इाशब्देन ग्राह्या । सा इा आभर्िार्या यस्येत्यर्थः । सत्यभामापतिः कृष्णः । अत्समस्तनरकम् अत अतं व्याप्तं समस्तं स्वमाहात्म्यं तेन नराणां ज्ञानिनां कं मनः द्वितीया सप्तम्यर्थे मनसि । अवात्सीत् अवसत् । उक्तमाहात्म्यवत्तया सकलमानिध्येयोऽभवदिति भावः ॥ ३५ ॥

पदच्छेदः— नीतः । दिवि । देववरैः । रेमे । सत्यासमन्वितः । ओववरैः । सर्वर्तुवने । शशिना । निशि । सत्याम् । वासरे । वने । अशशिना ॥ ३६ ॥

नीत इति । देववरैः देवश्रेष्ठैः । इन्द्रादिभिर्दिवम्प्रति । नीतः (सन्)। दिवि स्वर्गे । सत्यासमन्वितः सत्यभामासमन्वितः । रेमे । कथम्भूतैर्देववरैः । ओववरैः ओवा असुराः तेभ्योवरैरुच्चबलैः । यद्वा अश्चासौ देवश्च ओवो हरिः स वरो वरणीयो येषां ते तथोक्तैः । स्वर्गेऽपि रमणस्थविशेषमाह सर्वर्तुवन इति । सर्वर्तुवने अत्र ऋतुशब्देन तत्कार्यं लक्ष्यते । तथा च सर्वर्तुसम्पद्भिर्वने वननीये सेव्ये । वने नन्दनाख्ये वने । निशि । रेम इत्यन्वयः । ननु निशि प्रकाशशभावेन कथं रमणमित्यत उक्तम् । शशिना चन्द्रेण । निशि रात्रौ । वासरे दिवासमायाम् । सत्याम् । ननु शशरूपकलङ्कोपेतेन शशिना कथं निशा दिवासमा जातेत्यत उक्तं अशशिनेति । शशोऽस्यास्तीतिशशी नशशी अशशी तेन निष्कलङ्केणेति यावत् । नन्दनवन-स्यालौकिकत्वाद्यथा तत्र युगपत्सर्वर्तुसम्पविस्तथा चन्द्रोप्यशशीसन् प्राशते । अतस्तत्र निशायामन्धकारलेशाभावाद्दिवा समता युक्तेति भावः । (श्लोकरूप) पूर्वटीकायान्तु अशशिना शशिभिन्नेन भानुना वासरे सत्यामिति व्याख्यातम् ॥ ३६ ॥

पदच्छेदः— सुरतरुम् । आप । आमितात् । प्रकाशयन् । शक्तिम् । आत्मनः । पामितात् । सुरवरवीरेषु । दरी । प्रधानजीवेश्वरः । परेषुदरी ॥ ३७ ॥

सुरतरुमिति । दरी शङ्खान् ध्मातशङ्खः कृष्णः । सुरवरवीरेषु सुवराश्चते वीराश्च तेषु । आत्मनः स्वसय शक्तिम् । प्रकाशयन् । आमितात् आःि सखी भार्या सत्यभामा तस्याः मतात् ल्यब्लोपनिमित्तां पञ्चमी अभिप्रायमुसृत्य । सुरतरुं पारिजातम् । आप प्राप नीतवान् । कथम्भूतः कृष्णः । पामितात् स्य लत्वं विवक्षितम् । पालाः लोक पालाः अस्य सन्तीति पाली इन्द्रः तस्य मतं अभिप्रायं अत्तीति पालिमतात् इन्द्राभिप्रायनाशक इति यावत् । पुनःकथम्भूतः । प्रधानजीवेश्वरः प्रधानपदं जडमात्रपरं तथा च सर्वेषां जडानां जीवानां चेश्वर इत्यर्थः । इदं च स्वकीयमेव स्वेन नीतमिति प्रदर्शनाय । पुनःकथम्भूत । परेषुदरी परे प्रतिभटाः तेषामिषवो बाणाः (इषुपदोपलक्षितनानाविधायुदानि) तेषां दरः दारणमस्यास्तीति तथोक्तः । अनेन सर्वेऽपि देवास्तत्र पराजिता इति सूचयति ॥३७॥

पदच्छेदः— पुरम् । अभियाय । अरिदरी । दत्वा । भद्राम् । पृथासुताय । अरिदरी । शक्रपुरीम् । अभियातः । प्रादात् । वह्नेः । वनम् । सताम् । अभिया । अतः ॥ ३८ ॥

पुरमिति । (शक्रपुरीमभियात इत्यस्य, वह्नेस्सतामभियात इत्यस्य चावृत्तिः) । सक•ादिति शेषः । अरिदरी अरिः चक्रं दरः शङ्खः तावस्य स्त इति अरिदरी चक्रशङ्खधरः कृष्णः । पुरं द्वारका । अभियाय पुनरागतः । पृथासुताय पार्थाय । भद्रां सुभद्रां स्वावरजाम् । दत्वा । अरिदरी अत्र अरिशब्देन अरिकामो लक्ष्यते । ओः अरिकामस्य सुभद्राविषयक दुर्योधनकामस्य दरः दारणमस्यास्तीति अरिदरी दुर्योधनकामदारणवानित्यर्थः । दुर्योधनस्य हि सुभद्रायां कामोऽभूत् । शक्रपुरी इन्द्रप्रस्थम् । अभियातः पयातस्सन् । वह्नेः । वनं खाण्डवाख्यम् । प्रादात् । कथम् । सतां जरितार्यादीनाम् । अतः वह्नेः । अभिया भयाभावेन । जरितार्यादीन् वह्निमुखाद्रक्ष-यित्वेत्यर्थः । यद्वा सतां युद्धार्तमागतानां इन्द्रादीनां सकाशशत् । अतः अस्यवह्नेः । अभिया भयाभावेन तान् तुच्छीकृत्येति यावत् । शक्रपुरीमभियात इत्यर्थः ॥ ३८ ॥

पदच्छेदः— शिवभक्तप्रवराद्यम् । पुमान् । न । सेहे । गिरीश-विप्रवरात् । यम् । तम । स्वात्मेन्द्रवरेण । व्यधुनोत् । भीमेन । धूतरुद्रवरेण ॥ ३९ ॥

शिवभक्तेति । (अरिदरीति कर्तृपदमनुवर्तते । कोऽपीति शेषः ।) शिवभक्तप्रवराद्यं शिवभक्तानां ये प्रवराः तेषामाद्यं आद्यतया गणनीयम् । यं जरासन्धम् । गिरीशविप्रवरात् गिरीशो रुद्रः विप्रः दुर्वासाः तयोर्वरात् । (कोऽपि) पुमान् काऽपि पुरुषः । न सेहे साढुं शक्तोनाऽभूत् । तं तादृशं जरासन्धम् । स्वात्मेन्द्रवरेण स्वात्मा स्वयं इन्द्रः स्वामी येषां ते स्वात्मेन्द्राः स्वभृत्याः । वैष्णवाः तेषां वरेण श्रेष्ठेन भीमेन निमित्तेन । अरिदरी श्री कृष्णः । व्यधुनोत् जधान । ननु रुद्रवररक्षितं भीमः कथं जघानेत्यत उक्तं धूतरुद्रवरेणेति । धूतरुद्रवरेण धूतः तिरस्कृतः रुद्रवरः येनसतथोक्तः तेन । हिडिम्बादिवधे रुद्रवरस्य तिरस्कृतत्वादत्रापि तथेति भावः । ननु भीमस्य रुद्रवरतिरस्कारः कथमित्यत इदमेवोत्तरं धूतः कम्पितः पराजित इति यावत् । स चासौ रुद्रश्च तस्माद्वरेण श्रेष्ठेनेति । भीमेन हि बहुशो रुद्रः पराजितः अतस्तदपेक्षया भीमो वरः अतस्तद्वरहन्तृत्वमस्य युक्तमेवेति भावः ॥ ३९ ॥

पदच्छेदः— यस्य । आज्ञाबलासारैः पार्थैः । दिग्भ्यः । हृतम् । धनम् । बलसारैः । जित्वा । क्ष्माम् । अविशेषाम् । प्रसह्य । भूपान् । समस्तकामविशेषाम् ॥ ४० ॥

यस्येति । यस्य कृष्णस्य । आज्ञाबलसारैः आज्ञया बलेन चतुरङ्गेण च सारैः सारवद्भिः । (आज्ञया बलं आज्ञाल्धस्ववीर्यं तेन सरन्ति निस्सरन्ति सारयन्तिवा शत्रूनिति तथातैः) बलसारैः बलं सारः स्वरूपं येषां तैः । पार्थैः । दिग्भ्यः । धनं वसु । हृतम् । आहृतम्। किं कृत्वा । क्ष्मां भूमिम् । अविशेषां अशेषाम् । जित्वा । सामस्त्येन वशीकृत्य । पुनः कथम्भूताम् । समस्तकामविशेषां सकलेप्सित-विशेषवतीम् । (समस्तकामाः मोक्षेतरसर्वकामाः तेषां विशेषा अतिशयाः यस्यां सा ताम्) ननु भूपालानविजित्य कथं भुवो वशीकरण -मित्यत उक्तम् । भूपान् प्रसह्या जित्वेति । (यस्येति यच्छब्दस्य स अमरेडित्युत्तरश्लोकेनान्वयः) ॥ ४० ॥

पदच्छेदः— अथ । पार्थान् । क्रतुराजम् । प्रापयत् । अमरेट् । सरुद्रशक्रतुराजम् । पूजा । तेन । अवापि । छिन्नः । चैद्यः । सृतिम् । गतेन । अवापि ॥ ४१ ॥

अथेति । अमरेट् सर्वदेवेशः श्रीकृष्णः । अथ दिग्विजयानन्तरम् । पार्थान् धर्मराजादीन् । क्रतुराजं राजसूयसहितं परमाश्वमेधाख्यं यज्ञश्रेष्ठम् । प्रापयत् प्रापयामास । कथम्भूत क्रतुराजम् । सरुद्र-शक्रतुराजं रुद्रः शिवः शक्रः देवेन्द्रः तुरो वायुः अजो ब्रह्मा तैस्सहित-स्यथोक्तस्तम् । परिवारतया पूज्यब्रह्मादि देवताकमित्यर्थः । तेन कृष्णेन । पूजा अग्रपूजा । अवापि प्राप्ता । चैद्यः शिशुपालः । छिन्नः चक्रेण हतः । अमरेट् तेनेत्यावर्तते । तथा च । अमरेट् श्रीकृष्णः । सृतिङ्गतेन अमुक्तेनापि । तेन चैद्येन तदाविष्टजयेन । अवापि प्राप्तः । सृतिरहितैरेव भगवान् प्राप्यः । अयं तु सृतिस्थोऽपि तं प्रापेत्याश्चर्यमिति भावः । पूर्वटीकायां तु सृतिं गते स्वभृत्ये तत्तारणाय नावा नौस्थानीयेन तेन कृष्णेनेति व्याख्यातम् । तत्र अपिशब्द-स्योत्तरश्लोकेनान्वयः । सौभकरूशावपि तेन निहताविति ॥ ४१ ॥

पदच्छेदः— निहतौ । सौभकरूशौ । शीतः । भातः । च । येन । तौ भकरूशौ । अजयत् । रुद्रम् । च । रणे । बाणार्थे । अवनतिपतितकचन्द्रं । चरणे ॥ ४२ ॥

निहताविति । येनेति यच्छब्दबलात्तेनेति लभ्यते । सौभकरूशौ सौभः साल्वः करूशः दन्तवक्रः तौ । तेन कृष्णेन । निहतौ । यदासाल्वेन युद्धं कृतं तदा कृष्णस्तन्मायया मोहित इति भारतादौ कथ्यते । तदसुरजनमोहनायैवेत्याशयेन चन्द्रसूर्योपलक्षितसर्वदेव-प्रवर्तकत्वरूपं महत्त्वं तस्याह शीत इत्यादिना । यः शीतः चन्द्रः यः भातश्च कर्तरिक्तः भासकः सूर्यश्च तौ । येन यत्प्रेरणया । भ(भा) करूशौ । जाताविति शेषः । चन्द्रः भकः भासकः जातः । सूर्यः रूशः आधिक्येन कान्तिमान् जात इत्यर्थः । किञ्च यस्य मोहोऽ-सम्भावित एवेत्याशयेनाह अजयदिति । यः रुद्रं च । रणे बाणा-सुरयुद्धे । अजयत् । कथम्भूतं रुद्रम् । बाणार्थे बाणासुररक्षणार्थम् । चरणे चरणयोः । अवनतिपतितकचन्द्रम् अवनतिर्मक्ति-पूर्वकप्रणामः तया पतितः कचन्द्रः शिरोगतचन्द्रो यस्यस तथोक्तः तम् । अनेन रुद्रेण शिरःसंयोगमात्रं नकृतं किन्तु भक्तिदार्ढ्येण चरणे शिरस्सन्घट्टन-मेव कृतमिति सूचयति । न केवलं कृष्णो रुद्रं जितवान् अपितु बाण-रक्षणेच्छया तेन प्रणतश्च अतस्तस्य मोहोऽसम्भावित एवेति भावः ॥

पदच्छेदः— असृजत् । ज्वरम् । उग्रतमःक्षयप्रदः । लीलया । अधिवरमुक् । रतमः । क्रीडामात्रम् । विश्वम् । प्रकाशयन् । आत्मनः सविहरकमात्रम् । विश्वम् ॥ ४३ ॥

असृजदिति । (कृष्ण इति शेषः) शिवभृत्योज्वरः बाणासुरपुर-रक्षणाय शिवेन नियोजितः । तज्जयाय ज्वरं वैष्णवं ज्वरम् । लीलया क्रीडयैव । असृजत् । कृष्ण इत्यर्थः । कथम्भूतः कृष्णः । उग्रतमःक्षयप्रदः उग्राः दैत्याः तेषां तमसि क्षयो निवासस्तस्यप्रदः । अनेन बहवो बाणभृत्या हता इति सूचयति । उग्रो रुद्रः तदज्ञाननाशप्रद इति वा । पुनः कथम्भूतः । अधिवरमुक् बाणपुत्र्याः उषायाः अधिकोवरः अनिरुद्धः तं मोचयतीति तथोक्तः । बाणबद्धा-निरुद्धमोचक इत्यर्थः । बाणयुद्धमध्ये भगवता कृष्णेन यदशक्त्यादिकं प्रदर्शितं तन्मोहकमेवेत्याशयेन तस्य माहात्म्यमाह रतम इति । रता मा रमा यस्मिन्निति स रतमः । रमाया अपि रतिप्रद इत्यर्थः । विश्वं सर्वम् । विश्वं जगत् । आत्मनः स्वस्य । क्रीडामात्रं क्रीडया मातं निर्मितं त्रातं रक्षितञ्च । प्रकाशयन् । लीलयाज्वरमसृजदित्यन्वयः । कथम्भूतं विश्वम् । सविहरकमात्रं विः गरुडः हरो रुद्रः कः प्रजापतिः मात्रशब्दः कार्त्स्न्यार्थकः प्रत्येकमभिसम्बध्यते । कृत्स्नाश्चते विहरकाश्च विहरकमात्राः तैस्सहितं तथाचातीतानागतवर्तमानाः ये गरुड-रुद्रजापतयः तैस्सहितमित्यर्थः । यद्वा स इति भिन्नं पदम् । सः कृष्णः । प्रतिज्वरविसर्जने भगवतोऽभिप्रायमाह क्रीडामात्रमिति । विहरकमात्रं विहरकै। गरुडरुद्रविरिञ्चैः मात्रं निर्मितं रक्षितञ्चेत्यर्थः । विश्वं स्वस्य क्रीडामात्रं क्रीडयैव निर्मितं त्रातञ्चेत्यर्थः । ब्रह्मादिनिर्मित मपीदं विश्वं मदधीनमेवेति दर्शयन्निति भावः ॥४३॥

पदच्छेदः— यस्य । आवेशोरूबलात् । न्यहनत् । पार्थः । असुगन् । प्रजेशेरुबलान् । वरदानात् । अस्य । एव । जगत्प्रभोः । ईरणात् । समनुगतनादस्य । एव ॥ ४४ ॥

यस्येति । यस्य कृष्णस्य । आवेशोरुबलात् आवेशनिमित्त-कोत्कृष्टसामर्थ्यात् । पार्थः अर्जुनः । प्रजेशोरुबलान् प्रजेशा रुद्राद्याःतेषां उरुः उत्कृष्टः बलो वरो येषां ते तथा तान् । असुरान् निवातकवाचादीन् । न्यहनत् जघान । केवलमावेशबलात् किन्तु अस्य कृष्णस्य । वरदानादेव ‘यावद्धूमावहं तावन्नामुञ्जेष्यति कश्चनेति’ वरादेवेत्यर्थः । अन्यदपिनिमित्तमाह समनुगतनादस्य । अगत्प्रभोरी-रणादेवेति । सम्मुख्ययावृत्त्याऽनुगतो वाचको नादः शब्दो यस्यस तथा । तस्य पार्थशब्द मुख्यवाच्यस्य जगत्प्रभोरन्तर्यामिणः प्रेरणादेव चेत्यर्थः । इदमुपलक्षणम् । बलभीमादयोऽपि बलभीमादिशब्दमुख्य-वाच्यस्य स्वान्तर्यामिणः कृष्णस्य प्रेरणादेवासुरान् न्यहनन्नित्यपि ग्राह्यम् । उक्तं हि ‘बलभीमपार्थव्याजाह्वयेन हरिणा निलयं तदीयमिति’ तथा च भीमादिकृतमसुरहननादिकं कर्म कृष्णेनैव तदन्तर्यामिणाकृतम् । ते तु तत्र निमित्तमात्रभूता इति भावः ॥ ४४ ॥

पदच्छेदः—यस्य । आवेशात् । सः । बलः । प्रचकर्ष । पुरम् । प्रसह्य । च । ईशात् । सबलः । कुरुपतिनाम । नु । यमुना । आकृष्टायेन । आहुः । अर्ध्यम् । अतनु । यं । उना ॥ ४५ ॥

एतदेव दर्शयति यस्येति ।

सः प्रसिद्धः । बलः बलभद्रः । यस्य कृष्णस्य । आवेशात् (शुक्लकेशरूपेण प्रवेशात्) कुरुपतिनाम कुरुपतिर्हस्तिना नृपः तस्य नाम यस्य तत्तथा हस्तिनामवत् । अतनु महत् । पुरम् । प्रसह्य हठात् (लाङ्गलाग्रेण) । प्रचकर्ष । नु अनन्तरम् । ईशात् तत्पुरेशात् दुर्योधनात् । सबलः सवरः दुर्योधन-सुतायाः लक्षरायाः यो वरः साम्बः तेन सहितः । चशब्दोऽनुक्त-समुच्चयार्थः । तथा च पूजां प्राप्य ययाविति तदर्थो ज्ञातव्यः । यद्वा पूजां प्राप्य ययावित्यध्याहारः । चशब्दस्योत्तरत्रान्वयः । नु अनन्तरं (गोकुले) । येन बलभद्रेण । यमुना च आकृष्टा । यं बलभद्रम् । उना रुद्रेण । अर्घ्यं पूज्यम् । आहुः । वैदिका इति शेषः । यच्छब्दस्य पूर्वेण स इत्यनेनान्वयः । अनेन बलराम सामर्थ्येनैव नागपुरयमुना-कर्षणादिकं न कृतम् । किन्तु तदन्तर्यामिकृष्णे न कृतं रामस्तु निमित्तभूत इति सूचयति ॥ ४५ ॥

पदच्छेदः— यद्बलवान् । क्रोधवशात् । निनाय । नाशम् । वृकोदरः । क्रोधवशात् । लेभे । अचान्या । गम्यम् । स्थानम् । पुष्पाणि धाम । च । अन्यागम्यम् ॥ ४३ ॥

यद्बलवानिति । (लेभे इत्यावर्तते) यद्बलवान् यस्य कृष्णस्य बलवान् वरवान् अनुग्रहवानित्यर्थः । क्रोधवशात् एते हरिद्रोहिण इति कोपाटोपवशात् । वृकोदरः भीमसेनः । क्रोधवशान् तन्नामकासुरान् । नाशम् । निनाय प्रापितवान् । अचान्या जकारस्थाने चकारः तृतीयोऽतिशयार्थः । अजान्या भाविब्रह्माण्येति यावत् द्रौपद्या । उक्त इति शेषः । गम्यम् । स्वेनैवेति शेषः । स्थानं सौगन्धिकपुष्प-स्थानम् । लेभे प्राप । तत्र पुष्पाणिच लेभे । ततः अन्यागम्यं धाम । कुबेरस्येति शेषः । लेभे ॥ ४६ ॥

पदच्छेदः— यद्बलभारवहत्वात् । न । अचलत् । उरगादिभिः । सुभारवहत्वात् । धर्मात् । अरिहा । अपि । पदम् । भीमः । येन । एव । साहसम् । रिहा । अपि । पदम् ॥ ४७ ॥

यद्बलेति । (नाचलदित्यस्य अपिपदस्यचावृत्तिः) भीमः । यद्वबलभारवहत्वात् यस्य कृष्णस्य बलो वरः आज्ञारूपः अस्मिन् समये भीमेनैवमेव स्थातव्यमितितत्तत्कालीनसङ्कल्प इति यावत् स एव भारः तद्वहत्वात् । उरगादिभिः उरगरुपनहुपधर्मद्रौणिभिः । बद्धोपीति-शेषः । पदं पादमात्रम् । नाचलत् । सुभारवहत्वात् धर्मादपि (नाचलत्) सुभाशोभनाकान्तिः अध्ययनजनितं तेजः तत्रैव रः रतिः अन्योिपयोगरहिताऽसक्तिरिति यावत् । तं वहतीति वहः तस्य-भावस्तत्वं तस्मात् तल्लक्षणधर्मादपीत्यर्थः । नाचलत् । क्षत्रियस्य विद्यासम्पादिततेजसोऽन्यत्र स्वजीवनादौ व्ययाकरणं मुख्यधर्मः अतस्तद्वहत्वान्नहुषधर्मकृतप्रश्नपरिहारेण नारायण•स्त्रनमनेन च स्वात्मविमोक्षणं नैच्छदिति भावः । ननु कुत एवं कल्प्यते । अशक्त एव नाचलदिति किं नस्यादित्यत उक्तं अरिहापीति । वैरिहनने शक्तोपीत्यर्थः । एतच्चोत्तरश्लोके स्पष्टयिप्यति । ननु शक्तोऽपि हरिसङ्कल्पवशात् नाचलदिति नयुक्तम् । तथात्वे ‘नैतादृशं साहसं तेऽनुरूपमिति’ भीमं प्रति मुनिवचनानुपपत्तेः । योहि बलाबलमजानन् किञ्चित्करोति तत्रैव साहसपदं प्रयोक्तव्यमित्याशङ्कायामाह साहस-मिति । सहः वायुः तत्सम्बन्धिसाहसं तदभिम्यमानं नहुषगतधर्म-जातम् । रिहैव लिप्सतैव रस्यलत्वम् । आदातुमिच्छतैव । येन भीमेन । पदं साहसमिति पदं मुन्यादिलोकोक्तम् । आपि प्राप्तम् । नत्वशक्तेनेत्यर्थः । तथा च भीमाभिप्रायमजानद्भिरेव मुनिभिः भ्रमेण तथोक्तमिति भावः ॥ ४७ ॥

पदच्छेदः— न । हि । नहुषः । अलम् । नहितुम् । धर्मः । द्रौणिः । तथा । इतराः । अलम् । नहितुम् । नो । राट् । कर्णः । ब्रह्मवरी । येन । ध्वस्तः अस्त्रम् । अग्रहीत् । सः । ब्रह्म । वरी॥ ४८ ॥

नहुषादीनां भीमोपेक्षयैव बन्धकत्वं न स्वसामर्थ्येनेत्याह नहीति ।

यथेति सिद्ध्यति । भीममिति शेषः । (यथा) इतरः उपेक्षाऽभावकालीनोदुर्योधनादिः । (भीमम्) नहितुं बद्धम् । नोऽलं न समर्थः । तथा उपेक्षाकालीनोऽपि । नहुषो वा । धर्मो वा । द्रौणिर्वा । तं भीमम् । नहितुम् । अलं समर्थः । न हि स्वसामर्थ्येन बद्धं शक्तो नेत्यर्थः । हिशब्देन पूर्वप्रसिद्धयद्बलभारवहत्वादिति हेतुं स्मारयति । नन्वितरो नहितुं नालमित्युक्तं तत्कुतो ज्ञायत इत्यतस्तेन तल्लयस्यैव कृत्वात्तदनुमेयमित्याशयेनाह राडिति । राट् दुर्योधनादिदुष्टराजसमुदायः । (ब्रह्मवरी परशुरामवरवान्) कर्णः । ब्रह्मवरी ब्रह्मवरवान् जरासन्धश्च । येन भीमेन । ध्वस्तः जितः । अर्जुनस्य कर्णवधे भीम एवोपजीव्य इत्याशयेन कर्णोऽपि ध्वस्त इत्युक्तम् । पररुरामवरगौरवस्यापि रक्षणायैव भीमेनोपेक्षितः कर्णः तं बबन्धेति दर्शयितुं कर्णग्रहणम् । ननु द्रौणेर्नहुषादिवत् उपेक्षितस्यैव बन्धकत्वं नस्वत इत्युक्तम् । तदयुक्तम् । युद्धे प्रतिवीरतयास्थितस्योपेक्षायोगात् । राजादिवद-लीनत्वाच्च नतस्य स्वबन्धकत्वं ज्ञात्वोपेक्षितुं शक्यत इत्यत आह । वरी बली । ब्रह्म ब्राह्मणजातिः । सः द्रौणिः । पराजितस्सन् इति शेषः । अस्त्रं ब्रह्मास्त्रम् । अग्रहीत् असृजत् । अयं भावः । युद्धे दुर्योधनादिरिव द्रौणिर्न भीमेन हतः ब्राह्मणवधस्य गर्हितत्वात् किन्तु पराजित एवसन् पाण्डववंशप्रणाशाय ब्रह्मास्त्रमसृजत् तदाभीमस्तेन ब्रह्मास्त्रेण द्रौणिमुपेक्ष्यास्त्रदेवताभूतविष्णुगौरवेणैव बद्धवत्स्थितः अतो युद्धगतोऽपि द्रौणिः विष्णुबलभारवहेन भीमेनोपेक्षितस्सन् तं बबन्ध न स्वसामर्थ्येनेति ज्ञायत इति । (सुब्रह्मवरीतिपाठे सुब्रह्मवरीत्येकं पदम् । सु सर्वोत्तमं ब्रह्म हरिः तस्यवरः उत्तमः सङ्कलपः अस्मिन् समये भीमेनैवमेव स्थातव्यमिति तत्परिज्ञानवान् भीमः अस्त्रं द्रौण्यवस्त्रं अग्रहीदित्यर्थः) ॥ ४८ ॥

पदच्छेदः— क्षात्रम् । धर्मम् । स्ववता । गुरुवृत्त्यै । केशवाज्ञया। चरमम् । स्ववता । सर्वं । सेहे । (अ)मनसा । भीमेन । ईशैकमानिना । हेमनसा ॥ ४९ ॥

उक्तेमेव सम्यक् पिण्डीकृत्य दर्शयति क्षात्रमिति ॥

क्षात्रम् । धर्मम् । स्ववता सम्यक्रक्षता । भीमेन । सर्वं वैरिकतम् ।चरमं दण्डरुपमनिष्टम् । मनसा प्रसक्तानिष्टस्य तुच्छताबुद्ध्या । सेहे क्षान्तम् । अनुभूतमिति यावत् । अत्र निमित्तं गुरुवृत्त्यै गुरवो युधिष्ठिरादयः तनुवृत्त्यै । केशवाज्ञया चेति । अत्र दृष्टान्तमाह स्ववतेति । स्ववता लुप्तोपमा स्वं धनमस्यास्तीति स्ववान् तेन सववता (लीनवित्तवता तद्रक्षणार्थं राजादिकृतं सर्वमनिष्टमनुभूयते । न तु तस्य वित्तस्य व्ययःक्रियते एवमेवेति) स्वसम्पादितवित्तसंरक्षणार्थं राजादिकृतानिष्टानुभववतेवेति यावत् । अशक्तेनैवेदं सर्वमनुभूत-मित्याशङ्क्य तत्परिहाराय अमनसेत्यपि योज्यम् । अमनसा नासिकावानिम् शब्दस्तदभिमानियुवाच्कः तथा च अमो अपरिमितः यो नस् वायुः तद्रूपेणेत्यर्थः । अपरिमितवायुस्वरूपे भीमे शक्तिर-सम्भाविता नेति भावः । उक्तशङ्कापरिहारयैव हेतुद्वयं वक्तुं विशेषणद्वयेन विशिनष्टि ईशैकमानिना । हेयनसेति । ईशेन सहैकस्मिन्विषयेन मानं ज्ञानमस्यास्तीति ईशैकमानी तेनेत्यर्थः । ईशो यन्मन्यते तदेव भीमोऽपि मन्यत इति भावः । हेम शब्देन आकेशा-दाप्रणखाद्धेमरूप ईश्वरो ग्राह्यः तस्य नस् नासिका (आग्राणकर्त्री) यस्य तसथोकतस्तेनेत्यर्थः । तदत्यन्तप्रियेणेति यावत् । तथा च ईश्वर-बुद्ध्यनुसारेण ज्ञात्वा कार्यकर्तरि तदत्यन्तप्रिये च शक्तिस्सम्भावितैवेति भावः ॥ ४९ ॥

पदच्छेदः— यद्भक्तप्रवरेण । प्रोतः । स्वस्मिन् । सः । कीचकः । प्रवरेण । पतिताः । तस्य । सहायाः । कृष्णार्थे । मानिनः । सम् । अस्य । सहायाः ॥ ५० ॥

यद्भक्तेति । यद्भक्तप्रवरेण यस्य श्रीकृष्णस्य भक्तेषु प्रवरेण श्रेष्ठेन । अत एव प्रवरेण प्रबलेन भीमेन । सः प्रसिद्धः । कीचकः । स्वस्मिन् स्वशरीरे । प्रोतः प्रवेशितः । गुदे प्रवेशितशिर आदिर्जातः मृत्युं प्रापित इति यावत् । मानिनः गर्ववतः । तस्य कीचकस्य । सहायाः (पूर्वं) सहायभूताः अन्ये उपकीचकाः । मानिनः गर्ववन्त इति वा । अस्य कीचकस्य । सहायाः सहभूताः कीचकशरीरमादायगताः । कृष्णार्थे द्रौपदीरक्षणार्थे तेनैव सम्पतिताः प्रपातिता इत्यर्थः ॥ ५० ॥

पदच्छेदः— यद्भक्त्या । अनुगृहीतौ । पार्थः । भीमः । च । गोनृपौ । नु । गृहीतौ । ऋणमुक्त्यै । सुवत्यत्यस्त्यै । क्रमशः । वीरौ । अमुञ्चताम् । सुव्यत्यस्त्यै ॥ ५१ ॥

यद्भक्त्येति । पार्थो भीमश्च (इत्येतावितिशेषः) एतौ वीरौ । यद्भक्त्या यस्य कृष्णस्य भक्त्या । अनुगृहीतौ यद्भक्तिसम्पादिता-नुग्रहवन्तौ सन्तौ । नु निश्चयेन । गृहीतौ । (कौरवैरितिशेषः) गोनृपौ गोशब्दो जात्येकवचनः गौः गोसमुदायः नृपः मत्स्यराजश्च तौ । क्रमशः पूर्वपरदिनयोः । अमुञ्चताम् । अमोचयताम् । पूर्वदिने भीमः गोनृपावमोयत् । परदिने पार्थो गा अमोचयदिति विवेकप्रदर्शनाय क्रमश इत्युक्तम् । किमर्थम् । ऋणमुक्त्यै संवत्सरपर्यन्तं विराटवित्तं पाण्डवैर्भुक्तं तत्प्रत्युपकारायेत्यर्थः । प्रयोजनान्तरमाह सुव्यत्यस्त्यै सु सम्यक् वि विशेषेण अति अज्ञातवासमतिक्रम्य अस्तिः असनं स्थितिरिति यावत् तेन तत्प्राकट्यं लक्ष्यते । तथा चाज्ञातवासं सम्यग्विशेषेणातिक्रम्य स्वस्थितिप्राकट्यायेत्यर्थः । कथम्भूतायै स्वस्थित्यै । सुव्यत्यस्त्यै सु सम्यक् व्यत्यस्तिः व्यत्यासः स्वामिभृत्य-भावव्यत्यसासः यस्यांसा तथोक्ता तस्यै । अमातवासे हि विराटः स्वामी पाण्डवाः भृत्याश्चाभवत् । तदपगमानन्तरं पाण्डवेषु स्वस्व-रूपेणावस्थितेषु तत्स्थितस्य स्वामिभृत्यभावस्य व्यत्यासोऽभूदिति भावः ॥ ५१ ॥

पदच्छेदः— यद्भक्त्या । अमितया । अलम् । कृष्णा । कार्ये । विवेश । कृष्णाकार्ये । याम् । ईरार्धतनुत्वात् । न । आप । आत् । भीमात् । ऋते । अपि । ना । अपात् । भीमात् ॥५२॥

यद्भक्त्येति । कृष्णा द्रौपदी । अमितया यद्भक्त्या । अलं उत्तमे । कार्ये कर्तव्यविषये । विवेश आसक्ताऽभूत् । कथम्भूतेकार्ये । कृष्णा-कार्ये कृष्णः आकार्यः आकारणीयः ‘हाकृष्णा द्वारकावास क्वासि यादवनन्दनेऽत्येवंरूपेण व्याहर्तव्यः (आह्वातव्यः) यस्मिन् तत्तथोक्तं तस्मिन् । यां द्रौपदीम् । भीमादृते भीमं विना अन्योऽपि । ना पुमान् । नाप । कुतः ? ईरार्धतनुत्वात् ईरो वायुः तदर्थदेहत्वात् । ननु पार्वत्यादीनां रुदाद्यर्धदेहत्वेऽपि यथाऽन्यपुरुषप्राप्यत्वं तथा द्रौपद्या अपि किं न स्यादित्यत उक्तं अपात् भीमात् आदिति । नविद्यते पः पालकः यस्य सः अपः तस्मात् । भीमात् शत्रुभयङ्करात् । आत् अकारशब्दवाच्यात् हरेस्सकाशात् (सङ्कल्पात्) त्वां नान्योमारुतात् स्पृशेदिति हरिकृतनियमादिति यावत् । हरिकृतनियमोऽन्यैरनुल्लन्ध्य इति दर्शयितु अपाद्भेमादिति तस्य हरेर्विशेेणद्वयमिति ज्ञातव्यम् ॥५२॥

पदच्छेदः— याम् । स्प्रष्टम् । इच्छन्तम् । अजातशत्रुम् । न्यवारयत् । स्वःस्थम् । अजातशत्रुम् । शंरूपाने । नित्यणतेः । इयम् । श्रीः । इति । स्म । देवेट् । यदितेः । इयम् । श्रीः ॥५३॥

यामिति । देवेट् देवेन्द्रः । स्वःस्थम् स्वर्गस्थम् । अजातशत्रुं न जातःशत्रुर्र्यस्यस तथात् । अजातशत्रुं युधिष्ठिरम् । यां श्यामाद्य-सम्पृष्टां भारतीम् । पूर्वसंस्कारात् स्प्रष्टुं इच्छन्तं न्यवारयत् । कुतो न्यवारयदित्यतस्तत्र हेतुं वक्तुं तस्यां भारत्यां श्रीशब्दं निर्वक्ति शंरूपान इति । शरूपाने शंरूपः सुखरूपश्चासावनः वायुश्च शंरूपानः तस्मिन् । नित्यरतेः नित्यं नियमेन रतेः रमणात् । इयं भारती । श्रीः श्रीशब्दवाच्येतिहेतोरित्यर्थः । अनेन तस्याः अन्यस्पर्शा-योग्यत्वादिति हेतुरुक्त इति ज्ञातव्यम् । ननु तर्हि पूर्वं युधिष्ठिरः कथमिमां स्पृष्टवानित्यत उक्तं यदितेरियं श्रीरिति । यातीति यत् वायुः तेन इतेः सम्बन्धात् । युधिष्ठिरादीनामिति शेषः । इयं द्रौपदी । श्रीः संश्रिता श्यामादिभिरितिशेषः । तथा च पूर्वं युधिष्ठिरादिषु वायुराविष्ट आसीदिति स्वयमपि श्यामाद्यन्वितासती स्पर्शयोग्याऽऽ-सीदित्यर्थः । इदानी तु नतथेत्याशयेनाप्याह इयं श्रीरिति । इयं नीरित्यावर्तते । इशब्दः कामवाची तथा च इना कामेन इच्छया युधिष्ठिरादिकं परित्यज्य यातीति इयः इयमेव वायुमेव श्रीः श्रिता अन्यादेवी परित्यज्येतिशेेषः । अतोन्यवारयदिति भावः । अत्र यामित्यस्य सा कृष्णेति पूर्वश्लोकस्थकृष्णेत्यनेनान्वयः ॥ ५३ ॥

पदच्छेदः— मनसाम् । अनसा । अमनसा । मनसा । यम् । अनन्तम् । अजस्रम् । अवेत् । अनुया । विलम् । विलयम् । विः। अयम् । विलयत् । निखिलम् । तु । अशुभम् । प्रचकार । च । या ॥ ५४ ॥

किञ्च या नारी स्वभर्त्रसन्निहिता विषयासक्त्या हरिविस्मरणशीला च तस्या एव कथञ्चित्परपुरुषसंयोगादिजनितं पापं सम्भावितं द्रौपदी न तथा किन्तु स्वभर्त्रा वायुनासह सर्वदा हरिस्मरणशीलैव अतो न तस्याः धर्मादिसंयोगजनितं पापं सम्भावितमित्याशयेनाह मनसेति ।

या च द्रौपदी च । यं वायुम् । अनुया अनुसृत्ययातीत्यनुया । यदनुसारिणीति यावत् । यच्छब्दबात्तेनेति सिद्ध्यति । तेन वायुनासह मनसा निष्काममनसै अनन्तं हरिम् । अजस्रं निरन्तरम् । अवत् अस्मरत् । तां स्प्रष्टुमिच्छन्तं न्यवारयदिति पूर्वेणसम्बन्धः । कथम्भूतेन वायुना । मनसां सर्वमनसां अनसा शकटेन तत्स्थानीयेनेत्यर्थः । सर्वमनसामाश्रयेणेति यावत् । पुनः कथम्भूतेन । अमनसा नविद्यते मा मर्यादा त्रिविधपरिच्छितित्तः यस्यसोऽमः अनन्तः तस्य नस् नासिका आघ्राणकर्त्री यस्य स तथा तेन विष्णुना स्नेहवशादवघ्रातेनेति यावत् । या इत्यस्य लिङ्गव्यत्ययेनावृत्तिर्विवक्षिता । विलयमित्यत्ररलयारभेदेन विः अयमिति पदच्छेदो विवक्षितः । तथा च या यः । अयं बुद्धिस्थः । विः विष्णुः । तु विशेषेण । स्मृर्तॄणा-मितिशेषः । अशुभं पापाम् । विलयं विशेषेण लयो यस्य तत्तथा विनष्टमिति यावत् । सत् प्रचकार तमित्यन्वयः । कथम्भूतमशुभम् । विलयं विशिष्टो लयो स्यः दुःखदाने वेगो यस्य तत्तथा । पुनःकथम्भूतम् । निखिलं मानभक्त्यादिकम् । विलयत् विलापयत् नाशयदित्यर्थः ॥ ५४ ॥

पदच्छेदः— सः । अगात् । दूतमुखेन । प्रभुणा । इदम् । वर्तते । यत् । ऊतम । ऊखेन । पार्थार्थे । बहुतनुताम् । यत्र । प्राकाशयत । स्वयम् । सबहुतनुताम् ॥ ५५ ॥

सोऽगादिति । सः श्रीकृष्णः । दूतमुखेन दौत्यमुखेन (दूतत्वस्यप्रदर्शनेन) । अगात् । कुरून्हन्तमितिशेषः । अथवा तेषां वध्यत्व (मथयस्थत्व) निश्चयायेतिशेषः । यत् येन् । प्रभुणा । ऊतं रक्षितम् । इदं जगत् (पाण्डवकुलंवा) वर्तते प्रवर्तते । स इत्यन्वयः । अनेन रक्षितजगन्मध्ये कुरूणामप्रविष्टत्वोक्तिबलेन तेषां बध्यत्वनिश्चयो लब्ध इति । ज्ञातव्यम् । कथम्भूतेन प्रभुणा । उखेन (उ उत्कृष्टं खं ज्ञानं यस्य स तेन) उच्चखेन उच्चज्ञानेन । अथवा ऊतं स्वाभिप्रेतं इदं कौरवकुलम् । पार्थार्थे पार्थसन्तानार्थे । ऊतं रक्षितमिति व्याख्येतम् । यत्र कौरवसभायाम् । बहुतनुतां (बह्वी विस्तृता तनुर्यस्यसः तस्यभावस्तत्ता ताम् ।) प्रकाशयत् । स्वस्य बन्धायोग्यत्व प्राकट्यायेतिशेषः । यत्र सैन्यद्वयमध्ये । प्राथार्थे अर्जुनाय । बहुतनुतां स्वस्य विश्वरूपताम् । प्राकाशयत् प्रकटं कृतवान् इति वा । अत्र स्वस्यैवर्ससंहर्तृत्वप्रदर्शनायेति शेषः । स्वयं स्वतन्त्रः । स इत्यस्य-विशेषणमिदम् । कथम्भूतां बहुतनुताम् । सबहुतनुतां बहुभिर्गुणैः तनुः विस्तृतिः तस्याः भावः बहुतनुता तया सहिता तामित्यर्थः । अत्र ऊतं, पार्थार्थे, बहुतनुतां, यत्र, प्रकाशयत्, इत्येतेषामावृत्तिः ॥५५॥

पदच्छेदः— गुरुकर्णनदीजादीन् । अवधीन् । चक्षुर्बलेन । जनदीजादी । ईन् । शक्त्या । निजया । परवान् । स्वजात् । उद्रेचयन् । अनन्तया । अपरवान् ॥ ५६ ॥

गुरुकर्णेति । स इत्यनुवर्तते । सः कृष्णः । गुरुकर्णनदीजादीन् द्रोणकर्णभीष्मादीन् चक्षुर्बलेन दृष्टिसामर्थ्येन । अवधीत् हतवान् । ‘परसैनिकायुरक्षणा हृतवती’ति वचनात् । कथम्भूतः कृष्णः । जनदीजादी अत्र नकारस्थाने दकारस्तृतीयोऽतिशयार्थः । तथा च जननी लोकमाता रमा तस्यां जायत इति जननीजः विरिञ्चः तस्य अदः अदनं अस्यास्तीति जननीजादी । प्रलयकाले विरिञ्चमपि यः संहरति तस्य गुरुकर्णनदीजादिहननं तुच्छमेवेति भावः । अत एवोक्तं चक्षुर्बलेनेति । पुनः कथम्भूतः । ईन् ईकारो लक्ष्मीवाची तथा च स्वजनात् ई लक्ष्मी नयन् प्रापयन् । परवान् शत्रुहन्तृत्वात् शत्रुसहित इत्युच्यमानः । वसतुतस्तु अपरवान् शत्रुरहितः द्वेषादिदोषाभावेन द्वेष्यशत्रूणामप्यभावात् । ततश्च भक्क्तवत्सलतयैव । तस्य दुर्योधनादिवैरिहन्तृत्वं न स्वप्रयोजनायेत्युक्तं भवति । यद्वा परशब्द उत्तमपरः । तथा च निजया शक्त्या तृतीया पञ्चम्यर्थे । निजशक्ते-रपि । स्वजनान् भीष्मादीन् । उद्रेचयन् अधिकशक्तियुक्तान् प्रदर्शयन्सन् । परवानित्यच्यमानः । वस्तुतस्तु अपरवान् स्वतः उत्तमशून्यः । कुतः ? निजयां अनन्तया । शक्त्या युक्तः । अनेन स्वाभाविकानन्तशक्तियुक्तत्वादिति हेतुरुक्त इति ज्ञातव्यम् । अत्र निजया, शक्त्या, परवान्, अपरवान्, इत्येतेषामावृत्तिः ॥ ५६ ॥

पदच्छेदः— यस्य । सुनीतिसहायात् । न । रिपून् । मेने । अर्जुनः । समेतसहायान् । अकरोत् । च आसु । परासुप्रततिम् । सेनासु । धावनासुपरासु ॥ ५७ ॥

यस्येति । यस्य श्रीकृष्णस्य । सुनीति सहायात् (सुसम्यक् तत्तत्समयानुसारेण नीतिः रथनयनं रथसञ्चरणं तदेव सहयः तस्मात्) सारथ्यात् तदीयशोभननीति रूप सहायाच्च । समेतसहायान् समेतान् मितिान् सहत इति समेतसहः सचासौ आसमन्ताद्यातीति समेतसहायान् स तथोक्तः अर्जुनः । रिपून् न मेने एते रिपवो मद्युद्धयोग्या इति न ज्ञातवानित्यर्थः । आसु सेनासु । परासुप्रततिं परासवोन्तर्गतप्राणाः । तेषां प्रततिं प्रकृष्टां विस्तृतिं (मृतानां विततिं) अकरोच्च । कथम्भूतासु । धावनासुपरासु अत्र असुशब्देन तद्रक्षणं लक्ष्यते । तथा च धावनेन पलायनेन असुरक्षणं प्राणरक्षणं परं उद्देश्यं यासां तास्तथोक्ताः तास्वित्यर्थः ॥ ५७ ॥

पदच्छेदः— येन । जयद्रथमारः । पात्रा । शत्रून् । अवापतत् । रथमारः । यद्विरहात् । अपि । देहे । सः । रथः । शश्चत् । स्थितेः। सदात् । अपि । देहे ॥ ५८ ॥

येनेति । अर्जुन सत्यनुवर्तते । येनेति यच्छब्दबलात्तेनेति लभ्यते । पात्रा सारथिभावमाश्रित्य पालकेन । तेन श्रीकृष्णेन सारथिना । जयद्रथमारः सैन्धवमारकस्सन् । शत्रून् । अवापतत् अवधीत् (अगमात्) । कथम्भूतोऽर्जुनः । येन सारथिना । रथमारः रथस्य मा श्रीः तया रमत इति तथोक्तः । रथशोभाजनितसुखविशेषवानिति यावत् । एवं हर्यधीनशोभः सः रथः । यद्विरहात् यस्य श्रीकृष्णसहायेन बाह्यरथे सुखवान् किन्तु देहेऽपि शरीरेऽपि । शश्वत् एक प्रकारेण । स्थितेः सन्निधानात् । कृष्णस्येतिशेषः । सदात् सत् प्रशस्तं कर्म तज्जन्यं सुखविशेषमिति यावत् । आसम्यगत्तीति तथोक्तः ॥ ५८॥

पदच्छेदः— यद्भरितः । भरताभः । प्रभुः । अ(अं) भाभावितः । अभिभरताभः । भीमः । रभसा । अभिभवी । प्रसभम् । भाभाभिभूः। भासा । भिभवी ॥ ५९ ॥

नकेवलमर्जुन एव कृष्णानुग्रहेरैव जयादिकं प्राप्तः किन्तु भीमोऽ-पीत्याह यद्भरित इत्यादिश्लोकचतुष्टयेन । यद्भरित इति ।

यदित्यस्यावृत्तिः । यच्छब्दबलावच्छब्दः सिद्ध्यति । आवर्तते च । तथा च भीमः भीमसेनः । यत् यस्मात् । यद्भरितः येन भरतनामकेन हरिणा भरितः पूर्णः । तस्मात् भरताभः हरिसदृशः (१) । अथवा भरतो वायुः तस्याभेदवाभा यस्य सः तदवतारत्वात्तत्सदृश इत्यर्थः (२) । यद्वा भरतो राजा तं आसम्ताद्भासयतीति भरताभः तत्कुलेस्व-यमुत्पन्नस्सन् तत्प्रसिद्धिं करोतीति यावत् (३) । पुनः कथम्भूतः । अम्भाभावितः अं परब्रह्म बिभर्तीति अम्भा रमा तया भावितः पोषितः (४) । पुनः कथम्भूतः । अभिभरताभः अभि अभितो भरताः दुर्योधनादयः पाण्डवाश्च सङ्ग्रामे येषु सैनिकेषु ते अभिभरताः तेषु आसमन्तात् सम्यक् वा भातीति तथोक्तः । (५) पुनः कथम्भूतः । प्रसभं यथास्यात्तथा । भासा स्वतेजा । रभसा वेेगेन (अट्टहासेन)। अभिभवी शत्रुविषयकपराभववान (६) । पुनः कथम्भूतः । भाभाभिभूः दीप्तिरूपत्वात् भाः सचासौ भारूपाणां रुद्रादीनां अभि सम्यम् भूः आश्रयश्च सतथा (६) । पुनः कथम्भूतः। भिभवी भं नक्षत्रं अस्यास्तीति भीचन्द्रः तेन तद्वान् अभिमन्युर्लक्ष्यते । भवो रुद्रः तेन तद्वान् घटोत्कचो लक्ष्यते तावस्य स्त इति भिभवी (८) । अत्र सर्वत्रापि यद्भरित इति हेतुरावर्तनीयः । तथा च कृष्णसन्निधाने-नैवैतादृशं माहात्म्यं (विशेषराष्टकं) भीमेनाप्तमिति भावः ॥ ५९ ॥

पदच्छेदः— यदनुग्रहि (ह) पूर्णत्वात् । भीमः । सर्वान् । अरीन्। अनहिपूः । नत्वा । अत् । अदहत् । बाहुबलेन । क्रोधाग्नौ । आहितान् । निजाहुबलेन ॥ ६० ॥

यदनुग्रहीति । भीम इत्यावर्तते अरीनित्यपि । यदनुग्रहिपूर्णत्वात् यस्य कृष्णस्यानुग्रहो एषामस्तीति यदनुग्राहिणः तेषु पूर्णः । अधिकानु ग्रहवान् तस्य भावस्तत्वं तस्मात् । बाहुबलेन स्वबाहुबलेनैव । नास्त्र-सम्प्रयोगादिनेति भावः । सर्वान् अरीन् बाह्यानन्तरांश्च । अदहत् भस्मीचकार । कथम्भूतानरीन् । क्रोदाग्नौ क्रोधो मन्युर्नृसिंहः स एवाग्निः तस्मिन् । आहितान् आहुतान् । उकारस्थाने इकार-स्तृतीयोऽतिशयार्थः । ननु केन होममन्त्रेण होम इत्यत आह निजाहुबलेनेति । निजं स्वसम्बन्धि आहुराह्वानं नृसिंहस्य यस्मिन् स निजाहुः सचासौबलश्च (अत्र बस्य रत्वं लस्य वत्वं नस्य णत्वं च विवक्षित्वा रवेणेति सम्पद्यते) बलः रवः मन्त्रः सतथा तेनेत्यर्थः। नृसिंहाह्वानकरण मन्युसूक्तेन नृसिंहरुप एवाग्नौ वैरिबललक्षणं हविर्हुत्वा भस्मीचकारेत्यर्थः । यथोक्तं ‘स्मरन्नृसिंहं भगवन्तमेनं समन्युसूक्तं च ददर्श भक्त्ये’ति । नन्वावान्तराः कामादयोऽपि तेन भस्मीकृता इति कुतो ज्ञायत इत्यतस्तत्र हेतुगर्भविशेषणमाह अनहिपूरिति । नहः नहनं (बन्धनम्) एषामस्तीति नहिनः बद्धाः न नहिनः अनहिनः जीवन्मुक्तास्तान् स्वदर्शनादिना पुनातीति अनहिपूः । तथा च यः स्वदर्शनादिना जीवन्मुक्तान्पवित्रीकरोति (ताृशकृष्णेन शत्रुभयङ्करस्य) तस्य कामाद्यन्तःशत्रुहननं समवितमेवेति ज्ञायत इति भावः । ननु बाह्यशत्रुविनाशे बाहुबलं साधनमुक्तं आन्तरशत्रुनाशे किं साधनमित्या-शङ्कायां तत्साधनसूचकं विशेषणमुक्तं आन्तरशत्रुनाशे किं साधन-मित्याशङ्कायां तत्साधनसूचकं विशेषणमुक्तं नत्वादिति । नत्वा नमस्कृत्य अरीन् अत्ति (संहरतीति) अत् अत्र नमस्कारे नाम ‘नाहं कर्ता हरिः कर्ता तत्पूजाकर्मचाखिलमि’त्यनुसन्धानविशेषः । तथा च विहितानुष्ठान काले (विहितविषयादनकाले) स्वविहितशत्रुसंहारादि-करणकाले उक्तानुसन्धानाविशेषवतः कुतः कामाद्याः शत्रवःस्युरिति भावः । यदनुग्रहपूर्णत्वादिति पाठे यस्यानुग्रहः येषामिति बहुव्रीहिः॥ ६० ॥

पदच्छेदः— कृष्णाभीमाप्ततमः । शीर्णम् । येन । स्वकीय-हृदयमाप्ततमः । धृतराष्ट्रसुतान् । अवधीत् । भीमेन । स्थापितः । मनसि । सुसुतान् । अवधीत् ॥ ६१ ॥

कृष्णेनति । कृष्णाभीमाप्ततमः द्रौपदीभीमयोरतिशयेनाप्तः । स कृष्ण इति शेषः । धृतराष्ट्रसुतान् दुर्योधनादीन् । भीमेन निमित्तेन(भीमं निमित्तीकृत्येति यावत्) । अवधीत् जघान । कथम्भूतेन भीमेन । येन । स्वकीयहृदयमाप्ततमः स्वभृत्यमनोगतं तमः अज्ञानम् । शीर्णं नाशितम् । येन च श्रीकृष्णः मनसि स्वमनसि स्वकीयानां वा मनसि विहितसमर्पणाय स्थापितः तेनेत्यर्थः । अत्र यद्यपि हृदयाप्ततम इति वक्तव्यं ततापि छान्दसो मुमागमो अलुक्समासो वा विवक्षित इति नकोपिदोषः । (स्वकीयहृदयं आप्ततम इति पदच्छेदे विशेषणयोगो नित्यसाकाङ्क्षत्वात्साधुः) कथम्भूतान्धृतराष्ट्रसुतान् । सुसुतान् सुष्टुनिष्पिष्टान् । लुप्तोपमा वा सुष्टुनिष्पिष्टसोमतुल्यानिति । अनेन युद्धाख्ये यज्ञे दुर्योधनादीन्सोमतया प्रकल्प्य तन्निष्पेषणं कृत्वा हरये तत्समर्पितवानित्युक्तं भवति । अत एव मनसि स्थापित इत्युक्तम् । यथोक्तं ‘युद्धाख्ययज्ञे सोमबुद्ध्यारिवक्ष’ इत्यादि । ननु भीमेन निमित्तेन दुर्योधनादीन् हत्वा भूकण्टकं समुद्धृत्य कृष्णः पुनः किञ्चकारेत्याशङ्कायामुक्तं अवधीदिति । भीमेनेतिवर्तते । अवधिं धर्ममर्यादां ईरयतीति ईत् जात इति शेषः । भीमेनैवनिमित्तेन धर्ममर्यादा -प्रवर्तको जाता इति भावः । एतदर्थमेव भीमस्य स्वकीयाज्ञान-नाशकत्वं तन्मनसि कृष्णस्थापकत्वं चोक्तमिति ज्ञातव्यम् ॥ ६१ ॥

पदच्छेदः— भीमविपाटितदेहान् । अदर्शत् । स्वान् । अरीन् । विपाटितदेहान् । कृष्णायाः । हितकारी । सम्यक् । ईरप्रियः । सदा । अहितकारी ॥ ६२ ॥

भीमेति । श्रीकृष्ण इति शेषः । स्वान् अरीन् दुर्योधनादीन् । कृष्णायाः इति षष्ठी चतुर्थ्यर्थेऽपि योज्या । कृष्णायै । भीमविपाटितदेहान् । भीमेनविपाटिताः छिन्नाः देहाः येषान्ते तथोक्तास्तान् । अदर्शयत् । पुनः कथम्भूतान् । विपाटितदेहान् विपाः पक्षिश्रेष्ठाः तेषां अटितं अटनं भ्रमणं ददतीति विपाटितदाः ईहाः चेष्टाः उत्तरीयहस्तपादादिचेष्टाः । येषां ते तथोक्ताः तान् । विपाटित-वैरिदेहभक्षणार्तमागताः पक्षिश्रेष्ठाः तदीयहस्तपादादिचेष्टाभिर्वारिता-स्सन्तः इतस्ततो भ्रमन्ति । एवं विधचेष्टायुक्तानदर्श यदिति भावः । कथम्भूतः कृष्णः । कृष्णायाः द्रौपद्याः । हितकारी हितं करोतीति सः । कृष्णाहितकरणे कोहेतुरित्यतस्तत्सूचकं विशेषणान्तरमाह सम्य-गीरप्रिय इति । ईरः मुख्यवायुः तस्य सम्यक्प्रियो यतोऽतस्तद्भार्यायाः कृष्णायाः हितकारीति भावः । कृष्णेन कृतं द्रौपदीहितं कीदृशमित्यत-स्तद्दर्शयितुमन्यद्विशेषणमुक्तं सदाहितकारीति । सदा निरन्तरं स्वभक्तानामहितान् वैरिणः कालयति संहरतीति सदाहितकारी । रस्य लत्वं कलसंहरण इति घातोः । यद्वा सतां भक्तानां आ सम्यक् समान्ताद्वा (हितं करोतीतिवा) हिताः सदाहिताः तेषां कालः कलनं करणं अस्यास्तीति तथोक्तः । तथा च द्रौपदीवैरिसंहरणरूपहितं कृष्णेन कृतमितयनेन दर्शितमिति ज्ञातव्यम् ॥ ६२ ॥

पदच्छेदः— अथ । हरिणा । अपि इतबलम् । द्रौणेः । अस्त्रं महारिणा । पीतबलम् । दधता । वासोऽमरणम् । नीतम् । चक्रे । अभिमन्युजम् । सोमरणम् ॥ ६३ ॥

अथेति । अथ वैरिसंहरणानन्तरम् । दधता गर्भपोषकेण । महारिणा महान्तः अराः नेमयो यस्य तत् महारं सुदर्शनं तदस्यास्तीति महारी तेन । हरिणा कृष्णेन । इतबलमपि बलेन इतं युक्तं इतबलं सामर्थ्ययुकतमपि । द्रौणेः अश्वत्थमाम्नः । अस्त्रं ब्रह्मास्त्रम् । पीतबलं पीतं नाशितं बलं यस्य तत्तथोक्तम् । कृतमिति शेषः । ननु हरिणा द्रौण्यस्त्रं नाशितबलं कृतमिति कथं ज्ञायत इत्युक्तं अभिमन्युजं नीतं चक्र इति । य इति शेषः । यः कृष्णः । अभिमन्युजं परीक्षितम् । गर्भाद्बहिरितिशेषः । नीतं निर्गतम् । प्रसूतमिति यावत् । चक्रे कथम्भूतम् । वासोऽमरणं वाससि उत्तरायाः तन्वां उल्बे (वास्सदृशे गर्भवेष्टनचर्मपुटकरूपजरायौ अभरणं न विद्यते मरणं यस्यतम् । स्वरक्षणेनामृतम् । एतदर्थमेव दधतेत्युक्तम् । पुनः कथम्भूतम् । सोमरणं अत्र रणशब्देन तत्सम्बन्ध्यस्त्रं लक्ष्यते । उमया सहितः सोमः रुद्रः तदात्मा द्रौणिः तस्य रणः रणसम्बध्यस्त्रं यस्मिन्सतथा तम् । द्रौण्यस्त्रलक्ष्यमिति यावत् । ‘तत्रैव पातयाम्यस्त्रमुत्तरागर्भकृन्तने’ इति वचनात् । तथा च द्रौण्यस्त्रलक्ष्यभूतः परीक्षित् गर्भेप्रसूत्यनन्तरं बहिरपि हरिणा रक्षितो न मृतः । अतस्तदीयमस्त्रं नाशितबलं हरिणा कृतमिति ज्ञायत इति भावः ॥ ६३ ॥

पदच्छेदः— तस्य । च । रक्षा । सुकृता । जनार्दनेन । ईशशेषकेक्षासुकृता । पार्थेषु । प्रेमवता । नित्यम् । भर्त्रा । असुतासुविप्रेम् । अवता ॥

न केवलं द्रौण्यस्त्रलीयभीतः परीक्षित् गर्भे प्रसूत्यनन्तरं बहिरपि हरिणा रक्षितः (नमृतः), किन्तु यावज्जीवं रक्षितश्चेत्याह तस्येति ।

जनार्दनेन (आयुर्घातकजनमर्दकेन कृष्णेन) । तस्य परीक्षितः । नित्यं सर्वदा । रक्षा च । सुकृता सम्यक्कृता । अत एव लोके स विष्णुरात इति प्रसिद्धः । ब्रह्मादिरक्षकस्य परीक्षिद्रक्षणं नाश्चर्यमित्याशयेन कृष्णं विशिनष्टि ईशशेषकेक्षासुकृतेति । ईशः रुद्रः शेषः अनन्तः को ब्रह्मा च ईशशेषकाः तेषां ईक्षया कृपाकटाक्षेणैव असून् प्राणान् करोतीति ईशशेषकेक्षासुकृत् तेनेत्यर्थः । संहारकेषूतमत्वाच्छेषरुद्रयोः स्रष्टृषूत्त-म्वात्कस्य च ग्रहणमिति ज्ञतव्यम् । ननु परीक्षिद्रक्षणे किं निमित्तमित्यत उक्तं पार्थेषु प्रेमवतेति । पाण्डवेषु प्रीतियुक्तेन । भर्त्रा (तेषां) स्वामिनेति च । तथा च पार्थानां स्वभृत्यत्वात्तेषु प्रेमवता कृष्णेन तद्वंशधारकस्य परीक्षितः रक्षणं कृतमिति भावः । नन्वेवं परीक्षिन्नित्यं कृष्णैकरक्षितश्चेत्कथमसम्पूर्णायुः विप्रशापेन मृत इत्यत उक्तं असुतासुविप्रेमवतेति । असुताः अनिष्पिष्टाः अदान्ताः असवः प्राणाः इन्द्रियाणि येषां ते असुतासवः अजितेन्द्रियाः क्रोधवश इति यावत् तेचते विप्राः ब्रह्मणाश्च तेषां ई श्रियं शापरूपां अवता रक्षतेत्यर्थः । तथा च क्रोधाविष्यविप्रशापरक्षणं कर्तुं (विप्रशापं सत्यं कर्तुं) शापपर्यन्तमेव रक्षाकृतेति भावः ॥ ६४ ॥

पदच्छेदः— ज्ञानम् । परम् । प्रादात् । भीष्मगतः । सृतिविमोक्षचरमम् । प्रादात् । पाण्डुस•नाम् । अधिकम् । चके्र । वेदम् । गुणोत्तरम् । स्वनामधिकम् ॥ ६५ ॥

ज्ञानमिति । प्रादात् प्रकृष्टं राज्यं न ददति (पाण्डवानामिति) प्रादाः कौरवाः तानत्तीति प्रादात् श्रीकृष्णाः भीष्मगतः भीष्मसन्निहितस्सन् । सृतिविमोक्षचरमं सृतेः संसारस्य विमोक्षो यस्मात्स सृतिविमोक्षः मोक्षधर्मः स एव चरमः अन्तिमो यस्यतत्तथोक्तं तत् । मोक्षधर्मान्त-विषयकमिति यावत् । अथवा सृतिविमोक्षरूपे साध्ये चरमं चरमकारणरूपम् । परमम् उत्तमम् । ज्ञानम् । पाण्डुसुतानाम् । प्रादात् । प्रददौ । पाण्डुसुतानामित्यावर्तते । किञ्च पाण्डुसुतानाम् । वेदं पाण्डवप्रतिपादकं इति हासरूपं पञ्चमं वेदं (भारतं) । अधिकं ऋगादिवेदापेक्षया उत्तमम् । चक्रे (प्रतिपादितवान्) कुत इत्यतस्तत्रहेतुगर्भं इतिहासविशेषणद्वयं गुणोत्तरं स्वनामधिकमिति च । गुणोत्तरं उत्तराः उत्कृष्टाः गुणाः भगवद्गुणाः प्रतिपाद्याः यस्य सः गुणोत्तरः तं ऋगादिवेदानुक्तस्वगुणप्रतिपादकमिति यावत् । स्वनामधिकं स्वस्यनामानि विश्वंविष्णुरित्यादिसहस्रनामानि धीयन्ते अस्मिन्निति स्वनामधिः स्वनामधिरेव स्वनामधिकः स्वार्थे कप्रत्ययः तं तथा च भारतरूपो वेदः प्रसिद्धवेदानुक्तस्वगुणप्रतिपादकत्वात् प्रत्येकं बह्वर्त सहस्रनामवत्त्वाच्च ऋगाद्यपेक्षयोत्तम इति प्रतिपादित-वानिति भावः ॥ ६५ ॥

पदच्छेदः— तेन । अवापि । सुजतैः । इयमेधः । तुरगावर्तने । अपि । सुजातैः । पाण्डुसुतैः । सवसूकैः । आप्तैः । व्यासात्मना । सुसवसूकैः ॥ ६६ ॥

तेनेति । पाण्डुसुतैः । हयमेधः अश्वमेधः । व्यासात्मना व्यासस्वरूपेण । तेन कृष्णेन । तदुभयप्रसादेनेति यावत् । अवापि प्राप्तः । कथम्भूतैः । सुजातैः सु समीचीनं जातं जन्म जन्म येषां ते तथोक्तास्तैः । अनेन यज्ञाधिकारस्सूचितः । पुनःकथम्भूतैः । तुरगावर्तनेऽपि पृथिव्यामश्वपरिवर्तनेऽपि । सुजातैः जययो-रभेदात्सुयातैः सु सम्यक् यातैः गतैः । पुनः कथम्भूतैः । सवसूकैः वसुना द्रव्येण सहितः सवसुः उकारवाच्ये रुद्रे नियामकतया स्थितः उः कः आनन्दरूपः परशुरामो येषां ते तथोक्ताः तैः । अश्वमेधयज्ञार्थं धनशून्यानामेषां यज्ञोच्छिष्टद्रव्याधिपरुद्रदेहान्तर्गतः परशुरामः धनं ददातीति भावः । यद्वा वसुना सहितः सवसु सचासौ उश्च सवसूः । यज्ञोच्छिष्टधनाधिपरुद्रान्तर्गतपरशुरामः कः कार्यकर्ता येषां ते तथोक्तास्तैरित्यर्थः । पुनः कथम्भूतैः । आप्तैः (धनं प्राप्तैः) तमेव शरणं प्राप्तैः । पुनः कथम्भूतैः । सुसवसूकैः सु समीचीनः सवः यज्ञः तं सन्वन्ति कुर्वन्तीति सुसवसुवः ते च ते उकाः उत्कृष्टप्रकाशरूपाश्च बुधा इति यावत् । अथवा सुसवस्य समीचीनयज्ञस्य सुः सवनं करणं तस्मिन् उः उत्कृष्टः कः प्रकाशः ज्ञानं येषां ते तथोक्तास्तैरित्यर्थः । यज्ञकरणोपयुक्तज्ञानवद्भिरिति भावः ।

पदच्छेदः— तदनु । सुपाण्डुतनूजैः । रेमे । क्ष्माम् । पालयन् । सुपाण्डुतनूजैः । अनुपमसुखरूपः । जः । परमः । श्रीवल्लभः । सति । सुखरूपः । अजः ॥ ३७ ॥

तदन्विति । यच्छब्दबलात्स इति सिद्ध्यति । सः कृष्णः । तदनु तदनन्तरम् । सुपाण्डुतनूजैः समीचीनैः पाण्डुतनयैर्निमित्तैः । क्ष्मां पालयन् रेमे । कथम्भूतैः । सुपाण्डुतनूजैः सु अत्यन्तं पाण्डुः शुद्धाचसा तनूश्च बाह्यदेहः स्वरूपदेहश्च तां यान्तीति सुपाण्डुतनूयाः जययोरभेदः तैः सुपाण्डुतनूयैः बाह्यदे(हे)हैः स्वरूपदेहं प्राप्तवद्भिरिति भावः । इदं नाश्चर्यमित्याशेन तस्य महिमानमाहोत्तरार्धेन । जः जययोरभेदात् यः । अनुपमसुखरूपः असदृशसुखात्मकं रूपं शरीरं यस्य स तथा । परमः सर्वोत्तमः । श्रीवल्लभः श्रीपतिः । सति महदादिकार्ये । सुखरूपः सुनिर्दुष्टं यथाभवति यथा खेन आकाशेन दृष्टान्तेन रूप्यत इति सुखरूपः । आकाशवत्सर्वकार्येषु प्रविष्टतया ज्ञेय इति भावः (अथवा खैः ब्रह्मादीन्दियैः रूप्यते ज्ञायत इति स्वरूपः) । अजः जननरहितः (नित्यमुक्तः) स इति सम्बन्धः । एतादृामाहात्म्यवतः कृष्णस्य पाण्डवैः सह क्ष्मापालनं कियत् । नाश्चर्यकरमित्युक्तं भवति ॥ ६७ ॥

पदच्छेदः— सुगतिम् । चरमाम् । अददात् । निजयोग्याम् । ज्ञानिसुततिम् । परमाम् । अददात् । पार्थानाम् । सयदूनां । सः । पितृप्रेष्यादिनामिनाम् । सयदूनाम् ॥ ६८ ॥

सुगतिमिति । सः श्रीकृष्णः । सयदूनां यादवसहितानाम् । पार्थानां पाण्डवानाम् । ज्ञानिसुततिं ज्ञानिनां देवादीनां सु शोभना ततिः समूहो य (स्यां सा) स्यास्सा तथोक्ताताम् । परमां इतरदेवतापेक्षयोत्तमाम् । निजयोग्यां स्वयोग्याज्ञ् । चरमां धर्मादिपुरुषार्थेषु चरमां मोक्षरूपाम् । सालोक्यादिषु चरमां सायुज्यरूपामितिवा । सुगतिं शोभनां गतिम् । अददात् अदादिति वक्तव्ये दकारस्याभ्यासः छान्दसः सचातिशयार्थः अतिशयेनादादिति । कथम्भूतानाम् । पितृप्रेष्यादिनामिनां वसुदेवादयः पितरः उद्धवादयः प्रेष्याः आदिपदात् । प्रद्युम्नादयः पुत्राः पार्थाः पितृष्वसुः पुत्राः बलभद्रादयो भ्रातर इत्यादिग्राह्यम् । तथा च पितृप्रेष्यादिनामानि शब्दाः एषां सन्तीति तथोक्ताः तेषामित्यर्थः । अनेन वसुदेवादिषु पित्रादिशब्द मात्रम् । नत्वर्थः । कृष्णस्य जननाभावादिति सूचयति । तेनचैतेषां कृष्णेन शरीरसम्बन्धप्रयुक्तस्नेहेन मोक्षोदत्त इति शङ्का निराकृतेति ज्ञातव्यम् । शेषमार्गेर गरुडमार्गेण वा विरिञ्च प्रविष्टानां देवानां विरिञ्चस्य च सायुज्यप्रदेकृष्णे नेदमाश्चर्यमित्याह सयदूनामददादिति । सयदूनां यान्तीति यन्तो मरुतः उकारवाच्यो रुद्रः तैस्सहिता गरुडाद्यादेवाः सयदवः तेषाम् । अत्र रुद्रवाचकेन उकारेण रुद्रो नग्राह्याः । किन्तु शेषो ग्राह्यः । रुद्रस्येदानी मुक्क्त्यभावात् । कर्मणि षष्ठी । (यातीति यन् गरुडः द्वीपाम्बुराशिकुलाचलादिचालक-वेगवद्गरुद्भ्यामुड्डीयोड्डीयगन्तुर्गरुडस्य अब्भक्षो वायुभक्ष इति वदसाधारण्येन व्यपदेशमाश्रित्य ग्रहणात् गरुडादिदेवा इति वा) त। तथा च सयदून् मरुच्छेषादिदेवसहितान् गरुडादीन् । अददात् अत्तीत्यदन् अदंश्चासावश्च ब्रह्मा च सोऽददः तं अत्तीति अददात् कृष्ण इत्यर्थः । अत्र ब्रह्मणः शेषाद्यदनं कृष्णस्य ब्रह्मादनं प्रये स्वदेहनाशार्थमागतानां ग्रमनं मुक्तौ सायुज्यं चेत्युभयविधं विवक्षित-मिति ज्ञातव्यम् । पितृप्रेष्यादिनामवतामित्येतत् देवतावाचकसयदूना-मित्येतद्विशेषणतयापि योज्यम् । अत्र पितरः शेषाद्याः पुत्राः इन्द्राद्याः प्रेष्या भृत्याः केचिदित्यवगन्तव्यम् । अत्र चेदं विशेषणं जन्यानां जनकेषु भृत्यानां स्वामिषु देहलयोभवतीति सूचयितुम् ॥ ६८ ॥

पदच्छेदः— रेमे । तत्र । अपि । सुखी । परमः । अनन्तः । ननन्दः । तत्र । अपि । सुखी । प्राणेन । इन्दिरया । च । प्रयुतः। नित्यम् । महागुणेन्दिरया । च ॥ ६९ ॥

रेम इति । स इत्यनुवर्तते । सः हरिः । तत्र तेषां मध्ये । रेमे । कथम्भूतः । अपिसुखी अत्र तृतीयोऽतिशय इत्यतो बकारस्थाने पकारः वबयोश्चाभेदः । तथा च विसुखं सुखविरुद्धं दुःखं तदस्यास्तीति विसुखी दुःखी स नभवतीत्यविसुखी सर्वथा दुःखास्पृष्ट इत्यर्थः । अत्र हेतुद्वयं परमोऽनन्त इति । परमः सर्वोवमः । अनन्तः देशतः कालतो गुणश्चान्तशून्यः । सुखी सर्वत्रापि सुपूर्णसुखोदेवः (नित्याभिव्यक्त-सुखः) । तत्रापि वैकुण्ठादि स्थानेष्वपि । ननन्द । अतिसमृद्धि-मत्तया व्यक्तोऽभवदिति यावत् । पुनः कथम्भूतः । प्राणेन इन्दिरया च । प्रयुतः प्रकर्षेण साक्षादेव युतः । अनेन शेषादीनां तारतम्येन योगमात्रं श्रीप्राणयोः प्रकृष्टो योग इति सूचितम् । श्रीप्राणयोरपि किं प्रयुक्ततं समानम् । नेत्याह महागुणेन्दिरया च प्रयुत इति । महान्तः प्राणापेक्षयोत्कृष्टाः गुणाः यस्यास्सा तया इन्दिरया प्रकर्षेणार्धदेहात्मना च युत इत्यर्थः । अत्र महागुणत्वं हेतुतयोक्तम् । यद्वा महागुणेन्दिरा स्वरूपभूतलक्ष्मीः तया प्रयुतः तादात्म्येन सङ्गत इत्यर्थः । (प्राणे इन्दिराद्वारा रेमे न तु द्वारपरित्यागेन । इन्दिरायां स्वात्मक-स्त्रीरूपेन्दिरया प्रयुतः रेमे स्वरमणत्वात्) ॥ ६९ ॥

पदच्छेदः— एवम् । सर्वाणि । हरेः । रूपाणि । श्रीपतेः । सुपर्वाणि हरेः । पूर्णसुखानि । सुभान्ति । प्रततानि । निरन्तराणि । सुभान्ति॥ ७० ॥

एवमिति । श्रीमतेः हरेः । (यानि) रूपाणि मत्स्यादीनि (तानि) सर्वाणि । एवं भारतप्रतिपाद्यमूलरूपवत् तत्प्रतिपाद्यनीकृष्णरूपवद्वा ज्ञेयानि । कथम्भूतस्य हरेः । सुर्पाणि हरेः सुपर्वाणः देवाः तेषां आणिः (चाचलिः ?) मुख्याश्रय इति यावत् । स्वस्थानादेः दैत्यान् हरतीति हरः । सुपर्वाणिश्चासौ हरिश्चेति विग्रहः तस्येत्यर्थः । एवमित्युक्तं विवृणोति पूर्णेत्यादिना । पूर्णसुखानि सम्पूर्र्णसुखस्वरूपाणि । सुभान्ति सुप्रभाणि । प्रततानि प्रकर्षेणे व्याप्तानि । निरन्तराणि परस्परभेदरहितानि । सुभान्ति सुष्टु भा प्रभा येषान्ते सुभाः (लक्ष्म्यादयो देवाः) तेषां अन्ति अन्तिके (हृदये बहिः समीपे वा) स्थितानीति शेषः । (सर्वाणि मत्स्यादिरूपाणि भारत प्रतिपाद्यकृष्ण-रूपवत् ज्ञानिभिर्ज्ञेयानीत्यर्थः) ॥ ७० ॥

पदच्छेदः— राम । राम । महाब । अहो । माया । ते । सुदुरासदा । वाद । सादद । कः । लोके । पादौ । एव । तव । आसजेत् ॥ ७१ ॥

सर्वावताराणां स्वरूपं समान्यत उक्त्वा रामं विशेषतः स्तौति रामेति ।

र अग्ने । रकारस्याग्निबीजत्वात् । दुष्टदाहकेति यावत् । आम अपाक । अत्र पाकशब्देन तापो लक्ष्यते । तथा च अतापेत्यर्थः । तापत्रय परिहर्तरिति (रहितेति) यावत् । रश्चासावमश्च रामः । रः क्रीडारूपः । अमः अप्रमेयः रश्रचासावमश्रच रामः तस्य सम्बुद्धिः । र अमेतिवा । महाव महाबल । मबयोरभेदात् महाम् । महती मा ज्ञानं यस्य स महामः । माहाज्ञानेति वा । वबयोरेदात् महाव महाज्ञानेतिवा । अहो हे इत्यर्थः । महाबाहो इत्येकं पदं वा । ते तव । माया ज्ञानप्रद । स्वगति प्रद गन्धनप्रद । उपलक्षणया घ्राणादिभोगदेति यावत् । वा गतिगन्धन योरिति घातोः । सादद सादः विनाशः तमोभिधः । तथा च अमरशत्रूणां तमः प्रदेत्यर्थः । वादसाददेत्येकं पदं वा । वादस्य वादकथायाः सादः अवसानं (सम्पूर्तिः) तत्प्रद । विष्णुविषये (गुरुशिष्ययोः) वादकथा केनापि साकल्येन कर्तुमशक्येति भावः । लोके जगति सत्यादिलोके । क एव साकल्येन कर्तुमशक्येति भावः । लोके जगति सत्यादिलोके । क एव ब्रह्मैव । तव । पादौ । आसजेत् आश्रयेत् । अच्छिन्नभक्तत्त्वात् । अन्यस्य त्वत्पादाश्रयणं छिन्नभक्तत्वान्नेति भावः ॥७१॥

पदच्छेदः— जेत् । सवातव । वेदाप । आके । लोकोदद । सादव । दासर । आत् । उसुतेयाम । अह । उवाह । आ । भम। राम । राः ।

जेदिति । (त्वमेवेति शेषः) । जेत् सर्वजेतः । सवातव तस्य सम्बुद्धिः हे सवातवेति । वेदाप वेदगम्य । (वेदान् आसमनन्तात् व्यासरूपेण पातीति वेदापः तस्य सम्बोधनमिति वा । प्यतेगम्यत इति पः सनभवतीत्यपः वेदैः अपः वेदापः साकल्येन वेदागोचर इति यावत् तस्य सम्बोधनं वेदागम्येति वा) आके समीपे दूरेच । ‘आकं दूरसमीपयोरित्यभिधानं’ दोषाणां जगतश्च दूरे । गुणानां समीपे च स्थितेति शेषः । (आके सर्वजगदन्य सर्वदोषविरुद्धेति वा । सर्वगुणपूर्ण सर्वदोषाभाववन्निति यावत्) लोकोदद उदेत्यनेन मोक्ष इत्युदं ज्ञानम् । उदेत्यनेन ज्ञानमित्युदं कर्म वा । लोकस्य उदं ददातीति लोकोददः तस्य सम्बुद्धिः । सादव सादस्य भक्तानां भयस्य व वारक निवारक। दासर दासाः दस्यवः तेषां र अग्ने दाहकेति यावत् । यद्वा दासाः भृत्याः तेषां र रतिप्रदेत्यर्थः । आ अत् इति हकेति यावत् । यद्वा दासाः भृत्याः तेषां र रतिप्रदेत्यर्थः । आ अत् इति पदच्छेदः ? तथा च आ आदित्यः तं अत्तीति आत् आदित्यभक्षक । अनेन सौरमतं निराकृतमिति ज्ञातव्यम् । उसुतेयाम उः रुद्रः तस्य सुतौ स्कन्द विघ्नेशौ ईः लक्ष्मीः शक्तिनाम्नी तासां याम नियामक । अनेन शैवस्कान्द गाणपतशाक्तेतमतानि निराकृतानीति ज्ञातव्यम् । अह हीयत इति हः स न भवतीत्यहः ओय । अहीनेति वा । उवाह वबयोरभेदात् उः रुद्रः वाहः वाहको वाहनं यस्य स तथोक्तः तस्य सम्बोधनम् । हरिः कदाचित् मेषरूप शङ्करारूढो जात इति पुराणप्रसिद्धिः । (हे राम त्वमेव मम राः धनमित्यर्थः श्रीरामस्यैवाचार्य -द्रव्यरूपत्वकथनेन आचार्याणामपि ब्रह्मवदच्छिन्नभक्तत्वं सूचितम्) । आ मम राम रेति पाठे आ मम राः अमर इति पदानि । तथा च हे अमर त्वं आ समन्तात् मम राः धनं विष्णो त्वमेव मम धनं नान्यदिति भावः । (रामरामेति श्लोकस्य प्रत्यक्षरप्रातिलोम्येन जेत्सदेति श्लोकोभवतीति प्रत्यक्षरप्रतिलोमयमकोयं श्लोकः ।) ॥ ७२ ॥

पदच्छेदः— देवानाम् । पतयः । नित्यम् । मतम् । यस्य । न । जानते । तस्मै । देव । नमस्ये । अहम् । भवते । असुरमारये॥ ७३ ॥

बुद्धं नमति देवानामिति ।

देवानां पतयः देवश्रेष्ठा । अपि । यस्य बुद्धरूपस्य हरेः । मतं सिद्धान्तम् । नित्यं नो(न) जानते । किमु देवाः किं पुनर्दानवा इति भावः । हे देव । अहम् । तस्मै भवते (नित्यं) । नमस्ये । कथम्भूताय । असुरमारये असुरघातकाय । असुराणां मायाः ज्ञानस्य शोभाया वा अरय इति वा । असुभिः रमन्त इत्यसुराः देवाः तेषु मा ज्ञानं शोभा वा तस्याः रये दात्रे इति वा । रा दान इति धातोः । अत्र रायेतिभाव्ये अकारस्य इकारस्तृतीयोऽतिशयार्थः । तथा च इकारस्य गुणे अयादेशे च सति रये इति चतुर्थी युक्तेति भावः (अनेन बुद्धावतारस्यापि मुमुक्षुज्ञेयत्वं सूचितं भवति ॥ ७३ ॥

पदच्छेदः— समस्तदेवजन । कवासुदेवपरामृत । वासुदेव । परामृत । (परा । अमृत) । ज्ञानमूर्ते । नमः । अस्तु । ते ॥७४॥

(अत्र द्वितीयतृतीयपादयोरैकरूप्यं) कल्किनं नमति समस्तेति ।

समस्तदेवजन देवाश्च ते जनाश्च देवजनाः नृदेवजनाः दुष्टराजान इति यावत् । सम्यगस्ताः परास्ताः देवजनाः येन सः तस्य सम्बुद्धिः हे समस्तदेवजन । कलेरन्त्त्ते कुनृपान् कल्की जघानेति हि प्रसिद्धिः । कवासुदेवपरामृत कं सुखं वं ज्ञानं असुः प्राणः देवः देवनं क्रीडादि-सप्तकं परामृतं मोक्षश्च यस्मात्स तथोक्तः तस्य सम्बोधनम् । वासुदेव वाज्ञानं सुसुखं ताभ्यां देव । अनेन हे कल्किन्निति सम्बोधनं कृतमिति ज्ञातव्यम् । समानार्थत्वात् । कलं ज्ञानं कं सुखं तद्वान् कल्की इति । परामृत उत्तममुक्त अनन्तसुखेति यावत् । पर उत्तम । अमृत मरणरहितेतिवा । ज्ञानमूर्ते ज्ञानस्वरूप । ते तुभ्यम् । नमोऽस्तु । यद्वा समस्तदेवजनक समस्तदेवोत्पादक । वासुदेव वा ज्ञानस्वरूपः असुः प्राणः तस्य देवपर जगदुत्तमोत्तम । अं दुष्टानामन्तकेतिवा । ऋत शश्वदेकप्रकार । वासुदेव आदियुगादिकृत् वासुदेवनामकः । परामृत परे परान्ते अमृत शश्वदेकप्रकारेतिवा । पराणां उत्तमानां अमृत मोक्षप्रद । ज्ञानमूते त नमोऽस्त्त्वित्यर्थः ।

पदच्छेदः— देवादे । देवलोकप । पूर्णानन्दमहोदधे । सर्वज्ञा । ईश । रमानाथ । देव । ओ । ओ । अव । लोकप ॥ ७५ ॥

देवेति । देवादे आदिश्चासौ देवश्च तस्य सम्बोधनं आदिदेवेत्यर्थः । देवलोकप महापद्भ्यः सुरगणपालक । पूर्णानन्दमहोदधे पूर्णानन्देन महोदधिरिव तस्य सम्बुद्धिः । सर्वज्ञ स्वपरगताखिलविशेषविषयज्ञान । ईश स्वामिन् प्रेरकेति वा । रमानाथ रमापते । देव क्रीडादिगुण । ओ अत्र अशब्देनाखिलङ्ग्राह्यं नामैकदेशे नामग्रहणस्य विहङ्गो वाहनं येषां ? इत्यादौ दर्शनात् । तथा च अं अखिलं जगदुत्पत्त्यादिकं ददातीत्यादिः तस्य सम्बुद्धिः ओ इति । अदिरित्यत्र अकारस्थाने इकारस्तृतीयोऽतिशयार्थः । ओ नविद्यते दिःक्षयः यस्य सः अदिः अक्षयः तस्य सम्बोधनं ओ अविनाशिन्निति यावत् दीङ् क्षय इति धातोः । लोकप अत्र ला शब्देन संसारलोपवन्तो मुक्ता उच्यन्ते तेषां कं सुखं तत्पातीति लोकपः तस्य सम्बोधनं लोकपेति । (त्वं अस्मान्) अव रक्ष अव रक्षणे इति धातुः । अत्र प्रथमचतुर्थपादयोरैकरूप्यम्) ॥ ७५ ॥

पदच्छेदः— यः । निर्ममे । अशेषपुराणविद्याम् । योनिः । मम । इशेषपुः । आ । अणवित् । याम् । यः । अनिः । ममे अशेषपुराणवित् । द्याम् । या । उ । निर्ममेशे । षपुराणविदि । आ । अम् ॥ ७६ ॥

एवं भारतमाश्रित्य सर्वशास्त्रनिर्णयं कृत्वा एतद्विद्यावेद्यं विद्याधीशं स्मरंस्तच्छरणागतिं प्रार्थयते । (अत्र एकपादाभ्यासेन यमकनिर्वाहः) ।

अथान्वयपुरस्सरमर्थो वर्ण्यते । यः अयं यकारः इकार अकारप्रकृतिकः । न तु यच्छब्दः । इअ इति स्थिते यणादेशेसति निष्पन्नत्वात् । इकारो लक्ष्मीवाचकः अकारो विष्णुवाचकः तथा च लक्ष्मी सहितः विष्णुरित्यर्थः । द्वितीयस्य यइत्यस्य यच्छब्दरूपत्वम् । एवं च लक्ष्मीसहित ः यः विष्णुः (वेदव्यासः) इति पदद्वयेन लभ्यते । अशेषपुराणविद्याम् अशेषपुराणविद्याभिमानित्वेन तद्रूपां द्यां श्रियं भारती च (वा) । निर्ममे उत्पादित वान् । कथम्भूतां द्याम् । निर्ममेशे ममतारहितानां ईशे । आ सम्यक् । षपुराणविदि षः प्राणः ‘षकारःप्राण आत्मेति’ श्रुतिः तस्य पुरं शरीरं अणयति प्रापयतीति षपुराणो हरिः तं वेत्तीति षपुराणवित् तस्मिन् शुके । या उ उच्चा उत्कृष्टा वर्तत इति शेषः तामिति । पुनः कथम्भूतो विष्णुः । मम मे मदात्मकस्य शुकविष्टस्य सूत्रात्मनो वायोः । योनिः जनकः । आ सम्यक् । इशेषपुः ईलक्ष्मीश्च शेषश्च तौ पुनातीति ईशेषपुः । इकारदीर्घ -लोपश्छान्दसः । यद्वा इः कामः शेषश्च क्रमात् रोमहर्षणपैलगतौ कामशेषौ पुनातीति इर्शषपुरित्यर्थः । अणवित् वेत्तीति वित् नणयोर-भेदेन न वित् अवित् स न भवतीत्यणवित् सर्वज्ञ इति यावत् । यद्वा आणवित् इति पदम् । तथात्वे आसमन्तात् णं बलात्मकं मुख्यप्राणं वेत्तीति वा । णं प्रति अखिलं वेदयतीति वा । अनिः इः कामः यस्मिन्नास्तीत्यनिः अकाम इत्यर्थः । अशेष-पुराणवित् पुराणि शरीराणि अणन्ति प्राप्नुवन्तीति पुराणाः जीवाः अशेषाः अस्य अकारवाच्यस्य विष्णोः शेषाः उपसर्जनीभूताः किङ्करा इति यावत् समस्ता इति वा तेचते पुराणाश्च अशेष पुराणाः तान् वेदयति उत्पादयतीति अशेषपुराणवित् विद्लृ उत्पत्ताविति धातोः । यद्वा अशेषपुराणेषु तिष्ठतीति सः विसत्तायामिति धातोः । अथवा तान् वेत्तीति वित् विदज्ञान इति धातोः । सः विष्णुः एवं ममे वेदैः वैदिकै-राज्ञायि । अहं तदवताररूपं अं वेदव्यासम् । आ सम्यक् मद्योग्यता-नुसारेण । यां अयां शरणमितिशेषः । अलोपश्छान्दसः ॥७६॥

अनन्तपार । अमितविक्रम । ईश । प्रभो । रमाप । अरम् । अनन्तप । अर । महागुणाढ्य । अपरिमेयसत्व । रमालय। अशेष मह । आगुणाढ्य ॥ ७७ ॥

वेदैर्ब्रह्मादिभिरपि साकल्येन भगवान् स्तोतुमशक्य इत्याशयेन सदा तं पश्यन् (श्लोकद्वयेन) सामान्यतः सम्बोधनेन स्तौति अनन्तेति ।

अनन्तपार अन्तः कालतः परिच्छेदः उत्पत्तिनाशाविति यावत् पारः देशतः परिच्छेदः नविद्येते अन्तपारौ यस्य स तथोक्तः तस्य सम्बोधनं अनन्तपारेति । अमितविक्रम असङ्ख्येयाद्भुतानादिपराक्रम । ईश कर्तु -मकर्तुमन्यथाकर्तुं समर्थ । प्रभो जगत्स्वामिन् । रमाप रमापालक । अरं रलयो रभेदात् अलं सम्यक् । अनन्तप शेषपालक । अथवा अन्तशून्यं यन्नित्यं वस्तु प्रकृत्यादि तत्पालक । अथवा अनन्त अन्तशून्य । प पालक । अर अल अलय अक्षीणेति यावत् । महागुणाढ्य महद्भिः गुणैः परिषूर्ण । गुणानां महत्त्वं नाम बलज्ञानपूर्णत्वं आधिक्यं च । अपरिमेयसत्व अत्र सत्वं नाम बलज्ञानसमुच्चयः अपरिमेयं अनन्तं सत्वं यस्य स तथोक्तः तस्य सम्बोधनम् । रमालय श्रीनिवास । अशेषमह अत्र महशब्दो नैजसर्वगुणोत्कर्षपरः अशेषेभ्यः रमादिभ्यः नैजर्वगुरोत्कर्षवन्नित्यर्थः । अयं महशब्दोऽकारान्तो ज्ञेयः । आगुणाढ्य आढ्यः श्रेष्ठाः ब्रह्मादयः आगुणाः सम्यगुपसर्जनीभूता यस्य स तथोक्तः तस्य सम्बोधनं आगुणाढ्येति विपरीतसमासोऽयं (स्तुतिमात्रपरत्वात् क्रियासम्बन्धा-भावो न दोषापादकः । अनेन फलमनपेक्ष्य स्तोतृत्वमस्मत्स्वभाव इत्याचार्यैस्सूचितं भवति) ॥ ७७ ॥

(एकाक्षरयमकरूपोऽयं श्लोकः) एवं सामान्यतो वेदाः भगवतोऽनन्तगुणक्रियारूपाभिधायका इति प्रतिपाद्य इदानी अशेषाणि वैदिक (वर्णानि) पदानि प्रत्येकं योगवृत्त्या प्रवर्तमानानि भगवतोऽनन्तगुरतां विशेषादेव ज्ञापयन्तीत्याशयेनोपलक्षणतया भकारस्य विष्णुवाचित्वं दर्शयति भेति ।

(अत्र सर्वत्र भ आ इति पदं विवक्षितं आसमन्ताद्भेति सर्वत्रान्वयः) भा दीप्तौ (पचाद्यच् आतो लोप इटिचेत्याकारलोपे भातीतिभः तस्य सम्बुद्धिः भा एवं सर्वत्र) दीपक ॥ १ ॥

भा ज्ञाने सर्वज्ञ ॥ २ ॥

भा आधारे भूम्याद्यखिला धार ॥ ३ ॥

भा औदार्ये भक्ताभीष्टदाने उदार ॥ ४ ॥

भा सन्धाने अशेषघर्माणां सन्धानकर्तः ॥ ५ ॥

भा उपादाने प्रकृत्याद्युपादानत्व प्रद ॥ ६ ॥

भा निकटत्वे स्वकीयातिनिकट ॥ ७ ॥

भा सेव्यत्वे सुरादिसेव्य ॥ ८ ॥

भा ऊरीकरणे सुरादीष्टाङ्गीकरण ॥ ९ ॥

भा नयने अन्यान् नानाभावेन नेतः ॥ १० ॥

भा नमने सजजननम्य ॥ ११ ॥

भा वैलक्षण्ये समस्तविलक्षण ॥ १२ ॥

भा आधिक्ये सर्वाधिक ॥ १३ ॥

भा स्वातन्त्र्ये सर्वदा स्वतन्त्र ॥ १४ ॥

भा आनन्दे आनन्दपूर्णा ॥ १५ ॥

भा सन्ततवादे अनवरतवचन ॥ १६ ॥

भा पूज्यत्वे सर्वपूज्य ॥ १७ ॥

भा विस्तारे मुक्तौ विस्तारकर्तः ॥ १८ ॥

(भा पूजने स्वयमेव स्वपूजक)

भा विनाशे कुमति विनाशक ॥ १९ ॥

भा स्वामित्वे उत्तमस्वामिन् उभयस्वामिन् ॥ २० ॥

भा निश्चलत्वे शत्रुभिरप्रधृष्य

(स्वामित्रे स्वामित्वे निश्चल) ॥ २१ ॥

भा निखिलत्वे अखिलव्याप्त

(भा उद्गाने भक्तैरुद्गेय ॥ २२ ॥

भा सम्मोहने कुमातिसम्मोहक ॥ २३ ॥

भा सञ्चारे निखिल हृदयसञ्चारिरूप

(भा सम्पूर्तौ सम्पूर्ण) ॥ २४ ॥

भा विदारणे भक्तजनहृदयगताज्ञानतमोविदारक (सर्वेशोहं मदन्य ईशोनास्तीति वदतो विदारक) ॥२५ ॥

भा आलोचने ब्रह्मादिभिरपि इत्थमित्यालोच्य ॥ २६ ॥

भा दर्शने अशेषजनकृतकर्मसाक्षिन् ॥ २७ ॥

(भा कीर्तने सुजनसङ्कीर्त्य)

भा सौन्दर्ये देवादिष्वतिसुन्दर ॥ २८ ॥

भा कथने ब्रह्मादिकथक ॥ २९ ॥

भा स्मृतौ भक्तस्मृत ॥ ३० ॥

भा श्रवणे भक्तश्रुत ॥ ३१ ॥

भा आह्लादने भक्ताह्लादकारक ॥ ३२ ॥

अत्र सर्वत्र प्लुतः आकारोऽतिशयार्थः ॥ (भा धातोरर्थबाहुल्याद्भकारोपादानम्) ॥ ७८ ॥

पदच्छेदः— न । एव । परः । केशवतः । परमात् । अस्मात् । समः । च । सुकेशवतः । सः । अयम् । शपथवरः । नः । शश्वत्। सन्धारितः । सुशपथवरः । अनः ॥ ७९ ॥

नैवेति । सुकेशवतः अत्र गकारस्थाने ककारः तृतीयोऽतिशयार्थः । तथा च सु शोभनाः गाः खगाः तेषामीशः सुपर्णः सुकेशः सोऽस्यास्तीति सुकेशवान् तस्मादित्यर्थः सुपर्णध्वजादिति यावत् । परमात् सर्वोत्तमात् । अस्मात् पूर्वोक्तात् । केशवतः कः ब्रह्मा ईशो रुद्रः तौ वर्तयतीति केशवः तस्माद्धरेस्सकाशात् । परः उत्तमः । नैव नास्त्यैव । समः तुल्यश्च नैव । सोऽयं श्रुतियुतिभ्यां सिद्धोऽर्थः । नः अस्माभिः । शपथवरः तप्तपरशुधारणादिरूपः शपथः वरः बलं यस्य स्तथोक्तः । शपथेनापि सिद्ध इति यावत् । बबयोः रलयोश्चा-भेदाद्बलमित्युपपन्नम् । शश्वत् सर्वदा (अवतारेपीति यावत्) । सन्धारितः निश्चितः । कुतः यस्मात् । अनः मुख्यप्राणः । सुशपथवरः सशोभनं शं सुखं यस्य स सुशः हरिः तस्य पन्थाः मार्गः तस्मिन् वरः श्रेष्ठः मोक्षदातेति यावत् । अतस्तवतारभतैरस्माभिर्मोक्षप्रदश्रीहरि -मार्गोपदेष्टृभिरेवं निश्चितमिति ज्ञातव्यम् ॥ ७९ ॥

पदच्छेदः— कृष्णकथा । इयम् । यमिता । सुखतीर्थेन । उदिता। अनेने । यम् । यम् । इता । भक्तिमता । परमेशे । सर्वोद्रेकात् । सदा । नुवता । आप । रमेशे ॥ ८० ॥

कृष्णकथेति । अनेने अनस्य मुख्यप्राणात्मकस्य स्वस्य इने नेतरि । परमेशे उत्तमस्वामिति । रमेशे लक्ष्मीनाथे । सर्वोद्रेकात् सर्वोत्कर्षात् । भक्तिमता । सदा सर्वदा । नुवता नुः स्तात्रं तन्नित्य-मस्तीति नुवन् तेन नुवता स्तोत्रा । सुखतीर्थेन सुखकरं तीर्थं शास्त्रं यस्य तेन सुखकरशास्त्रकृता तन्नामकेन । उदिता कथिता । यमिता यमकमालिका (यमकात्मिका) (यमकलक्षणन्तु दण्डिकृतकाव्या-दर्शोक्तं ‘अव्यपेतव्यपेतात्मा व्यावृत्तिर्वर्णसंहतेः । यमकं’ इति । अस्यार्थः प्रागुक्तानां वर्णानां साहित्येन स्थानभेदेन वा पुनर्वचनं यमकमिति) । इयं कृष्णकथा । यम् । यम् । अत्र एकस्य यच्छब्दस्य द्वितीयान्त-त्वम् । अपरस्तु ईकाराकारप्रकृतिकः । तथा च ईकारवाच्यया श्रियायुक्तो यः यः अकारवाच्यो विष्णुः तमिति तदर्थः । ‘अकयप्रवि-सम्भूतसक (ख) हाविष्णुवाचका’ इत्यभिधानात् । विष्णौ रूढोवा यशब्दः । स इत्यध्याहार्यः । तथा च यं विष्णुं इता प्राप्ता यत्प्रतिपादका सः विष्णुः मया आप प्राप्तः । (अथवा सविष्णुः न कञ्चित्प्राप किन्तु अस्मान् आप प्राप । अस्मास्वेव विशेष-सन्निधानकर्ता) अथवा यं यमिति यच्छब्दद्वयं किं शब्दार्थकम् । तथा च इयं कृष्णकृथा यं यं कञ्चित्कञ्चिदेवनरं इता प्राप्ता न सर्वनर-मित्यर्थः । अतीवदुर्लभेति यावत् । अत्र या कृष्णकथा रमेशे विषये आप सा यं यमिति योज्यम् ॥ ८० ॥

पदच्छेदः— इति । नारायणनामा । सुखतीर्थसुपूजितः । सु नारायणना । मा । पूर्ण । गुणैः । अधिक । पूर्णज्ञानेच्छाभक्तिभिः । स्वधिकपूर्णः ॥ ८१ ॥

इतीति । हे गुणैः पूर्ण आनन्दादिगुणभरित । हे अधिक सर्वोत्तम । नारायणनामा नारायणनाम प्रतिपाद्यः । सु(न)रायणना सु(न)राणां रमाजशङ्करादीनां अयनं आधारः स चासौ ना परमपुरुषश्च सतथोक्तः स्वधिकपूर्णः सुष्टु अधिकाः ब्रह्मादयः तेषु पूर्णः सन्निहितः । (त्वं) इति उक्तप्रकारेण । पूर्णज्ञानेच्छाभक्तिभिः । सुखतीर्थसुपूजितः सुखतीर्थनामकेन मया सुष्टु पूजितस्सन् । मा माम् । अव रक्षेति(श्लो. ७५) पूर्वेणान्वयः । (द्वितीयपादे सुनारायणनामेति पाठे प्रथमपादे नारायण ना मा इति च्छेदः । हे नारायण दोषविरुद्धगुणाश्रय हरे । सुनारायणनामा सुसमीचीनं अर्थाव्यभिचारि नारायणेति नाम यस्य सः । ना परमपुरुषः त्वं मा मवेत्यर्थः ।) (सुखतीर्थपूजित इत्यत्र अवकतीर्थपूजित इति पाठे अव । कतीर्थपूजित इति च्छेदः कं सुखं केन काय वा तीर्थं यस्य स कतीर्थः तेन मया पूजितस्सन् ज्ञानेच्छाभक्तिभिर्विशिष्टं मामवेत्यर्थः) ॥ ८१ ॥

सुराशिखामणिमध्वविनिर्मितं यमकभारतमेतदशेषतः ।

विवरितुं नहि शक्यमथापि तत्करुणया कृतिरीषदियं मया ॥

व्यासं सर्वगुणावासं वासवीनन्दनं प्रभुम् ।

श्रीनिवासं सदा वन्दे भासमानं हृदम्बरे ॥

इति श्रीवेदेशतीर्थपूज्यपादशिष्ययदुपतिना विरचिता श्रीमद्यमकभारतटीका समाप्ता