Jump to content

JSON:Yamakabharatam

From Anandamakaranda
schema1
doc
slug"Yamakabharatam"
title"यमकभारतम्"
type"tantrasarasangraha"
docId"YB"
parentnull
related
Empty array
nextId82
blocks
id"Yamakabharatam-1"
oldKey"YB_C01_V01"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"ध्यायेत् तं(ध्यायेत्) परमानन्दं यन्माता पतिमयदपरमानन्दम् । उज्झितपरमानं दम्पत्याद्याद्याश्रमैः सदैव परमानन्दम् ॥१॥"
id"Yamakabharatam-2"
oldKey"YB_C01_V02"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"यस्य करालोलं चक्रं कालः परः स हि कराऽलोऽम् । यस्य गदा पवमानः सन्(गदा तु वायुर्बलसंविदात्मा) यो व्यासोऽभवत् सदापवमानः ॥२॥"
id"Yamakabharatam-3"
oldKey"YB_C01_V03"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"यस्य रमा न मनोगं जगृहे विश्वम्भराऽपि न मनोऽगम् । यस्य पुमानानन्दं भुङ्क्ते यद् धाम कपतिमानानन्दम् ॥३॥"
id"Yamakabharatam-4"
oldKey"YB_C01_V04"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"परमेषु यदा तेजः परमेषु चकार वासुदेवोऽजः । मानधि बिभ्रत्सु मनो माऽनधिमाऽऽसीन्न वासुदेवो जः ॥४॥"
id"Yamakabharatam-5"
oldKey"YB_C01_V05"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"सोऽजनि देवक्यन्ते यस्मादनुकम्पनावदेव क्यन्ते । अवदन् देव क्यं ते भुवनं हि सुराः सदैवदेऽव क्यन्ते ॥५॥"
id"Yamakabharatam-6"
oldKey"YB_C01_V06"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"नीतो वसुदेवेन स्वततेन स गोकुलं सुवसुदेवे न(सवसुदेवेन) । तत्र यशोदा तनयं मेने कृष्णं स्वकीयमवदातनयम् ॥६॥"
id"Yamakabharatam-7"
oldKey"YB_C01_V07"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"ववृधे गोकुसमध्याद्यो(यो) देवो विश्वमद्भुताकुलमध्यात् । तत्र च पूतनिकाया वधमकरोत् यन्निजाः सुपूतनिकायाः(पूतनिकायाः) ॥७॥"
id"Yamakabharatam-8"
oldKey"YB_C01_V08"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"अधुनोच्छकटं लोली पादाङ्गुष्ठेन वातपेशशकटं लोली । अतनोद् रक्षामस्य स्वाज्ञानाद् गोपिका सदेरक्षामस्य ॥८॥"
id"Yamakabharatam-9"
oldKey"YB_C01_V09"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"मुखलालनलोला तन्मुखगं जगदचष्ट सालनलोलातत् । नाध्यैन्मायामस्य जगत्प्रभोः स्वधिकतततमायामस्य(स्वाधिकतततमायामस्य) ॥९॥"
id"Yamakabharatam-10"
oldKey"YB_C01_V10"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"तस्य सुशर्माण्यकरो दरिणो गर्गः सदुक्तिकर्माण्यकरोत् । अवदन्नामानमयं जगदादि वासुदेवनामानमयम् ॥१०॥"
id"Yamakabharatam-11"
oldKey"YB_C01_V11"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"तस्य सखा बलनामा ज्येष्ठो भ्राताऽथ यन्निजाबलना मा । यस्य च पर्यङ्कोऽयं पूर्वतनो विष्णुमजसपर्यं कोऽयम् ॥११॥"
id"Yamakabharatam-12"
oldKey"YB_C01_V12"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"तेन हतो वातरयस्तृणचक्रो नाम दितिसुतोऽवातरयः । हरमाणो (बा)वालतमं स्वात्मानं कण्ठरोधिनाऽवालतमम् ॥१२॥"
id"Yamakabharatam-13"
oldKey"YB_C01_V13"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"सोऽवनिमध्ये रङ्गन् अरिदरयुग् बालरूपमध्येरं गन् । अमुषन्नवनीतमदः (स्व)सगोकुले गोपिकासु नवनीतमदः ॥१३॥"
id"Yamakabharatam-14"
oldKey"YB_C01_V14"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"तन्माता कोपमिता तमनुससारात्मवादवाकोपमिता(त्मवाकोपमिता) । जगृहे सा नमनं तं देवं (तं चिन्तयैव)तच्चिन्तयैव सानमनन्तम् ॥१४॥"
id"Yamakabharatam-15"
oldKey"YB_C01_V15"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"अथ साऽन्तरिताऽमानं विष्णुं विश्वोद्भवं (तदाऽ)सदान्तरितामानम् । अनयद् दामोदरतां योऽरमयत् सुन्दरीं निजामोदरताम् ॥१५॥"
id"Yamakabharatam-16"
oldKey"YB_C01_V16"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"चक्रे सोऽर्जुननाशं प्राप्नोति च (त)यत्स्मृतिः सदाऽर्जुनना शम् । तौ च गतौ निजमोकस्तेनैव नुतेन यन्निजो निजमोकः(यन्निजानिजमोकः) ॥१६॥"
id"Yamakabharatam-17"
oldKey"YB_C01_V17"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"अथ वृन्दावनवासं गोपाश्चक्रुर्जगत्क्षिताऽवनवासम् । तत्र बकासुरमारः शौरिरभून्नित्यसंश्रितासुरमारः ॥१७॥"
id"Yamakabharatam-18"
oldKey"YB_C01_V18"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"अहनद् वत्सतनूकं(वत्सतनुकं) योऽपाल्लोकं स्वयत्नवत्सतनूकम्(वत्सतनुकं) । सोपाद् वत्सानमरः सहाग्रजो गोपवत्सवत्सानमरः(गोपवत् सुवत्सानमरः) ॥१८॥"
id"Yamakabharatam-19"
oldKey"YB_C01_V19"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"सः विभुः श्रीमानहिके ननर्त यस्य श्रमानमा मा न हि के । अकरोन्नद्युदकान्तं कान्तं नीत्वोरगं स नाद्युदकान्तम् ॥१९॥"
id"Yamakabharatam-20"
oldKey"YB_C01_V20"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"हत्वा धेनुकमूढं बलात् प्रलम्बं च खेट् सधेनुकमूढम् । व्रजमावीदमृताशः पीत्वा वह्निं चरस्थिरादमृताशः(चरस्थितादमृताशः) ॥२०॥"
id"Yamakabharatam-21"
oldKey"YB_C01_V21"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"गिरिणा रक्षाऽपि कृता व्रजस्य तेन स्वरक्षरक्षापिकृता । शक्राय व्यञ्जयता स्वां शक्तिं विश्वमात्मनाऽव्यं जयता ॥२१॥"
id"Yamakabharatam-22"
oldKey"YB_C01_V22"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"रेमे गोपीष्वरिहा स मन्मथाक्रान्तसुन्दरीपीष्वरिहा। पूर्णानन्दैकतनुः स विश्वरुक्पावनोऽप्यनन्दैकतनुः (प्यानन्दैकतनुः)॥२२॥"
id"Yamakabharatam-23"
oldKey"YB_C01_V23"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"अथ हतयोर्गलिकेशयोः श्वफल्कजप्रापितः पुरीं गलिकेश्योः । भङ्‍क्त्वा धनुराजवरं जघान तेनैव च स्वयं राजवरम् ॥२३॥"
id"Yamakabharatam-24"
oldKey"YB_C01_V24"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"मृत्नन्(मृद्गन्) गजमुग्रबलं सबऽलो रङ्गं विवेश सृतिमुग्रबऽम् । हत्वा मल्लौ बलिनौ कंसं च विमोक्षितौ(विमोक्षिता) ततौ लौ बलिनौ(रौ बलिनौ) ॥२४॥"
id"Yamakabharatam-25"
oldKey"YB_C01_V25"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"प्रादात् सान्दीपनये मृतपुत्रं ज्ञानदीपसन्दीपनये(सान्दीपनये) । गुर्वर्थेऽज्ञानतमःप्रभेदिता नित्यसम्भृताज्ञानतमः ॥२५॥"
id"Yamakabharatam-26"
oldKey"YB_C01_V26"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"जित्वा मागधराजं तोषितमकरोत् सदात्मयोगधराजम् । अनु कुर्वन् निजसदनं चक्रे रम्यां पुरीं(रम्यं पुरं) सुबोधनिजसदनम् ॥२६॥"
id"Yamakabharatam-27"
oldKey"YB_C01_V27"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"प्रसभं सगजबलस्य क्षत्रस्योच्चैः समगधराजबलस्य । मानं शिशुपालवरं हत्वा भैष्मीमवाप शिशुपालवरम् ॥२७॥"
id"Yamakabharatam-28"
oldKey"YB_C01_V28"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"हंसो (डिभि)डिभकश्चपलावमुना संसूदितौ यवनकश्च पला । कीर्तिर्विमला विरता प्रतता विश्वाधिपावनीलाविरता ॥२८॥"
id"Yamakabharatam-29"
oldKey"YB_C01_V29"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"सत्याजाम्बवतीर्या भार्या विन्दाद्या भानुसाम्बवतीर्याः । प्रद्युम्नं (स्वमोदरतः)मोदरतः प्राप ज्येष्ठं हरिः सुतं मोदरतः ॥२९॥"
id"Yamakabharatam-30"
oldKey"YB_C01_V30"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"यत्परिवारतयेशा जाता देवा नृपात्मजा रतयेशाः । यद्भरितं विषसर्पप्रभृति ध्वान्तं न मारुतिं विषसर्प ॥३०॥"
id"Yamakabharatam-31"
oldKey"YB_C01_V31"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"येन हिडिम्बबकाद्या रक्षोधीशा निपातिता बबकाद्याः । भीमे प्रीतिममेयां व्यञ्जयता तेनैव(तेन) शेषपाति ममे याम् ॥३१॥"
id"Yamakabharatam-32"
oldKey"YB_C01_V32"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"अथ कृष्णावरणे तान् प्राप्तान् राज्ञोऽशृणोत् सदावरणेतान् । द्रष्टुं यातः सबलस्तां चानैषीत् पृथासुतांस्ततः सबलः ॥३२॥"
id"Yamakabharatam-33"
oldKey"YB_C01_V33"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"तानिन्द्रस्थलवासांश्चक्रे कृष्णः परो(पुरो) निजस्थलवासान् । स्वबलोद्रेचितमानैर्जुगोप धर्मं च तैः पराचितमानैः(पराञ्चितमानैः) ॥३३॥"
id"Yamakabharatam-34"
oldKey"YB_C01_V34"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"वालिवधानुनयाय प्रणयी सख्यं सुसन्दधे नु नयाय । वासवजेन विशेषात् तेनैव पुनर्नृजन्मजेन विशेषात् ॥३४॥"
id"Yamakabharatam-35"
oldKey"YB_C01_V35"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"मातुः परिभवहान्यै राज्ञा द्युसदामितश्च परिभवहाऽन्यैः(न्यै) । अभवन्नरकमुरारिर्योऽवासीदत्(योऽवात्सीदत्) समस्तनरकमुरारिः ॥३५॥"
id"Yamakabharatam-36"
oldKey"YB_C01_V36"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"नीतो दिवि देववरै रेमे सत्यासमन्वितोऽदेववरैः । सर्वर्तुवने शशिना निशि सत्यां वासरे वनेऽशशिना ॥३६॥"
id"Yamakabharatam-37"
oldKey"YB_C01_V37"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"सुरतरुमापाऽलिमतात् प्रकाशयञ्छक्तिमात्मनः पाळिमतात् । सुरवरवीरेषु दरी प्रधानजीवेश्वरः परेषुदरी ॥३७॥"
id"Yamakabharatam-38"
oldKey"YB_C01_V38"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"पुरमभियायारिदरी दत्वा भद्रां पृथासुतायारिदरी । शक्रपुरीमभियातः प्रादाद् वह्नेर्वनं सतामभियातः ॥३९॥"
id"Yamakabharatam-39"
oldKey"YB_C01_V39"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"शिवभक्तप्रवराद्यं पुमान् न सेहे गिरीशविप्रवराद्यम्(गिरिशविप्रवराद्यम्) । तं स्वात्मेन्द्रवरेण व्यधुनोद् भीमेन धूतरुद्रवरेण ॥३९॥"
id"Yamakabharatam-40"
oldKey"YB_C01_V40"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"यस्याज्ञाबलसारैः पार्थैर्दिग्भ्यो हृतं धनं बलसारैः । जित्वा क्ष्मामविशेषां प्रसह्य भूपान् समस्तकामविशेषाम् ॥४०॥"
id"Yamakabharatam-41"
oldKey"YB_C01_V41"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"अथ पार्थान् क्रतुराजं प्रापयदमरेट् सरुद्रशक्रतुराजम् । पूजा तेनावापि च्छिन्नश्चैद्यः सृतिं गते नावाऽपि ॥४१॥"
id"Yamakabharatam-42"
oldKey"YB_C01_V42"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"निहतौ सौभकरूशौ शीतो भातश्च येन तौ भकरूशौ(भाकरूशौ) । अजयद् रुद्रं च रणे बाणार्थेऽवनतिपतितकचन्द्रं चरणे ॥४२॥"
id"Yamakabharatam-43"
oldKey"YB_C01_V43"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"असृजज्ज्वरमुग्रतमःक्षयप्रदो लीलयाऽधिवरमुग्रतमः । क्रीडामात्रं विश्वं प्रकाशयन्नात्मनः स विहरकमात्रं विश्वम् ॥४३॥"
id"Yamakabharatam-44"
oldKey"YB_C01_V44"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"यस्यावेशोरुबलान्न्यहनत् पार्थोऽसुरान् प्रजेशोरुबलान्(त्) । वरदानादस्यैव जगत्प्रभोरीरणात् समनुगतनादस्यैव ॥४४॥"
id"Yamakabharatam-45"
oldKey"YB_C01_V45"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"यस्यावेशात् स बलः प्रचकर्ष पुरं प्रसह्य वेशात् सबलः । कुरुपतिनाम नु यमुना कृष्टा(कृष्णा) येनाहुरर्ह्यमतनु(येनाहुरर्घ्यमतनु) यमुना ॥४५॥"
id"Yamakabharatam-46"
oldKey"YB_C01_V46"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"यद्बलवान् क्रोधवशान्निनाय नाशं वृकोदरः क्रोधवशान् । लेभे चान्यागम्यं स्थानं पुष्पाणि धाम चान्यागम्यम् ॥४६॥"
id"Yamakabharatam-47"
oldKey"YB_C01_V47"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"यद्बलभारवहत्वान्नाचलदुरगादिभिः सुभारवहत्वात्(त्वम्) । धर्मादरिहाऽपि पदं भीमो येनैव साहसं (लिहाऽऽपि)रिहाऽऽपि पदम् ॥४७॥"
id"Yamakabharatam-48"
oldKey"YB_C01_V48"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"न हि नहुषोऽलं नहितुं धर्मो द्रौणिस्तथेतरो(रे)ऽलं नहितुम् । नो राट् कर्णो(र्णौ) ब्रह्मवरी येन ध्वस्तोस्त्रमग्रहीत् सुब्रह्म वरी(सब्रह्मवरी) ॥४८॥"
id"Yamakabharatam-49"
oldKey"YB_C01_V49"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"क्षात्रं धर्मं स्ववता गुरुवृत्त्यै केशवाज्ञया च मं (मे/मलं) स्ववता । सर्वं सेहे मनसा भीमेनेशैकमानिना हेमनसा ॥४९॥"
id"Yamakabharatam-50"
oldKey"YB_C01_V50"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"यद्भक्तप्रवरेण प्रोतः स्वस्मिन् स कीचकः प्रवरेण । पतितास्तस्य सहायाः कृष्णार्थे मानिनः समस्य सहायाः ॥५०॥"
id"Yamakabharatam-51"
oldKey"YB_C01_V51"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"यद्भक्त्याऽनुगृहीतौ पार्थो भीमश्च गोनृपौ नु गृहीतौ(निगृहीतौ)। ऋणमुक्त्यै सुव्यत्यस्त्यै क्रमशो वीरावमुञ्चतां सुव्यत्यस्त्यै ॥५१॥"
id"Yamakabharatam-52"
oldKey"YB_C01_V52"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"यद्भक्त्याऽमितयाऽलं कृष्णा कार्ये विवेश कृष्णाकार्ये । यामीरार्द्धतनुत्वान्नापाद् भीमादृतेऽपि नापाद् भीमात् ॥५२॥"
id"Yamakabharatam-53"
oldKey"YB_C01_V53"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"यां स्प्रष्टुमिच्छन्तमजातशत्रुं न्यवारयत् स्वस्थमजातशत्रुम् । शंरूपाने नित्यरतेरियं श्रीरिति स्म देवेड्यदितेरियं श्रीः ॥५३॥"
id"Yamakabharatam-54"
oldKey"YB_C01_V54"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"मनसामनसाऽमनसा मनसा यमनन्तमजस्रमवेदनुया । विलयं विलयं विलयं विलयन्निखिऽलं त्वशुभं प्रचकार च यः(या) ॥५४॥"
id"Yamakabharatam-55"
oldKey"YB_C01_V55"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"सोऽगाद् दूतमुखेन प्रभुणेदं वर्तते यदूतमुखेन । पार्थार्थे बहुतनुतां यत्र प्रकाशयन्(त्) स्वयं सबहुतनुताम् ॥५५॥"
id"Yamakabharatam-56"
oldKey"YB_C01_V56"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"गुरुकर्णनदीजानवधीच्चक्षुर्बलेन जनदीजादी । शक्त्या निजया परवान् स्वजनानुद्रेचयन्ननन्तयाऽपरवान् ॥५६॥"
id"Yamakabharatam-57"
oldKey"YB_C01_V57"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"यस्य सुनीतिसहायान्न(सुनीतसहायान्न) रिपून् मेनेऽर्जुनः समेतसहा यान् । अकरोच्चासु परासुप्रततिं सेनासु धावनासुपरासु ॥५७॥"
id"Yamakabharatam-58"
oldKey"YB_C01_V58"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"येन जयद्रथमारः पार्थः(पात्रा) शत्रूनवापतद्रथमारः । यद्विरहादपि देहे स रथः शश्वत् स्थितेः सदादपि देहे ॥५८॥"
id"Yamakabharatam-59"
oldKey"YB_C01_V59"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"यद्भरितो भरताभः प्रभुरम्भाभावितोऽभिभरताभः । भीमो रभसाऽभिभवी प्रसभं भा भाभिभूर्भसा(भासा) भिभवी ॥५९॥"
id"Yamakabharatam-60"
oldKey"YB_C01_V60"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"यदनुग्रहिपूर्णत्वाद्(यदनुग्रहपूर्णत्वाद्) भीमः सर्वानरीननहिपूर्णत्वात् । अदहत् बाहुबलेन क्रोधाग्नावाहितान् निजाहुबलेन ॥६० ॥"
id"Yamakabharatam-61"
oldKey"YB_C01_V61"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"कृष्णाभीमाप्ततमः शीर्णं येन स्वकीयहृदयमाप्ततमः । धृतराष्ट्रसुतानवधीत् भीमेन स्थापितो मनसि सुसुतानवधीत् ॥६१॥"
id"Yamakabharatam-62"
oldKey"YB_C01_V62"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"भीमविपाटितदेहानदर्शयत्(विपातित/निपातित) स्वानरीन् विपाटितदेहान् । कृष्णाया हितकारी सम्यगीरप्रियः सदाऽहितकारी ॥६२॥"
id"Yamakabharatam-63"
oldKey"YB_C01_V63"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"अथ हरिणा पीतबलं द्रौणेरस्त्रं महारिणाऽपीतबलम् । दधता वासोमरणं नीतं चक्रेऽभिमन्युजं सोमरणम् ॥६३॥"
id"Yamakabharatam-64"
oldKey"YB_C01_V64"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"तस्य च रक्षा सुकृता जनार्दनेनेशशेषकेक्षासुकृता । पार्थेषु प्रेमवता नित्यं भर्त्रासुतासुविप्रेमवता ॥६४॥"
id"Yamakabharatam-65"
oldKey"YB_C01_V65"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"ज्ञानं परमं प्रादाद् भीष्मगतः सृतिविमोक्षचरमं प्रादात् । पाण्डुसुतानामधिकं चक्रे वेदं गुणोत्तरं स्वनामधिकम् ॥६५॥"
id"Yamakabharatam-66"
oldKey"YB_C01_V66"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"तेनावापि सुजातैर्हरिमेधस्तुरगवर्तनेऽपि(तुरगावर्तनेऽपि) सुजातैः । पाण्डुसुतैः (सवसूकैराप्तैर्व्यासात्मना)सवसूकैः प्राप्तैर्व्यासात्मना च सुसवसूकैः ॥६६॥"
id"Yamakabharatam-67"
oldKey"YB_C01_V67"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"तदनु स (सु)पाण्डुतनूजै रेमे क्ष्मां पालयन् सुपाण्डुतनूजैः । अनुपमसुखरूपोऽजः परमः श्रीवल्लभः सति खरूपो जः(सुखरूपो जः/सति सुखरूपोजः) ॥६७॥"
id"Yamakabharatam-68"
oldKey"YB_C01_V68"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"सुगतिं (पर)चरमामददान्निजयोग्यां ज्ञानिसुततिं(ति) परमामददात् । पार्थानां सयदूनां स (परम)पितृप्रेष्यादिनामिनां सयदूनाम् ॥६८॥"
id"Yamakabharatam-69"
oldKey"YB_C01_V69"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"रेमे तत्रापिसुखी परमोऽनन्तो ननन्द तत्रापि सुखी । प्राणेनेन्दिरया च प्रयुतो नित्यं महागुणेन्दिरया च ॥६९॥"
id"Yamakabharatam-70"
oldKey"YB_C01_V70"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"एवं सर्वाणि हरे रूपाणि श्रीपतेः सुपर्वाणिहरेः । पूर्णसुखानि सुभान्ति प्रततानि निरन्तराणि (नि)सुभान्ति ॥७०॥"
id"Yamakabharatam-71"
oldKey"YB_C01_V71"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"राम राम महाबाहो माया ते सुदुरासदा । वाद सादद को लोके पादावेव तवासजेत् ॥७१॥"
id"Yamakabharatam-72"
oldKey"YB_C01_V72"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"जेत् सवातव वेदापाऽके लोकोदद सादवा । दासरादुसुतेयामाहोवाहा मम राम रा(राः) ॥७२॥"
id"Yamakabharatam-73"
oldKey"YB_C01_V73"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"देवानां पतयो नित्यं मतं यस्य न जानते(नो मतं यस्य जानते) । तस्मै देव नमस्तेऽहं भवतेऽसुरमारये ॥७३॥"
id"Yamakabharatam-74"
oldKey"YB_C01_V74"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"समस्तदेवजनकवासुदेवपरामृत । वासुदेव परामृत ज्ञानमूर्ते नमोऽस्तु ते ॥७४॥"
id"Yamakabharatam-75"
oldKey"YB_C01_V75"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"देवादे देवऽलोकप पूर्णानन्दमहोदधे । सर्वज्ञेश रमानाथ देवाऽदेऽदेऽव लोकप ॥७५॥"
id"Yamakabharatam-76"
oldKey"YB_C01_V76"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"यो निर्ममेऽशेषपुराणविद्यां यो निर्ममेशे षपुराणविद्याम् । योनिर्ममेशेषपुराणविद्यां योऽनिर्ममेशेषपुराणविद्याम् ॥७६॥"
id"Yamakabharatam-77"
oldKey"YB_C01_V77"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"अनन्तपारामितविक्रमेश प्रभो रमापारमनन्तपार । महागुणाढ्यापरिमेयसत्त्व रमालयाशेषमहागुणाढ्य ॥७७॥"
id"Yamakabharatam-78"
oldKey"YB_C01_V78"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"भा भा भा भा भा भा भा भा भा भा भा भा भा भा । भा भा भा भा भा भा भा भा भा भा भा भा भा भा ॥७८॥"
id"Yamakabharatam-79"
oldKey"YB_C01_V79"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"नैव परः केशवतः परमादरस्मात् समश्च सुकेशवतः(सुखकेशवतः)। सोऽयं शपथवरो नः शश्वत् सन्धारितः सुशपथवरोऽनः ॥७९॥"
id"Yamakabharatam-80"
oldKey"YB_C01_V80"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"कृष्णकथेयं यमिता (सुश)सुखतीर्थेनोदिताऽनने यं यमिता । भक्तिमता परमेशे सर्वोद्रेका सदानुताऽप रमेशे ॥८०॥"
id"Yamakabharatam-81"
oldKey"YB_C01_V81"
type"verse"
parent"YB_C01"
chapter"YB_C01"
verseType"shloka"
text"इति (नारायणनामाव कतीर्थं)नारायणनामा सुखतीर्थपूजितः सुरायणना मा । पूर्ण गुणैर्धिक(गुणैरधिक) पूर्णज्ञानेच्छाभक्तिभिः(पूर्णज्ञानेच्छाशक्तिभिः) स्वधिकपूर्ण(र्णः) ॥८१॥"