Jump to content

Sadacharasmriti

From Anandamakaranda
Revision as of 01:34, 29 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
सदाचारस्मृतिः

सदाचारस्मृतिः

यस्मिन् सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो याति परं जयति सोऽच्युतः॥ १॥

स्मृत्वा विष्णुं समुत्थाय कृतशौचो यथाविधि । धौतदन्तः समाचम्य स्नानं कुर्याद् विधानतः॥ २॥

उद्धृतेति मृदाऽऽलिप्य द्विषडष्टषडक्षरैः । त्रिर्निमज्याप्यसूक्तेन प्रोक्षयित्वा पुनस्ततः । मृदाऽऽलिप्य निमज्य त्रिस्त्रिर्जपेदघमर्षणम्॥ ३॥

स्रष्टारं सर्वलोकानां स्मृत्वा नारायणं परम् । यतश्वासो निमज्याप्सु प्रणवेनोत्थितस्ततः । सिञ्चन् पुरुषसूक्तेन स्वदेहस्थं हरिं स्मरन्॥ ४॥

वसित्वा वास आचभ्य प्रोक्ष्याचम्य च मन्त्रतः । गायत्र्या चाञ्जलिं दत्वा ध्यात्वा सूर्यगतं हरिम्॥ ५॥

मन्त्रतः परिवृत्याथ समाचम्य सुरादिकान् । तर्पयित्वा निपीड्याथ वासो विस्तृत्य चाञ्जसा॥ ६॥

अर्कमण्डलगं विष्णुं ध्यात्वैव त्रिपदीं जपेत् । सहस्रपरमां देवीं शतमध्यां दशावराम्॥ ७॥

आसूर्यदर्शनात्तिष्ठेत् ततस्तूपविशेत वा । पूर्वां सन्ध्यां सनक्षत्राम् उत्तरां सदिवाकराम् । उत्तरामुपविश्यैव वाग्यतः सर्वदा जपेत्॥८॥

ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः । केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः॥९॥

गायत्र्यास्त्रिगुणं विष्णुं ध्यायन्नष्टाक्षरं जपेत् । प्रणम्य देवान् विप्रांश्च गुरूंश्च हरिपार्षदान् । एवं सर्वोत्तमं विष्णुं ध्यायन्नेवार्चयेद्धरिम्॥ १०॥

ध्यानप्रवचनाभ्यां च यथायोग्यमुपासनम् । धर्मेणेज्यासाधनानि साधयित्वा विधानतः । स्नात्वा सम्पूजयेद्विष्णुं वेदतन्त्रोक्तमार्गतः॥ ११॥

वैश्वदेवं बलिं चैव कुर्यान्नित्यं तदर्पणम् । इष्टं दत्तं हुतं जप्तं पूर्तं यच्चात्मनः प्रियम् । दारान् सुतान् प्रियान् प्राणान् परस्मै सन्निवेदयेन्॥ १२॥

भुक्तशेषं भगवतो भृत्यातिथिपुरस्सरः । भुञ्जीत हृद्गतं विष्णुं स्मरंस्तद्गतमानसः । आचम्य मूलमन्त्रेण कोष्ठं स्वमभिमन्त्रयेत्॥ १३॥

वेदशास्त्रविनोदेन प्रीणयन् पुरुषोत्तमम् । अहःशेषं नयेत्सन्ध्याम् उपासीताथ पूर्ववत्॥ १४॥

यामात्परत एवाथ स्वपेद्ध्यायन् जनार्दनम् । अन्तराले ततो बुद्‍ध्वा स्मरेत बहुशो हरिम्॥ १५॥

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतस्स्वभावम् । करोति यद्यत्सकलं परस्मै नारायणायेति समर्पयेत्तत्॥ १६॥

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥ १७॥

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥ १८॥

यस्मात्क्षरमतीतोहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥ १९॥

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत॥ २०॥

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुद्‍ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत॥ २१॥

रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः । ब्रह्मा मामाश्रितो नित्यं नाहं कञ्चिदुपाश्रितः॥ २२॥

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः॥ २३॥

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः॥ २४॥

द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च । विष्णुभक्तिपरो दैवो विपरीतस्तथासुरः॥२५॥

स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् । सर्वे विधिनिषेधाः स्युरेतयोरेव किङ्कराः॥२६॥

धर्मो भवत्यधर्मोऽपि कृतो भक्तैस्तवाच्युत । पापं भवति धर्मोऽपि यो न भक्तैः कृतो हरेः॥२७॥

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । नित्यं भवेच्च मन्निष्ठो बुभूषुः पुरुषस्सदा॥२८॥

एष नित्यः सदाचारो गृहिणो वनिनस्तथा । वैश्वदेवं बलिं दन्तधावनं चाप्यृते वटोः॥२९॥

एवमेव यतेः स्वीयवित्तेन तु विना सदा । मूलमन्त्रैः सदा स्नानं विष्णोरेव च तर्पणम्॥३०॥

विशेषो निष्क्रिययतेरजलाञ्जलिना तथा । तर्पणं तु हरेरेव यतेरन्यस्य चोदितम्। समिद्धोमो वटोश्चैव स्मृत्वा विष्णुं हुताशने॥३१॥

सर्ववर्णाश्रमैर्विष्णुरेक एवेज्यते सदा । रमाब्रह्मादयस्तस्य परिवारत एव तु॥३२॥

कविं पुराणमनुशासितारम् अणोरणीयांसमनुस्मरेद् यः । सर्वस्य धातारमचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात्॥३३॥

वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचिन्त्य धीरः नामानि कृत्वाभिवदन् यदास्ते॥ ३४॥

धाता पुरस्ताद्यमुदाजहार शक्रः प्रविद्वान्प्रदिशश्चतस्रः । तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते॥ ३५॥

आनन्दतीर्थमुनिना व्यासवाक्यसमुद्धृतिः । सदाचारस्य विषये कृता सङ्क्षेपतः शुभा॥ ३६॥

अशेषकल्याणगुणनित्यानुभवसत्तनुः । अशेषदोषरहितः प्रीयतां पुरुषोत्तमः॥ ३९॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिता सदाचारस्मृतिः समाप्ता॥