Jump to content

Talavakara

From Anandamakaranda
Revision as of 20:12, 29 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
तलवकारोपनिषद्भाष्यम्

अथ प्रथमः खण्डः

अथ प्रथमः खण्डः

अनन्तगुणपूर्णत्वादगम्याय सुरैरपि ।

सर्वेष्टदात्रे देवानां नमो नारायणाय ते ॥

केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः । केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १ ॥

श्रोत्रस्य श्रोत्रं मनसो मनो यद् वाचो ह वाचं स उ प्राणस्य प्राणः । चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २ ॥

न तत्र चक्षुर्गच्छति न वाग् गच्छति नो मनः । न विद्म न विजानीमो यथैतदनुशिष्यात् ॥ ३ ॥

अन्यदेव तद् विदितादथो अविदितादधि । इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ ४ ॥

यद् वाचाऽनभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विदि्ध नेदं यदिदमुपास ते ॥ ५ ॥

यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विदि्ध नेदं यदिदमुपास ते ॥ ६ ॥

यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति । तदेव ब्रह्म त्वं विदि्ध नेदं यदिदमुपास ते ॥ ७ ॥

यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् । तदेव ब्रह्म त्वं विदि्ध नेदं यदिदमुपास ते ॥ ८ ॥

यत् प्राणेन न प्राणिति येन प्राणः प्रणीयते । तदेव ब्रह्म त्वं विदि्ध नेदं यदिदमुपास ते ॥ ९ ॥

इति प्रथमः खण्डः
॥ इति प्रथमः खण्डः ॥

वैजयन्ते समासीनमेकान्ते चतुराननम् ।

विष्णोर्विविदिषुस्तत्त्वं पर्यपृच्छत् सदाशिवः ॥

यदिदं पुरुषावश्यं तत्र तत्र पतेन्मनः ।

केन तत्प्रेरितं याति प्राणः सर्वोत्तमस्तथा ॥

चक्षुःश्रोत्रं तथा वाचं को देवो विनियोजयेत् ।

इति पृष्टस्तदा ब्रह्मा प्राह देवमुमापतिम् ॥

ध्यात्वा नारायणं देवं सर्वाधारमनूपमम् ।

सर्वज्ञं सर्वशक्तिं च सर्वदोषविवर्जितम् ॥

यः प्राणस्य प्रणेता च चक्षुरादेश्च सर्वशः ।

अगम्यस्सर्वदेवैश्च परिपूर्णत्वहेतुतः ॥

प्राणादीनां प्रणेता च सर्ववेत्ता च सर्वशः ।

सर्वोत्तमश्च सर्वत्र स विष्णुरिति धार्यताम् ॥

अथ द्वितीयः खण्डः

अथ द्वितीयः खण्डः

यदि मन्यसे सुवेदेति दहरमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम् । यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते ॥ १ ॥

मन्ये विदितं नाहमन्ये सुवेदेति नो न वेदेति वेद च । यो नस्तद् वेद तद् वेद नो न वेदेति वेद च ॥ २ ॥

यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ ३ ॥

प्रतिबोधविदितं मतममृतत्वं हि विन्दते । आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४ ॥

इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः । भूतेषु भूतेषु विचिन्त्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५ ॥

इति द्वितीयः खण्डः ॥
॥ इति द्वितीयः खण्डः॥

यं सम्यङ् नैव जानाति कश्चिन्निरवशेषतः ।

सर्वात्मना विजानामीति तु यस्य मतं भवेत् ॥

तस्याज्ञातस्स भगवान् यो नैवं मन्यते सदा ।

ज्ञातस्तस्य तथाऽस्यैव निश्शेषं मननं कृतम् ॥

इति यो मन्यते नास्य मतस्स पुरुषोत्तमः ।

नातिवेद्यो न चावेद्यस्तस्मात् स परमेश्वरः ॥

नेदं जीवस्वरूपं तद् ब्रह्म विष्ण्वाख्यमव्ययम् ।

किन्तु यत्ते समीपस्थमास ते विनियामकम् ॥

तदेव ब्रह्म विदि्ध त्वं विष्ण्वाख्यं परमव्ययम् ।

नियामकं तद्देवानां मर्त्यानां किमुतोत्तमम् ॥

तत्प्रसादं विना जीवे मन्तव्या न प्रवृत्तयः ।

किमु जीवस्य तद्भावो न मन्तव्य इतीर्यते ॥

अथ तृतीयः खण्डः

अथ तृतीयः खण्डः

ब्रह्म ह देवेभ्यो विजिग्ये । तस्य ह ब्रह्मणो विजये देवा अमहीयन्त । त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ॥ १ ॥

तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव । तन्न व्यजानन्त । किमिदं यक्षमिति ॥ २ ॥

तेऽग्निमब्रुवन् । जातवेद एतद्विजानीहि किमेतद् यक्षमिति ॥ ३ ॥

तथेति तदभ्यद्रवत् तमभ्यवदत् कोऽसीति । अग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥ ४ ॥

तस्मिंस्त्वयि किं वीर्यमित्यपि । इदं सर्वं दहेयं यदिदं पृथिव्यामिति ॥ ५ ॥

तस्मै तृणं निदधावेतद्दहेति । तदुपप्रेयाय सर्वजवेन । तन्न शशाक दग्धुम् । स तत एव निववृते । नैतदशकं विज्ञातुं यदेतद् यक्षमिति॥ ६ ॥

अथ वायुमब्रुवन् वायवेतद् विजानीहि किमेतद् यक्षमिति । तथेति ॥ ७ ॥

तदभ्यद्रवत् तमभ्यवदत् कोऽसीति । वायुर्वा अहमस्मीत्यब्रवीत् मातरिश्वा वा अहमस्मीति ॥ ८ ॥

तस्मिंस्त्वयि किं वीर्यमित्यपि । इदं सर्वमाददीयं यदिदं पृथिव्यामिति ॥ ९ ॥

तस्मै तृणं निदधावेतदादत्स्वेति । तदुपप्रेयाय सर्वजवेन । तन्न शशाकादातुम् । स तत एव निववृते । नैतदशकं विज्ञातुं यदेतद् यक्षमिति ॥ १० ॥

अथेन्द्रमब्रुवन् । मघवन्नेतद् विजानीहि किमेतद् यक्षमिति । तथेति तदभ्यद्रवत् । तस्मात् तिरोदधे ॥ ११ ॥

स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहु शोभमानामुमां हैमवतीम् । तां होवाच किमेतद् यक्षमिति ॥ १२ ॥

इति तृतीयः खण्डः ॥
॥ इति तृतीयः खण्डः ॥

इत्यत्राख्यायिकां वच्मि शृणु तां त्वं महेश्वर ।

स्थित्वा देवेषु तद् ब्रह्म व्यजयद्दैत्यदानवान् ॥

देवेभ्योऽर्थाय विजयं ते देवा मेनिरे स्वकम् ।

आविष्टा असुरैस्तेषां प्रबोधाय जनार्दनः ॥

यक्षरूपः प्रादुरभूदुमाशिवसमन्वितः ।

ब्रह्मणा चापि सहित एतेभ्योऽपि परो ह्यहम् ॥

एतेऽपि मे भृत्यभूताः परिवार्य व्यवस्थिताः ।

इति ज्ञापयितुं विष्णुः सह तैरप्युपागतः ॥

यूयमेतानपि ज्ञातुमशक्ताः किमु मामिति ।

तज्ज्ञानार्थं हुताशश्च नासिक्यो वायुरेव च ॥

इन्द्रश्च क्रमशो जग्मुस्तं ज्ञातुं नैव चाशकन् ।

तत्रेन्द्रोऽधिकबुदि्धत्वात् पृच्छतीति जनार्दनः ॥

मत्तः शिवाद् ब्रह्मणश्च श्रोतुं नैवापि शक्तिमान् ।

इति ज्ञापयितुं तत्र नादृश्यत स केशवः ॥

एषैव ज्ञानदाने ते योग्योमेति व्यदर्शयत् ॥

अथ चतुर्थः खण्डः

अथ चतुर्थः खण्डः

ब्रह्मेति होवाच । ब्रह्मणो वा एतद्विजयेऽमहीयध्वमिति । ततो ह वै विदाञ्चकार ब्रह्मेति ॥ १ ॥

तस्माद् वा एते देवा अतितरामिवान्यान् देवान् यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्पृशुः ॥ २ ॥

ते ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति ॥ ३ ॥

तस्माद्वा इन्द्रोऽतितरामिवान्यान् देवान् । स ह्येनन्नेदिष्ठं पस्पर्श । स ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति ॥ ४ ॥

तस्यैष आदेशो यदेतद् विद्युतो व्यद्युतदा३ इति । न्यमीमिषदा३ इत्यधिदैवतम् । अथाध्यात्मम् ॥ ५ ॥

यदेतद्गच्छतीव च मनोऽनेनैव तदुपस्मरत्यभीक्ष्णं सङ्कल्पः ॥ ६ ॥

तद्ध तद्वनं नाम तद्वनमित्युपासितव्यम् । स य एतदेवं वेदाभि हैनं सर्वाणि भूतानि संवाञ्छन्ति ॥ ७ ॥

उपनिषदं भो ब्रूहीति । उक्ता त उपनिषद् । ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ८ ॥

तस्मै तपो दमः कर्मेति प्रतिष्ठा । वेदाः सर्वाङ्गानि सत्यमायतनम् ॥ ९ ॥

यो वा एतामुपनिषदमेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति ज्येये प्रतितिष्ठति ॥ १० ॥

॥ इति चतुर्थः खण्डः ॥
इति तलवकारोपनिषत्
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं तलवकारोपनिषद्भाष्यं समाप्तम् ॥

उमा सा सम्यगाचष्ट तस्मै विष्णुं परं पदम् ।

यस्माद् ब्रह्मा च वायुश्च शेषवीन्द्रौ शिवस्तथा ॥

सभार्या गर्विणो नासन् सुरेभ्यस्तेऽधिकास्ततः ।

इन्द्रस्तु प्रथमं ब्रह्म व्यजानात् तेन तूत्तमः ॥

दक्षादिभ्यस्तथा कामः स ज्ञातुं पूर्वमुक्तवान् ।

दक्षो बृहस्पतिश्चैव मनुः कामात्मजस्तथा ॥

सूर्याचन्द्रमसौ धर्मो वरुणश्चोचुरोमिति ।

नासिक्यवायुरग्निश्च प्रथमं तदपश्यताम् ॥

सर्वदेवाधिकास्तस्माद् एते देवाः प्रकीर्तिताः ।

एतेभ्यश्चेन्द्रकामौ तु ताभ्यां ब्रह्मादयोऽधिकाः ॥

एतेषामवमो वह्निः परमो विष्णुरुच्यते ।

अन्तराले स्थितास्त्वन्ये ब्रह्माद्याः पूर्वमीरिताः ॥

अग्निः पश्चाद्व्यजानात् तदिन्द्रवाक्यात् ततोऽवमः ।

तस्माद्विष्ण्वभिसम्बन्धात् पारावर्यं सुरेष्विदम् ॥

व्यद्योतयद्विद्युदादीन् कपिलाख्यस्तु यो हरिः ।

अक्ष्णोर्निमेषणं कृत्वा यः शेते क्षीरसागरे ॥

स एवैकः परं ब्रह्मेत्येवं तस्योपदेशनम् ।

अधिदैवे तथाऽध्यात्मे यं मनो गच्छतीव च ॥

सम्यङ् न गच्छति क्वापि मनो येन स्मरत्यपि ।

सोऽनिरुद्धाख्य ईशेशः परं ब्रह्मेति कीर्त्यते ॥

स विष्णुस्तद्वनं नाम ततत्वाद् वननीयतः ।

एवमेनं तु यो वेद भवेत् सर्वैरपेक्षितः ॥

एतत् श्रुत्वा हरोऽपृच्छद् ब्रह्माणं पुनरेव तु ।

विद्याकारं मम ब्रूहीत्युक्तो ब्रह्माऽऽह तं पुनः ॥ विद्यावेद्यं तव प्रोक्तमास्थानं ते वदाम्यहम् ।

तपोदानस्वधर्मेषु ये स्थितास्तेषु तिष्ठति ॥

विद्यास्थानानि तस्यास्तु वेदा अङ्गानि निर्णयः ।

वेदैतामेवमखिलां यो विष्णौ प्रतितिष्ठति ॥

इत्यादि ब्रह्मसारे ॥

विद्युतः सूर्यादिप्रकाशान् । आसमन्ताद्व्यद्युतत्प्राकाशयत् ।

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।

यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ इति वचनात् ।

तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति इति च ।

न्यमीमिषदा आ समन्तान्निमीलिताक्षमभवत् ।

स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि ।

अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीलितात्मा निशि सुप्तशक्तिषु ॥ इति वचनात् ।

पूर्णत्वाच्च आः । अभीक्ष्णं सङ्कल्प इति मनसो विशेषणम् । सङ्कल्पकमित्यर्थः । सप्रतिष्ठां सायतनामुपनिषदं ब्रूहीत्युक्ते सम्यगेव मयोपनिषत्स्वरूपमुक्तम् । तत्र वक्तव्यं नास्ति ।

तपो दमः कर्म च विद्यायाः प्रतिष्ठा । तद्वत्सु विद्या प्रतितिष्ठतीत्यर्थः । सत्यमिति मीमांसा ।

निर्णीयते यतः सम्यगिदं सत्यमिति स्फुटम् ।

श्रुतिस्मृत्युदितं सर्वं व्यक्तं मीमांसयैतया ॥

सत्यमित्युच्यते तस्मान्मीमांसा ब्रह्मनिश्चयाः ॥

इति शब्दनिर्णये ॥

ऋग्यजुस्सामाथर्वाख्याः पञ्चरात्रं च भारतम् ।

मूलरामायणं चैव पुराणं भगवत्परम् ॥

वेदा इत्युच्यते सदि्भः शिक्षाद्यं स्मृतयस्तथा ।

अङ्गानि सत्यं मीमांसा तद्विद्यायतनं त्रयम् ॥

इति विद्यानिर्णये ॥ यश्चिदानन्दसच्छक्तिसम्पूर्णो भगवान् परः ।

नमोऽस्तु विष्णवे तस्मै प्रेयसे मे परात्मने ॥