Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S01/A005: Difference between revisions

From Anandamakaranda
BS>ImportBot
Initial import
 
m 1 revision imported
 
(No difference)

Latest revision as of 10:10, 2 March 2026

भोक्त्राधिकरणम्

ॐ भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत् ॐ ॥ 14-149 ॥


‘कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति’ इति मुक्तजीवस्य परापत्तिरुच्यते । अतस्तयोरविभागः । अतः पूर्वमपि स एव । न हन्यस्यान्यत्वं युज्यत इति चेन्न । स्याल्लोकवत् । यथा लोके उदके उदकान्तरस्यैकीभावव्यवहारेऽप्यन्तर्भेदोऽस्त्येव, एवं स्यादत्रापि । तथा च श्रुतिः



स्कान्दे च –


‘उदकं तूदके सिक्तं मिश्रमेव यथा भवेत् । न चैतदेव भवति यतो वृद्धिः प्रदृश्यते ॥


एवमेव हि जीवोऽपि तादात्म्यं परमात्मना । प्राप्तोऽपि नासौ भवति स्वातन्त्र्यादिविशेषणात्’ इति ।


‘ब्रह्मेशानादिभिर्देवैर्यत् प्राप्तुं नैव शक्यते । तद्यत्स्वभावः कैवल्यं स भवान् केवलोहरे’ इति च ।


‘न ते महित्वमन्वश्नुवन्ति’’न ते विष्णो जायमानो न जातः’ इत्यादि च फलत्वेऽपि युक्तिविरोधेऽन्तर्भावादत्रोक्तम् ॥ 14 ॥