ब्रह्मसूत्रभाष्यम्/C02/S02/A021: Difference between revisions
BS>ImportBot Initial import |
m 1 revision imported |
(No difference)
| |
Latest revision as of 10:10, 2 March 2026
नैकस्मिन्नधिकरणम्
स्याद्वादिमतं दूषयति-
ॐ नैकस्मिन्नसम्भवात् ॐ ॥ 33-206 ॥
सत् स्यादसत् स्यात् सदसत् स्यात् ततोऽन्यच्च स्यादित्येतन्नैकस्मिन् युज्यते । अदृष्टत्वेनासम्भवात् ॥ 33 ॥
ॐ एवञ्चात्माकार्त्स्न्यम् ॐ ॥ 34-207 ॥
जीवस्य शरीरपरिमितत्वाङ्गीकारेऽण्वादिशरीरस्थस्य हस्तादिशरीरेऽकार्त्स्न्यं स्यात् ॥34॥
ॐ न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ 35-208 ॥
तत्तच्छरीरस्थस्य तत्तत्परिमाणत्वमिति न मन्तव्यम् । विकारित्वादनित्यत्वप्रसक्तेः ॥ 35 ॥
ॐ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषात् ॐ ॥ 36-209 ॥
परिमाणाभावे स्वरूपाभावप्राप्त्याऽन्त्यपरिमाणस्थितेस्तदर्थत्वेन शरीरस्थितेरुभयनित्यत्वादविशेषेण सर्वशरीरनित्यत्वं स्यात् ॥ 36 ॥