ब्रह्मसूत्रभाष्यम्/C02/S04/Intro: Difference between revisions
BS>ImportBot Initial import |
m 1 revision imported |
(No difference)
| |
Latest revision as of 10:10, 2 March 2026
प्रास्ताविकम्
युक्तिसहितश्रुतिविरोधं श्रुतीनामपाकरोत्यनेन पादेन ।
‘प्राणा एवेदमग्र आसुस्तेभ्यो भूतानि जज्ञिरे । भूतेभ्योऽण्डमण्डस्यान्तस्त्विमे लोकाः । अथ प्राणा एवानादयः प्राणा नित्याः’ इति काषायणश्रुतौ प्राणानामनुत्पत्तिः श्रूयते ।
‘नोपादानं हीन्द्रियाणामतोऽनुत्पत्तिरिष्यते ।
उपादानकृता सृष्टिः सर्वलोकेषु दृष्यते’ इति भविष्यत्पर्वणि ॥
‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ इति च ।
अत उच्यते –