Kathalakshanam/Vyakhya/Kathalakshana-tika: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |

| Line 1: | Line 1: | ||
= कथालक्षणटीका = | = कथालक्षणटीका = | ||

[[Kathalakshanam|Kathalakshanam]]

[[Kathalakshanam|Kathalakshanam]]

| Line 12: | Line 11: | ||
ख्यात्याद्यर्थं स्पर्धया वा सतां जल्प इतीर्यते ॥3॥ | ख्यात्याद्यर्थं स्पर्धया वा सतां जल्प इतीर्यते ॥3॥ | ||

प्रवक्ष्यामि कथालक्षणमिति प्रतिज्ञातं निरूपयितुमाह– |
प्रवक्ष्यामि कथालक्षणमिति प्रतिज्ञातं निरूपयितुमाह– | ||
| Line 26: | Line 21: | ||
केवलं तत्वनिर्णयं गुरुशिष्ययोरन्येषां वा सतां परस्परं पक्षप्रतिपक्षपरिग्रहेण समिता मनोहरा कथाऽसौ वाद इत्युच्यते । सत्सिद्धान्तं उत्सादयितुं यत्रासतः स्वपक्षसाधनं कुर्युस्तत्रासत्सु तत्वस्याकथनीयत्वात् स्वपक्षसाधनमकृत्वा सन्तस्तत्पक्षदूषणमेव कुर्युः , सेयं स्वपक्षस्थापनरहिता परपक्षदूषणरूपा कथा वितण्डेत्यर्थः । वादे तु प्रतिवादिना सहैव तत्वं निर्णेतव्यमिति नियमो नास्ति ॥ 1-3॥
| केवलं तत्वनिर्णयं गुरुशिष्ययोरन्येषां वा सतां परस्परं पक्षप्रतिपक्षपरिग्रहेण समिता मनोहरा कथाऽसौ वाद इत्युच्यते । सत्सिद्धान्तं उत्सादयितुं यत्रासतः स्वपक्षसाधनं कुर्युस्तत्रासत्सु तत्वस्याकथनीयत्वात् स्वपक्षसाधनमकृत्वा सन्तस्तत्पक्षदूषणमेव कुर्युः , सेयं स्वपक्षस्थापनरहिता परपक्षदूषणरूपा कथा वितण्डेत्यर्थः । वादे तु प्रतिवादिना सहैव तत्वं निर्णेतव्यमिति नियमो नास्ति ॥ 1-3॥

| Line 39: | Line 34: | ||
स्वयं वा प्राश्निकैर्वादे चिन्तयेत् तत्त्वनिर्णयम् ॥4॥ | स्वयं वा प्राश्निकैर्वादे चिन्तयेत् तत्त्वनिर्णयम् ॥4॥ | ||

प्रतिवाद्यसामर्थ्ये प्राश्निकैः सहापि निर्णेतुं शक्यत्वादित्याह– |
प्रतिवाद्यसामर्थ्ये प्राश्निकैः सहापि निर्णेतुं शक्यत्वादित्याह– | ||
स्वयं वेति ॥
| स्वयं वेति ॥

| Line 60: | Line 51: | ||
प्राश्निका इति सम्प्रोक्ता विषमा एक एव वा ॥5॥ | प्राश्निका इति सम्प्रोक्ता विषमा एक एव वा ॥5॥ | ||

प्राश्निकलक्षणमाह– |
प्राश्निकलक्षणमाह– | ||
| Line 70: | Line 57: | ||
विषमसङ्ख्याका विषमा उच्यन्ते । सद्गुणानां समीचीनगुणवतां सर्वेषां चेतनानां विष्णुभक्तिरेव स्वलक्षणमव्यभिचरितलक्षणम् । विष्णुभक्त्यभावे सज्जना एव न सम्भवन्ति । अतो विष्णुभक्तिपरा एव प्राश्निका भाव्या इत्यर्थः ॥
| विषमसङ्ख्याका विषमा उच्यन्ते । सद्गुणानां समीचीनगुणवतां सर्वेषां चेतनानां विष्णुभक्तिरेव स्वलक्षणमव्यभिचरितलक्षणम् । विष्णुभक्त्यभावे सज्जना एव न सम्भवन्ति । अतो विष्णुभक्तिपरा एव प्राश्निका भाव्या इत्यर्थः ॥

| Line 84: | Line 71: | ||
अन्यार्थ एवागमस्य वक्तव्यः प्रतिवादिना ॥8॥ | अन्यार्थ एवागमस्य वक्तव्यः प्रतिवादिना ॥8॥ | ||

चिन्तयेत्तत्वनिर्णयम् इत्युक्तम् । तच्चिन्ताप्रकारमाह– |
चिन्तयेत्तत्वनिर्णयम् इत्युक्तम् । तच्चिन्ताप्रकारमाह– | ||
| Line 94: | Line 77: | ||
प्रतिवादिना पृष्टेन वादिनेत्यर्थः । ‘नैषा तर्केण मतिरापनेया’ इति श्रुतेः परतत्वसिद्ध्यर्थमादावागम एव प्रयोक्तव्यः । गमानुगृहीतानुमानस्य प्रबलत्वेन प्रत्यनुमानासम्भवात् । आगमानन्तरमनुमानमपि प्रयोक्तुं शक्यते । प्रयुक्तस्यान्यार्थ एव प्रतिवादिना वक्तव्यः । न प्रत्यनुमानम् दुर्बलत्वादित्यर्थः ।
| प्रतिवादिना पृष्टेन वादिनेत्यर्थः । ‘नैषा तर्केण मतिरापनेया’ इति श्रुतेः परतत्वसिद्ध्यर्थमादावागम एव प्रयोक्तव्यः । गमानुगृहीतानुमानस्य प्रबलत्वेन प्रत्यनुमानासम्भवात् । आगमानन्तरमनुमानमपि प्रयोक्तुं शक्यते । प्रयुक्तस्यान्यार्थ एव प्रतिवादिना वक्तव्यः । न प्रत्यनुमानम् दुर्बलत्वादित्यर्थः ।

| Line 107: | Line 90: | ||
अन्ये दुरागमा नाम तैर्न साध्यं हि साध्यते ॥10॥ | अन्ये दुरागमा नाम तैर्न साध्यं हि साध्यते ॥10॥ | ||

आगमशब्दार्थमाह– |
आगमशब्दार्थमाह– | ||
ऋग्यजुः इत्यादिना ॥
| ऋग्यजुः इत्यादिना ॥

| Line 128: | Line 107: | ||
निर्णेयः सहितैः पश्चात्ततो निश्शेषनिर्णयः ॥13॥ | निर्णेयः सहितैः पश्चात्ततो निश्शेषनिर्णयः ॥13॥ | ||

वादिप्रयुक्तागमस्य योऽन्यार्थः उक्तः तस्मिन्नागमोऽन्यो वक्तव्यः प्रतिवादिना । प्रतिवाद्युक्तागमस्यान्यार्थतां वादिनां स्वपक्षसिद्ध्यर्थं साधयित्वा स्वागमस्यान्यार्थता निश्चयेन निराकार्या उपपत्तिबलात् । एवमुपक्रमोपसंहारादिभिः स्वागमं निर्णीय तथैव परप्रयुक्तागमोऽपि यदा निर्णीयते स्वपक्षानुसारेण तदा निश्शेषनिर्णयो भवतीत्याह |
वादिप्रयुक्तागमस्य योऽन्यार्थः उक्तः तस्मिन्नागमोऽन्यो वक्तव्यः प्रतिवादिना । प्रतिवाद्युक्तागमस्यान्यार्थतां वादिनां स्वपक्षसिद्ध्यर्थं साधयित्वा स्वागमस्यान्यार्थता निश्चयेन निराकार्या उपपत्तिबलात् । एवमुपक्रमोपसंहारादिभिः स्वागमं निर्णीय तथैव परप्रयुक्तागमोऽपि यदा निर्णीयते स्वपक्षानुसारेण तदा निश्शेषनिर्णयो भवतीत्याह | ||
स्वपक्ष इत्यादिना ॥
| स्वपक्ष इत्यादिना ॥

| Line 149: | Line 124: | ||
ज्ञानं वा ज्ञानसिद्धेषु नानुमां प्रथमं वदेत् ॥14॥ | ज्ञानं वा ज्ञानसिद्धेषु नानुमां प्रथमं वदेत् ॥14॥ | ||

एवमागमैकवेद्यत्वचिन्तां निर्वर्त्य प्रत्यक्षादिसिद्धार्थनिर्णयचिन्तां निर्वर्तयति– |
एवमागमैकवेद्यत्वचिन्तां निर्वर्त्य प्रत्यक्षादिसिद्धार्थनिर्णयचिन्तां निर्वर्तयति– | ||
| Line 159: | Line 130: | ||
घटादिसद्भावप्रत्यक्षेण प्रतिपादयेत् । सुखदुः खादिसद्भावमनुभवेन प्रतिपादयेत् । तद्दार्ढ्यायानन्तरमनुमानादिकमपि प्रयुञ्ज्यात् प्रतिवादिनं प्रतिवादीत्यर्थः ।
| घटादिसद्भावप्रत्यक्षेण प्रतिपादयेत् । सुखदुः खादिसद्भावमनुभवेन प्रतिपादयेत् । तद्दार्ढ्यायानन्तरमनुमानादिकमपि प्रयुञ्ज्यात् प्रतिवादिनं प्रतिवादीत्यर्थः ।

| Line 172: | Line 143: | ||
स एवात्रागमो ज्ञेयः परतुष्टिर्हि तत्फलम् ॥15॥ | स एवात्रागमो ज्ञेयः परतुष्टिर्हि तत्फलम् ॥15॥ | ||

तत्वविषये यदागमवाक्यं वादी वा प्रतिवादी वा वदेत् तत्सतां तुष्टिकरमेव तावुभौ वदेतामित्याह |
तत्वविषये यदागमवाक्यं वादी वा प्रतिवादी वा वदेत् तत्सतां तुष्टिकरमेव तावुभौ वदेतामित्याह | ||
परतुष्टिकरमिति ॥
| परतुष्टिकरमिति ॥

| Line 193: | Line 160: | ||
घटेयुश्चिरकालं च जल्पे यावत्परो जितः ॥16॥ | घटेयुश्चिरकालं च जल्पे यावत्परो जितः ॥16॥ | ||

एवंविधवादकथायां एक एव वादी एक एव प्रतिवादीत्यपि नियमो नास्ति । बहवो वादिनो बहवः प्रतिवादिनो बहुतराश्च प्राश्निकाः सभ्यादयश्चिरकालं वा तत्वनिर्णयपर्यन्तं प्रयतेरन् । तत्वनिर्णयावसानत्वाद्वादस्य । जल्पस्तु वादिप्रतिवादिपक्षिणोरन्यतरपराजयमाह– |
एवंविधवादकथायां एक एव वादी एक एव प्रतिवादीत्यपि नियमो नास्ति । बहवो वादिनो बहवः प्रतिवादिनो बहुतराश्च प्राश्निकाः सभ्यादयश्चिरकालं वा तत्वनिर्णयपर्यन्तं प्रयतेरन् । तत्वनिर्णयावसानत्वाद्वादस्य । जल्पस्तु वादिप्रतिवादिपक्षिणोरन्यतरपराजयमाह– | ||
एवं निर्णयपर्यन्तमिति ॥
| एवं निर्णयपर्यन्तमिति ॥

| Line 214: | Line 177: | ||
संवादे श्लाघ्यतैव स्याद् गुरुत्वमितरस्य च ॥17॥ | संवादे श्लाघ्यतैव स्याद् गुरुत्वमितरस्य च ॥17॥ | ||

तत्वनिर्णयानुपयुक्ताग्रहेण वादे साक्षात्प्रतिपक्षिपराजयः न तु न्यूनोक्त्यधिकोक्त्यादिदूषणेन । तत्र सभ्यैः प्रतिपक्षी पराजित इत्युक्ते यद्यसौ संवादं करोति तर्हि श्लाघ्यो भवेत् । न दण्ड्यः । संवादाकरणे निन्द्यो वा यथायोग्यं दण्ड्यो वा भवेत् । तदेतदाह |
तत्वनिर्णयानुपयुक्ताग्रहेण वादे साक्षात्प्रतिपक्षिपराजयः न तु न्यूनोक्त्यधिकोक्त्यादिदूषणेन । तत्र सभ्यैः प्रतिपक्षी पराजित इत्युक्ते यद्यसौ संवादं करोति तर्हि श्लाघ्यो भवेत् । न दण्ड्यः । संवादाकरणे निन्द्यो वा यथायोग्यं दण्ड्यो वा भवेत् । तदेतदाह | ||
तत्वनिर्णयवैलोम्यमित्यादिना ॥
| तत्वनिर्णयवैलोम्यमित्यादिना ॥

| Line 235: | Line 194: | ||
अनुवादादिराहित्यं नैव जल्पेऽपि दूषणम् ॥20॥ | अनुवादादिराहित्यं नैव जल्पेऽपि दूषणम् ॥20॥ | ||

वाद्युक्तस्य प्रतिवादिनं प्रति प्राश्निकैरनुवादः कर्तव्य इति वादजल्पयोः नियमो नास्ति । अननुवादेऽपि दूषणाभावात् । अनुवादाभावेऽपि वादिप्रतिवादिभ्या मेव जल्पकथायाः कर्तुं शक्यत्वादित्याह– |
वाद्युक्तस्य प्रतिवादिनं प्रति प्राश्निकैरनुवादः कर्तव्य इति वादजल्पयोः नियमो नास्ति । अननुवादेऽपि दूषणाभावात् । अनुवादाभावेऽपि वादिप्रतिवादिभ्या मेव जल्पकथायाः कर्तुं शक्यत्वादित्याह– | ||
अनुवादेति ॥
| अनुवादेति ॥

| Line 256: | Line 211: | ||
तदभावान्नैव षट्कादन्यो निग्रह इष्यते ॥21॥ | तदभावान्नैव षट्कादन्यो निग्रह इष्यते ॥21॥ | ||

विरोधासङ्गतिन्यूनोक्त्यादिदूषणमिव विद्याहीनत्वलिङ्गमपि वादिनः प्रतिवादिपराजयनिमित्तं भवति । जल्पवितण्डाप्रवृत्तिच्छेदः । न हि हीनविद्यस्याधिकविद्येन जल्पो वा वितण्डा वा युज्यते । समानविद्ययोरेव तदर्हत्वादित्याह– |
विरोधासङ्गतिन्यूनोक्त्यादिदूषणमिव विद्याहीनत्वलिङ्गमपि वादिनः प्रतिवादिपराजयनिमित्तं भवति । जल्पवितण्डाप्रवृत्तिच्छेदः । न हि हीनविद्यस्याधिकविद्येन जल्पो वा वितण्डा वा युज्यते । समानविद्ययोरेव तदर्हत्वादित्याह– | ||
| Line 268: | Line 219: | ||
तदभावादिति ॥
| तदभावादिति ॥

| Line 281: | Line 232: | ||
विद्यापरीक्षापूर्वैव वृत्तिर्जल्पवितण्डयोः ॥22॥ | विद्यापरीक्षापूर्वैव वृत्तिर्जल्पवितण्डयोः ॥22॥ | ||

यद्विद्याहीनत्वं तद्वादिप्रतिवादिविद्यापरीक्षाकाले प्राश्निकैरेव मन्तव्यम् । न तु वादिना प्रतिवादिना वा उद्भाव्यम् । अतो न तन्निगृहस्थानान्तरमित्याशयवानाह– |
यद्विद्याहीनत्वं तद्वादिप्रतिवादिविद्यापरीक्षाकाले प्राश्निकैरेव मन्तव्यम् । न तु वादिना प्रतिवादिना वा उद्भाव्यम् । अतो न तन्निगृहस्थानान्तरमित्याशयवानाह– | ||
| Line 291: | Line 238: | ||
यद्यप्यत्र जल्पवितण्डयोः न्यूनोक्त्याधिकोक्त्यादिदूषणं पराजयनिमित्तमुक्तं तदौत्सर्गिकं ज्ञातव्यम् ।
| यद्यप्यत्र जल्पवितण्डयोः न्यूनोक्त्याधिकोक्त्यादिदूषणं पराजयनिमित्तमुक्तं तदौत्सर्गिकं ज्ञातव्यम् ।

| Line 304: | Line 251: | ||
वादजल्पवितण्डानामिति शुद्धं स्वलक्षणम् ॥23॥ | वादजल्पवितण्डानामिति शुद्धं स्वलक्षणम् ॥23॥ | ||

क्वचिदपवादोऽस्तीत्याह– |
क्वचिदपवादोऽस्तीत्याह– | ||
| Line 316: | Line 259: | ||
वादजल्पवितण्डानामिति ॥
| वादजल्पवितण्डानामिति ॥

| Line 329: | Line 272: | ||
नरसिंहः प्रियतमः प्रीयतां पुरुषोत्तमः ॥25॥ | नरसिंहः प्रियतमः प्रीयतां पुरुषोत्तमः ॥25॥ | ||

वादजल्पवितण्डाभिः भगवत्प्रतिपक्षनिरासाद्भगवत्पक्षस्थापनात् कथालक्षणकथनेन भगवत्प्रीतिः भवतीत्याह |
वादजल्पवितण्डाभिः भगवत्प्रतिपक्षनिरासाद्भगवत्पक्षस्थापनात् कथालक्षणकथनेन भगवत्प्रीतिः भवतीत्याह | ||
आनन्दतीर्थमुनिनेति ॥
| आनन्दतीर्थमुनिनेति ॥

॥ इति श्रीपद्मनाभतीर्थभट्टारकविरचिता श्रीकथालक्षणटीका समाप्ता ॥

॥ इति श्रीपद्मनाभतीर्थभट्टारकविरचिता श्रीकथालक्षणटीका समाप्ता ॥

Latest revision as of 01:36, 29 April 2026
कथालक्षणटीका
कथाऽन्येषामपि सतां वादो वा समितेः शुभा । ख्यात्याद्यर्थं स्पर्धया वा सतां जल्प इतीर्यते ॥3॥
प्रवक्ष्यामि कथालक्षणमिति प्रतिज्ञातं निरूपयितुमाह– वादो जल्पो वितण्डेति ॥ वादादीनां लक्षणं निरूपयति– तत्वनिर्णयमित्यादिना ॥ केवलं तत्वनिर्णयं गुरुशिष्ययोरन्येषां वा सतां परस्परं पक्षप्रतिपक्षपरिग्रहेण समिता मनोहरा कथाऽसौ वाद इत्युच्यते । सत्सिद्धान्तं उत्सादयितुं यत्रासतः स्वपक्षसाधनं कुर्युस्तत्रासत्सु तत्वस्याकथनीयत्वात् स्वपक्षसाधनमकृत्वा सन्तस्तत्पक्षदूषणमेव कुर्युः , सेयं स्वपक्षस्थापनरहिता परपक्षदूषणरूपा कथा वितण्डेत्यर्थः । वादे तु प्रतिवादिना सहैव तत्वं निर्णेतव्यमिति नियमो नास्ति ॥ 1-3॥
वितण्डा तु सतामन्यैस्तत्त्वमेषु निगूहितम् । स्वयं वा प्राश्निकैर्वादे चिन्तयेत् तत्त्वनिर्णयम् ॥4॥
प्रतिवाद्यसामर्थ्ये प्राश्निकैः सहापि निर्णेतुं शक्यत्वादित्याह– स्वयं वेति ॥
रागद्वेषविहीनास्तु सर्वविद्याविशारदाः । प्राश्निका इति सम्प्रोक्ता विषमा एक एव वा ॥5॥
प्राश्निकलक्षणमाह– रागद्वेषविहीना इत्यादिना ॥ विषमसङ्ख्याका विषमा उच्यन्ते । सद्गुणानां समीचीनगुणवतां सर्वेषां चेतनानां विष्णुभक्तिरेव स्वलक्षणमव्यभिचरितलक्षणम् । विष्णुभक्त्यभावे सज्जना एव न सम्भवन्ति । अतो विष्णुभक्तिपरा एव प्राश्निका भाव्या इत्यर्थः ॥
पृष्टेनागम एवादौ वक्तव्यः साध्यसिद्धये । नैषा तर्केणापनेया मतिरित्याह हि श्रुतिः । अन्यार्थ एवागमस्य वक्तव्यः प्रतिवादिना ॥8॥
चिन्तयेत्तत्वनिर्णयम् इत्युक्तम् । तच्चिन्ताप्रकारमाह– पृष्टेनेत्यादिना ॥ प्रतिवादिना पृष्टेन वादिनेत्यर्थः । ‘नैषा तर्केण मतिरापनेया’ इति श्रुतेः परतत्वसिद्ध्यर्थमादावागम एव प्रयोक्तव्यः । गमानुगृहीतानुमानस्य प्रबलत्वेन प्रत्यनुमानासम्भवात् । आगमानन्तरमनुमानमपि प्रयोक्तुं शक्यते । प्रयुक्तस्यान्यार्थ एव प्रतिवादिना वक्तव्यः । न प्रत्यनुमानम् दुर्बलत्वादित्यर्थः ।
अनुकूला य एतेषां ते च प्रोक्तास्सदागमाः । अन्ये दुरागमा नाम तैर्न साध्यं हि साध्यते ॥10॥
आगमशब्दार्थमाह– ऋग्यजुः इत्यादिना ॥
वाद्यागमार्थे निर्णीत आगमार्थः परस्य तु । निर्णेयः सहितैः पश्चात्ततो निश्शेषनिर्णयः ॥13॥
वादिप्रयुक्तागमस्य योऽन्यार्थः उक्तः तस्मिन्नागमोऽन्यो वक्तव्यः प्रतिवादिना । प्रतिवाद्युक्तागमस्यान्यार्थतां वादिनां स्वपक्षसिद्ध्यर्थं साधयित्वा स्वागमस्यान्यार्थता निश्चयेन निराकार्या उपपत्तिबलात् । एवमुपक्रमोपसंहारादिभिः स्वागमं निर्णीय तथैव परप्रयुक्तागमोऽपि यदा निर्णीयते स्वपक्षानुसारेण तदा निश्शेषनिर्णयो भवतीत्याह स्वपक्ष इत्यादिना ॥
प्रत्यक्षसिद्धेष्वर्थेषु प्रश्ने मामक्षजं वदेत् । ज्ञानं वा ज्ञानसिद्धेषु नानुमां प्रथमं वदेत् ॥14॥
एवमागमैकवेद्यत्वचिन्तां निर्वर्त्य प्रत्यक्षादिसिद्धार्थनिर्णयचिन्तां निर्वर्तयति– प्रत्यक्षसिद्धेष्विति ॥ घटादिसद्भावप्रत्यक्षेण प्रतिपादयेत् । सुखदुः खादिसद्भावमनुभवेन प्रतिपादयेत् । तद्दार्ढ्यायानन्तरमनुमानादिकमपि प्रयुञ्ज्यात् प्रतिवादिनं प्रतिवादीत्यर्थः ।
परतुष्टिकरं वाक्यं वदेतां यदि वादिनी । स एवात्रागमो ज्ञेयः परतुष्टिर्हि तत्फलम् ॥15॥
तत्वविषये यदागमवाक्यं वादी वा प्रतिवादी वा वदेत् तत्सतां तुष्टिकरमेव तावुभौ वदेतामित्याह परतुष्टिकरमिति ॥
एवं निर्णयपर्यन्तं वादे सुबहवोऽपि हि । घटेयुश्चिरकालं च जल्पे यावत्परो जितः ॥16॥
एवंविधवादकथायां एक एव वादी एक एव प्रतिवादीत्यपि नियमो नास्ति । बहवो वादिनो बहवः प्रतिवादिनो बहुतराश्च प्राश्निकाः सभ्यादयश्चिरकालं वा तत्वनिर्णयपर्यन्तं प्रयतेरन् । तत्वनिर्णयावसानत्वाद्वादस्य । जल्पस्तु वादिप्रतिवादिपक्षिणोरन्यतरपराजयमाह– एवं निर्णयपर्यन्तमिति ॥
तत्त्वनिर्णयवैलोम्यं वादे साक्षात्पराजयः । संवादे श्लाघ्यतैव स्याद् गुरुत्वमितरस्य च ॥17॥
तत्वनिर्णयानुपयुक्ताग्रहेण वादे साक्षात्प्रतिपक्षिपराजयः न तु न्यूनोक्त्यधिकोक्त्यादिदूषणेन । तत्र सभ्यैः प्रतिपक्षी पराजित इत्युक्ते यद्यसौ संवादं करोति तर्हि श्लाघ्यो भवेत् । न दण्ड्यः । संवादाकरणे निन्द्यो वा यथायोग्यं दण्ड्यो वा भवेत् । तदेतदाह तत्वनिर्णयवैलोम्यमित्यादिना ॥
पराजितत्वमात्रं स्यान्निन्द्यो दण्ड्योऽपि वाऽन्यथा । अनुवादादिराहित्यं नैव जल्पेऽपि दूषणम् ॥20॥
वाद्युक्तस्य प्रतिवादिनं प्रति प्राश्निकैरनुवादः कर्तव्य इति वादजल्पयोः नियमो नास्ति । अननुवादेऽपि दूषणाभावात् । अनुवादाभावेऽपि वादिप्रतिवादिभ्या मेव जल्पकथायाः कर्तुं शक्यत्वादित्याह– अनुवादेति ॥
विद्याहीनत्वलिङ्गेऽपि वादिनोः स्यात् पराजयः । तदभावान्नैव षट्कादन्यो निग्रह इष्यते ॥21॥
विरोधासङ्गतिन्यूनोक्त्यादिदूषणमिव विद्याहीनत्वलिङ्गमपि वादिनः प्रतिवादिपराजयनिमित्तं भवति । जल्पवितण्डाप्रवृत्तिच्छेदः । न हि हीनविद्यस्याधिकविद्येन जल्पो वा वितण्डा वा युज्यते । समानविद्ययोरेव तदर्हत्वादित्याह– विद्याहीनत्वलिङ्गेऽपीति ॥ यत्पराजयनिमित्तनिग्रहस्थानं तद्विरोधासङ्गतिन्यूनाधिकसंवादानुक्त्याख्यषट्कमेव । साध्याविशिष्टत्वादिनिग्रहस्थानानां विरोधादिषु अन्तर्भावादनन्तर्भूतनिग्रहस्थानाभावादित्याह– तदभावादिति ॥
अन्तर्भावादिहान्येषां निग्रहाणामिति स्म ह । विद्यापरीक्षापूर्वैव वृत्तिर्जल्पवितण्डयोः ॥22॥
यद्विद्याहीनत्वं तद्वादिप्रतिवादिविद्यापरीक्षाकाले प्राश्निकैरेव मन्तव्यम् । न तु वादिना प्रतिवादिना वा उद्भाव्यम् । अतो न तन्निगृहस्थानान्तरमित्याशयवानाह– विद्यापरीक्षापूर्वैव वृत्तिर्जल्पवितण्डयोरिति ॥ यद्यप्यत्र जल्पवितण्डयोः न्यूनोक्त्याधिकोक्त्यादिदूषणं पराजयनिमित्तमुक्तं तदौत्सर्गिकं ज्ञातव्यम् ।
स्खलितात्वादिमात्रेण न तत्रापि पराजयः । वादजल्पवितण्डानामिति शुद्धं स्वलक्षणम् ॥23॥
क्वचिदपवादोऽस्तीत्याह– स्खलितत्वादिमात्रेण न तत्रापि पराजय इति ॥ न्यूनोक्त्यनन्तरमेवाधिकोक्तौ न न्यूनोक्त्यादिना पराजयो भवतीत्यर्थः । एवं जल्पवितण्डालक्षणं शोधितमित्युपसंहरति– वादजल्पवितण्डानामिति ॥
सदोदितामितज्ञानपूरवारितहृत्तमाः । नरसिंहः प्रियतमः प्रीयतां पुरुषोत्तमः ॥25॥
वादजल्पवितण्डाभिः भगवत्प्रतिपक्षनिरासाद्भगवत्पक्षस्थापनात् कथालक्षणकथनेन भगवत्प्रीतिः भवतीत्याह आनन्दतीर्थमुनिनेति ॥