Jump to content

Yatipranavavakalpa: Difference between revisions

From Anandamakaranda
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
 
(One intermediate revision by the same user not shown)
Line 2: Line 2:
__TOC__
__TOC__


<div class="adhyaya-block" data-doc="YPK" data-chap="1">
<p class="adhyaya-trans">यतिप्रणवकल्पः</p>
</div>
<div class="verse" id="YPK_C01_V01" type="mantra" data-doc="YPK">
<div class="verse" id="YPK_C01_V01" type="mantra" data-doc="YPK">
<div class="verse-text">
<div class="verse-text">

Latest revision as of 20:49, 29 April 2026

यतिप्रणवकल्पः

समिच्चर्वाज्यकान्हुत्वा सम्यक्पुरुषसूक्ततः । सर्वेषामभयं दत्वा विरक्तः प्रव्रजेद्धरिम्॥ १॥

श्रुत्वा भागवतं शुद्धमाचार्यं शरणं व्रजेत् । अधीहि भगवो ब्रह्मेत्यस्मै ब्रूयाद्गुरुः परम्॥ २॥

उच्चारयेत्त्रिशस्तारं दक्षिणे श्रवणे तथा । ऋषिच्छन्दोदैवतानि ब्रूयात्तस्य क्रमात्सुधीः॥ ३॥

अन्तर्यामीति गायत्री परमात्मेत्यनुक्रमात् । विश्वश्च तैजसः प्राज्ञस्तुर्यश्चाक्षरदेवताः॥ ४॥

कृष्णो रामो नृसिंहश्च वराहो विष्णुरेव च । परञ्ज्योतिः परम्ब्रह्म वासुदेव इति क्रमात्॥ ५॥

अकारादेस्तथा शान्तातिशान्तान्तस्य देवताः । एवमुक्त्वा तु तद्ध्यानं ब्रूयाच्छिष्याय सद्गुरुः॥ ६॥

अष्टपत्रे तु हृत्पद्मे मध्ये सूर्येन्दुवह्निगम् । पीठं तत्पद्ममध्यस्थं नारायणमनामयम्॥ ७॥

उद्यदादित्यसङ्काशं तेजसानुपमं सदा । सहस्रेणापि सूर्याणां सञ्ज्ञानानन्दरूपिणम्॥ ८॥

अतिरक्ततलं भास्वन्नखव्रातविभूषितम् वृत्तजङ्घं वृत्तजानुं हस्तिहस्तोरुमीश्वरम्॥ ९॥

महाकटितटाबद्धकाञ्चीपीताम्बरोज्ज्वलम् । सुनिम्ननाभिं त्रिवलिं सुवृत्तोदरबन्धनम्॥ १०॥

विशालवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् । वनमालाधरं हारवैजयन्त्यादिभिर्युतम्॥ ११॥

पृथुदीर्घचतुर्बाहुं शङ्खचक्रगदाम्बुजैः । युक्तमुन्निद्रपद्माक्षं स्फुरन्मकरकुण्डलम्॥ १२॥

पूर्णचन्द्रायुतोद्रिक्तकान्तिमन्मुखपङ्कजम् । सुभ्रुवं सुललाटान्तं किरीटाबद्धमूर्धजम्॥ १३॥

निःशेषदुःखदमनं नित्यानन्दशुचिस्मितम् । विश्वादींश्चैव कृष्णादीनेवं भूतान्सनातनान्॥ १४॥

अभिन्नानेव सततं तस्माद्विष्णोः परात्मनः । वराभयोद्यतकरान्नित्यानन्दैकरूपिणः॥ १५॥

एवमुक्त्वा गुरुर्ध्यानं शपथं कारयेत्ततः । न विष्णुं वैष्णवांश्चैव विसृजेयमिति त्रिशः॥ १६॥

न चान्यदेवतासाम्यं तदैक्यमथवा हरेः । चिन्तयेयं मृतो वापि न चाप्येकत्ववादिभिः॥ १७॥

समत्ववादिभिर्वाहं सङ्गच्छेयं कदाचन । तन्निन्दकैश्च तद्भक्तनिन्दकैर्वा महामुने॥ १८॥

एवं कृते तु शपथे मस्तके हस्तपङ्कजम् । निधायोत्तीर्य संसारात्सुखी भव हरेः प्रियः॥ १९॥

सर्वदुःखादिभिर्मुक्तो नित्यानन्दैकरूपकः । सम्प्राप्य विष्णुसामीप्यं तत्रापि हरिभक्तिमान्॥ २०॥

भक्तिमांश्चान्यदेवेषु तारतम्यं च संस्मरन् । सर्वोत्कर्षं स्मरन्विष्णोर्भूयाश्चैव सदा सुखी॥ २१॥

न मुक्तौ विष्णुनैक्यं वा मुक्तानां साम्यमेव वा । स्मरेथा इति चोक्त्वाथ समयाननुशिक्षयेत्॥ २२॥

नित्यशश्च हरेः पूजा जपध्यानसमर्पणम् । कर्तव्यं तु त्वया वत्स जपश्च त्रिसहस्रकः॥ २३॥

मध्यमः प्रणवस्योक्तो योवरः स सहस्रकः । त्रिसहस्रात्परो यस्तु स उत्तमजपः ---स्मृतः॥ २४॥

आत्मानं प्रतिबिम्बत्वे ध्यायन् बिम्बं जनार्दनम् । ध्यायस्व सततं वत्स सपर्यां नित्यशः कुरु॥ २५॥

मानसैर्वाथ पुष्पैर्वा प्रणवेन समाहितः । अन्यांश्च वैष्णवान्मन्त्राञ्जपेथा भक्तिपूर्वकम्॥ २६॥

शृृणुष्व वैष्णवं शास्त्रं सदा वेदार्थतत्परः । वेदान्मन्त्रानुपनिषत्सहितान्सर्वदा शृृणु॥ २७॥

इतिहासपुराणं च पञ्चरात्रं तथैव च । तदर्थान् ब्रह्मसूत्रैश्च सम्यङ्निर्णीय तत्त्वतः । विष्णोः सर्वोत्तमत्त्वं च सर्वदा प्रतिपादय॥ २८॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः यतिप्रणवकल्पः समाप्तः॥