Anuvyakhyana/Vyakhya/Nyayasudha: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) Tag: Replaced |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |

| (2 intermediate revisions by the same user not shown) | |||
| Line 1: | Line 1: | ||
= न्यायसुधा = | = न्यायसुधा = | ||

[[Anuvyakhyana|Anuvyakhyana]]

[[Anuvyakhyana|Anuvyakhyana]]

=== अध्यायाः === | |||
* [[Anuvyakhyana/Vyakhya/Nyayasudha/C1|अध्यायः 1]] | |||
* [[Anuvyakhyana/Vyakhya/Nyayasudha/C2|अध्यायः 2]] | |||
* [[Anuvyakhyana/Vyakhya/Nyayasudha/C3|अध्यायः 3]] | |||
* [[Anuvyakhyana/Vyakhya/Nyayasudha/C4|अध्यायः 4]] | |||

{{Teeka | |||
| verse_id = AV_C01_S03_A005 | |||
| id = AV_C01_S03_A005_ | |||
| name = | |||
| label = न्यायसुधा | |||
| text =
एतद्वै तदक्षरं गार्गीत्यत्रोक्तमक्षरं ब्रह्मैवेत्युक्तम् । अत्र सूत्रम्-

ॐ अन्यभावव्यावृत्तेश्चेति | |||

तदिदमक्षरस्य ब्रह्मत्वोपपादनाय हेत्वन्तराभिधायकतया व्याख्यातं भाष्ये । आक्षेपनिवर्तकतयाऽपि अतो विरुद्धवदित्यादिना व्याख्यायते ।

तथा हि । नेदमक्षरं ब्रह्म, अस्थूलमनण्वह्रस्वमदीर्घमलोहितमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमवागमनोऽचक्षुष्कमप्राणमसुखम(गोत्र)मात्रमनन्तरमबाह्यं न तदश्नाति किञ्च नेत्यक्षरस्यास्थूलत्वादिश्रवणात् ।

न चैतद्ब्रह्मणः सम्भवति ।। अस्थूलत्वादिपदैर्हि स्थूलत्वादिविपरीतम् अणुत्वाद्यभिधानं वा स्यात्, स्थूलत्वादिनिवृत्तिमात्रपर्यवसानं वा । आद्ये परस्परविरोधः । अस्थूलमित्यनेन ह्यणुपरिमाणं वक्तव्यम् । अनण्वित्यनेन च महत्त्वम्; न चोभयमेकत्र युज्यते, परस्परपरिहारेणैव वृत्तिदर्शनात् । एवमह्रस्वमदीर्घमित्यत्रापि विरोधो द्रष्टव्यः ।

न चैकपरिमाणोपेतमेवोत्कृष्टापेक्षयाऽणु महद्दीर्घं ह्रस्वं चेत्युच्यत इत्याश्रयणेन विरोधपरिहारः, घटादितुल्यत्वेनावक्तव्यत्वात्, उत्कृष्टापकृष्टपरिमाणद्रव्यान्तराभावाच्च । द्वितीये तु निःस्वभावं ब्रह्मेत्यापन्नम् । तथा च सर्वत्र प्रसिद्धोपदेशात्, अत्ता चराचरग्रहणात्, रूपोपन्यासाच्चेत्युक्तविरोधः स्यादिति ।

तत्र तावत्प्रथमपक्षमभ्युपेत्य चशब्दसूचितं परिहारमाह- | |||
अत इति | |||

।। ॐ अन्यभावव्यावृत्तेश्च ॐ ।।

अतो विरुद्धवद् भातमपि व्याख्याय तत्त्वतः । योजनीयं हरौ वाक्यं विरुद्धैर्लक्षणैर्युतम् ।।ब्रह्मैव

यतो | |||
ब्रह्म विरुद्धैर्लक्षणैर्युतमेव अतो, विरुद्धवत् | |||
उक्तोभयविधविरुद्धार्थप्रतिपादकमिव, | |||
भातं | |||
प्रतीतम् | |||
अपि | |||
वाक्यं | |||
तत्त्वतो व्याख्याय हरौ योजनीयम् | |||
योजयितुं शक्यमिति योजना ।

यतोऽम्बरान्तधृत्यादिनाऽक्षरस्य विष्णुत्वं निश्चितम् | |||
अतो विरुद्धवातमपि | |||
वाक्य | |||
तत्त्वतो व्याख्याय हरौ योजयितव्यमिति | |||
वा । कथं तत्त्वतो व्याख्यानमित्यपेक्षायां विरुद्धैरिति सम्बध्यते ।

अथवा अत इत्यस्य पूर्वत्रैव(त्र) सम्बन्धः । यतः सुखाधिकोऽतो भूमा विष्णुरि(विष्णुरतो भूमे)ति विरुद्धवदिति प्रतिज्ञाया(यां) विरुद्धैरिति हेतुतया सम्बध्यते ।

एतदुक्तं भवति । नाक्षरस्य ब्रह्मत्वेऽस्थूलमित्यादिवाक्यस्यानवकाशः, अस्थूलादिपदैस्तद्विपरीताणुत्वाद्यभिधानमिति व्याख्यानस्याङ्गीकारात् । न चैवं सति परस्परविरोध इति वाच्यम्, विरुद्धधर्माणां ब्रह्मण्यवस्थानस्य श्रुत्यादिसिद्धत्वादिति ।

विरुद्धैर्लक्षणैर्युतं ब्रह्मेत्युक्तम्, मे माता वन्ध्येतिवद् व्याहतत्वात् ।

यदि हि महत्त्वाणुत्वादीनि विरुद्धानि, कथं तर्हि तैर्युतमेकं स्यात्, विरोधस्य सहानवस्थानात्मकत्वात् । यदि चैकं तैर्युतं कथं तर्हि तानि विरुद्धानि स्युः, सहावस्थानस्य अविरोधरूपत्वादित्याशङ्क्योक्तं विवृणोति- | |||
तानीति | |||

तानि लिङ्गानि तदन्यत्र त्वसन्त्यपि । अविरोधेन गोविन्दे सन्त्यस्थूलादिकानि च ।।

विरुद्धैर्लक्षणैर्युक्तं ब्रह्मेत्यनेनैतदस्माभिरभिप्रेतम् । | |||
तानि अस्थूलादिकानि | |||
अणुत्वमहत्त्वादिकानि | |||
लिङ्गानि तस्माद् | |||
ब्रह्मणः | |||
अन्यत्र | |||
सह | |||
असन्त्यपि गोविन्दे अविरोधेन | |||
एव सहैवेति यावत् | |||
सन्तीति | |||

न पुनर्विरोधमभ्युपेत्यैकत्रावस्थानमुच्यते येन व्याघातः स्यात् इत्यवधारणार्थस्य चशब्दस्यार्थः । गोविन्द इत्यनेन यशोदादिप्रत्यक्षमप्यत्रार्थे प्रमाणमिति सूचयति ।

अयमभिसन्धिः । अणुत्वमहत्त्वादिकं ब्रह्मणि किं प्रमाणाभावान्नाभ्युपेयम् । किंवा विरुद्धत्वात् । नाद्यः, अणोरणीयान् इत्याद्यागमस्योभयकार्यदर्शनानुमानस्योदाहृतप्रत्यक्षस्य च तत्र प्रमाणत्वात् । द्वितीयेऽपि किं विरोधः प्रमाणेनाथ परस्परम् । न प्रथमः, विपरीतप्रमाणादर्शनात् । द्रव्यत्वादेस्तूक्तप्रमाणविरुद्धत्वेन कालात्ययापदिष्टत्वात् ।

किञ्चाकाशस्य परमाणुसंयोगः किमाकाशैकदेशे वर्तते, उताकाश एव ।

(आद्ये) आद्येऽपि किमेकदेशो नामावयवः, प्रदेशो (प्रदेशभेदो) वा । नाद्यः, अनभ्युपगमात् । द्वितीये किमसावाकाशस्वरूपमेवाथार्थान्तरम् । आद्योऽन्त्येऽन्तर्भवति । द्वितीयोऽप्यभ्युपगमविरुद्धः, औपाधिकाङ्गीकारे त्वात्माश्रयादिकम् ।

न द्वितीयः, भेरीसंयोगस्यापि तथात्वापत्तेः, तथा च सर्वत्र शब्दोपलब्धिप्रसङ्गात्, अतः परमाणुसंयोगार्थमाकाशोऽणुरभ्युपगन्तव्य इति व्यभिचारश्च ।

न द्वितीयः, परस्परविरोधासिद्धेः । स हि सर्वत्र सहानवस्थानदर्शनाद्वा कल्पनीयः, उत क्वचित्, किंवा विमतिपदादन्यत्र सर्वत्र । नाद्यः, ब्रह्मणि श्रुत्यादिना सहावस्थानस्य दर्शनात् । न द्वितीयः, आकाशमनसोः परस्परपरिहारेण वर्तमानयोरपि भूतत्वमूर्तत्वयोर्विरोधाभावात्, अन्यथा पृथिव्यादौ तदुभयं न स्यात् ।

न तृतीयः, नित्यत्वज्ञानत्वयोरशरीरत्वकर्तृत्वयोश्चान्यत्र सर्वत्र सहानवस्थितयोरीश्वरबुद्धावीश्वरे च समावेशाभावप्रसङ्गात् ।

किञ्च । संयोगादीनां प्रदेशवृत्तित्वमङ्गीकुर्वता न तावत्प्रदेशवृत्तित्वमवयववृत्तित्वमङ्गीकर्तुमुचितम्, आकाशादीनां तदभावात्, अन्यधर्मस्यान्यवृत्तित्वाभ्युपगमेऽतिप्रसङ्गाच्च; किन्तु स्वात्यन्ताभावसमानाधिकरणत्वमेव वक्तव्यम् । तथा च भावाभावयोरन्यत्र सर्वत्र सहानवस्थितयोः कथं विरोधो न भवेत् । दर्शनादिति चेत्समं प्रकृतेऽपि । तस्मादन्यत्र सर्वत्र सहानवस्थितं कथं नाम सहावतिष्ठत इत्येवं प्रश्नमात्रमवशिष्यते । तत्र वस्तुस्वभाव एव तादृश इति परिहारः ।

न चैवमतिप्रसङ्गः, प्रमाणभावाभावाभ्यां तद्व्युदासात् । एवं सति वाक्यव्यवस्था न क्वाप्याश्रयणीयेति चेन्न, प्रमाणस्वरूपावधारणे त्वेवमेतदित्यङ्गीकारात् । अत एव न मीमांसावैयर्थ्यमिति ।

एवं तावदस्थूलादिपदानामणुत्वाद्यभिधायकत्वपक्षमुपादाय श्रुतेर्ब्रह्मविषयत्वमुपपादितम् । इदानीं स्थूलत्वादिनिवृत्तिपरत्वेऽपि न दोष इत्येवंपरतया सूत्रं व्याचष्टे | |||
अन्येति | |||

अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम् ।नारायणे श्रुतिर्वक्ति न तु तस्यास्वभावताम् ।।

ब्रह्मणोऽन्यानि वस्तूनि घटादीनि, तत्स्वभावभूतानि यानि स्थौल्यादीनि जडानि परतन्त्राणि कार्याणि विनाशवन्त्यणुत्वादिभिः सहानवस्थितानि च, तथाविधानां स्थौल्यादीनामभावं नारायणे अस्थूलमनणु इत्यादिश्रुतिर्वक्ति, न तु तस्य निःस्वभावत्वं, येनोक्त विरोधः स्यादित्यर्थः ।

कुत एवं श्रुतेरर्थसङ्कोचः क्रियते, निःस्वभावत्वमेवार्थः किं न स्यात्; इत्यत आह | |||
सर्वधर्मेति | |||

सर्वधर्मा सर्वनामा सर्वकर्मा गुणाः श्रुताः । दोषाः श्रुतास्तु(श्च) नेत्याद्याः प्रमाणं श्रुतिरत्र च ।।

अत्र | |||
= परमेश्वरस्य सस्वभावत्वे, न केवलमत्र किं नाम पूर्वोक्ताणुत्वमहत्त्वादौ चेत्यर्थः । इहाच्छायमतम इत्यादेरसंकुचितवृत्तित्वमेव ज्ञेयम् । बहुपदविषयत्वादिदं व्याख्यानं स्वशब्देन विधाय, सूत्रकारः, कतिपयपदविषयं पूर्वव्याख्यानं चशब्देन समुच्चितवानिति ।।

{{Teeka | |||
| verse_id = AV_C02_S04_I04 | |||
| id = AV_C02_S04_I04_ | |||
| name = | |||
| label = न्यायसुधा | |||
| text =
द्वितीयाध्यायस्य चतुर्थः पादः

१सु०- यद्यपि चतुर्थपादेऽपि श्रुतिवचनानां परस्परविरोध एव परिह्रियते, तथाऽप्यध्यात्मविषयत्वेन भेदसिद्धिरिति प्रागेव सूचितम् । प्रकारान्तरेण पादभेदं दर्शयितुमाह | |||
श्रुत्यर्थ इति | |||

अनु०- श्रुत्यर्थः श्रुतियुक्तिभ्यां विरुद्ध इव दृश्यते । यत्र तन्निर्णयं देवः सुविशिष्टोपपत्तिभिः । करोत्यनेन पादेन

यद्यपि श्रुतिरित्येवोक्तेऽपि सिद्ध्यत्यर्थ इति । वाक्यानामर्थद्वारैव विरोधस्थितेः । तथाऽप्यर्थनिर्णयायैव पादारम्भो न प्रामाण्यनिर्णयाय, अतो न मीमांसात्वहानिरिति दर्शयितुं अर्थ इत्युक्तम् ।

यद्यपि युक्तयः पूर्वपादेऽपि सन्ति तथाऽप्यागमगृहीतव्याप्त्यादिमत्त्वेनात्र प्रबला इति विशेषः । पारमार्थिके विरोधे निर्णयो दुष्कर इत्यत इवेत्युक्तम् । | |||
यत्र | |||
प्राणादिविषये, | |||
श्रुत्यर्थः | |||
जन्मादिः, युक्त्युपसर्जनाभिः श्रुतिभिः | |||
विरुद्ध इव दृश्यते, तन्निर्णयं | |||
इति योजना । युक्तिसहितश्रुतिभिः पूर्वपक्षिते कथं श्रुतिमात्रेण तद्विपरीतार्थनिर्णय इत्यत उक्तं | |||
सुविशिष्टेति | |||

अनेन | |||
=== | बुद्धिसन्निहितेन ।

तथा प्राणाः इत्यादीनां सूत्राणां भाष्य एवार्थो विस्पष्ट इत्यतः पूर्वोत्तरप(क्षीययु)क्षयुक्तः सङ्गृह्याह | |||
तत्रेति | |||

अनु०-तत्र स्पष्टार्थवच्छतिः । विशेषश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणः । दृष्टा युक्तिः समानत्वं कर्तृशक्तिर्विमिश्रिता । युक्तयः पूर्वपक्षेषु सुनिर्णीतास्तु तादृशाः । युक्तयो निर्णयस्यैव स्वयं भगवतोदिताः ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य चतुर्थः पादः ॥

तत्र | |||
चतुर्थपादे । | |||
तादृशाः | |||
तच्छब्दवाच्याः । | |||
निर्णयस्य | |||
सिद्धान्तस्य । तादृशाश्चेत् कथं निर्णयं कुर्युरित्यत उक्तं | |||
सुनिर्णीतास्त्विति । | |||
तादृशाः | |||
अर्था इति शेषः । कुत एतदित्यत उक्तं | |||
स्वयमिति | |||

स्वयमेवेति | |||
सम्बन्धः ।

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । | |||
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयेऽध्यायेऽस्मिंश्चरणचरणः पर्यवसितः ॥ २४ ॥

॥ इति श्रीमन्न्यायसुधायां द्वितीयाध्यायस्य चतुर्थः पादः सम्पूर्णः ॥

॥ इति द्वितीयाध्यायः ॥

{{Teeka | |||
| verse_id = AV_C04_S04_I16 | |||
| id = AV_C04_S04_I16_ | |||
| name = | |||
| label = न्यायसुधा | |||
| text =
अथ चतुर्थाध्यायस्य चतुर्थः पादः

१सु०- पादप्रतिपाद्यं तत्सङ्गतिश्च प्रसिैवेत्यतः पूर्वोत्तरपक्षयुक्तरेवाह अतिक्रमेति ।

अनु०-अतिक्रमोक्तिः कृतिरर्थलाभः

परागतिः पारगतिस्तदोकः ।

समस्तकार्यं वशिता च विश्व-

सम्भावना युक्तयस्त्वन्यपक्षे ।।

सामान्यरूपं प्रतिभानमुक्ति-

राश्चर्यता कृत्रिमताऽस्तदोषः ।

विशेषक्ऌप्तिः कृतनिश्चयश्च

माहात्म्यमित्येव सुनिर्णयार्थाः ।।

अन्यपक्षे पूर्वपक्षेषु । सुनिर्णयः सिान्तनिर्णयः अर्थः प्रयोजनं यासां ताः सुनिर्णयार्था युक्तयः ।।

।। अथ अनन्याधिपतित्वाधिकरणम् ।।

ब्र०सू०- ॐ अत एव चानन्याधिपतिः ॐ ।।

२सु०- इदं (एतत्) सूत्रं कश्चद्व्याख्याति । अत एव चावन्ध्यसङ्कल्पत्वा(देवान)-दन्यानधिपतिर्विद्वान् भवति । नास्यान्योऽधिपतिर्भवतीत्यर्थ इति । तदिदमसदिति भावेनाह अनन्येति ।

अनु०-अनन्यभृत्यत्वमिहोदितेभ्य-

स्त्वन्यस्य भृत्यत्वनिवारणाय ।

इह सूत्रे मुक्तस्यानन्याधिपतिरिति यत् अनन्यभृत्यत्वं उक्तं तत्तु उदितेभ्यो ये यस्य मुक्तस्य अधिपतित्वेनोदिताः शास्त्रे तेभ्यः अन्यस्य भृत्यो न भवति मुक्त इति प्रतिपादनाय । न तु सर्वथा अधिपतिनिवारणाय । कुतः । अनन्यपदप्रयोगात् । अन्यथाऽपतिरित्यवक्ष्यत् ।

इतश्चैवमेवेत्याह पतिमिति ।

पतिं यदेषामपि विष्णुमाह

ह्युतामृतत्वस्य पतित्ववाग्घरेः ।।

यत् यस्मात् हरेः अमृतत्वस्य उत यत् पतित्वं तस्य वाक् उतामृतत्वस्येशान इति श्रुतिरिति यावत् । विष्णुं एषां मुक्तानां पतिं आह । ततोऽप्युक्त एव सूत्रार्थो नापर इति ।

३सु०- अनुमानेनाप्येतमर्थं समर्थयते एतेऽपीति ।

अनु०-एतेऽपि चान्याधिपतित्वयुक्ता

विष्ण्वन्यचित्त्वेन यथा पुमांसः ।

प्रसिभिाजस्त्वति चानुमैव

ह्यभीष्टस््यिै भवतीह निश्चयात् ।।

अपि चेति प्रमाणसमुच्चये । एते मुक्ताः । अन्योऽधिपतिर्येषां तेऽन्याधिपतयः । तेषां भावोऽन्याधिपतित्वं तेन युक्ताः । विष्ण्वन्यत्वेन चित्त्वेन जीवत्वेन च । तुशब्दो विशेषार्थः । परकयव्याख्यानानुसारेण अन्याधिपतित्वयुक्ता इति प्रतिज्ञातम् । स्वमते त्वधिपतियुक्ता

इत्येव प्रतिज्ञेति । यदि कश्चदुदाहृतश्रुत्यर्थे विप्रतिपद्येत तस्यानुमानेनैवाल(मित्यक्त)मित्यनुमैव चेह मुक्तेष्वभीष्टस्याधिपतिसाहित्यस्य स््यिै भवतीति । कथम् । व्याप्तिपक्षधर्म(त्व)तयोः प्रमितत्वादिति हिशब्दः । मुक्ता अधिपतिरहिता मुक्तत्वात् अवन्ध्यसङ्कल्पत्वात् ईश्वरवदिति अनुमानप्रतिरोध इति चेन्न । मूलप्रकृतावनैकान्त्यात् । विपक्षे बाधकाभावाच्च । तदिदमुक्तं निश्चयादिति ।

४सु०- न केवलं मुक्तानां भगवानधिपतिः किं त्वन्येऽपि यथासम्भवं भवन्तीत्याशय-वानाह मुक्तेति ।

अनु०-मुक्तस्वकयावरयन्तृतास्त

मुक्तावपि ब्रह्मपुरःसराणाम् ।

ब्रह्मपुरःसराणामपि मुक्तौ मुक्ताश्च ते स्वकयाः स्वैः सह मुक्तिं गताश्च तेऽवराश्च मुक्तस्वकयावराः तन्नियन्तृताऽस्त । अमुक्तान् प्रति यन्तृता सर्वथा नास्त । यथाऽऽह सूत्र-कारः विकारावर्ति चेति । मुक्तेष्वपि कल्पान्तरे मुक्तान् स्वकल्पे मुक्तेष्वप्युत्तमान् समांश्च प्रति नास्तीत्यतो मुक्तेत्याद्युक्तम् । अनेन परोदाहृतश्रुतीनां गतिश्चोक्ता भवति ।

कुत एतदित्यत आह अनेनेति ।

अनेन देवेन तथाऽमुना च

हीष्टे परार्वाक्तनलोकिनामिति ।

फलं श्रुतिर्ज्ञानत आह

अनेन चक्षुरन्तस्थेन देवेन प्रसन्नेन तथा अमुना आदित्यान्तर्गतेन च परार्वाक्तनलोक-वर्तिनां मुक्तानाम् ईष्टे ईशिता भवतीति श्रुतिः ज्ञानतो मुक्तनियन्तृत्वं फलं आह हीति । अत्र अमुना परलोकिनां, अनेन अर्वाक्तनलोकिनामिति ज्ञेयम् । अनेन अथ य एवं विद्वान् इत्याद्यां सोऽमुनैव ये चामुष्मात्पराञ्चो लोकास्तांश्चाप्नोति देवकामांश्च, अथानेनैव ये चैतस्मा-दर्वाञ्चो लोकास्तांश्चाप्नोति मनुष्यकामांश्चेति श्रुतिमुपादत्ते ।

नन्वस्यां श्रुतावुक्तमिदं ज्ञानफलं मुक्तिगतमित्येतत् कुत इत्यत आह मुक्ताविति ।

मुक्ता-

वेतच्च सर्वाऽशुभनाशलिङ्गात् ।।

एतच्च सर्वलोकाप्तिलक्षणं फलं मुक्तावेव । उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद इति सर्वपापक्षयलिङ्गात् । न हि मुक्तेरितरत्रैतत्सम्भवति । प्रारब्धपापस्य आमोक्षं विद्यमान-त्वात् ।

५सु०- यदिदं सर्वलोकाधिपत्यं मुक्तौ फलमुक्तं तत्सर्वेषामपि मुक्तानामिति प्रतीति-निरासायाह लोकेति ।

अनु०-लोकाधिपत्यं च विधातुरेव

सर्वात्मना

सर्वात्मना लोकाधिपत्यं च मुक्तस्य विधातुरेव । अन्येषां यथायोग्यमिति भावः । स्वकयेत्युक्तमनुसन्धेयम् । अत्र प्रमाणमाह इत्याहेति ।

इत्याह तुरश्रुतिश्च ।

सा च अन्यत्र द्रष्टव्या । चशब्दो वक्ष्यमाणयुक्तिसमुच्चयार्थः । श्रुत्यन्तरमप्येवमेव व्याख्येयमित्याह सर्व इति ।

सर्वे बलिं देवगणा वहन्ती-

त्येतच्च नान्यस्य तु युक्तिमेति ।

स वेद ब्रह्म, सर्वेऽस्मै देवा बलिमावहन्तीति श्रुत्युक्तं मुक्तस्य सर्वदेवपूज्यत्वं च अनवधिकं विधातुरेव न सर्वेषामुक्तश्रुतेरेवेत्यर्थः । इतोऽप्येवमित्याह नेति । पूजका अपि हि देवा मुक्ता एव । अमुक्तानां मुक्तसम्बन्धस्य निवारितत्वात् । तथा च सर्वे देवा मुक्ताः सर्वै-र्मुक्तैर्देवैः पूज्यन्त इत्युक्तं स्यात् । एतच्च व्याहतम् । तत एव त(स्यैवोत्त)स्योत्तमत्वस्याधम-त्वस्य क्वाप्यदर्शनात् । अत उक्त एव श्रुत्यर्थः ।

६सु०- स्यादेतत् । तांश्चाप्नोतीत्युक्त आप्ता सर्वाशुभनाशलिङ्गावतु मुक्तः । तस्य च अत्र लोकाप्तिरेवोच्यते । न तु मुक्तस्वकयावरयन्तृतेत्यत आह लोका इति ।

अनु०-लोका इतीहापि तु लोकिनां वचो

इह श्रुतौ लोका इति पदं तावत् लोकिनां वचःप्रतिपादकम् । न केवलमाप्ता मुक्तः । लोकपदमपि लोकिविषयमिति अपिशब्दः । तुशब्दो वृत्तिविशेषद्योतकः । यथा मञ्चशब्दो मञ्चस्थेषु पुरुषेषु विद्यते तथा लोकशब्दोऽपि लोकस्थेषु पुरुषेष्वति । अत्र लक्षणाबीजसम्बन्धस्तु स्फुट एव । लाक्षणिकप्रयोगप्रयोजनं वाच्यमित्यत आह लोका इति ।

लोका इति ह्येव रवः प्रजासु ।

प्रयुज्यते सर्वजनैः सदैव

हिशब्दः प्रसिौ । प्रयोजनानुसन्धानेन विनेति एवशब्दः । रवः शब्दः । प्रजासु प्रजा-विषये । रूढलक्षणैषा तत्र किं प्रयोजनान्वेषणेनेति भावः ।

अथवा किं लक्षणया । यतो वाचक एव लोकशब्दो जनानामिति भावेनाह लोका इति । सर्वजनैः इति शब्दशक्तिज्ञैः ।

प्रकारान्तरेण लोकशब्दस्य पुरुषवाचित्वमाह तदिति ।

तन्मानिनो लोकपदेन चोक्ताः ।।

लोकाभिमानिनः । अभिमान्यधिकरणन्यायेनेति भावः ।

७सु०- अस्तु लोकशब्दस्य जनेषु वृत्तिः तथाऽप्यस्यां श्रुतौ तद्विवक्षा कुतो ज्ञायते ।

न तावताऽपीष्टसिःि । मुक्तविषयतायां प्रमाणाभावात् । आप्तिरेव चेहोच्यते न तु तन्नियमन-मित्यत आह तद्गा इति ।

अनु०-तद्गास्तु मुक्ता इह लोकशब्दा

अन्योन्यनाथा इति पैङ्गिनां श्रुतिः ।।

तुशब्दोऽवधारणे । इह ये च अमुष्मादित्यस्यां श्रुतौ तद्गाः परावलोकगताः मुक्ता एव

लोक इति शब्दो एषां ते लोकशब्दाः । ते चान्योन्यनाथाः उत्तमा अधमानां स्वीयानां नियामका इत्येवमेतच्छतिव्याख्यानरूपा पैङ्गिश्रुतिरस्त । यद्यपि मुक्तस्य विकारावर्तिव्यापारनिषेधादेव एतत् सिम् । तथाऽपि दार्ढ्या श्रुत्युदाहरणम् ।

एतेन लक्षणापक्षे मुख्ये बाधकं चोक्तं भवति । अभिमानिपक्षे तु भूतपूर्वगत्या मुक्तेषु लोकशब्दो व्याख्येयः ।

८सु०- प्रकारान्तरेणास्यां श्रुतौ मुक्तस्य मुक्तनियामकत्वं प्रतिपादयन्नाह अलोकेति ।

अनु०-अलोकशब्देन विमुक्तिभाजो

वाच्याः

लोकदोषातीतत्वाद्विदेहत्वाद्वेति भावः । ततः किं प्रकृत इत्यत आह पदमिति ।

पदं तादृगपीह युक्तम् ।

इह पराञ्चो लोका अर्वाञ्चो लोका इत्यत्र तादृग् अलोक इत्यपि पदं छेत्तुं युक्तम् । लोका-लोकशब्दयोः संहिताय•ं)ः समानरूपत्वादिति भावः ।

९सु०- योगवृत्त्याऽपि लोकशब्दस्य मुक्तेषु वृत्तिः सम्भवतीत्याह लोकेति ।

अनु०-लोकाभिधाश्चापि यतो हि मुक्ताः

प्रकाशरूपाः सततं च सर्वे ।।

यतः सर्वेऽपि मुक्ताः सततमपि प्रकाशरूपाः प्रसिाः ततोऽपि लोकाभिधाः । लोकतेः पचाद्यचि कृते रूपमेतत् । दर्शनं प्रकाश इति च नार्थान्तरम् ।

१०सु०- यदुक्तं प्राग्लोकाभिमानिनो ये मुक्तास्त इह लोकशब्दार्था इति तदसत् । ते हि उत्तमाः । न च तन्नियमनं मुक्तानां सम्भवतीत्यतो मोक्तं विस्मार्षीरित्याह ब्रह्मैवेति ।

अनु०-ब्रह्मैव लोकाधिपतिर्विमुक्तो

भवेदिति प्राह तुरश्रुतिश्च ।।

तथा च नानुपपत्तिरिति ।

११सु०- एवं स्वमतेन श्रुतिं व्याख्याय यत्परेषां व्याख्यानमादित्यमण्डले परमेश्वर-मुपासीनस्य विदुषः परलोकाधिपत्यं भवति चक्षुष्युपासीनस्यार्वाक्तनलोकाधिपत्यं भवतीति तन्निराकरोति न चेति ।

अनु०-न चेह विज्ञानफलं समुक्तं

लोकाधिपत्यं

इह श्रुतौ । लोकाधिपत्यं विज्ञानफलं समुक्तमिति व्याख्यानं न युक्तम् । कुत इत्यत

आह रवीति ।

रविबिम्बगे हरौ ।

उक्तं पृथक् तच्च पुरैव यस्मात्

चशब्देन चक्षुर्गते चेति समुच्चिनोति । यस्मात् कारणात् तत् लोकाधिपत्यं पुरैव पूर्व-वाक्य एव रविबिम्बगे हरौ चक्षुरन्तर्गते च पृथक् विभागेनोक्तम् । आदित्यगतं प्रकृत्य स एष

ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे (देवे) देवकामानां चेति । तथाऽक्षिगतम् । स एष ये चैत-स्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेति । तस्मान्नेति ।

एतदुक्तं भवति । न समस्तलोकाधिपत्यं विदुषो युज्यते । तस्य भगवर्मत्वेन अत्रैव उक्तत्वादिति ।

१२सु०- भगवर्मोऽपि विदुषो भवतीत्यङ्गीकारे को दोष इति चेत् । तत्कं भगवान् स्वीयसर्वलोकाधिपत्यं परित्यज्य विदुषे ददातीति । उत विद्वांसमवान्तरेश्वरं करोतीति । अथ विद्वांस्तादात्म्यं प्राप्नोतीति ।

नाद्यः । भगवदैश्वर्यस्य समस्तश्रुत्यादौ नित्यत्वावगमात् । किं चैकस्मै विदुषे दत्त-स्वाधिपत्यो भगवानन्यस्मै (विदुषे) किं दद्यात् । सर्वपापक्षयलिङ्गविरोधाच्च ।। अत एव न द्वितीयः । हिरण्यगर्भे तद्युज्यत इति चेन्न । पाप्म(प)शब्देन प्रकृत्यादेर्बन्धस्य विवक्षितत्वात् । अत एवोक्तं सर्वाशुभेति । तस्योदिति नामेति हि परमेश्वरस्योच्छब्दं नामत्वेनोक्तवा तस्य निर्वचनं क्रियते स एष सर्वेभ्यः पाप्मभ्य उदित इति । तत्रोदितत्वमेवोच्छब्दार्थः । कस्मा-दित्यपेक्षायां योग्यं किमपि ग्राह्यम् । न च तत्पापमेवेति नियामकमस्त । अतः सर्वमप्यशुभं

तत्र विवक्षितम् । तदेव च विदुषः फलमुच्यते ।।

तृतीयं निराकरोति भेद इति ।

अनु०-भेदोऽमुनेत्यादि च सम्यगुक्तः ।।

विदुषः । परमेश्वरादिति शेषः । आदिपदेन अनेनेत्यस्य ग्रहणम् । क्रियाविशेषणं चैतत् । भेदश्चेति सम्बन्धः । सम्यगिति । स्पष्टम् । न हि तदात्मा तत्प्रसादात् तर्मा भवति ।

१३सु०- भवेदेतत् यदि अमुना अनेनेत्येतत् अमुना देवेन प्रसन्नेन निमित्तेनेति व्याख्या-येत । न चैवम् । किं नाम अमुना रूपेण अमुष्य तादात्म्यं प्राप्य, तथा अनेन रूपेणास्य तादात्म्यं प्राप्येति । न चैवं सति भेदोक्तिरस्तीत्यत आह त्वप्रत्ययमिति ।

अनु०-त्वप्रत्ययं चाप्यतिहाय नैव रूपेण तेनेति भवेदिहार्थः ।।

चशब्दस्तत्समान•र्थ)प्रत्ययान्तरसमुच्चयार्थः । अपिशब्दो रूपेणेति पदस्य । तेन इति अमुना अनेन इति उभयोः ग्रहणम् । अतिहाय प्रवृत्तायामिह श्रुतौ । भवे(देयं प)दयं परस्या-भिलाषः श्रुतिस्तु न तथा वक्ति । यदि खल्वदस्त्वेनादस्तयेदंत्वेनेदन्तयेति भाववाची प्रत्ययः स्यात् । यदि वा(चा)ऽमुना रूपेणात्मना, अनेन रूपेणात्मनेति पदं स्यात् । तदा प्रतीमोऽयमर्थः श्रुत्यभिप्रेत इति । न चैतदस्तीति ।

१४सु०- ननु भावप्रधाना निर्देशा बहुलमुपलभ्यन्ते । ततो विनाऽपि प्रत्ययेन सोऽर्थो भविष्यति । सोपस्कराणि च वाक्यानि भवन्त । ततो रूपेणेत्यादिपदाध्याहारो वा करिष्यते ।

को दोष इति चेन्न । निश्चते हि वाक्यार्थे तदुपपद्यते । न च तन्निश्चायकमत्रास्तीत्याशयवान् दोषान्तरमाह भवतीति ।

अनु०-भवत्यसावित्यणुशब्दमत्र विहाय वाक्यानि बहूनि दोषः ।

यद्यस्यां श्रुतौ तादात्म्यप्राप्त्या(प्तौ) तदीयं सर्वलोकाधिपत्यमस्य भवतीत्यर्थो विवक्षितः स्यात् । तर्ह्यत्रैतदर्थप्रतिपादने अयं विद्वानसौ परमात्मा भवतीत्येतावदेव वक्तव्यम् । न तु सोऽमुनैवेत्यादिकम् । तादात्म्यप्राप्तौ तर्म(र्म्य)स्य स्वतःसित्वात् । अयं असौ भवतीत्यल्पं शब्दं विहाय बहूनि वाक्यानि प्रयुञ्जानायाः श्रुतेरकुशलत्वदोषः स्यात् । न हि कश्चदल्पीयसा प्रयत्नेन स््यित्यर्थे महान्तं प्रयत्नमातिष्ठमा(नः स)िनो महरिाद्रियते । किं चात्र परमेश्वरः सगुणो वा विवक्षितो निर्गुणो वा । आद्ये न विदुषः तत्तादात्म्यमस्त । परेणा(प्य)नभ्युपगत-त्वात्(मात्) । न द्वितीयः । निर्गुणस्याऽऽदित्यादिपरिच्छेदानुपपत्तेः । ऐश्वर्यासम्भवाच्च । न च तूयङ्गतस्य सर्वलोकाधिपत्यं भवतीति ।

१५सु०- अपव्याख्याननिराकरणमुपसंहरन् पादार्थं सङ्क्षेपेणाह अत इति ।

अनु०- अतो जगद्व्यापृतिमन्त एव

ब्रह्मादयः पूर्णगुणाः क्रमेण ।

अमन्दमानन्दमजस्रमेव

भुञ्जन्त आत्मीयमजात्समासते ।।

जगच्छब्देन स्वी(स्वक)यावरमुक्ता गृह्यन्ते । जगद्व्यापारवर्जमित्येतन्मुक्तेतरजगद्विष-यम् । अतो न तद्विरोध इत्येतदप्यनेन सूचयति । अन्यथा स्वावरमुक्तनियामका एवेत्यवक्ष्यत् । तथा चानन्याधिपतिपदमुक्तार्थमेवेति भावः । आत्मीयं न तु पारमेश्वरम् । अजात् परमेश्वरात्

तं अविहायेत्यर्थः । तत्प्रसादादिति वा ।।

।। इति अनन्याधिपतित्वाधिकरणम् ।। ४-४-७ ।।

१६सु०- एवं परिसमापितग्रन्थो भगवानाचार्यः स्वप्रतिपादितप्रकारं स्वस्य अति-विशदानादिसार्वज्ञप्रदं निरुपाधिकपरमप्रेमास्पदगुणगणं पुरुषोत्तमं पौनःपुन्येन प्रणमति नम इति ।

अनु०-नमो नमोऽशेषविशेषपूर्ण-

गुणैकधाम्ने पुरुषोत्तमाय ।

भक्तानुकम्पादतिशुसंवि-

द्दात्रेऽनुपाधिप्रियसद्गुणात्मने ।।

अशेषविशेषैः पूर्णा ये गुणाः तेषां प्रधानाश्रयाय, भक्ते मयि अनुकम्पात् अनुक्रोशात् । अत एव ताच्छीलिकस्य तृनः प्रयोगः । सद्गुणानुवादेनानुपाधिप्रियत्वं तादात्म्यं च विधीयत इति

न पुनरुक्तिः ।

१७सु०- यथा भगवत्स्वरूपविज्ञानं समस्तपुरुषार्थसाधनं तथा स्वस्वरूपविज्ञानमपि इत्यतः तदाविष्कुर्वन्नाह यस्येति ।

अनु०-यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं

यस्य वायोः देवस्य वेदवचने बत्थिेत्यादौ अलं दिव्यानि अुतानि त्रीणि रूपाणि उदितानि अमुना वायुना अयं केशवे विषये ग्रन्थः कृतः इत्यन्वयः ।

१८सु०- कदृशं तस्य मूलरूपं कथम्भूतानि च तानि त्रीणि रूपाणि इत्यत उक्तं

बडित्यादि ।

अनु०-बट्तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।

वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपु-

र्मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ।।

यस्य तन्मूलरूपं बट् बलात्मकं दर्शतं ज्ञानरूपं च । दृशेरौणादिकोऽतच्प्रत्ययः ।

अनेन वायुशब्दो निरुक्तः । वशब्दो बलवाची । अयतिः गत्यर्थः । गत्यर्थाश्चाव-

गत्यर्थाः । तत उण् । वश्चासौ आयुश्चेति वायुरिति ।

किञ्च भर्गो भरणगमनयोः कर्तृ । डुभृञ् भरणे, गम्लृ गतौ, आभ्यामसुन्प्रत्ययो डिच्च । इदमपि वायुशब्दव्याख्यानम् । वा गतिगन्धनयोः इत्यतः कृवापाजिमिस्वदिसाध्यशूभ्य उणित्युण् । अनेकार्थत्व•तूनां वातिर्भरणेऽपि वर्तते । अपि च महत् श्रेष्ठम् । वयः श्रेष्ठत्व इत्यस्मादुण् ।

न केवलं मूलरूपमेवं किन्तु यस्यावतारेषु निहितं रूपं इत्थमेव ।

यस्य प्रथमकं प्रथमं रूपं रामविषयाणि वचांसि मूलरामायणादीनि रामवचांसि तेषां

नयं नीयन्ते शिष्येषु प्रवर्त्यन्तेऽनेनेति । एरजित्यच् ।

यस्य द्वितीयं वपुः पृक्षः । पृच्छदः पृतनावाची प्रसिः । तस्मन्कर्मण्युपपदे क्षै क्षय इत्येतस्मात् आतोऽनुपसर्गे क इति कः । उपपदतकारलोपश्छान्दसः । पुङ्गिं(ङ्गः) च श्रुत्यनु-सारेण । असुन्वा प्रत्ययः । किदिति नपुंसकमेवेदम् । रिपुपृतनाक्षयकारीत्यर्थः ।

यस्य तृतीयं वपुः एतन्मध्वः । मधुशब्दः सुखवाची । मधु द्यौरस्तु नः पितेति

प्रयोगात् । वशब्दः शास्त्रापरपर्यायतीर्थवाची । वातेरवगत्यर्थात्करणे घञर्थे कविधानमिति

कः । सुखसाधनं तीर्थमस्येति । स्वरित्यत्रेवोकारलोपः ।

१९सु०- भगवत्स्वरूपप्रतिपादनेनैव ग्रन्थोपसंहारः समुचित इत्याशयवान् नित्यापरोक्षं भगवन्तं सम्बोध्य स्तौति निःशेषमिति ।

अनु०-निःशेषदोषरहितकल्याणाखिलसद्गुण ।

भूतिस्वयम्भुशर्वादिवन्द्यं त्वां नौमि मे प्रियम् ।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते

श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रानुव्याख्याने

चतुर्थाध्यायस्य चतुर्थः पादः ।।

भूतिः महालक्ष्मीः ।।

वचनप्रसूनमाला जयतीर्थाख्येन भिक्षुणा रचिता ।

ध्रियतां हृदये सदये कमलामहिलेन पूरुषेण ।। १ ।।

न वैदुष्यभ्रान्त्या न च वचनचातुर्यकुधिया

न मात्सर्यावेशान्न च चपलतादोषवशतः ।

परं श्राजाड्यादकृषि कृतिमाचार्यवचसि

स्खलन्नप्येतस्माज्जगति न हि निन्द्योऽस्म विदुषाम् ।। २ ।।

अनुव्याख्याऽमृताम्भोधेः समुत्पन्नाऽतिनिर्मला ।

इयं न्यायसुधा भौमैर्विबुधैः सेव्यतां सदा ।। ३ ।।

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।

कृतायां टीकायां विषमपदवाक्यार्थविवृतौ चतुर्थेऽध्यायेऽस्मश्चरमचरणः पर्यवसितः ।।

इति श्रीमन्न्यायसुधायां चतुर्थोऽध्यायः सम्पूर्णः ।।

| Line 16: | Line 353: | ||
[[Category:Vyakhya]] | [[Category:Vyakhya]] | ||
[[Category:Anuvyakhyana]] | [[Category:Anuvyakhyana]] | ||
[[Category:Nyayasudha]] | |||