ब्रह्मसूत्रभाष्यम्/C02/S02/A019: Difference between revisions
BS>ImportBot Initial import |
m 1 revision imported |
(No difference)
| |
Latest revision as of 10:10, 2 March 2026
असदधिकरणम्
शून्यवादमपाकरोति-
ॐ नासतोऽदृष्टत्वात् ॐ ॥ 26-199 ॥
अदृष्टत्वादसतः कारणत्वं न युज्यते ॥ 26 ॥
ॐ उदासीनानामपि चैवं सिद्धिः ॐ ॥ 27-200 ॥
असतः कारणत्वे उदासीनानां हेयोपादेयबुद्धिवर्जितानां खपुष्पादीनामपि सकाशात् कार्यसिद्धिः । चशब्दान्न चेदन्यत्रापि न स्यादविशेषात् ॥ 27 ॥
ॐ नाभाव उपलब्धेः ॐ ॥ 28-201 ॥
न च जगदेव शून्यमिति वाच्यम् । दृष्टत्वात् ॥28॥
ॐ वैधर्म्याच्च न स्वप्नादिवत् ॐ ॥ 29-202 ॥
न च दृष्टस्यापि स्वप्नादिवदभावः। तस्योत्तरकाले’स्वप्नोयं’,’नायं सर्पः’ इत्याद्यनुभवात् । न चात्र तादृशं प्रमाणमस्ति ॥ 29 ॥