ब्रह्मसूत्रभाष्यम्/C02/S03/A033: Difference between revisions
BS>ImportBot Initial import |
m 1 revision imported |
(No difference)
| |
Latest revision as of 10:10, 2 March 2026
आत्माधिकरणम्
ॐ नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॐ ॥ 17-235 ॥
‘स इदं सर्वं विलाप्यान्तस्तमसि निलीनस्तद्विलाप्य व्युत्तिष्ठते स इदं सर्वं विसृजति विस्थापयति प्रस्थापयत्याच्छादयति प्रकाशयति विमोचयत्येक एव’ इति श्रुतेः परमात्माऽपि न लीयते। अश्रुतत्वाद्ब्रह्मलयस्य। निलीन शब्देनापिहितत्वमुच्यते । तुच्छेनाभ्यपिहितं यदासीत्, इत् श्रतेः ।
‘स एतस्मिंस्तमसि निलीनः प्रकृतिं पुरुषं कालं चानुपश्यति कश्चन’ इति पैङ्गिशृतिः ।
‘नित्यो नित्यानां चेतनश्चेतनानाम्’
‘स नित्यो निर्गुणो विभुः परः परमात्मा’।
‘नित्यो विभुः कारणो लोकसाक्षी परो गुणैः सर्वदृक् शाश्वतश्च’ इत्यादि श्रुतिभ्यो नित्यत्वाच्च ॥ 17 ॥