Jump to content

Anuvyakhyana/Vyakhya/Nyayasudha/C3: Difference between revisions

From Anandamakaranda
Imported from pramati-sarvamoola XML (grantha.io importer v3)

Imported from pramati-sarvamoola XML (grantha.io importer v3)

Line 1: Line 1:
= न्यायसुधा — अध्याय 3 =
= न्यायसुधा — अध्यायः 3 =
__NOTOC__

[[Anuvyakhyana|Anuvyakhyana]] · [[Anuvyakhyana/Vyakhya/Nyayasudha|Nyayasudha]]

[[Anuvyakhyana|Anuvyakhyana]] · [[Anuvyakhyana/Vyakhya/Nyayasudha|Nyayasudha]]

=== पादः 1 ===

Line 12: Line 13:
क्लृप्तिरन्या गतिश्चैव सिद्धान्तस्यैव साधकाः ॥4॥
क्लृप्तिरन्या गतिश्चैव सिद्धान्तस्यैव साधकाः ॥4॥

{{Bhashyam

| verse_id = AV_C03_S01_I04
| id = AV_C03_S01_I04_Nyayasudha
| text =

अथ तृतीयाध्यायः

अथ तृतीयाध्यायः

अथ तृतीयाध्यायस्य प्रथमः पादः

अथ तृतीयाध्यायस्य प्रथमः पादः

Line 75: Line 72:

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयेऽध्यायेऽयं प्रथमचरणः पर्यवसितः ।। ३१ ।।

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयेऽध्यायेऽयं प्रथमचरणः पर्यवसितः ।। ३१ ।।

।। इति श्रीमन्न्यायसुधायां तृतीयाध्यायस्य प्रथमः पादः ।।

।। इति श्रीमन्न्यायसुधायां तृतीयाध्यायस्य प्रथमः पादः ।।

=== पादः 2 ===

Line 88: Line 86:
अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः ॥4॥
अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः ॥4॥

{{Bhashyam

| verse_id = AV_C03_S02_I04
| id = AV_C03_S02_I04_Nyayasudha
| text =

अथ तृतीयाध्यायस्य द्वितीयः पादः

अथ तृतीयाध्यायस्य द्वितीयः पादः

१सु०- भक्तिरस्मिन्पाद उच्यते । भक्तयर्थं हि भगवन्महिमोक्तिरि ति पादप्रतिपाद्यं भाष्य एव स्फुटम् । सङ्गतिं तु उत्तरत्र वक्ष्याम इत्याशयवानेतत्पादाधिकरणेषु पूर्वपक्षसिद्धान्तयुक्तः सङ्ग्रहेणाह

१सु०- भक्तिरस्मिन्पाद उच्यते । भक्तयर्थं हि भगवन्महिमोक्तिरि ति पादप्रतिपाद्यं भाष्य एव स्फुटम् । सङ्गतिं तु उत्तरत्र वक्ष्याम इत्याशयवानेतत्पादाधिकरणेषु पूर्वपक्षसिद्धान्तयुक्तः सङ्ग्रहेणाह
Line 107: Line 101:

सिद्धान्तनिर्णयार्थानि प्रमाणानि ।

सिद्धान्तनिर्णयार्थानि प्रमाणानि ।

Line 116: Line 110:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S02_A001
| id = AV_C03_S02_A001_Nyayasudha
| text =

२सु०- योनेः शरीरमित्येतदवसानैः सूत्रैर्जीवस्य जन्मावगतम् । जातस्य च स्वप्नाद्यवस्थासम्बन्धः प्रसिद्धः । तत्र स्वप्नावस्थाप्रवर्तकत्वलक्षणो महिमा भगवतोऽत्राधिकरणे निर्णीयते । तथा हि । स्वप्नो नामार्थज्ञानात्मकः । तत्र तावत् स्वाप्नार्थानां करितुरगादीनां परमेश्वरायत्तता नोपपद्यते । असत्यत्वात् । न तावदिमेऽनादिनित्याः । स्वप्नावस्थातः प्रागूर्ध्वं चोपलब्धिप्रसङ्गात् । न हि विद्यमाना अपि उपलब्धिसाधनेषु चक्षुरादिष्वनुपरतेषु नोपलभ्यन्ते, उपलभ्यन्ते च उपरतेष्विति सम्भवति । न चान्यत्र गताः । अन्यैरप्यनुपलम्भात् । मध्यमपरिमाणाश्चैते दृश्यन्ते । न च तथाविधमनादिनित्यं किमपि दृष्टम् ।

२सु०- योनेः शरीरमित्येतदवसानैः सूत्रैर्जीवस्य जन्मावगतम् । जातस्य च स्वप्नाद्यवस्थासम्बन्धः प्रसिद्धः । तत्र स्वप्नावस्थाप्रवर्तकत्वलक्षणो महिमा भगवतोऽत्राधिकरणे निर्णीयते । तथा हि । स्वप्नो नामार्थज्ञानात्मकः । तत्र तावत् स्वाप्नार्थानां करितुरगादीनां परमेश्वरायत्तता नोपपद्यते । असत्यत्वात् । न तावदिमेऽनादिनित्याः । स्वप्नावस्थातः प्रागूर्ध्वं चोपलब्धिप्रसङ्गात् । न हि विद्यमाना अपि उपलब्धिसाधनेषु चक्षुरादिष्वनुपरतेषु नोपलभ्यन्ते, उपलभ्यन्ते च उपरतेष्विति सम्भवति । न चान्यत्र गताः । अन्यैरप्यनुपलम्भात् । मध्यमपरिमाणाश्चैते दृश्यन्ते । न च तथाविधमनादिनित्यं किमपि दृष्टम् ।

नाप्युत्पत्तिनाशवन्तः । तथात्वेऽपि प्रागूर्ध्वमुपलम्भप्रसक्तेः । न च वाच्यं विद्युदादिवत्तदैवोत्पत्तिर्विनाशश्चेति । इत्थम्भावे प्रमाणाभावात् प्राङ्मृदादीनामूर्ध्वं कपालादीनां चोपलम्भापत्तेश्च । न चैतेषां (तात्कालिक)तत्कालीनजन्मन्युपादानं निमित्तं च पश्यामः ।

नाप्युत्पत्तिनाशवन्तः । तथात्वेऽपि प्रागूर्ध्वमुपलम्भप्रसक्तेः । न च वाच्यं विद्युदादिवत्तदैवोत्पत्तिर्विनाशश्चेति । इत्थम्भावे प्रमाणाभावात् प्राङ्मृदादीनामूर्ध्वं कपालादीनां चोपलम्भापत्तेश्च । न चैतेषां (तात्कालिक)तत्कालीनजन्मन्युपादानं निमित्तं च पश्यामः ।

Line 2,226: Line 2,216:

सा च मानसी वासना सिद्धा । अस्पष्टताऽभावेऽप्यस्थूलत्वस्य सत्त्वादिति भावः । अत एव सौत्रो हेतुर्द्वेधा व्याख्यातः । तदनेन देशकालनिमित्तसम्पत्तिः स्वप्ने नास्तीति यदुक्तं तद्वासनामयोक्तया निरस्तम् । अत एव सृष्टिश्रुतेर्भाक्तत्ववर्णनमपास्तम् । प्राज्ञस्य निर्मातृत्वं च न वृथा त्याज्यम् । स्वयं विहृत्येत्याद्यपीश्वरविषयमन्यत्र व्याख्यातम् । स्वप्ननिर्माणे शुभाशुभयोगापत्तिरिति चासङ्गतम् । व्याप्त्यभावात् । जीवस्य ब्रह्मभावोपदेश इति च सार्वज्ञादेः पारमार्थिकत्वसमर्थनादयुक्तम् । वियदादिप्रपञ्चस्य मिथ्यात्वकथनं च तत्सत्यत्वोपपादनात् निरस्तम् ।। ३२१ ।।

सा च मानसी वासना सिद्धा । अस्पष्टताऽभावेऽप्यस्थूलत्वस्य सत्त्वादिति भावः । अत एव सौत्रो हेतुर्द्वेधा व्याख्यातः । तदनेन देशकालनिमित्तसम्पत्तिः स्वप्ने नास्तीति यदुक्तं तद्वासनामयोक्तया निरस्तम् । अत एव सृष्टिश्रुतेर्भाक्तत्ववर्णनमपास्तम् । प्राज्ञस्य निर्मातृत्वं च न वृथा त्याज्यम् । स्वयं विहृत्येत्याद्यपीश्वरविषयमन्यत्र व्याख्यातम् । स्वप्ननिर्माणे शुभाशुभयोगापत्तिरिति चासङ्गतम् । व्याप्त्यभावात् । जीवस्य ब्रह्मभावोपदेश इति च सार्वज्ञादेः पारमार्थिकत्वसमर्थनादयुक्तम् । वियदादिप्रपञ्चस्य मिथ्यात्वकथनं च तत्सत्यत्वोपपादनात् निरस्तम् ।। ३२१ ।।

।। इति सन्ध्य(स्वप्न•धिकरणम् ।।

।। इति सन्ध्य(स्वप्न•धिकरणम् ।।

Line 2,235: Line 2,225:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S02_A001_B101
| id = AV_C03_S02_A001_B101_Nyayasudha
| text =

।। अथ  पराभिध्यानाधिकरणम् ।।

।। अथ  पराभिध्यानाधिकरणम् ।।

ब्र०सू०-ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ ।।

ब्र०सू०-ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ ।।

Line 2,270: Line 2,256:
अदर्शनं गमयति । तस्य जीवस्य वासनाभिरिति वा । तस्यान्तर्धापयतीति वा ।। ३२२ ।।

अदर्शनं गमयति । तस्य जीवस्य वासनाभिरिति वा । तस्यान्तर्धापयतीति वा ।। ३२२ ।।

।। इति पराभिध्यानाधिकरणम् ।।

।। इति पराभिध्यानाधिकरणम् ।।

Line 2,279: Line 2,265:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S02_A007
| id = AV_C03_S02_A007_Nyayasudha
| text =

।। अथ  सुषुप्तिबोधमोहाधिकरणानि ।।

।। अथ  सुषुप्तिबोधमोहाधिकरणानि ।।

ब्र०सू०-ॐ तदभावो नाडीषु तच्छतेरात्मनि ह ॐ ।।

ब्र०सू०-ॐ तदभावो नाडीषु तच्छतेरात्मनि ह ॐ ।।

Line 2,300: Line 2,282:
स्वतन्त्रोऽपीश्वरो लीलया तानि कारणान्युपादाय जीवं तद्वशतां नीत्वा सुषुप्त्यादिकं प्रापयतीत्यर्थः । एतच्च भाष्यादौ स्पष्टम् ।। ३२४,५,७ ।।

स्वतन्त्रोऽपीश्वरो लीलया तानि कारणान्युपादाय जीवं तद्वशतां नीत्वा सुषुप्त्यादिकं प्रापयतीत्यर्थः । एतच्च भाष्यादौ स्पष्टम् ।। ३२४,५,७ ।।

।। इति सुषुप्तिबोधमोहाधिकरणानि ।।

।। इति सुषुप्तिबोधमोहाधिकरणानि ।।

Line 2,309: Line 2,291:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S02_A007_B
| id = AV_C03_S02_A007_B_Nyayasudha
| text =

।। अथ  कर्मानुस्मृत्यधिकरणम् ।।

।। अथ  कर्मानुस्मृत्यधिकरणम् ।।

ब्र०सू०- ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ ।।

ब्र०सू०- ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ ।।

Line 2,325: Line 2,303:

स्वप्नादीनां परमेश्वरकृतत्वेऽभिहिते किं देशकालान्तरेऽन्योऽपि कर्ताऽस्त्युतेश्वर एवेति संशये लौकिकेश्वराणां देशकालव्यवस्थयैश्वर्यदर्शनादयमपि तथाविध इति प्राप्ते । स एव ईश्वरोऽस्य स्वप्नादेः कर्ता न तु देशकालान्तरेऽन्यः कश्चनेत्येष एवार्थोऽत्र प्रतिपाद्यत इति । न हि यः सुप्तः स एवोत्तिष्ठत्यन्यो वेति कस्यचित्संशयोऽस्ति । न च सुप्तस्य ब्रह्मणैक्यं प्रमाणदृष्टमिष्टं वा परस्येति यत्किञ्चिदेतत् । लाघवार्थं क्रमोल-लङ्घनेन व्याख्यानमिति बो(द्धव्य)ध्यम् । सूत्रकृता च स्वप्नादिवन्न मोहः स्वतन्त्रावस्थेति ज्ञापनाय व्यवधानं कृतमिति ।। ३२६ ।।

स्वप्नादीनां परमेश्वरकृतत्वेऽभिहिते किं देशकालान्तरेऽन्योऽपि कर्ताऽस्त्युतेश्वर एवेति संशये लौकिकेश्वराणां देशकालव्यवस्थयैश्वर्यदर्शनादयमपि तथाविध इति प्राप्ते । स एव ईश्वरोऽस्य स्वप्नादेः कर्ता न तु देशकालान्तरेऽन्यः कश्चनेत्येष एवार्थोऽत्र प्रतिपाद्यत इति । न हि यः सुप्तः स एवोत्तिष्ठत्यन्यो वेति कस्यचित्संशयोऽस्ति । न च सुप्तस्य ब्रह्मणैक्यं प्रमाणदृष्टमिष्टं वा परस्येति यत्किञ्चिदेतत् । लाघवार्थं क्रमोल-लङ्घनेन व्याख्यानमिति बो(द्धव्य)ध्यम् । सूत्रकृता च स्वप्नादिवन्न मोहः स्वतन्त्रावस्थेति ज्ञापनाय व्यवधानं कृतमिति ।। ३२६ ।।

।। इति कर्मानुस्मृत्यधिकरणम् ।।

।। इति कर्मानुस्मृत्यधिकरणम् ।।

Line 2,334: Line 2,312:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S02_A008
| id = AV_C03_S02_A008_Nyayasudha
| text =

।। अथ  स्थान(तोऽप्य)भेदाधिकरणम् ।।

।। अथ  स्थान(तोऽप्य)भेदाधिकरणम् ।।

ब्र०सू०- ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ।।

ब्र०सू०- ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ।।

Line 2,566: Line 2,540:

सच्छब्दो निर्दोषार्थः । निर्भेद इत्युपसंहर्तव्ये तत्फलोपसंहारोऽयमपव्याख्याननिरासमप्युपसंहर्तुम् ।। ३२८ ।।

सच्छब्दो निर्दोषार्थः । निर्भेद इत्युपसंहर्तव्ये तत्फलोपसंहारोऽयमपव्याख्याननिरासमप्युपसंहर्तुम् ।। ३२८ ।।

।। इति स्थान(तोऽप्य)भेदाधिकरणम् ।।

।। इति स्थान(तोऽप्य)भेदाधिकरणम् ।।

Line 2,575: Line 2,549:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S02_A010_B39
| id = AV_C03_S02_A010_B39_Nyayasudha
| text =

।। अथ  उपमाधिकरणम् ।।

।। अथ  उपमाधिकरणम् ।।

ब्र०सू०-।। ॐ अत एव चोपमा सूर्यकादिवत् ॐ ।।

ब्र०सू०-।। ॐ अत एव चोपमा सूर्यकादिवत् ॐ ।।

Line 3,294: Line 3,264:

तस्मादत्यन्तभिन्न एव ब्रह्मणा जीव इति स्थितम् ।।

तस्मादत्यन्तभिन्न एव ब्रह्मणा जीव इति स्थितम् ।।

।। इति उपमाधिकरणम् ।।

।। इति उपमाधिकरणम् ।।

Line 3,303: Line 3,273:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S02_A010_B42
| id = AV_C03_S02_A010_B42_Nyayasudha
| text =

।। अथ  अरूपाधिकरणम् ।।

।। अथ  अरूपाधिकरणम् ।।

ब्र०सू०- ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ।।

ब्र०सू०- ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ।।

Line 3,344: Line 3,310:

अथ तदनन्तरमेव किन्न कृतमरूपवत्त्वाधिकरणार्थस्य अत एव चे ति सूत्रार्थं प्रति हेतुत्वेनोपोद्घातलक्षणया सङ्गत्या वर्णितस्याव्यवधायकत्वात् । हेतुत्वमपि प्रपञ्चयितुमाचार्येण स चाप्राकृतरूपत्वादि ति चशब्दो निबद्धः । कालत्रयेऽप्यशरीरात्परमात्मनो जीवस्य अत्यन्तभेद एव ह्युपपन्न इति ।। ३२९ ।।

अथ तदनन्तरमेव किन्न कृतमरूपवत्त्वाधिकरणार्थस्य अत एव चे ति सूत्रार्थं प्रति हेतुत्वेनोपोद्घातलक्षणया सङ्गत्या वर्णितस्याव्यवधायकत्वात् । हेतुत्वमपि प्रपञ्चयितुमाचार्येण स चाप्राकृतरूपत्वादि ति चशब्दो निबद्धः । कालत्रयेऽप्यशरीरात्परमात्मनो जीवस्य अत्यन्तभेद एव ह्युपपन्न इति ।। ३२९ ।।

।। इति अरूपाधिकरणम् ।।

।। इति अरूपाधिकरणम् ।।

Line 3,353: Line 3,319:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S02_A010_B42
| id = AV_C03_S02_A010_B42_Nyayasudha
| text =

।। अथ  वृदि्धह्रासाधिकरणम् ।।

।। अथ  वृदि्धह्रासाधिकरणम् ।।

ब्र०सू०- ॐ वृदि्धह्रासभाक्तवमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ ।।

ब्र०सू०- ॐ वृदि्धह्रासभाक्तवमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ ।।

Line 3,367: Line 3,329:

एतदुक्तं भवति । साधितं तावन्मौक्तस्यानन्दादेः फलस्य भक्तिसाध्यत्वमम्बुवदग्रहणात्तु न तथात्वमिति सूत्रेण । तच्च अथात आनन्दस्य मीमांसे त्यादिश्रुत्या तारतम्यवदवगम्यते । साध्यतारतम्ये (च) साधनतारतम्यमावश्यकम् । अन्यथा तस्य आकस्मिकत्वप्रसङ्गात् । फलदातुरीश्वरस्यासामञ्जस्यप्रसक्तेश्च । न चैवम् । अतोऽस्ति भक्तेर्वृदि्धह्रासभाक्तव(मिति)म् ।। ३२१२ ।।

एतदुक्तं भवति । साधितं तावन्मौक्तस्यानन्दादेः फलस्य भक्तिसाध्यत्वमम्बुवदग्रहणात्तु न तथात्वमिति सूत्रेण । तच्च अथात आनन्दस्य मीमांसे त्यादिश्रुत्या तारतम्यवदवगम्यते । साध्यतारतम्ये (च) साधनतारतम्यमावश्यकम् । अन्यथा तस्य आकस्मिकत्वप्रसङ्गात् । फलदातुरीश्वरस्यासामञ्जस्यप्रसक्तेश्च । न चैवम् । अतोऽस्ति भक्तेर्वृदि्धह्रासभाक्तव(मिति)म् ।। ३२१२ ।।

।। इति वृदि्धह्रासाधिकरणम् ।।

।। इति वृदि्धह्रासाधिकरणम् ।।

Line 3,376: Line 3,338:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S02_A017
| id = AV_C03_S02_A017_Nyayasudha
| text =

।। अथ  स्थानविशेषाधिकरणम् ।।

।। अथ  स्थानविशेषाधिकरणम् ।।

ब्र०सू०-ॐ स्थानविशेषात्प्रकाशादिवत् ॐ ।।  (ॐ उपपत्तेश्च ॐ)

ब्र०सू०-ॐ स्थानविशेषात्प्रकाशादिवत् ॐ ।।  (ॐ उपपत्तेश्च ॐ)

Line 3,433: Line 3,391:

अन्य आनन्दः परस्य जीवानां चेति सम्बन्धः । एवमीशतेत्यपि योज्यम् । मुख्येशतेत्युपलक्षणया हेतुमाह । इति श्रुतेरिति पूर्वेण सम्बन्धः ।। ३२१७ ।।

अन्य आनन्दः परस्य जीवानां चेति सम्बन्धः । एवमीशतेत्यपि योज्यम् । मुख्येशतेत्युपलक्षणया हेतुमाह । इति श्रुतेरिति पूर्वेण सम्बन्धः ।। ३२१७ ।।

।। इति स्थानविशेषाधिकरणम् ।।

।। इति स्थानविशेषाधिकरणम् ।।

Line 3,442: Line 3,400:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S02_A017_B4
| id = AV_C03_S02_A017_B4_Nyayasudha
| text =

।। अथ  पालकत्वाधिकरणम् ।।

।। अथ  पालकत्वाधिकरणम् ।।

ब्र०सू०- ॐ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॐ ।।

ब्र०सू०- ॐ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॐ ।।

Line 3,466: Line 3,420:

परानपेक्षतया प्रतीयमानं स्वरूपं धर्मो वा स्वभाव इत्युच्यते । स सर्वेषां पदार्थानाम् । (स) सर्वोऽपीशायत्त एव । अन्यथा तेषां स्वातन्त्र्यप्रसङ्गेनास्येशत्वानुपपत्तेः । सर्वं खल्वित्यादिश्रुतिविरोधापत्तेश्च । अन्नदानादौ व्यापारश्च स्फुट एवेति ।। ३२१३ ।।

परानपेक्षतया प्रतीयमानं स्वरूपं धर्मो वा स्वभाव इत्युच्यते । स सर्वेषां पदार्थानाम् । (स) सर्वोऽपीशायत्त एव । अन्यथा तेषां स्वातन्त्र्यप्रसङ्गेनास्येशत्वानुपपत्तेः । सर्वं खल्वित्यादिश्रुतिविरोधापत्तेश्च । अन्नदानादौ व्यापारश्च स्फुट एवेति ।। ३२१३ ।।

।। इति पालकत्वाधिकरणम् ।।

।। इति पालकत्वाधिकरणम् ।।

Line 3,475: Line 3,429:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S02_A017_B5
| id = AV_C03_S02_A017_B5_Nyayasudha
| text =

।। अथ  अव्यक्ताधिकरणम् ।।

।। अथ  अव्यक्ताधिकरणम् ।।

ब्र०सू०- ॐ तदव्यक्तमाह हि ॐ ।।

ब्र०सू०- ॐ तदव्यक्तमाह हि ॐ ।।

Line 3,494: Line 3,444:

भक्तानामव्यक्तोऽपीत्यन्वयः । भक्तानामनुग्रहायेत्यध्याहारो वा । जीवशक्तयपेक्षया अव्यक्तोऽपि स्वशक्तयैव दृश्यत इत्यविरोध इति ।। ३२१४ ।।

भक्तानामव्यक्तोऽपीत्यन्वयः । भक्तानामनुग्रहायेत्यध्याहारो वा । जीवशक्तयपेक्षया अव्यक्तोऽपि स्वशक्तयैव दृश्यत इत्यविरोध इति ।। ३२१४ ।।

।। इति अव्यक्ताधिकरणम् ।।

।। इति अव्यक्ताधिकरणम् ।।

Line 3,503: Line 3,453:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S02_A017_B46
| id = AV_C03_S02_A017_B46_Nyayasudha
| text =

।। अथ  उभयव्यपदेशाधिकरणम् ।।

।। अथ  उभयव्यपदेशाधिकरणम् ।।

ब्र०सू०-।। ॐ उभयव्यपदेशात्त्वहिकुण्डलवत् ॐ ।।

ब्र०सू०-।। ॐ उभयव्यपदेशात्त्वहिकुण्डलवत् ॐ ।।

Line 4,267: Line 4,213:
शब्देन सकलधर्मान्वित इति सूचयति ।। ३२१५ ।।

शब्देन सकलधर्मान्वित इति सूचयति ।। ३२१५ ।।

।। इति उभयव्यपदेशाधिकरणम् ।।

।। इति उभयव्यपदेशाधिकरणम् ।।

Line 4,276: Line 4,222:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S02_A017_B47
| id = AV_C03_S02_A017_B47_Nyayasudha
| text =

।। अथ  परानन्दा(परमता)धिकरणम् ।।

।। अथ  परानन्दा(परमता)धिकरणम् ।।

ब्र०सू०- ॐ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॐ ।।

ब्र०सू०- ॐ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॐ ।।

Line 4,383: Line 4,325:

२५२सु०- एतेषामधिकरणानामपव्याख्यानं न स्थानतोऽपीत्यत्रैव निराकृतमिति न पुनः प्रक्रान्तम् ।। ३२१६ ।।

२५२सु०- एतेषामधिकरणानामपव्याख्यानं न स्थानतोऽपीत्यत्रैव निराकृतमिति न पुनः प्रक्रान्तम् ।। ३२१६ ।।

इति परानन्दा(परमता)धिकरणम् ।।

इति परानन्दा(परमता)धिकरणम् ।।

Line 4,392: Line 4,334:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S02_A020
| id = AV_C03_S02_A020_Nyayasudha
| text =

।। फलदानाधिकरणम् ।।

।। फलदानाधिकरणम् ।।

ब्र०सू०- ॐ फलमत उपपत्तेः ॐ ।।

ब्र०सू०- ॐ फलमत उपपत्तेः ॐ ।।

Line 4,490: Line 4,428:

सु०-इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।४४४कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयेऽध्यायेऽस्मिन् भजनचरणः पर्यवसितः ।।

सु०-इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।४४४कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयेऽध्यायेऽस्मिन् भजनचरणः पर्यवसितः ।।

इति श्रीमन्न्यायसुधायां तृतीयाध्यायस्य द्वितीयः पादः ।।

इति श्रीमन्न्यायसुधायां तृतीयाध्यायस्य द्वितीयः पादः ।।

=== पादः 3 ===

Line 4,503: Line 4,442:
सिद्धान्तनिर्णया ह्येता युक्तयो व्याहृताः सदा ॥67॥
सिद्धान्तनिर्णया ह्येता युक्तयो व्याहृताः सदा ॥67॥

{{Bhashyam

| verse_id = AV_C03_S03_I67
| id = AV_C03_S03_I67_Nyayasudha
| text =

अथ तृतीयाध्यायस्य तृतीयः पादः

अथ तृतीयाध्यायस्य तृतीयः पादः

१सु०- उपासनाऽस्मिन्पाद उच्यत इति भाष्यम् । तत्रोपासनार्थस्यास्य पादस्य का पूर्वेणोत्तरेण वा सङ्गतिरित्यतोऽस्य पादस्य सङ्गतिं वदन् प्रसङ्गादेतदध्यायगतपादचतुष्टयस्याप्याह

१सु०- उपासनाऽस्मिन्पाद उच्यत इति भाष्यम् । तत्रोपासनार्थस्यास्य पादस्य का पूर्वेणोत्तरेण वा सङ्गतिरित्यतोऽस्य पादस्य सङ्गतिं वदन् प्रसङ्गादेतदध्यायगतपादचतुष्टयस्याप्याह
Line 5,341: Line 5,276:

अव्याहताः सदेति सिद्धान्तयुक्तित्वसमर्थनम् ।।

अव्याहताः सदेति सिद्धान्तयुक्तित्वसमर्थनम् ।।

।। इति न्यायमालास्थलानि ।।

।। इति न्यायमालास्थलानि ।।

Line 5,350: Line 5,285:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S03_A001
| id = AV_C03_S03_A001_Nyayasudha
| text =

।। अथ  सर्ववेदा(न्तप्रत्यया)धिकरणम् ।।

।। अथ  सर्ववेदा(न्तप्रत्यया)धिकरणम् ।।

ब्र०सू०-    ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ ।।

ब्र०सू०-    ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ ।।

Line 5,945: Line 5,876:

अथवा यथाशब्दस्यात्मशब्देनाव्ययीभावः । ततः शक्तिशब्देन कर्मधारयः । योग्यतानुसारिण्या शक्तयेत्यर्थः । अत्र यथाऽऽत्मशक्तयैव श्रवणं मननं तथाऽऽचरेदित्येतावतैवोपसंहारे कर्तव्येऽधिकमुच्यते यत्तच्छ्रवणमननयोरुक्तस्य निदिध्यासनाङ्गत्वस्यापि उपसंहारार्थम् । कृत्वा अथवा कुर्वन्नपीति विशेषज्ञापनार्थं च । अयं च विकल्पो गुरूपदेशानुरोधेन व्यवतिष्ठते ।  अथवा पूर्वार्ध एवाधिकरणार्थोपसंहारः । तत्राचरेदिति वक्ष्यमाणं सिंहावलोकनेन सम्बध्यते । इति सिद्धमिति शेषः ।। ।

अथवा यथाशब्दस्यात्मशब्देनाव्ययीभावः । ततः शक्तिशब्देन कर्मधारयः । योग्यतानुसारिण्या शक्तयेत्यर्थः । अत्र यथाऽऽत्मशक्तयैव श्रवणं मननं तथाऽऽचरेदित्येतावतैवोपसंहारे कर्तव्येऽधिकमुच्यते यत्तच्छ्रवणमननयोरुक्तस्य निदिध्यासनाङ्गत्वस्यापि उपसंहारार्थम् । कृत्वा अथवा कुर्वन्नपीति विशेषज्ञापनार्थं च । अयं च विकल्पो गुरूपदेशानुरोधेन व्यवतिष्ठते ।  अथवा पूर्वार्ध एवाधिकरणार्थोपसंहारः । तत्राचरेदिति वक्ष्यमाणं सिंहावलोकनेन सम्बध्यते । इति सिद्धमिति शेषः ।। ।

।। इति सर्वदा(न्तप्रत्यया)धिकरणम् ।।

।। इति सर्वदा(न्तप्रत्यया)धिकरणम् ।।

Line 5,954: Line 5,885:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S03_A002
| id = AV_C03_S03_A002_Nyayasudha
| text =

।। अथ  उपसंहाराधिकरणम् ।।

।। अथ  उपसंहाराधिकरणम् ।।

ब्र०सू०-  ॐ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॐ ।।

ब्र०सू०-  ॐ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॐ ।।

Line 5,969: Line 5,896:

श्रवणं मननं तथेति वर्तते । यथाऽऽत्मशक्तयैवेति च । अनेन प्राप्तेश्च समञ्जसमि त्यादीनां सूत्राणामपि तात्पर्यमुक्तं वेदितव्यम् । तथा तन्निर्धारणार्थनियम इत्यादीनां, प्रथमाधिकरणव्याख्यानेनेति ।।

श्रवणं मननं तथेति वर्तते । यथाऽऽत्मशक्तयैवेति च । अनेन प्राप्तेश्च समञ्जसमि त्यादीनां सूत्राणामपि तात्पर्यमुक्तं वेदितव्यम् । तथा तन्निर्धारणार्थनियम इत्यादीनां, प्रथमाधिकरणव्याख्यानेनेति ।।

।। इति उपसंहाराधिकरणम् ।।

।। इति उपसंहाराधिकरणम् ।।

Line 5,978: Line 5,905:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S03_A042
| id = AV_C03_S03_A042_Nyayasudha
| text =

।। अथ  अनुबन्धाद्यधिकरणम् ।।

।। अथ  अनुबन्धाद्यधिकरणम् ।।

ब्र०सू०- ।। ॐ अनुबन्धादिभ्यश्च ॐ ।।

ब्र०सू०- ।। ॐ अनुबन्धादिभ्यश्च ॐ ।।

Line 6,222: Line 6,145:

अतो यमाद्यङ्गमवश्यानुष्ठेयमिति सिद्धम् ।।

अतो यमाद्यङ्गमवश्यानुष्ठेयमिति सिद्धम् ।।

।। इति अनुबन्धाद्यधिकरणम् ।।

।। इति अनुबन्धाद्यधिकरणम् ।।

Line 6,231: Line 6,154:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_AV_C03_S03_A042_B25
| id = AV_AV_C03_S03_A042_B25_Nyayasudha
| text =

।। अथ  विद्याधिकरणम् ।।

।। अथ  विद्याधिकरणम् ।।

ब्र०सू०-  ।। ॐ विद्यैव तु निर्धारणात् ॐ ।।

ब्र०सू०-  ।। ॐ विद्यैव तु निर्धारणात् ॐ ।।

Line 7,482: Line 7,401:

उच्यते । प्रकरणशुद्धौ प्रमेयं सुग्रहं भवतीत्यतः क्रमभङ्गः । तथा हि । उपासनस्वरूपानिश्चये न कोऽपि विचारोऽवकाशं लभत इति तत्स्वरूपमादौ दर्शितम् । ततस्तस्य कर्तव्यता समर्थिता । अनन्तरं तदितिकर्तव्यताजिज्ञासायां योग्यतादिविचार इति ।।

उच्यते । प्रकरणशुद्धौ प्रमेयं सुग्रहं भवतीत्यतः क्रमभङ्गः । तथा हि । उपासनस्वरूपानिश्चये न कोऽपि विचारोऽवकाशं लभत इति तत्स्वरूपमादौ दर्शितम् । ततस्तस्य कर्तव्यता समर्थिता । अनन्तरं तदितिकर्तव्यताजिज्ञासायां योग्यतादिविचार इति ।।

।। इति विद्याधिकरणम् ।।

।। इति विद्याधिकरणम् ।।

Line 7,491: Line 7,410:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S03_A042_B90
| id = AV_C03_S03_A042_B90_Nyayasudha
| text =

।। अथ  यावदधिकाराधिकरणम् ।।

।। अथ  यावदधिकाराधिकरणम् ।।

ब्र०सू०-  ।। ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ ।।

ब्र०सू०-  ।। ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ ।।

Line 7,568: Line 7,483:

।। इति यावदधिकाराधिकरणम् ।।

।। इति यावदधिकाराधिकरणम् ।।

Line 7,577: Line 7,492:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S03_A042_B95
| id = AV_C03_S03_A042_B95_Nyayasudha
| text =

।। अथ  इयदामननाधिकरणम् ।।

।। अथ  इयदामननाधिकरणम् ।।

ब्र०सू०-      ।। ॐ इयदामननात् ॐ ।।

ब्र०सू०-      ।। ॐ इयदामननात् ॐ ।।

Line 7,657: Line 7,568:

ततो भगवानिति ।। ३३२१ ।।

ततो भगवानिति ।। ३३२१ ।।

।। इति इयदामननाधिकरणम् ।।

।। इति इयदामननाधिकरणम् ।।

Line 7,666: Line 7,577:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S03_A042_B97
| id = AV_C03_S03_A042_B97_Nyayasudha
| text =

।। अथ  दर्शनभेदाधिकरणम् ।।

।। अथ  दर्शनभेदाधिकरणम् ।।

ब्र०सू०- ।। ॐ प्रज्ञान्तरपृथक्तववद्दृष्टिश्च तदुक्तम् ॐ ।।

ब्र०सू०- ।। ॐ प्रज्ञान्तरपृथक्तववद्दृष्टिश्च तदुक्तम् ॐ ।।

Line 7,681: Line 7,588:

नानाविधेति शेषः ।।

नानाविधेति शेषः ।।

।। इति दर्शनभेदाधिकरणम् ।।

।। इति दर्शनभेदाधिकरणम् ।।

Line 7,690: Line 7,597:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S03_A042_B107
| id = AV_C03_S03_A042_B107_Nyayasudha
| text =

।। अथ  प्रदानाधिकरणगुरुप्रसादाधिकरणौ ।।

।। अथ  प्रदानाधिकरणगुरुप्रसादाधिकरणौ ।।

ब्र०सू०-      ।। ॐ प्रदानवदेव तदुक्तम् ॐ ।।

ब्र०सू०-      ।। ॐ प्रदानवदेव तदुक्तम् ॐ ।।

Line 7,724: Line 7,627:
। अन्वयव्यतिरेकाभ्यां श्रुत्या च प्रमाणानामेव प्रमेयाधिगतिसाधनत्वनिश्चयादिति भावः । आख्यायिकास्वपि श्रवणादीनामनुक्तिमात्रम् । न पुनरभावोक्तिरस्ति ।। ३३२७ ।।

। अन्वयव्यतिरेकाभ्यां श्रुत्या च प्रमाणानामेव प्रमेयाधिगतिसाधनत्वनिश्चयादिति भावः । आख्यायिकास्वपि श्रवणादीनामनुक्तिमात्रम् । न पुनरभावोक्तिरस्ति ।। ३३२७ ।।

।। इति प्रदानाधिकरणगुरुप्रसादाधिकरणौ ।।

।। इति प्रदानाधिकरणगुरुप्रसादाधिकरणौ ।।

Line 7,733: Line 7,636:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S03_A042_B108
| id = AV_C03_S03_A042_B108_Nyayasudha
| text =

।। अथ  पूर्वविकल्पाधिकरणम् ।।

।। अथ  पूर्वविकल्पाधिकरणम् ।।

ब्र०सू०-  ।। ॐ पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ॐ ।।

ब्र०सू०-  ।। ॐ पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ॐ ।।

Line 7,802: Line 7,701:

इह जन्मान्तरे वा हिरण्यगर्भोपदेशेन विना न कस्यापि मुक्तिरित्यतस्तस्य गुरुत्वमुपपन्नम् । तदितरेषामप्युत्तमानां विद्यासम्प्रदायप्रवर्तकत्वात् गुरुत्वम् अप्रवर्तकानां तु अनुग्राहकत्वादिनेति ।। ३३२८ ।।

इह जन्मान्तरे वा हिरण्यगर्भोपदेशेन विना न कस्यापि मुक्तिरित्यतस्तस्य गुरुत्वमुपपन्नम् । तदितरेषामप्युत्तमानां विद्यासम्प्रदायप्रवर्तकत्वात् गुरुत्वम् अप्रवर्तकानां तु अनुग्राहकत्वादिनेति ।। ३३२८ ।।

।। इति पूर्वविकल्पाधिकरणम् ।।

।। इति पूर्वविकल्पाधिकरणम् ।।

Line 7,811: Line 7,710:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S03_A042_B112
| id = AV_C03_S03_A042_B112_Nyayasudha
| text =

।। अथ  ताद्विद्याधिकरणम् ।।

।। अथ  ताद्विद्याधिकरणम् ।।

ब्र०सू०- ।। ॐ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॐ ।।

ब्र०सू०- ।। ॐ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॐ ।।

Line 7,866: Line 7,761:

।। इति श्रीमज्जयतीर्थविरचितायां श्रीमन्न्यायसुधायां तृतीयाध्यायस्य तृतीयः पादः समाप्तः ।।

।। इति श्रीमज्जयतीर्थविरचितायां श्रीमन्न्यायसुधायां तृतीयाध्यायस्य तृतीयः पादः समाप्तः ।।

अथ तृतीयाध्यायस्य चतुर्थः पादः

अथ तृतीयाध्यायस्य चतुर्थः पादः

=== पादः 4 ===

Line 7,879: Line 7,775:
बलवद्विरोधिसद्भावे जैमिन्याद्युक्तिरिष्यते ॥3॥
बलवद्विरोधिसद्भावे जैमिन्याद्युक्तिरिष्यते ॥3॥

{{Bhashyam

| verse_id = AV_C03_S04_I03
| id = AV_C03_S04_I03_Nyayasudha
| text =

।। अथ  पुरुषार्थाधिकरणम् ।।

।। अथ  पुरुषार्थाधिकरणम् ।।

१सु०- ज्ञानसामर्थ्यमस्मिन्पाद उच्यत इति पादप्रतिपाद्यं भाष्येऽभिहितम् । सङ्गतिस्तु प्रागुक्तैव । ननु च ज्ञानस्य स्वातन्त्र्येण मोक्षसाधनत्वं सामर्थ्यम् । तच्च विद्यैव इत्युक्तम् । किमपरमवशिष्यते । यदर्थं पादारम्भः ।

१सु०- ज्ञानसामर्थ्यमस्मिन्पाद उच्यत इति पादप्रतिपाद्यं भाष्येऽभिहितम् । सङ्गतिस्तु प्रागुक्तैव । ननु च ज्ञानस्य स्वातन्त्र्येण मोक्षसाधनत्वं सामर्थ्यम् । तच्च विद्यैव इत्युक्तम् । किमपरमवशिष्यते । यदर्थं पादारम्भः ।

Line 7,965: Line 7,857:

ननु नायं जैमिन्यादिमतस्य विषयो वक्तुं शक्यते । बलवद्विरोधसद्भावे कर्मणोऽपि स्वर्गादिसाधनत्वानुपपत्तेः । मैवम् । न हि यज्ज्ञानस्य प्रतिबन्धकं कर्म तत्कर्मणोऽपीत्यस्ति नियमः । लोकेऽन्यथा दर्शनात् । फलप्रतिबन्धककर्मसद्भावे कथमिति चेत् । तदा स्वर्गादिसाधनं कर्मैव नोत्पद्यते । उत्पन्नं वा प्रतिबद्धं तिष्ठतीति को विरोधः । न हि बलवद्विरोधिसद्भावे सर्वत्रैव जैमिन्याद्युक्तिरिष्यत इत्युक्तम् । इयं च व्यवस्था पूर्वव्यवस्थयोपस्कर्तव्या । अन्यथा विरोधापत्तेरिति ।। ३४१ ।।

ननु नायं जैमिन्यादिमतस्य विषयो वक्तुं शक्यते । बलवद्विरोधसद्भावे कर्मणोऽपि स्वर्गादिसाधनत्वानुपपत्तेः । मैवम् । न हि यज्ज्ञानस्य प्रतिबन्धकं कर्म तत्कर्मणोऽपीत्यस्ति नियमः । लोकेऽन्यथा दर्शनात् । फलप्रतिबन्धककर्मसद्भावे कथमिति चेत् । तदा स्वर्गादिसाधनं कर्मैव नोत्पद्यते । उत्पन्नं वा प्रतिबद्धं तिष्ठतीति को विरोधः । न हि बलवद्विरोधिसद्भावे सर्वत्रैव जैमिन्याद्युक्तिरिष्यत इत्युक्तम् । इयं च व्यवस्था पूर्वव्यवस्थयोपस्कर्तव्या । अन्यथा विरोधापत्तेरिति ।। ३४१ ।।

।। इति पुरुषार्थाधिकरणम् ।।

।। इति पुरुषार्थाधिकरणम् ।।

Line 7,974: Line 7,866:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S04_A001
| id = AV_C03_S04_A001_Nyayasudha
| text =

।। अथ  कामचाराधिकरणम् ।।

।। अथ  कामचाराधिकरणम् ।।

ब्र०सू०-      ।। ॐ स्तुतयेऽनुमतिर्वा ॐ ।।

ब्र०सू०-      ।। ॐ स्तुतयेऽनुमतिर्वा ॐ ।।

Line 9,542: Line 9,430:
मुक्ततारतम्यविषये ।।

मुक्ततारतम्यविषये ।।

।। इति कामचाराधिकरणम् ।। ३४४ ।।

।। इति कामचाराधिकरणम् ।। ३४४ ।।

Line 9,551: Line 9,439:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S04_A002
| id = AV_C03_S04_A002_Nyayasudha
| text =

।। अथ  उभयलिङ्ग-आधिकारिकाधिकरणे ।।

।। अथ  उभयलिङ्ग-आधिकारिकाधिकरणे ।।

सु०-

सु०-

Line 12,137: Line 12,021:

उत्तमत्वतारम्यानुसारिणी रमादिषु भक्तिः हरेः प्रीतिदैव । यस्मात् सोत्तमा भक्तिः । शास्त्रविहितभक्तित्वादित्यर्थः । स्वोपगा सा विष्णुविषया भक्तिर्यथेत्यर्थः । इति वा अनुमातव्यमिति शेषः । अत्रापि पूर्ववद्विशिष्टसाधनात् पृथक्प्रयोगद्वयेन वा साध्यद्वयसिदि्धः ।।

उत्तमत्वतारम्यानुसारिणी रमादिषु भक्तिः हरेः प्रीतिदैव । यस्मात् सोत्तमा भक्तिः । शास्त्रविहितभक्तित्वादित्यर्थः । स्वोपगा सा विष्णुविषया भक्तिर्यथेत्यर्थः । इति वा अनुमातव्यमिति शेषः । अत्रापि पूर्ववद्विशिष्टसाधनात् पृथक्प्रयोगद्वयेन वा साध्यद्वयसिदि्धः ।।

।। इति उभयलिङ्गआधिकारिकाधिकरणे ।।

।। इति उभयलिङ्गआधिकारिकाधिकरणे ।।

Line 12,146: Line 12,030:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S04_A003
| id = AV_C03_S04_A003_Nyayasudha
| text =

।। अथ  फलश्रुत्यधिकरणम् ।।

।। अथ  फलश्रुत्यधिकरणम् ।।

ब्र०सू०- ।। ॐ स्वामिनः फलश्रुतेरित्यात्रेयः ॐ ।।

ब्र०सू०- ।। ॐ स्वामिनः फलश्रुतेरित्यात्रेयः ॐ ।।

Line 12,361: Line 12,241:
मनुष्योत्तमानामादित्वोक्तया, निरयाद्यनेकफलोक्तया च । वचोऽस्तीति शेषः ।।

मनुष्योत्तमानामादित्वोक्तया, निरयाद्यनेकफलोक्तया च । वचोऽस्तीति शेषः ।।

।। इति फलश्रुत्यधिकरणम् ।।

।। इति फलश्रुत्यधिकरणम् ।।

Line 12,370: Line 12,250:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S04_A004
| id = AV_C03_S04_A004_Nyayasudha
| text =

।। अथ  अनाविष्काराधिकरणम् ।।

।। अथ  अनाविष्काराधिकरणम् ।।

ब्र०सू०-।।ॐ अनाविष्कुर्वन्नन्वयात् ॐ ।।

ब्र०सू०-।।ॐ अनाविष्कुर्वन्नन्वयात् ॐ ।।
Line 12,456: Line 12,332:

दानफलेनेति शेषः । पात्रे क्रियमाणं खलु दानं फलायालम् । नापात्रे । प्रत्युत प्रत्यवायस्यैव हेतुः । आविष्कारेज्ञानदाने चायोग्यानामपि तत्प्राप्तिर्भवति । सा च प्रतिषिद्धेति भावः ।।

दानफलेनेति शेषः । पात्रे क्रियमाणं खलु दानं फलायालम् । नापात्रे । प्रत्युत प्रत्यवायस्यैव हेतुः । आविष्कारेज्ञानदाने चायोग्यानामपि तत्प्राप्तिर्भवति । सा च प्रतिषिद्धेति भावः ।।

।। इति अनाविष्काराधिकरणम् ।।

।। इति अनाविष्काराधिकरणम् ।।

Line 12,465: Line 12,341:

न्यायसुधा

न्यायसुधा

{{Bhashyam

| verse_id = AV_C03_S04_A004_B7
| id = AV_C03_S04_A004_B7_Nyayasudha
| text =

।। ऐहिकाधिकरणमुक्तिफलाधिकरणे ।।

।। ऐहिकाधिकरणमुक्तिफलाधिकरणे ।।

ब्र०सू०-  ॐ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ ।।

ब्र०सू०-  ॐ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ ।।

Line 12,492: Line 12,364:

।। इति श्रीमन्न्यायसुधायां तृतीयाध्यायस्य चतुर्थः पाद ।।

।। इति श्रीमन्न्यायसुधायां तृतीयाध्यायस्य चतुर्थः पाद ।।

।। इति तृतीयाध्यायः ।।

।। इति तृतीयाध्यायः ।।

Latest revision as of 20:35, 29 April 2026

न्यायसुधा — अध्यायः 3

पादः 1

न्यायसुधा

योग्यता बलवत्त्वं च विभागः कारणाभवः । क्लृप्तिरन्या गतिश्चैव सिद्धान्तस्यैव साधकाः ॥4॥

अथ तृतीयाध्यायः

अथ तृतीयाध्यायस्य प्रथमः पादः

१सु०-कुपिताहिफणच्छाया समीकृत्यापरं सुखम् । सेवन्ते यत्पदं धीरास्तं भजे वल-लभं श्रियः ।

साधनविचारोऽयमध्यायः ।। वैराग्यार्थे गत्यादिनिरूपणा प्रथमपाद इत्यध्यायपाद प्रतिपाद्यं भाष्य एव स्फुटम् । सङ्गतिं तु लाघवायैककृत्योपरि वक्ष्याम इत्याशयवांस्तृतीया(ध्याय)द्यपादाधिकरणपूर्वपक्षसिद्धान्तयुक्तः सङ्ग्रहेणाह स्वाभाविकेति ।

अनु०-स्वाभाविकान्यथानामसहभावान्यथोक्तयः ।अविशेषविशेषौ च सहभावो विमिश्रता ।विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः ।युक्तयः पूर्वपक्षस्य गुणाधिक्यार्थतो भवौ ।उपपत्तिर्द्विरूपत्वमाधिक्यमनुरूपता ।योग्यता बलवत्वं च विभागः कारणाभवः ।क्ऌप्तिरन्या गतिश्चैव सिद्धान्तस्यैव साधकाः

साधका इति वक्ष्यमाणं पूर्वपक्षस्ये त्यत्रापि सम्बध्यते । पूर्वपक्षस्य सिद्धान्तस्येति जातावेकवचनम् । साधका इति छान्दसो निर्देशः ।

यद्वा युक्तयः पूर्वपक्षस्ये त्यत्र साधका इति नाकृष्यते । पूर्वपक्षसम्बन्धिन्यो युक्तय इत्येवार्थः । सिद्धान्तस्यैव साधका इत्यत्र तु न्याया इति शेषः ।

२सु०- अत्र सूत्रं योनेः शरीरमिति ।

ब्र०सू०- ॐ योनेः शरीरम् ॐ ।।

तद्व्याख्यातं भाष्ये । स्वर्गादवाग्गतो जीवो वृष्टिद्वारा व्रीह्यादिबीजेषु सङ्क्रान्तो रेतस्सिक्पुरुषं प्रविश्य सह रेतसा मातृयोनिद्वारेण जठरं प्रविष्टः कललबुद्बुदादिक्रमेणोत्पन्नं शरीरमाप्नोतीति प्रसिद्धम् । तत्किं तथ्यमुतातथ्यमिति सन्देहः । न तथ्यमिति पूर्वः पक्षः । कुतः । देहं गर्भस्थितं क्वापि प्रविशेत् स्वर्गतो गत इत्यादिवचनात् । मान्धातृद्रोणद्रुपदकृपशुकादीनामितिहासपुराणेषु विनैव बीजादिसम्बन्धेन जननदर्शनाच्च । अन्यथासिद्धे चार्थे न बहुकल्पना युक्ता । अतस्ते वैराग्यजनना(यैवा)र्थमेवाध्यात्मविदां वादा इति । तथ्यमिति सिद्धान्तः । कस्मात् । मेघो भूत्वा वर्षति । त(द्य) इह व्रीहि यवा ओष(धिवनस्पतय)धयस्तिलामाषा इति जायन्ते । यो यो ह्यन्नमत्ति । यो वा रेतः सिञ्चति तद्रूपाद्भूय एव भवति । तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्यन्ते इत्यादिश्रुतेः । न चादृष्टेऽर्थेऽन्यथासिदि्धरवकाशवती । न च वचनान्तरलिङ्गदर्शनविरोधः । क्वचिद् बीजादिसम्बन्धाभावस्यापि विद्यमानत्वेन तद्विषयत्वात् । यथोक्तम् । दिवः स्थास्नून् गच्छति । स्थावराणि दिवः प्राप्त इति श्रुतिस्मृतिभ्यामिति ।

तदिदमयुक्तं व्याख्यानम् । उत्सूत्रत्वात् । यद्यप्यत्र योनिशब्दो बीजाद्युपलक्षणः शक्यो व्याख्यातुं, तथाऽपि तत्सम्बन्धनियम एव सूत्रे प्रतीयते । न तु क्वाचित्कस्तदभावोऽपि । यदि च क्वचिद् बीजादिसम्बन्धाभावः स्यात् तदा आकस्मिकत्वं स्यादित्यत आह बीजेति ।

अनु०-बीजपूरुषयोनीनां सङ्गातिनियमोज्खितिम् । अथशब्देन भगवानाह

बीजशब्देन व्रीह्यादिकं रेतश्चोच्यते । सङ्गातिनियमोज्खितिं सम्बन्धातिनियमाभावम् । अयमर्थः । रेतःसिग्योगोऽथेति पूर्वसूत्रात् अथ शब्दोऽत्राप्यनुवर्तते । स च प्रकृतादर्थादर्थान्तरे

वर्तते । तथा च योनेः शरीरमापद्यते । क्वचित्तदभावेनापीति अथशब्देन भगवान् सूत्रकारो बीजादिसम्ब(न्धे नि)न्धनियमाभावं सूत्रितवानित्यतो नोत्सूत्रत्वपर्यनुयोगो युक्त इति ।

यदुक्तमेवं सत्याकस्मिकत्वप्रसङ्ग इति तत्परिहरति कारणश्चेति ।

अनु०- कारणतश्च ताम् ।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य प्रथमः पादः ।।

सु०- तां च बीजादिसम्बन्धनियमोज्खितिं कारणत आह । एतदुक्तं भवति । जन्मकारणादृष्टाकृष्टो जन्तुर्बीजादिसम्बन्धेन शरीरमापद्यत इत्युत्सर्गः । स च क्वचिज्ज्ञानतपोयोगाद्यतिशयलक्षणेन कारणविशेषेणापोद्यते । यथा क्षुद्रजन्तुयातनाशरीरोत्पत्तावपवाद इति । तथा चोक्तम् । विशेषकारणादेव विशेषाज्जनिरिष्यते । सामान्यजननं चैव नॄणां सामान्यहेतुत इति । अतो युक्तमेतद्व्याख्यानमिति ।।

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयेऽध्यायेऽयं प्रथमचरणः पर्यवसितः ।। ३१ ।।

।। इति श्रीमन्न्यायसुधायां तृतीयाध्यायस्य प्रथमः पादः ।।

पादः 2

न्यायसुधा

विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिर्दशनम् । अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः ॥4॥

अथ तृतीयाध्यायस्य द्वितीयः पादः

१सु०- भक्तिरस्मिन्पाद उच्यते । भक्तयर्थं हि भगवन्महिमोक्तिरि ति पादप्रतिपाद्यं भाष्य एव स्फुटम् । सङ्गतिं तु उत्तरत्र वक्ष्याम इत्याशयवानेतत्पादाधिकरणेषु पूर्वपक्षसिद्धान्तयुक्तः सङ्ग्रहेणाह पश्चादिति ।

अनु०-पश्चाददृष्ट्यविज्ञानकालदुःखपृथग्भवाः ।। स्थानभेदो विरुद्धत्वं न्यायसाम्यं स्वतो भवः ।। गुणसाम्यमयोगाश्च तर्कबाधो विलोमता ।। नानाभावः प्रलोभश्च युक्तयः पूर्वपक्षगाः । अशक्यकर्तृताशक्तिः स्वतो बोधस्तथैव च ।। अमानक्ऌप्तिसन्मानव्यवस्थाऽत्यल्पता भवाः ।। विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिदर्शनम् ।।अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः ।।

पूर्वपक्षगाः पूर्वपक्षसम्बन्धिन्यः । निर्णयप्रमाः । सिद्धान्तनिर्णयार्थानि प्रमाणानि ।

न्यायसुधा

२सु०- योनेः शरीरमित्येतदवसानैः सूत्रैर्जीवस्य जन्मावगतम् । जातस्य च स्वप्नाद्यवस्थासम्बन्धः प्रसिद्धः । तत्र स्वप्नावस्थाप्रवर्तकत्वलक्षणो महिमा भगवतोऽत्राधिकरणे निर्णीयते । तथा हि । स्वप्नो नामार्थज्ञानात्मकः । तत्र तावत् स्वाप्नार्थानां करितुरगादीनां परमेश्वरायत्तता नोपपद्यते । असत्यत्वात् । न तावदिमेऽनादिनित्याः । स्वप्नावस्थातः प्रागूर्ध्वं चोपलब्धिप्रसङ्गात् । न हि विद्यमाना अपि उपलब्धिसाधनेषु चक्षुरादिष्वनुपरतेषु नोपलभ्यन्ते, उपलभ्यन्ते च उपरतेष्विति सम्भवति । न चान्यत्र गताः । अन्यैरप्यनुपलम्भात् । मध्यमपरिमाणाश्चैते दृश्यन्ते । न च तथाविधमनादिनित्यं किमपि दृष्टम् ।

नाप्युत्पत्तिनाशवन्तः । तथात्वेऽपि प्रागूर्ध्वमुपलम्भप्रसक्तेः । न च वाच्यं विद्युदादिवत्तदैवोत्पत्तिर्विनाशश्चेति । इत्थम्भावे प्रमाणाभावात् प्राङ्मृदादीनामूर्ध्वं कपालादीनां चोपलम्भापत्तेश्च । न चैतेषां (तात्कालिक)तत्कालीनजन्मन्युपादानं निमित्तं च पश्यामः ।

कर्ता च न तावज्जीवात्मा । द्रष्टुर्निर्व्यापारत्वात् । अपरस्य चादर्शनात् ।

नापीश्वरः । प्रमाणाभावात् । भ्रान्तित्वं चैतेषाम्, स्वप्नमायासरूपे ति स्वप्नमनोरथो यथे त्यादिश्रुतिस्मृतिभ्यामावेद्यते । शिष्टमपव्याख्यानानुवादे वक्ष्यामः । तदेवं न स्वाप्नानामर्थानामीश्वराधीनत्वम् । नापि तज्ज्ञानस्य । तस्यापि निमित्ताभावेनापरमार्थत्वात् । न तावच्चक्षुरादीनां त(त्र निमि)न्निमित्तत्वम् । तेषामुपरतत्वात् ।

नापि मनसः । रूपादिमत्यर्थे स्वातन्त्र्याभावात् । अत एव न साक्षिणः । इन्द्रियाप्रवृत्तौ लिङ्गशब्दयोरपि नावकाशः । अपरोक्षाकारं चेदमवभासते । अतोऽर्थज्ञानरूपा स्वप्नावस्था नेश्वराधीनेति प्राप्ते तत्प्रतिविधानाय उपोद्घातमाह वासना इति ।

ब्र०सू०-ॐ सन्ध्ये सृष्टिराह हि ॐ ।। ।

ॐ निर्मातारं चैके पुत्रादयश्च ॐ ।। ।

ॐ मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॐ ।।।

अनु०-वासनाः सर्ववस्तूनामनाद्यनुभवागताः । सन्त्येवाशेषजीवानामनादिमनसि स्थिताः

भावनाऽपरनामकाः संस्काराः । सर्वग्रहणप्रयोजनमुत्तरत्र भविष्यति । ननु भावनाख्यसंस्कारोऽनुभवजन्यः । न च सर्वजीवानां सर्ववस्त्वनुभवोऽस्ति । तत्कथमशेषजीवानां सर्ववस्तुवासनाः सन्त्येवेत्यत उक्तम् अनादीति । अनाद्यनुभवप्रवाहोत्पन्नाः । वासनानामात्मसमवेतत्वं वैशेषिकादिभिरभ्युपगतम् । तन्निरासार्थमुक्तं मनसि स्थित्वा इति । जातावेकवचनम् । सादिनो मनसः कथमनादिवासनासम्बन्ध इत्यत उक्तम् अनादीति ।

३सु०- एतदेव प्रपञ्चयति त्रिगुणात्मकमिति ।

अनु०-त्रिगुणात्मकं मनोऽस्त्येव यावन्मुक्तिस्सदातनम् ।तत्रैवाशेषसंस्काराः सञ्चीयन्ते सदैव च

मनस एव संस्काराश्रयत्वं नात्मन इत्यत्रोपपत्तिसूचनाय त्रिगुणात्मकमित्युक्तम् । गुणात्मकमित्येवोक्ते परिमाणादिगुणात्मकमित्यपि प्रतीतिः स्यात् । तदात्मनोऽपि समानमित्यतः त्रिग्रहणम् । तथा च जीवात्मा न भावनाश्रयः सत्त्वादिगुणानात्मकत्वादीश्वरवत् । भावना वा सत्त्वादिगुणात्मकद्रव्याश्रया संस्कारत्वाद्वेगादिवत् । तच्च परिशेषान्मन एवेत्युक्तं भवति । सत्त्वादिगुणानभ्युपगन्तारं प्रति तु तत्स्थानेऽचेतनपदं प्रयोक्तव्यम् । त्रिगुणात्मकग्रहणं (च) स्वरूपकथनम् । अस्त्येव सर्व(दैवेति)देति शेषः । तथा सति मोक्षेऽपि सत्त्वात् स्वप्नाद्यवस्थापत्तिरित्यत उक्तं विवृणोति यावदिति ।

यद्यपि मनः स्वरूपेण नित्यमेव तथाऽपि जीवसम्बन्धस्तस्य मोक्षावधिरित्यत इदमुक्तम् । (तद्वै देवं) तद्वै जैवं मनो येनानन्द्येव भवतीति मुक्तावप्यात्मनो मनःसम्बन्धश्रवणात् कथं यावन्मुक्तिरित्युक्तमित्यतो वा त्रिगुणात्मकमित्युक्तम् । आत्मस्वरूपमनसो मुक्तौ सत्त्वेऽपि जडमनोऽभिप्रेत्यायमवधिरुक्त इति । चः तस्मादित्यर्थे । तत्रैव न त्वात्मनि ।

४सु०- एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चे ति मनसो जन्मश्रवणात् कथमनादित्वमुच्यत इत्यत आह सूक्ष्मत्वेनेति ।

अनु०-सूक्ष्मत्वेन लये सच्च प्राकृतैरुपचीयते । सृष्टिकाले यदा तन्न कुतः संसारसंस्थितिः

च शब्द एवार्थे । प्राकृतैः। अहङ्काराद्यैः । मन इति वर्तते । प्रलये सतोऽप्युपचयापेक्षया जन्मश्रुतिरिति भावः । कुत एषा कत् तदा प्रलये तन्न स्यात् । यदि च प्रलये तन्न स्यात् तदा आत्मनः संसारावस्थानं न स्यात् । न च मा भूत् प्रलये संसारावस्थानमिति युक्तम् । मुक्तानां पुनः संसारानुपपत्त्या सृष्ट्यनुपपत्तिप्रसङ्गात् । अविद्याकामकर्माद्यधीनः संसार इति चेन्न । अविद्यादेरेव संसारत्वात्, मनः परं कारणमामनन्ती त्यादिस्मृतिविरोधाच्च ।

तथा च श्रुतिः । नित्यं मनोऽनादित्वान्न ह्यमनाः पुमांस्तिष्ठती ति । पुमान् संसारीत्यर्थः ।

५सु०- किमतो यद्येवं सर्ववस्त्वनुभवाहितसंस्कारसद्भाव इत्यत आह संस्कारैरिति ।

अनु०-संस्कारैर्भगवानेव सृष्ट्वा नानाविधं जगत् । स्वप्नकाले दर्शयति

अत्र सृष्ट्वा इत्यनेन अनादिनित्यत्वपक्षदोषा अनभ्युपगमेनैव निरस्ताः । स्वप्नकाल एव सृष्ट्वा । इत्यनेन प्रागूर्ध्वं चोपलम्भप्रसङ्गो निराकृतः । सृष्टेः संहारोपलक्षणत्वात् । संस्कारैः। इत्युपादानकर्तनम् । न च तेषां गुणत्वेनोपादानत्वानुपपत्तिः । मनोवृत्तित्वेन द्रव्यत्वात् । संस्काराणां चातीन्द्रियत्वेन त्र्यणुकजन्मविनाशयोरिव प्रागूर्ध्वं चानुपलम्भो न दोषाय । भगवान् । इति कर्तृनिर्देशः । तदैव सृष्टिसंहारकरणमसम्भावितमित्यतः अशक्यकर्तृताशक्तिसूचनाय भगवान् । इत्युक्तम् ।

एवं च सत्यदृष्टादिनिमित्तं प्रसिद्धमेव । न केवलमेवमर्थानां सत्यत्वसम्भवेन भगवदधीनत्वम्, अपि तु तज्ज्ञानस्यापीत्युक्तं दर्शयतीति । जीवायेति शेषः । दर्शनसाधनं च मन एवेति वक्ष्यति । दर्शनं चानुभवो विवक्षितः । तेन स्मरणमेवैतदिति मतं निरस्तं भवति ।

स्मरणत्वं खल्वस्य तच्चिह्नस्य तदित्युल-लेखस्य सद्भावाद्वा कल्प्यते । असन्निहितगोचरत्वाद्वा संस्कारप्रभवत्वाद्वा ।

नाद्यः । इदमित्युल-लेखेन तदभावात् । अत एव स्मृतिविपर्यासोऽयमिति चेन्न । स्मृतित्वस्यैवासिद्धेः ।

न द्वितीयः । विषयसान्निध्यस्योपपादितत्वात् ।

न तृतीयः । पदार्थजन्मनि संस्कारस्योपक्षीणत्वेनासिद्धेः । तस्मात् यथा मनोरथे ध्याने वा संस्कारयोनीनर्थान्मनसाऽनुभवति एवं स्वप्नेऽपीति किमनुपपन्नम् । इयांस्तु विशेषः । मनोरथादौ प्रयत्नपूर्विका पदार्थसृष्टिः । स्वप्ने पुनरीश्व(रेच्छाधी)राधीनैवेति ।

६सु०- अपरे तु भवत्येवायमनुभवः । किन्तु जागरानुभूतस्मर्तव्यार्थ एवेति मन्यन्ते । तदप्यसत् । तथा हि । किमयमनुभवो यथार्थ उत अयथार्थः । नाद्यः । बाह्यार्थानां देशकालविप्रकृष्टत्वेन तदनुपपत्तेः । द्वितीये वक्तव्यं, किमयमगजे गजत्वोल-लेखीत्ययं अयथार्थः, किंवा गज एवासन्निकृष्टे सन्निकृष्टत्वोल-लेखीति अयथार्थः । आद्ये नायं गजः किन्तु गवय एवेति बाधोदयः स्यात् । द्वितीये नायं सन्निकृष्टः किन्नाम विप्रकृष्ट इति बाधो भवेत् । न चैतदस्ति । तस्मात्संस्कारप्रभवसन्निकृष्टसत्यार्थप्रमितिरेवेयमिति युक्तम् । कथं तर्हि श्रुतिस्मृतिषु स्वप्नप्रतीतेर्भ्रान्तित्वमुच्यत इत्यत आह भ्रान्तिरिति ।।

अनु०- भ्रान्तिर्जाग्रत्त्वमेव हि

जाग्रत्त्वं। इति तत्प्रतीतिमुपलक्षयति । एव । इति पदार्थस्वरूपं व्यावर्तयति । जाग्रत्वं । जागरानुभूतपदार्थैरेकत्वम् । स्वप्ने हि तात्कालिकतयाऽदृष्टचरानेव तनयादीन् दृष्टचरतयाऽनुसन्धत्ते । यद्वा जाग्रत्त्वं नाम गगनादीनां नित्यत्वादिकम् । घटादीनां मृदाद्युपादानकत्वं बाह्यार्थक्रियाक्षमत्वमित्यादि ग्राह्यम् । जाग्रत्त्वप्रतीतेर्भ्रान्तित्वात् तद्विषयं श्रुत्यादिकमिति भावः ।

स्यादेतत् । जाग्रत्त्वस्यापि संस्कारोऽस्त्येवेति सोपादानत्वसम्भवात् कथं तत्प्रतीतिः भ्रान्तिरित्युच्यते । अन्यथाऽर्थप्रतीतिरपि भ्रान्तिः स्यादविशेषादिति ।

मैवम् । न हि वयं कारणसामग्रीसम्पादनसम्भवमात्रेणार्थानां सत्यतामातिष्ठामहे । किन्तु बाधाभावेनेति वक्ष्यामः । सामग्रयभावेनासत्यत्वं ब्रुवाणं प्रति तु तदसिदि्ध(रा)रेवावेदिता । अस्ति च जाग्रत्ता(त्त्व)प्रतीतेर्बाधः । स्वाप्न एवायं न जागरानुभूत इत्याद्युदयात् । तदिदमुक्तं हि शब्देन ।

७सु०- जाग्रत्त्वप्रतीतिरेव भ्रान्तिरित्ययुक्तम् । अर्थानामपि केषाञ्चिदसत्त्वेन तत्प्रतीतेरपि भ्रान्तत्वात् । स्वप्नेऽपि स्वशिरश्च्छेदादयोऽपि प्रतीयन्ते । न च तदुत्पत्तावुपादानमस्ति । अननुभूतत्वेन संस्कारोदयायोगात् । अननुभूतेऽपि संस्कारोदयाभ्युपगमे अदृष्टे चाश्रुते इत्यादिश्रुतिस्मृतिविरोधः स्यात् । कदाचिदननुभूतार्थस्मृतिरप्यापद्येत । ततो यद्यपि साक्षात्स्वशिरश्च्छेदादेर्बाधो नास्ति तथाऽपि कारणानुपपत्त्याऽसत्त्वमङ्गीकार्यमेवेत्यत आह अदृष्टे चेति ।

अनु०-अदृष्टे चाश्रुते भावे न भाव उपजायते । अदृष्टादश्रुताद्भावान्न भाव उपजायते । इति श्रुतिपुराणोक्तिरनादित्वात्तु युज्यते

भावे पदार्थे । भावो वासना । पञ्चमी सप्तम्यर्थे । उक्तिरित्यतः परस्तुशब्दो बोद्धव्यः । अनादित्वात् संसारस्येति शेषः । संसारस्यानादित्वात् क्वचिज्जन्मनि स्वशिरश्च्छेदादेरप्यनुभवसम्भवेन संस्कारोपपत्तेः । सत्यत्वेऽपि श्रुतिपुराणोक्तिर्युज्यत एव, न तु विरुध्यते । विनाप्यनुभवेन संस्कारोदयाभ्युपगमे हि सा विरुध्येतेति । अत्राश्रुतग्रहणेनात्रापि जन्मनि श्रवणजनितसंस्कारः सम्भवतीति सूच्यते । यत्र तु श्रवणाद्यपि नास्ति तत्रानादित्वं निवेशितम् । अनेन यत्पूर्वं सर्वग्रहणं कृतं तदुपपत्तये वा अनाद्यनुभवपरम्परोक्ता तस्य सर्वस्योपयोगः

कथितो भवति ।

८सु०- ननु (च) शशविषाणादिप्रतीतौ कथम् । न हि भवान्तरेऽपि तदनुभवः सम्भवति । यथापूर्वमिति सर्वकल्पानामेकविधत्वश्रवणात् । मैवम् । शशविषाणादिप्रमाऽभावेऽपि शब्दादिना भ्रान्तिसम्भवेन संस्कारोपपत्तेः । येन तु शशविषाणादिकं भ्रान्त्याऽपि न प्रतिपन्नं तस्य कथम् । न हि (सर्वोऽपि) सर्वत्र भ्राम्यतीति नियमोऽस्ति । नापि स्वप्ने न तत्पश्यतीति नियन्तुं शक्यते । उच्यते । किमत्र शशादीनां विषाणादीनां चोपादानासम्भवेनासत्त्वमुच्यते । उत शशत्वादिविषाणित्वादिसामानाधिकरण्यादेः ।

आद्यं निराकरोति कदाचिदिति ।

अनु०-कदाचिद्दर्शनायोग्यं यत्तत्रापि विभागतः । दृष्टं

यत्स्वप्ने दृश्यत इति शेषः । विभागतः सामानाधिकरण्येन विना दृष्टं जागरे । यद्यपि शशत्वविषाणित्वादीनां सामानाधिकरण्यं शशविषाणादिसम्बन्धविशेषो वा जागरे नानुभूतस्तथाऽपि विविक्तं शशत्वादिकमनुभूतमेवेति तत्संस्कारसम्भवे(न) न शशादीनामसत्त्वं वाच्यमिति ।

द्वितीये सम्प्रतिपत्तिमुत्तरमाह समेति ।

अनु०- समाधिकरणं दृश्यतेऽत्र स च भ्रमः

भावप्रधानो निर्देशः । उपलक्षणं चैतत् । दृश्यत इत्यत्र प्रकृत्यर्थं स इति परामृशति । यदित्यनुवर्तते । अत्र स्वप्ने न केवलं जाग्रत्त्वमिति चार्थः । यस्योपादानं सम्भवति बाधश्च नास्ति तदेव हि प्रागेवशब्देन व्यवच्छिन्नमिति भावः ।

९सु०- भवेदेतत्सर्वं यदि स्वाप्नार्थानां वासनोपादानत्वादौ प्रमाणं स्यात् (भवेत्) ।

न चैतत्पश्याम इत्यत आह वासनेति ।

अनु०-वासनामात्रमूलत्वाज्जाग्रद्वत्स्पष्टता न च

वासनामात्रोपादानत्वादेव हि स्वाप्नार्थानां जागरोपलब्धानामिव स्पष्टता बाह्यार्थक्रियासामर्थ्यलक्षणा नास्ति । अन्यथा सा स्यादित्यर्थः ।

अयमभिसन्धिः । स्वाप्नास्तावद्घटादयो नासन्तो बाधाभावात् । नाप्यनादिनित्याः । पूर्वोत्तरमनुपलम्भात् । न (च) निरुपादानोत्पत्तिरुपपन्ना । ततोऽवश्यमुपादानेऽनुसरणीये । न तावद्बाह्य(त्ते बाह्य)मृदाद्युपादानाः । बाह्यार्थक्रियासामर्थ्यरहितत्वात् ।

विमतो घटो न बाह्यमृदाद्युपादानको बाह्यमृदाद्युपादानकार्यक्रियारहितत्वात् (पटवत्) इति प्रयोगात् । अन्यथा तत्प्रसङ्गात् ।

न चोपादानान्तरमस्ति । ततः परिशेषाद्वासनोपादानका एवेति । चशब्देन भगवत्कर्तृकत्वे तात्कालिकोत्पत्तिविनाशित्वे च परिशेषम् य एष सुप्तेषु जागर्ति एतस्माद्ध्येव पुत्रो जायते न तत्र रथा इत्यादिश्रुतिं च प्रमाणं समुच्चिनोति ।

तदनेन प्रबन्धेन सन्ध्ये सृष्टिराह हि , निर्मातारं चैके पुत्रादयश्च , मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् इति त्रिसूत्री व्याख्याता भवति ।

१०सु०- अन्ये पुनरन्यथैतानि सूत्राणि व्याचक्षते ।

तथा हि । न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजत इत्यादि श्रूयते । तत्र संशयः । किं प्रबोध इव स्वप्नेऽपि पारमार्थिक सृष्टिराहोस्विन्मायामयीति । तत्र तावत्प्रतिपद्यन्ते । सन्ध्ये सृष्टिराह हि । प्रबोध(स्वापस्थान)सम्प्रसाद(योः सं)स्थानयोः सन्धौ, भवतीति सन्ध्यं स्वाप्नस्थानम् । तत्र तथारूपैव सृष्टिः । कुतः । यतः प्रमाणभूता श्रुतिरेवमाह । अथ रथान्रथयोगान्पथः सृजत इत्यादि ।

निर्मातारं चैके पुत्रादयश्च ।। अपि चैके शाखिनः सन्ध्ये कामानां निर्मातारमात्मानमामनन्ति । य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाण इति । पुत्रादयश्च तत्र कामा अभिप्रेयन्ते काम्यन्त इति, न पुनरिच्छाविशेषाः । शतायुषः पुत्रपौत्रान्वृणीष्वे ति प्रकृतेषु पुत्रादिषु कामानां त्वा कामभाजं करोमी ति कामशब्दस्य प्रयुक्तत्वात् ।

प्राज्ञं चैनं निर्मातारं प्रकरणवाक्यशेषाभ्यां प्रतीमः । अन्यत्र धर्मादन्यत्राधर्मादि त्यादेः प्राज्ञस्य हीदं प्रकरणम् । वाक्यशेषोऽपि तदेव शुक्रं तद्ब्रह्मे त्यादिः । प्राज्ञकर्तृका च सृष्टि(स्तथाभूता )र्यथारूपा समधिगता जागरिताश्रया तथा स्व(स्वा)प्नाश्रयाऽपि भवितुमर्हति ।

तस्मात् तथाभूतैव सन्ध्ये सृष्टिरिति ।

एवं प्राप्ते प्रत्याह मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ।।

तु शब्दः पक्षं व्यावर्तयति । मायेत्यनादिरनिर्वाच्याऽविद्योच्यते । मायैव सन्ध्ये सृष्टिर्न परमार्थगन्धोऽप्यस्ति । कुतः । कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् । देशकालनिमित्तसम्पत्तिरबाधश्च कार्त्स्न्यं तेनाभिव्यक्तस्वरूपत्वाभावात् ।

तथा हि । न तावत्स्वप्ने रथादीनामुचितो देशः सम्भवति । न हि संवृते देहदेशे रथादयोऽवकाशं लभेरन् ।।

न च वाच्यं बहिः कुलायादमृतश्चरित्वे ति श्रुतेः स्थितिगतिप्रत्ययभेदाच्च बहिर्देहात्स्वप्नं पश्यतीति ।। सुप्तस्य जन्तोर्योजनशतान्तरितं देशं क्षणमात्रेण पर्येतुं विपर्येतुं च ततः(सर्वतः)सामर्थ्या(भावा)सम्भवात् ।

क्वचिच्च प्रत्यागमनवर्जितः स्वप्नो भवति । कुरुष्वहमद्य शयानः स्वप्ने पाञ्चालानधिगतश्च प्रतिबुद्धश्चेति । देहाच्चेदपेयात्पाञ्चालेषु प्रतिबुध्येत । कुरुष्वेव तु प्रतिबुध्यते । येन चायं देहेन देशान्तरमश्रुवानो मन्यते तं अस्याभ्याशस्थाः शयनदेश एव पश्यन्ति । यथाभूतानि चायं देशान्तराणि स्वप्ने पश्यति, न तानि तथाभूतान्येव भवन्ति । परिधावंश्चेत्पश्येज्जाग्रद्वद्भूतमर्थमाकलयेत् । दर्शयति च श्रुतिरन्तरेव स्वप्नं स्वे शरीरे यथाकामं परिवर्तत इति । अतश्च श्रुत्युपपत्तिविरोधाद्बहिःश्रुतिरनुपकारित्वसाम्याद्गौणी व्याख्येया ।।

स्थितिगतिप्रत्ययभेदश्च भ्रान्तोऽभ्युपेयः ।

कालविसंवादोऽपि स्वप्ने भवति । रजन्यां सुप्तो हि वासरं भारते वर्षे मन्यते । तथा मुहूर्तमात्रमपि वर्षम् । निमित्तान्यपि (च) स्वप्ने न बुद्धये कर्मणे वोचि(चोचि)तानि विद्यन्ते । बाध्यन्ते चैते रथादयः स्वप्ने दृष्टाः प्रबोधे । स्वप्ने एव चैते सुलभबाधा भवन्ति । आद्यन्तयोर्व्यभिचारदर्शनात् । रथोऽयमिति हि कदाचित् स्वप्ने निर्धारितः क्षणेन मनुष्यः सम्पद्यते । मनुष्योऽयमिति निर्धारितः क्षणेन वृक्षः ।

स्पष्टं चाभावं रथादीनां स्वप्ने श्रावयति शास्त्रम् । न तत्र रथा न रथयोगा न पन्थानो भवन्ती त्यादि । तस्मान्मायामात्रं स्वप्नदर्शनम् ।

११सु०- अपर आह कार्त्स्न्येनानभिव्यक्तस्वरूपत्वाद् ।

द्रष्टुर्भिन्नत्वादिना निर्वक्तुमशक्यत्वात् । तथा हि । स्वाप्नानां रथादीनां द्रष्टुर्भेदोऽभेदो भेदाभेदो वा । न तावद्भेदः । पार्श्वस्थानामपि तदुपलम्भप्रसङ्गात् । आन्तरत्वस्य चानुचितत्वात् । नाप्यभेदः । एकस्याविचित्रस्य विचित्रानेकात्मकताया विना भ्रान्तिमनुपपत्तेः । भेदप्रत्ययविरोधाच्च । न च भेदाभेदौ । व्याघातात् । अतोऽनिर्वाच्याविद्याविलास एवायमिति ।

सूचकश्च हि श्रुतेराचक्षते च तद्विदः । ।

मायामात्रत्वात् तर्हि न कश्चित् स्वप्ने परमार्थगन्ध इति नेत्युच्यते । सूचकश्च स्वप्नो भवति भविष्यतोः साध्वसाधुनोः । कुतः । यदा कर्मस्वित्यादिश्रुतेः । आचक्षते च स्वप्नाध्यायविदः । तत्र भवतु सूच्यमानस्य सत्यत्वम् । सूचकस्य

तु वैतथ्यमेवेति भावः ।

यदुक्तं आह ही ति । तदेवं सति भाक्तं व्याख्येयम् । सुप्तौ हि स्वप्नदर्शननिमित्तसुकृतदुष्कृतकर्तृत्वात् रथादीनां कर्तेत्युच्यते । निर्माणश्रुतिरप्येवं भाक्ता व्याख्येया ।

यदप्युक्तं प्राज्ञमेनं निर्मातारमामनन्तीति तदप्यसत् । श्रुत्यन्तरे स्वयं विहृत्य स्वयं निर्माये ति जीवव्यापारश्रवणात् ।

अपरस्त्वेतदर्थमेव सूचकश्चेति सूत्रं व्याख्यातवान् । शुभाशुभसूचको हि स्वप्नः । न हि प्राज्ञस्य शुभाशुभयोगोऽवकल्पत इति । जीवस्यैव तदेव शुक्लमिति वाक्यशेषे जीवभावं व्यावर्त्य ब्रह्मभाव उपदिश्यते तत्त्वमसीत्यादिवदिति न ब्रह्मप्रकरणं विरुद्ध्य(तो)ते ।

अस्तु वा स्वप्नेऽपि प्राज्ञव्यापारः । न (च) तावता वियदादिवत् स्वप्नस्य सत्यत्वम् । वैषम्यस्योक्तत्वात् । वियदादिप्रपञ्चोऽप्यसत्य एवेत्युपपादितं च आरम्भणाधिकरणे । ब्रह्मात्मत्वदर्शनात् वियदादिप्रपञ्चो बाध्यते । सन्ध्याश्रयस्तु प्रतिदिनमित्यतो वैशेषिकमिदं सन्ध्यस्य मायामात्रत्वमु(पपा)दितम् ।

पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ।। नन्वग्नेरंशस्य विस्फुलिङ्गस्य

यथा दहनप्रकाशनशक्त भवतस्तथेश्वरांशस्य जीवस्यापि ज्ञानैश्वर्यशाक्तिभ्यां भाव्यम् । ततश्च साङ्कल्पिक सृष्टिः स्यादित्यस्येदमुत्तरम् । सत्यमस्त्येवेश्वरसाधर्म्यं जीवस्य किन्तु तिरोहितम् । तत्तु परमेश्वराभिध्यानादेवाविर्भवति । कुतः ततो हीश्वराद्धेतोरस्य जीवस्य बन्धमोक्षौ भवतः ।

देहयोगाद्वा सोऽपि । । कस्माज्जीवस्य ज्ञानैश्वर्यतिरस्कारो भवति । विस्फुलिङ्गवदतिरस्कारो हि युक्त इत्यत्रेदमुत्तरम् । सोऽपि तिरस्कारो जीवस्य देहयोगात् । अविद्याप्रत्युपस्थापितनामरूपकृतदेहेन्द्रियमनोबुदि्धविषयवेदनाद्युपाधियोगात् तदविवेकभ्रमकृतो भवति । यथाऽरणियोगादग्नेः । किमनया कल्पनया । अन्य एवास्तु जीवः परमेश्वरादित्येतद्वाशब्देन । व्यवच्छिनत्ति । मैवम् । तत्त्वमस्यादिश्रुतिविरोधादिति ।

१२सु०- तदिदमनुपपन्नं व्याख्यानम् । तथा हि । यत्तावत्स्वप्नसृष्टेः पारमार्थिकत्वप्रतिपादकं सूत्रद्वयं पूर्वपक्षानुवादपरमिति तत्तदा प्रतीमो यदि मायामात्रमित्यनिर्वाच्यत्वप्रतिज्ञा स्यात् । न चैवम् । तत्प्रतिपादकप्रमाणाभावात् ।

ननूक्तं कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादिति देशकालनिमित्तसम्पत्त्यबाधराहित्यं तथा भिन्नत्वादिना निरूपयितुमशक्यत्वं च । मैवम् । तस्यानुपपन्नत्वात् । तत्र यद्देशादिराहित्यमुपपादितम् । तत्सूत्रार्थस्पष्टीकरणेनैवाभासीभविष्यतीत्याशयवान् भेदादिविकल्पप्रश्नेन यत् दूषणमुक्तं तत्र प्रश्न एवासावनुपपन्नो दूरे दूषणाभिधानमित्याह भेद इति ।

अनु०-भेदोऽभेदोऽथवा द्वन्द्वमिति प्रश्नो न युज्यते । द्रष्टुः स्वप्नस्य

द्रष्टुः देवदत्तात् स्वप्नस्य स्वप्नोपलभ्यस्य रथादेः किं भेदः अथ अभेदः द्वन्द्वं भेदाभेदौ वा इति विकल्प(ल्प्य )प्रश्नो न युज्यते ।

कुत इत्यत आह दृष्टत्वादिति ।

अनु०-दृष्टत्वाद्भेदस्यैवाखिलैर्जनैः

द्रष्टुः स्वप्नस्येत्यनुवर्तते । सन्देहमूलो हि विकल्पप्रश्नः । न च प्रकृते सन्देहः सम्भवति । स्वप्नतद्द्रष्ट्रोर्भेदस्यैवाखिलैर्जनैर्दृष्टत्वेन विप्रतिपत्तेरभावात् ।

१३सु०- स्यादेतत् । मा भूद्विप्रतिपत्तिमूलोऽयं संशयः । समानधर्मजस्तु भविष्यति । किञ्चिद्वस्तु द्रष्टुर्भिन्नं भवति, किञ्चिदभिन्नम्, किञ्चिदि्भन्नाभिन्नम् । वस्तु चेदमतो भिन्नमभिन्नं वेत्यादिसंशयो भवेदिति ।

मैवम् । संशयो हि किं समानधर्मदर्शनमात्राद्भवति उत निर्णायकाभावसहकृतात् । नाद्यः । सर्वत्र सन्देहोत्पादप्रसङ्गात् । अस्ति हि सर्वत्र किञ्चित् साधर्म्यम् । तदनिवृत्तिप्रसङ्गाच्च । न हि समानो धर्मः कदाऽपि निवर्तते । द्वितीये तु कथमत्र सन्देहः । भेदस्यैवाखिलैर्जनैर्दृष्टत्वेन निर्णायकाभावस्यैवासिद्धेः ।

१४सु०- अथ मतम् । भेदो हि कश्चित्परमार्थो दृष्टो यथा स्तम्भकुम्भयोः । कश्चि(च्चाप)दपरमार्थो यथा चन्द्रमसोः । दृश्यते चायं भेदस्ततो भवेदेव सन्देह इति । एतदपि न । तथा सति यथासंशयं विकल्पप्रश्नस्य कार्यत्वात् । न एवानया वाचोभङ्ग्या क्रियत इति चेन्न । प्रतीतिरपि हि न केवला संशयहेतुर्भवति । सर्वत्र (संशय)प्रसङ्गात् । तदनिवृत्तिप्रसङ्गाच्च । विशेषप्रतीत्या हि तन्निवृत्तिरेष्टव्या । तत्रापि च सन्देहोऽवस्कन्दत एव । किन्तु विप्रतिपत्त्यादिकलुषिता । न चात्र तदस्तीत्युक्तम् । औत्सर्गिकं हि प्रतीतीनां याथार्थ्यम् । अन्यथात्वं त्वपवादात् । तदेवं सिद्धविषयत्वात् प्रश्न एवायमनुपपन्नः ।

१५सु०- ननु च भेदपक्षमेवाङ्गीकृत्य तत्रोक्तो दोषः शक्यत एव परिहर्तुम् । मनोयोनित्वेन सुखादिवत् पार्श्वस्थानुपलम्भसम्भवात् । तत्किमनेन प्रश्नखण्डनेन । सत्यम् । तथाऽपि प्रतिवादिस्खलितं नोपेक्षामर्हतीति शिष्यांच्छिक्षयितुमेतत् । तथा च वक्ष्यति । युक्तिपादव्युत्पादितन्यायशेषं प्रसङ्गेन व्युत्पादयितुं च । इह च तद्व्युत्पादनस्योपयोगं लेशतो दर्शयिष्यामः ।

१६सु०- सिद्धेऽर्थे संशयो न युज्यते । ततो विकल्पप्रश्नोऽपीत्युक्तम् । तत्र न युज्यत इति कोऽर्थः । न तावन्नोत्पद्यत इति । संशयविकल्पप्रश्नोत्पत्तेः प्रमितत्वात् । न चोत्पन्नोऽपि निष्कारण इति । अकारणकार्योत्पत्तेः प्रमाणविरुद्धत्वात् । नाप्यतत्कारणादुत्पन्न इति । यत उत्पन्नस्तस्यैव कारणत्वेन व्याहतत्वात् । न चान्यदनुपपन्नत्वमस्तीत्यत आह प्रश्नेति ।

अनु०-प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः । सिद्धार्थता च वैफल्यं

विकल्पप्रश्नदोषाः । प्रमाणव्याहतिः सिद्धार्थतैवेति न पृथगुक्तः । स्वव्याहतिर्यथा । वन्ध्या किं पुत्रवती न वेति । असङ्गतिर्यथा । ईश्वरः सुखीत्युक्ते प्रपञ्चस्य क्षणिकत्वे किं प्रत्यक्षं प्रमाणमुतानुमितिरिति । सिद्धार्थता तु प्रकृतैव । वैफल्यं यथा । काकस्याष्टौ दश वा दन्ता इति । वैफल्यमित्यतःपरं इतिशब्दोऽध्याहार्यः ।

१७सु०- अयमभिसन्धिः । स्वव्याहत्यादिकं तावत् त्रयं प्रश्नदूषणं भवत्येव । प्रतिज्ञाविरोधार्थान्तरादेर्निग्रहस्थानत्वेन प्रामाणिकैः परिगणितत्वात् । तस्यानुपपन्नता कदृशी येन दूषणत्वमिति वक्तव्यम् ।

अथ मन्येत । अव्या(घातादि)हत्यादिकमर्थप्रत्ययनाङ्गम् । व्याहतादिकं च ब्रुवाणस्तन्न प्रत्येति विपरीतं च प्रत्येतीत्यनुमीयते । अतोऽप्रतिपत्तिविप्रतिपत्तिलिङ्गत्वादनुपपन्नमिति । एवं तर्हि सिद्धार्थताऽप्येवमेवेति कथं न दोषः । विकल्पप्रश्नो हि सन्देहमूलः । सन्देहश्च समानधर्मदर्शनादिना निर्णायकाभावसहकृतेन भवति । समानधर्माद्यभावे वा निर्णायकसद्भावेऽपि वा यः सन्दिग्धे विकल्पांश्च पृच्छति स नूनमविद्यमानमेव समानधर्मादिकं प्रतिपन्नो न प्रतिपन्नश्च निर्णायकसद्भावमित्यनुमीयते । न च कार्यमकारणं भवितुमर्हति । दृश्यते हि सर्पभ्रमादिनाऽपि भयकम्पादिकार्योत्पाद इति ।

१८सु०- ननु ग्रन्थास्तावदिमे वादकथाप्रक्रियया प्रवृत्ताः । न च वादे निग्रहस्थानमस्ति । तस्य तत्त्वनिर्णयावसानत्वात् । न हि वादिप्रतिवादिनोरन्यतरस्मिन्प्रतिज्ञाहान्यादिना निगृहीते सत्यन्यतरपक्षनिर्णयः सिद्ध्यति । पुनः सम्यक् प्रतिपद्य प्रत्यवस्थानसम्भवात् । यत्तु वादसूत्रे सिद्धान्ताविरुद्धः पञ्चावयवोपपन्न इत्यपसिद्धान्तादेर्निग्रहस्थानत्वं सूचितम् । तदपि वादस्यान्यतरपक्षनिर्णयावसानत्वविरोधादनुपपन्नम् ।

यदि च वादेऽपसिद्धान्तादीनि कानिचिन्निग्रहस्थानानि स्युस्तदापराण्यपि कस्मान्न स्युः । तत्त्वनिर्णयावसानत्वविरो(धित्वस्यो)धस्योभयत्र साम्यात् । प्रतिज्ञाहान्यादिना निग्रहे वीतरागत्वाहा(निरिति)निः स्यादिति चेत् । सममपसिद्धान्तादावपीति । अतो वादे निग्रहस्थानाभावात् कथं प्रश्नदोषोद्भावनमित्यत आह न तैरिति ।

अनु०- न तैः स्यात्तत्त्वनिर्णयः

तैः स्वव्याहतादिप्रश्नैः । स्वव्याहतादिप्रश्नास्तत्त्वनिर्णयविरोधिन इत्यर्थः । न हि सिद्धेऽप्यर्थे सन्दिहानः शतेनापि प्रमाणानां तत्त्वं प्रतिपादयितुं शक्यते । (तत्र) तत्रापि सन्देहानिवारणात् ।

१९सु०- ततः किमित्यत आह तत्त्वेति ।

अनु०-तत्त्वनिर्णयवैलोम्यं स्याद्वादेऽपि हि निग्रहः

न केवलं जल्पवितण्डयोरेव निग्रहस्थानसद्भावः किन्तु वादेऽपि । निगृह्यतेऽनेनेति निग्रहो निग्रहस्थानं स्यादेव । अयं तु विशेषः । न जल्पवितण्डयोरिव समस्तम् । अपि तु यावत्तत्त्वनिर्णयविरोधि तावदेव । सिद्धप्रश्नादिकं च तत्त्वनिर्णयविरोधीत्युक्तम्, तत्कुतो वादे न निग्रहस्थानमिति । यो हि यदर्थं प्रवर्तते स तद्विरुद्धमाचरन् कथं नापराधी स्यादिति हिशब्दार्थः । निग्रहनिमित्तनिष्कर्षार्थं वैलोम्यमिति भावप्रत्ययः ।

२०सु०- नन्वेवं तर्हि वादस्य तत्त्वनिर्णयार्थत्वं व्याह(न्येत)न्यते । तथा च विजयार्थत्वेन जल्पादितो व्यावृत्तिश्च न स्यात् । तद्वदेव सर्वनिग्रहस्थानसद्भावोऽपि स्यादित्यत आह उद्भावनीयमेवेति ।

अनु०-उद्भावनीयमेव स्यान्न कथावसितिर्भवेत् । विजिगीषुकथायां तु कथावसितिकारणम्

तत्त्वनिर्णयवैलोम्यं वाद इत्यनुवर्तते । अवसीयतेऽनेनेति अवसितिः । विजिगीषुकथायां जल्पवितण्डालक्षणायाम् । कथावसितिकारणं सर्वमपि निग्रहस्थानमिति शेषः ।

२१सु०- एतदुक्तं भवति । वादे(पि) किञ्चिदसम्भावितमेव । यथा विक्षेपादि । तस्याज्ञानसङ्गूहनाद्यर्थत्वात् । तत्त्वनिर्णिनीषोश्च तत्रानर्थित्वात् । किञ्चित्सम्भावितमप्यनुद्भाव्यम् । यथाऽननुभाषणादि । तस्योभयाभिलषिततत्त्वनिर्णयाविरोधित्वेन तदुद्भावनस्य व्यर्थत्वात् ।

किञ्चिदुद्भाव्यमात्रं यथा प्रतिज्ञाविरोधादिकं प्रकृतम् । तस्य तत्त्वनिर्णयविरोधित्वेन तदुद्भावनस्य त्याजनेन तत्त्वनिर्णयाङ्गत्वात् । वादावसानं त्वन्यतरस्य साधनदूषणयोः स्थितयोरन्य(तर)स्मिंश्च निस्साधनदूषणे सति भवति । स एव हि तत्त्वनिर्णय इति । जल्पवितण्डयोस्तु सर्वमपि निग्रहस्थानं सम्भावितं चोद्भाव्यं च । उद्भावितं च कथां चावसाययति । तयोर्विजयार्थत्वात् । सर्वस्य विजयसाधनत्वात् । अतो न कश्चिद्दोष इति ।

२२सु०- एवं सिद्धार्थविषयत्वं प्रश्नस्य दूषणमुद्भाव्यं चेत्युपपाद्य तद्दूषणत्वानभ्युपगमेऽतिप्रसङ्गं सूचयितुमाह परिहारेऽपीति ।

अनु०-परिहारेऽपि सिद्धत्वं दूषणं प्रतिवादिनः । प्रतिज्ञायां

न केवलं सिद्धविषयत्वं प्रश्नदूषणं किन्नाम परिहारेऽप्युत्तरेऽप्यर्थस्य सिद्धत्वं दूषणम् । इयांस्तु विशेषः । प्रश्ने तु पृच्छ्यमानार्थस्य प्रष्टुः सिद्धत्वं दूषणम् । प्रतियोगिनस्तु सिद्धत्वं न्याय्यमेव । अन्यथा तं प्रति प्रश्नानुपपत्तेः । अन्यथा प्रतिपादकत्वानुपपत्तेरिति । तत्किमुत्तरवाक्यार्थस्य सर्वस्यापि प्रतिवादिसिद्धत्वं दूषणम् । नेति ब्रूमः । किन्तु प्रतिज्ञार्थस्यैव, परिहारेऽपि प्रतिज्ञायामर्थस्य प्रतिवादिनः सिद्धत्वं दूषणमिति सम्बन्धः । इदमुक्तं भवति । यदि स्वसिद्धा(र्थे प्र)र्थप्रश्नकरणं न दूषणं स्यात् । तदा प्रतिवादिसिद्धार्थप्रतिज्ञाऽपि न दूषणं स्यात्, अविशेषात् ।

२३सु०- ननु परं प्रति साधनाय पक्षवचनं प्रतिज्ञा । न च सिद्धं साधनमर्हति । अतः प्रतिज्ञात्वव्याघातात् । प्रतिवादिसिद्धार्थत्वं दूषणमेवेति । एवं तर्हि ज्ञीप्सापूर्वकं वाक्यं प्रश्नः ।

न च ज्ञाते ज्ञीप्सा सम्भवति । अतः प्रश्नत्वव्याघातात् स्वसिद्धार्थविषयत्वं कथं न दूषणमिति । अथ किमर्थं प्रतिज्ञायामित्युच्यत इत्यत आह तदन्यस्येति ।

अनु०- तदन्यस्य सिद्धतैव हि साधिका

व्यापकधर्मस्य साध्यधर्मिणा सम्बन्धस्तदपर्यवसानलभ्यश्चार्थः प्रतिज्ञा(ता)र्थः । तदन्यस्य हेत्वाद्यर्थस्य सिद्धतैव हि साध्यसाधिका भवति । असिद्धस्य लिङ्गादेः साध्यसाधकत्वेऽतिप्रसङ्गात् । अतः प्रतिज्ञायामित्युक्तम् । प्रतिज्ञातार्थव्यतिरिक्तस्योत्तरवाक्यार्थस्य सिद्धतैव साधिकेत्यनेन तदसिद्धेर्दूषणत्वं लब्धम् । सा चानेकप्रकारा । तथा हि । साध्यधर्मिणोऽसिदि्धराश्रयासिदि्धः । यथा नृ(शश)ृङ्गमस्ति ृङ्गत्वाद्गोृङ्गवदिति ।

साध्यधर्मासिदि्धरप्रसिद्धविशेषणताऽपरसंज्ञा । यथा शुक्तिरजतादिकं सदसद्विलक्षणं बाध्यत्वादिति ।

लिङ्गासिदि्धः । यथा विमतमचेतनं सदसद्विलक्षणत्वादिति ।

लिङ्गस्य पक्षधर्मताऽसिदि्धः । यथा शब्दो नित्यश्चाक्षुषत्वादिति ।

व्यधिकरणासिदि्धः । यथा शब्दोऽनित्यो घटस्य कृतकत्वादिति ।

व्याप्त्यसिदि्धः । यथा यत् सत् तत् क्षणिकं यथा प्रदीपः; संश्च प्रपञ्च इति ।

एवं विशेषणासिद्ध्यादयोऽपि द्रष्टव्याः ।

२४सु०- तत्र सर्वासामप्यसिद्धीनां दूषणत्वे प्राप्तेऽपवादमाह आश्रयेति ।

अनु०-आश्रयव्याश्रयासिद्धी साध्यासिदि्धश्च दूषणम् । केषाञ्चित्

आश्रयासिदि्धर्व्यधिकरणासिदि्धः साध्यासिदि्धश्च यद्यपि केषाञ्चिन्नैय्यायिकादीनां मते दूषणम् । तथाऽपि तत्त्वतो न च ते दोषाः । आश्रयासिदि्धरनेकप्रकारा । असदाश्रयत्वमभावाश्रयत्वमप्रतीताश्रयत्वं पक्षीकृताकारेणासत्त्वं सिद्धसाध(कत्वं)नत्वं चेति । तत्राद्ययोर्द्वयोरदोषत्वं प्रतिजानीते न चेति ।

अनु०- न च ते दोषा व्याप्तौ सत्यां कथञ्चन

अप्रतीताश्रयत्वादेर्दोषत्वस्य सिद्धत्वात् । अत एवोक्तमन्यत्र असदाश्रयस्येत्यादि ।

न चात्यन्ताभावोऽपी ति । एवमुत्तरत्रापि ज्ञातव्यम् । आश्रयासिदि्धशब्देन दृष्टान्तस्याश्रयहीनताऽपि सङ्ग्राह्या । कुतस्ते न दोषा इति चेत् । किं व्याप्त्यादिभङ्गहेतुत्वेन दोषत्वमुत सत्येव व्याप्त्यादौ प्रकारान्तरेण । नाद्यः । आश्रयासिद्ध्यादावपि व्याप्त्यादेः सत्त्वात् । द्वितीये त्विदमुपतिष्ठते । व्याप्तौ सत्यां कथञ्चन केनापि प्रकारेण न दोषा इति । व्याप्तिग्रहणमबाधितविषयत्वाद्युपलक्षणम् । वस्तुतो व्याप्तावेव तस्योपयोगान्न पृथगुक्तम् । अस्यैवार्थस्य प्रपञ्चार्थमुत्तरः प्रबन्धः ।

२५सु०- तत्र भाववदभावस्यापि प्रामाणिकत्वं सधर्मकत्वं च प्रागेव साधितम् । असदाश्रयस्य तु कुतो दुष्टत्वमिति वाच्यम् । किं नरविषाणमस्ति विषाणत्वादित्यादेरपि साधनत्वप्रसङ्गात् उत असतो निर्धर्मकत्वेन साध्यधर्माश्रयत्वानुपपत्त्या बाधितविषयत्वेन । अथ साधनधर्माश्रयत्वानुपपत्त्या स्वरूपासिद्धत्वेन । यद्वा असतः सकलव्यवहाराभाजनत्वेन । यदि वा अप्रामाणिकस्य प्रमाणाङ्गताऽसम्भवेन । अथवा असदाश्रयस्य व्याप्त्यनुपपत्त्येति । आद्यं निराकरोति दोष इति ।

अनु०- दोषा व्याहतिरेवास्ति नृृङ्गास्तित्वसाधने

व्याहतिः प्रमाणविरोधः । ृङ्गशब्दो हि महतः शिरस्संयुक्तस्य रूपवतोऽवयवविशेषस्य वाचकोऽभिप्रेतः स्यात् । अतीन्द्रियस्य वा कस्यचित् । आद्ये प्रत्यक्षेण तस्य नास्तिताऽवधारणात् । प्रमाणबाधितत्वेनैव विषाणत्वस्यासाधनत्वान्नातिप्रसङ्गः । द्वितीये त्विष्टापादनमिति ।

२६सु०- स्यादेतत् । ृङ्गत्वं तावदसाधनमित्यविवादम् । अस्ति च तत्र बाधितविषयत्वमसदाश्रयत्वं च । तत्र बाधितविषयत्वमेव तदीयासाधनत्वे प्रयोजकं नासदाश्रयत्वमिति कुतो नियम्यत इत्यत आह यत्रेति ।

अनु०- यत्र व्याहतता नास्ति कोऽतिसङ्गोऽस्य साधने

यस्मिन्साध्ये व्याहतता प्रमाणबाधो नास्ति । अस्य साधनेऽसदाश्रयेणापि हेतुना क्रियमाणे कोऽतिप्रसङ्गः । न कोऽपि दोषः । व्याहततेत्युपलक्षणम् । व्यभिचारादिकं चेत्यपि द्रष्टव्यम् ।

एतदुक्तं भवति । अस्ति तावद्बाधितविषयत्वस्य दूषणत्वे कृशानुशैत्यादिसाधनं कृतकत्वादिकं दोषान्तरसङ्कीर्णमुदाहरणम् । तेन । तस्य दूषणत्वं निश्चिनुमः ।

न चासदाश्रयत्वस्य दोषत्वे बाधितविषयत्वाद्यसङ्कीर्णमुदाहरणमस्ति । येन तस्य दोषत्वं प्रतीमः । बाधितविषयत्वादिदोषान्तराभावे केवलासदाश्रयस्य हेतुत्वे बाधकाभावात् । दृश्यते च तथाविधस्य हेतुत्वम् । यथा वन्ध्यासुतो न वक्ताऽचेतनत्वात् पाषाणवदिति । अतो बाधितविषयत्वेनैव शृङ्गत्वमसाधनं नासदाश्रयत्वेनेति निश्चीयते ।

२७सु०- अथ मतम् । वन्ध्यासुतो वक्ता सुतत्वात् सम्मतवदिति सत्प्रतिपक्षमेतत् किन्न स्यात् । असदाश्रयताभयस्य भवतैव त्याजितत्वादिति । मैवम् । तदीयवक्तृताकार्यस्य कदाऽपि केनाप्यनुपलब्धत्वेन बाधितविषयतया दुर्बलस्य अप्रतिपक्षत्वात् । न हि भवति तरक्षोः प्रतिपक्षो हरिणशावः । अवक्तृत्वमपि वचनेतरक्रियाकर्तृत्वमित्यतः अचेतनत्वमपि बाधितविषयमिति चेन्न । वक्तृत्वाभावमात्रस्य साध्यत्वात् ।

२८सु०-नन्वभावोऽप्यसति कथं, तस्य धर्माभावादिति चेन्न । धर्माणामनेकविधत्वात् । केचिदि्ध धर्मिसमवेता भवन्ति । यथा रूपादयः । केचिदन्यसमवेता अप्यन्यमुपरञ्जयन्ति । यथा ज्ञानादयो घटादीनाम् । केचिदाश्रयसमवायमपि नापेक्षन्ते केवलं केनचिन्निरूप्यन्ते । यथाऽभावः । न च वाच्यमभावोऽपि सद्भ््यां निरूपणीय इति । प्रागभावाद्यनिरूपणप्रसङ्गात् । घटादेः कदाचित्सत्त्वान्नैवमिति चेन्न । तस्य निरूपणसमयेऽनुपयोगात् । प्रतीत्या निरूपकत्वमिति चेत् । समं प्रकृतेऽपि । शब्दाभासादिना वन्ध्यासुतस्यापि प्रतीतिसम्भवात् ।

२९सु०- असिद्धं च सुतत्वं वन्ध्यासुतस्य । न चैवं स्ववचनव्याघातः । काल्पनिकानुवादेन वास्तवनिराकरणात् । काल्पनिकस्य कथं पक्षत्वमिति चेन्न । निषेधं प्रति पक्षत्वे बाधकाभावात् । अन्यथा परपक्षप्रतिक्षेपायोगात् । अथाचेतनत्वमप्यसिद्धम् । तस्य चेतनातिरिक्तस्वभावत्वादिति चेन्न । चैतन्यव्यावृत्तिमात्रस्य हेतुत्वात् । अभावस्य चासतो(ता)ऽपि निरूपणमुपपद्यत इत्युक्तम् ।

३०सु०- मूकेऽनैकान्तिकश्च सुतत्वहेतुः । अमूकत्वेन विशेषणे तस्य वक्तृत्वानतिरिक्तत्वेन साध्याविशिष्टता स्यात् । एतेन विकल्पिताः पक्षाः समस्ता अपि निरस्ता भवन्तीत्यास्तां विस्तरः ।

३१सु०- प्रमाण(बाधे)विरोधेन शृङ्गत्वहेतुराभास इत्युक्तम् । अथ प्रमाणविरोधस्यापि कुतो दूषणत्वम् । व्याप्त्याद्यङ्गसाकल्ये साध्यसिद्धेरावश्यकत्वात् । तदभावे तत एवाभासत्वम् । किं प्रमाणबाधेनेत्यत आह प्रत्यक्षेति ।

अनु०-प्रत्यक्षागममूलास्तु न्यायास्सर्वे भवन्ति हि ।न्यायाभासा अमूलाः युः

तु शब्दोऽवधारणे । हिशब्दः प्रसिद्धौ, यस्मादित्यर्थे च । यद्यपि निषेधकहेतोर्निषेधात्मनोऽप्रामाणिकमप्याश्रयो दृष्टान्तधर्मी च क्वचिद्भवतीत्युक्तम् । तथाऽपि विधायकानां विधिरूपाणां चाश्रयेणावश्यं प्रत्यक्षागमगृहीतेन भाव्यम् । क्वचिन्निषेधकस्य निषेधात्मनश्च निषेधे साध्ये क्वचित्प्रतियोगिना प्रत्यक्षादिगृहीतेन भवितव्यम् । लिङ्गं च न स्वरूपेण साध्यप्रमितिमुपजनयितुमलम् । किन्तु प्रत्यक्षागमाभ्यां निश्चितस्वरूपव्याप्तिकम् । इत्येवमनेकधा सर्वेऽपि न्यायाः प्रत्यक्षागममूला एव भवन्तीति तावत्प्रसिद्धम् ।

यत एवं, तस्मादमूलाः स्वमूलभूतप्रत्यक्षागमविरुद्धा न्यायाभासा एव स्युः । यथा (खलु) नैशत्यादिसम्पन्नोऽपि परशुरविषये गगनादौ न छिदां जनयति एवमनुमानान्यप्युपजीव्यत्वादिना प्रबलाभ्यां प्रत्यक्षागमाभ्यां बाधितत्वेनाविषये न प्रमामुपजनयितुमलमित्याभासभूतान्येवेति ।

३१ असु०- नन्वनुमानमूलोऽपि न्यायोऽस्ति । यथा चक्षुरादिपक्षीकारेण प्रवृत्तः । तत्कथं प्रत्यक्षागममूलाः स्युरित्युक्तमित्यत आह न्यायस्येति ।

अनु०- न्यायस्यान्यस्य तौ पुनः

प्रत्यक्षागममूलान्न्यायादन्यस्यापि न्यायस्य तौ प्रत्यक्षागमावेव मूलम् । कथम् । यतो मूलभूतस्याप्यन्यस्य न्यायस्य तौ पुनर्मूलमित्यन्ततः सर्वथा प्रत्यक्षागमानतिक्रमात् तथोक्तमिति । यद्यप्यागमोऽपि प्रत्यक्षमूलस्तथाऽपि क्वचित् प्रत्यक्षस्यापि मूलं भवतीत्यतो द्वयोर्ग्रहणम् । अनुमानस्यापि क्वचित् तन्मूलत्वेऽपि न स्वतन्त्रस्येत्यतस्तत्परित्यागः ।

३२सु०- एवं व्याप्तिभङ्गाद्यनपेक्षमेवाविषयवृत्तित्वेन बाधितस्य दुष्टत्वमुपपादितम् । प्रकारान्तरमप्याह अदृष्ट इति ।

अनु०-अदृष्टे व्यभिचारे तु साधकं तदिति स्फुटम् ।ज्ञायते साक्षिणैवाद्धा

तुशब्दोऽवधारणो । तलि-लङ्गं धूमादिकं दहनादिसाध्यव्यभिचारेऽद्धा सर्वथाऽप्यदृष्ट एव सति तस्य साधकं न तु व्यभिचारदर्शन इति तावत् साक्षिणैव स्फुटं ज्ञायते ।

३३सु०-किमतो यद्यदृष्टव्यभिचारस्यैव लिङ्गस्य साध्यसाधकत्वं साक्षिसिद्धमित्यत आह मानेति ।

अनु०-मानबाधे न तद्भवेत् ।यत्साक्षिणैव मानत्वं मानानामवसीयते

प्रमाणबाधे सति तददृष्टव्यभिचारित्वं न भवेत् । प्रमाणबाधेनाग्न्यादेः शैत्याद्यपहारे सति तत्रैव लिङ्गस्य कृतकत्वादेः साध्यव्यभिचारदर्शनात् । तदनेन व्याप्तिभङ्गहेतुतया बाधस्य दूषणत्वमित्युक्तं भवति । तत्रायं विवेकः । परार्थप्रयोगोत्तरकालमविषयवृत्तित्वमेवोद्भाव्यम् ।

न व्याप्तिभङ्गः । व्याप्तिभङ्गोपपादनायोपजीव्येनाविषयवृत्तित्वेनैवानुमानस्य दुष्टत्वे जघन्यप्रतिपत्तिकस्य व्याप्तिभङ्गस्यानुसरणस्यान्याय्यत्वात् । व्याप्तिग्रहणसमये तु तद्भङ्गहेतुत्वेनैव । तदानीं विषयस्य बुद्धावनारूढत्वात् । व्याप्तिभङ्गस्यैव पुरस्फूर्तिकत्वाच्चेति साक्षिणैवेत्युक्तम् । तत्प्रसङ्गादुपपादयति यदिति ।

यस्मात् सर्वेषां मानानां ज्ञानानां मानत्वं साक्षिणैवावसीयते । अन्यथाऽनवस्थादिप्रसङ्गात् । तस्मादनुमानस्यापि प्रामाण्यं तेनैव ज्ञायत इत्युक्तमेव ।

३४सु०- यदि तर्हि प्रामाण्यं साक्षिवेद्यं साक्षिणः प्रागुपपादितो याथार्थ्यनियमो भज्येत । कदाचिदमानस्यापि हि मानत्वं गृह्यते । अन्यथा विपर्ययादविशङ्का प्रवृत्तिर्न स्यात् । तस्य च अयथार्थत्वं बाधेनावेद्यते इत्यत आह अमानस्येति ।

अनु०- अमानस्य तु मानत्वं मानसत्वाच्चलं भवेत्

मानत्वं मानत्वग्रहणं चलं बाधितम् । अमानस्य तु यन्मानत्वं गृह्यते तन्मनसैव । न साक्षिणा । अतस्तस्य बाध्यत्वं न दोषमावहतीति ।

अत्रैषा प्रक्रिया । सर्वमपि ज्ञानं साक्षी गृह्णाति । यद्यस्य बाधो भविष्यति तदाऽप्रमाणं न चेत् प्रमाणमेवेति तत्प्रामाण्यमपि गृह्णाति । सति प्रयोजने प्रामाण्यादिजिज्ञासायां परीक्षामनुसृत्य प्रामाण्यमप्रामाण्यं वा व्यवस्थापयति । अलाभे तु परीक्षाया विशेषावधारणादुदास्ते ।

अस्यामवस्थायां रागादिकलुषितं मनः परीक्षाऽऽभाससहायं प्रामाण्यादिकमवधारयति । तच्च कदाचिद्बाध्यते कदाचिन्नेति । कुत एषा कल्पनेति चेत् साक्षिणो याथार्थ्यनियमस्यैवोपपादितत्वात् । वक्ष्यते चैतदिति ।

३५सु०- अदृष्टे व्यभिचार इति साध्यव्यभिचारिलिङ्गमप्रमाणमित्युक्तम् । तत्र दृष्टव्यभिचारिलिङ्गमप्रमाणमित्युक्तं (भवति) । तत्र विशेषमाह उत्सर्गतोऽपीति ।

अनु०-उत्सर्गतोऽपि यत्प्राप्तमपवादविवर्जितम् । व्यभिचार्यपवादेन मानमेव भविष्यति

यलि-लङ्गमुत्सर्गतः स्वभावेनापवादविवर्जितं साध्यव्यभिचारवर्जितं प्राप्तं निश्चितमप्यपवादेन कारणविशेषेणैव व्याभिचारि तन्मानमेव भविष्यति । एतदुक्तं भवति । यथा साधनस्य साध्यसाहित्यमात्रं न प्रामाण्योपयोगि । किन्तु निरुपाधिकमेव । अन्यथा सोपाधिकसाध्यसम्बन्धस्य मैत्रीतनयत्वादेरपि श्यामतासाधनत्वप्रसङ्गात् । तथा व्यभिचारोऽपि निरुपाधिक एवासा(कोऽसा)धनत्वे हेतुः । यथा प्रमेयत्वस्य नित्यत्वेन । न हि प्रमेयत्वं स्वभावेन नित्यत्वाव्यभिचारि, व्यभिचारि तु निमित्तान्तरेणेत्यत्र नियामकं पश्यामः । यस्तु स्वभावेन साध्याव्यभिचारिणोऽपि साधनस्यौपाधिको व्यभिचारो नासावप्रामाण्यकारणमिति ।

३६सु०- कुत एतदित्यत आह अतो हीति ।

अनु०-अतो हि भोजनादीनामिष्टसाधनताऽनुमा । मानं व्यवहृतौ नित्यं

एवशब्दोऽत्र अध्याहार्यः । सोपाधिक(स्य)व्यभिचारस्याप्रामाण्यकारणत्वाभावादेव ह्यागामिभोजनादीनामिष्टसाधनतानुमानम् । यदि सोपाधिकोऽपि व्यभिचारोऽप्रामाण्यहेतुः स्यात् तदा विमतं भोजनमिष्टसाधनं भोजनत्वात् ह्यस्तनभोजनवदित्यनुमानममानं प्रसज्येतेति । अप्रमाणमेव तदस्त्वित्यत आह व्यवहृताविति । कारणमिति शेषः । यदि व्यभिचारेणेदममानं स्यात् तदा प्रमेयत्वमिव व्यवहर्तृभिरमानतया निश्चीयेतापि । तथा च ततो भोजने प्रेक्षावतां प्रवृत्तिर्न स्यात् । ननु व्यभिचारिसाधनं सन्देहमावहति । सन्देहोऽपि भवति प्रवृत्तिहेतुरिति । सत्यम् । सन्देहः साशङ्कां प्रवृत्तिमुपजनयति न निरङ्कुशाम् । इयं तु निरङ्कुशा सर्वानुभवसिद्धेति । तदिदमुक्तं नित्यमिति । पूर्वेणैव सम्बन्धः ।

३७सु०-भवतीदमनुमानं प्रमाणं किन्तु व्यभिचाराभावादेवेत्यत आह व्यभिचारो हीति ।

अनु०- व्यभिचारो हि तत्र च

तत्र भोजनत्वादौ साधने साध्येष्टसाधनत्वव्यभिचारः स्फुट एव । क्वचिदनिष्टसाधनत्वस्याप्युपलम्भात् । किन्त्वपथ्यत्वाद्युपाधिनिबन्धन एव । न च पथ्यत्वादिविशिष्टमेव भोजनत्वादिकं साधनमिति वाच्यम् । तस्य प्रवृत्त्युत्तरकालं फलानुमेयस्य प्रागसिद्धेः । न खलु फलमूलादीनां विषपत्रिकाद्यनुपहतत्वमस्मदादिभिरवधारयितुं शक्यते । तस्मान्निरुपाधिक एव व्यभिचारोऽसाधनत्वहेतुरिति । तदेवं प्रमाणबाधस्य दूषणत्वे प्रकारसम्भवान्नासदाश्रयत्वस्यादूषणत्वे तत्प्रतिबन्दी युक्तेति ।

३८सु०- एवमसदाश्रयत्वस्य हेतुदूषणत्वं निराकृत्य व्यधिकरणत्वस्यापि तन्निराकुर्वाणो यदि व्यधिकरणोऽपि हेतुः स्यात् तदाऽऽत्मा(ऽनि) नित्यः काकस्य कार्ष्ण्यादित्ययमपि हेतुः स्यादित्यतिप्रसङ्गाद्वा व्यधिकरणत्वस्य हेतुदूषणत्वमङ्गीकर्तव्यम् । व्याप्त्यभावाद्वा पक्षधर्मताऽभावाद्वेति विकल्पं मनसि निधायाद्यं निराचष्टे व्याप्तत्व इति ।

अनु०-व्याप्तत्वे व्याश्रयत्वं तु कथमेव हि दूषणम्

साधनस्य साध्येन व्याप्तत्वे सति तेन विभिन्नाश्रयत्वं कथमेव हि दूषणम् । न कथञ्चित् । इदमुक्तं भवति । काकस्य कार्ष्ण्यं व्याप्त्यभावादेव हि नित्यत्वासाधकं न पुनर्व्यधिकरणत्वात् । अतो नातिप्रसङ्गः । कुत एतत् । व्याप्त्याद्यङ्गसाकल्ये व्यधिकरणत्वमात्रेणासाधकत्वस्य क्वाप्यनुपलम्भात् । घटस्य कृतकत्वात् । शब्दोऽनित्य इत्यादौ दृष्टमिति चेत् । घटस्येत्येतद्धेतुविशेषणं न वा । आद्ये वैयर्थ्यम् । द्वितीये कथमसाधकत्वम् । (अथ) अनित्यत्वव्याप्तमपि कृतकत्वं घटवृत्ति न शब्देऽनित्यत्वं साधयतीति चेन्न । व्याप्त्यभावात् । तथा च वक्ष्यामः ।

३९सु०- न केवलं व्याप्त्याद्यङ्गसाकल्ये व्यधिकरणत्वमात्रेण दुष्टत्वं न दृष्टम् । किन्तु दृष्टं च व्यधिकरणस्यापि व्याप्त्यादिसम्पत्तिमतः साधकत्वमित्याह रोहिणीति ।

अनु०-रोहिण्युदय आसन्नः कृत्तिकाऽभ्युदिता यतः । इत्युक्ते साधनं नो किं

नदीपूरदर्शनेनोत्तरदेशे वृष्ट्यनुमानं प्रत्यग्रशरावचक्रभ्रमदर्शनेन कुलालासत्त्यनुमानं चाशङ्क्य केनचिदुक्तं नोत्तरदेशोऽत्र पक्षः किन्नाम नदी । तद्धर्मेणैव पूरेण तद्धर्मस्यैव वृष्टिमदुत्तरदेशसम्बन्धस्य साध्यत्वम् । एवं शरावचक्रधर्माभ्यां प्रत्यग्रत्वभ्रमाभ्यां तद्धर्मस्यैव कुलालासत्तेरनुमानमिति । अत इदमुदाहरणान्तरमुदितम् । न हि त(थेह रो)त्रेवेह रोहिण्याः कृत्तिकाया वा द्वौ धर्मौ सम्पादयितुं शक्यौ ।

नन्विहापि कालं पक्षीकृत्य प्रयोक्तव्यम् । विमतः कालो रोहिण्युदयासत्तिमान् कृत्तिकोदयवत् कालत्वादतीतकालवदिति । (मैवम्) एवं सति देशं कालं वाऽऽदाय सामानाधिकरण्यस्य सर्वत्र सत्त्वाद्व्यधिकरणासिद्ध एव न स्यादिति व्यर्थं तत्परिसङ्ख्यानम् । एवमप्रयोगे व्यधिकरणत्वं सावकाशमिति चेन्न । तथा सत्यसिद्धेरुक्तिदोषत्वेनार्थदोषत्वाभावप्रसङ्गात् ।

न चोक्तिदोषत्वमपि । व्यधिकरणतयोक्तेरपि साध्यसिध्यङ्गत्वानुभवात् । एवमेव हि लौकिकानामुक्तयः । परीक्षका अपि हि तत्प्रामाण्यमाप्तप्रामाण्यादि त्यादि प्रयुञ्जते । तदिदमुक्तम् इति व्यधिकरणतया उक्तेऽप्येतद्वाक्यं, साधनं साध्यसिध्यङ्गं नो किं भवत्येवेति ।

४०सु०- किञ्च कालादिकमादाय प्रयोगविपरिणामः कार्य इत्यत्र (किं) नैयायिकादिसमयो नियामकः, किंवा(ऽत्र) प्रमाणमस्ति । आद्यं दूषयति न हीति ।

अनु०- न ह्याज्ञैवात्र साधिका

अत्र उपपत्ति(सिद्धेऽर्थे)साध्येऽर्थे । आज्ञैव समयमात्रम् । तथा सति सर्वं वाङ्मात्रेणैवोपदेष्टव्यम् । न पुनः क्वापि प्रमाणं वाच्यम् । विपरीताज्ञया सत्प्रतिपक्षता च स्यादिति हि शब्दार्थः । आज्ञा खलु प्रमाणान्तराविषये धर्मादौ भवति । सा चावगताप्तभावानाम् । नापि द्वितीयः । तदनुपलम्भात् ।

४१सु०- स्यादेतत् । व्याप्तिस्तावदनुमानाङ्गम् । सम्बन्धविशेषश्च व्याप्तिः । न च व्याश्रययोः सम्बन्धो युज्यते । अतो व्याश्रयत्वस्य दोषत्वात् सम्म(तवि)ते विषये विपरिणाम इति । मैवम् । अविनाभावमात्रस्य व्याप्तित्वात् ।

अविनाभावश्च क्वचिदेकाश्रयतामन्तर्भाव्य भवति । यथा कृतकत्वस्यानित्यत्वेन । अत एवान्यगतेन तेन नान्यत्रानित्यतासिदि्धः ।

क्वचिद्विभिन्नाश्रययोरेव । यथा धूमस्याग्निना । धूमाग्नी खलु न समवायवृत्त्या समानाश्रयौ ।

नापि संयोगवृत्त्या । ऊर्ध्वाधोदेशसंयोगित्वात् । (धूमस्याधोदेशसंयोगस्य सिद्धत्वात्) । तथाऽप्येकपर्वतसंयोगिता द्वयोरस्तीति चेन्न । तथा सत्यग्न्यर्थिनो नियमेन प्रदेशविशेषे प्रवृत्त्यनुपपत्तेः । धूम एव धूमत्वेन मूलेऽग्निमान् साध्यत इति चेत् । किमेषा लौकिक प्रतीतिः । आहोस्वित्समयसिद्धये विपरिणामः क्रियते ।

न प्रथमः । लौकिका ह्यूर्ध्वदेशं धूमवन्तमवलोक्याधोदेशं वह्निमन्तमवगच्छन्ति ।

न द्वितीयः । निर्मूलत्वात् ।

अपि च देहादीनां तावत्परेण क्षणिकता(ऽऽस्थीयते) स्वीक्रियते । तत्र पतनकर्मणा गुरुत्वानुमानं दुर्घटं स्यात् । न हि तयोः कालतः सामानाधिकरण्यम् । कार्यकारणभावात् ।

नापि देशतः । विभिन्नद्रव्याश्रयत्वात् । अतः कस्यचिद्विभिन्नाश्रयेणैवाविनाभावः ।

४२सु०- ननु व्यधिकरणस्य पक्षधर्मता नास्तीति चेन्मा भूत् । तन्नियमस्य निर्निबन्धनत्वात् । तथा सति साध्य(स्य )नियतदेशता कथं सिद्ध्येदिति चेद्व्याप्तिस्वभावादिति ब्रूमः ।

यथा हि । यत्कृतकं तदनित्यमिति सामानाधिकरण्यमन्तर्भाव्य व्याप्तेः कृतकत्वं स्वाश्रय एवानित्यत्वं गमयति । तथा कृत्तिकोदयो व्यधिकरणयैव रोहिण्युदयासत्त्या व्याप्त इति तां तथैव गमयति । यथा च सामानाधिकरण्येऽप्यस्ति प्रदेशादिनियमस्तथा वैयधिकरण्येऽपीति को दोषः । तस्माद्यत्रेदं तत्रेदमितिवत् यदेदं तदेदमितिवत् यदेवं तदेवमितिवच्च यदीदं तर्हीदमिति व्याप्तिसम्भवात् । व्याप्त्यनुरोधेनैव हेतुसिद्धेरावश्यकतया पक्षधर्मतानावश्यकत्वाद्युक्तं व्यधिकरणस्यापि हेतुत्वमिति ।

४३सु०- तथा साध्यविशेषणस्याप्रसिद्धावपि । तथा हि । साध्यविशेषणाप्रसिद्धेः कुतो दूषणत्वम् । किं विश्वं सदसद्विलक्षणं बाध्यत्वादित्यादेरपि प्रामाण्यप्रसङ्गात् । उत साध्यविशेषणाप्रसिद्धौ तत्सन्देहानुपपत्तौ पक्षत्वानुपपत्तेर्हेतोः पक्षधर्मत्वानुपपत्तिप्रसक्तेः । अथवा साध्यविशेषणाप्रसिद्धौ तेन साधनस्य व्याप्तिप्रतीत्यनुपपत्तिप्रसङ्गात् । यद्वा प्रतिज्ञावाक्यस्याप्रतीतपदार्थकत्वेनाबोधकत्वापत्तेः । आद्यं दूषयति अन्यदिति ।

अनु०- अन्यत्सदसतोर्विश्वमिति च व्याहतेरमा

सन्न भवतीत्युक्तेऽसत्त्वमुक्तं भवेत् । (स्यात्)सत्त्वप्रतिक्षेपरूपत्वादसत्त्वस्य । पुनरसन्न भवतीत्युक्ते स्ववचनव्याहतिः । एवमसन्न भवतीत्युक्तया द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति सत्त्वं लभ्यते । पुनः सन्न भवतीत्युक्ते स्वव्याहतिरेव । तदेवं विश्वं सदसतोः सकाशात् अन्यत् सदसच्च न भवतीत्येषा प्रतिज्ञा स्वव्याहतेरेव अमा(ऽप्रमा) साधनाङ्गं न भवति । न तु विशेषणस्य सदसद्वैलक्षण्यलक्षणस्याप्रसिद्धत्वेन । कुतः । स्वव्याहतिर्हि मे माता वन्ध्येत्यादौ दूषणत्वेन सम्प्रतिपन्ना । स्ववचनस्वन्यायस्वक्रियास्वसिद्धान्तप्रमाणान्तराप्रतिहताया एवोक्तेः साधनदूषणाङ्गत्वात् । न हि स्वविषविमूर्छिता भुजङ्गी परं दशति । न च दोषान्तरासङ्कीर्णं साध्यविशेषणासिद्धेरुदाहरणं पश्यामो येन दोषत्वं प्रतीमः । कस्यचिदसाधारणधर्मेण शशविषाणादिमत्त्वसाधनमपि प्रमाणं किन्न स्यादिति चेन्न । तत्रापि दृश्यानुपलम्भबाधस्य विद्यमानत्वात् । अतीन्द्रियसंसर्गसाधने न कोऽपि दोष इति चेन्न । ईश्वरादिसंसर्गेण सिद्धसाधनत्वात् । एवमन्यत्रापि सम्प्रतिपन्नाप्रामाण्ये दोषान्तरमन्वेषणीयम् । तदिदमुक्तं च शब्देन । अत एव व्याहतेरित्युपलक्षणम् ।

४४सु०- द्वितीयं पराचष्टे असिद्धेति ।

अनु०-असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते

साध्याप्रसिद्ध्या यत्र पक्षधर्मत्वासिदि्धरुच्यते (हेतौ) तत्र व्याप्त्यादीतराङ्गसाकल्यमस्ति न वा । न चेत् तत एवानुमानं दुष्टं किं साध्यविशेषणाप्रसिद्ध्या । यदि व्याप्त्यादिकं विद्यते तदाऽसिद्धसाधने को दोषः । न कोऽपि । अयमभिसन्धिः । हेतोर्हि पक्षधर्मत्वासिदि्धस्तदा स्यात् । यदि धर्मी वा हेतोस्तद्धर्मत्वं वा न स्यात् । सन्देहाभावेन पक्षत्वानुपपत्त्या पक्षधर्म(त्व)ताभावे तु स्वार्थानुमानविशेषविलोपः स्यात् । यदा हि यो धूमवानसावग्निमानिति गृहीतव्याप्तिको गिरिशिखरे धूमं सहसैव पश्यन् व्याप्तिं स्मरति । तदोत्पद्यत एवास्यानुमितिः ।

न च तस्याग्निसन्देहोऽस्ति । यदा चाप्तवचनाद्विनिश्चितपर्वताग्निसम्बन्धः पर्वतं प्रत्यासीदन् धूममवलोकयति । तदाऽपि तस्य विना सन्देहेनाग्न्यनुमितिर्भवत्येव । न हि सामग्री बुदि्धमती । येन यन्मया कर्तव्यं तदन्येन कृतमिति पर्यालोच्योदासीत । नापि छिन्ने छिदाया इव परिच्छिन्ने परिच्छेदान्तरोत्पादो( वक्तुं न शक्यः)ऽयुक्तः । नापि परार्थानुमाने सन्देहनियमः । विपर्यस्तस्यापि प्रतिवादित्वोपपत्तेः । अत एव सिद्धसाधकोऽसङ्गत एव नाश्रयासिद्ध इत्युक्तम् ।

किञ्च विदिततत्त्वोऽपि यदा परपरीक्षा(द्यर्थे)र्थं तत्र प्रमाणं पृच्छति । तदा प्रयुक्तमनुमानममानं स्यात्, सन्देहाभावात्, तस्मात् सन्दिग्धसाध्यः पक्ष इत्याद्याः प्राचां वाचः सम्भावनाभिप्रायाः । परमार्थतस्त्वनुमितिविषय एव पक्षः । अतः सन्देहाभावे पक्षत्वानुपपत्त्यभावान्नाप्रसिद्धसाधने पक्षधर्मत्वासिदि्धरूपो दोष इति ।

४४असु०- तृतीयं निराकरोति व्याप्तिश्चेति ।

अनु०- व्याप्तिश्च व्यतिरेकेण तत्र तैश्चावगम्यते

तत्र जीवच्छरीरजातं सात्मकं प्राणादिमत्त्वात्, भूरितरेभ्यो भिद्यते गन्धवत्त्वात्, ईश्वरः सर्वज्ञः सर्वकर्तृत्वादित्यादौ केवलव्यतिरेकिणि साधनसमूहे । तैः अप्रसिद्धैरपि सात्मकत्वादिभिः साध्यैः । व्याप्तिश्च अस्ति । न केवलं पक्षधर्मता । व्यतिरेकेण साध्याभावस्य साधनाभावव्याप्तत्वेन लिङ्गेन अवगम्यते च सा ।

इदमुक्तं भवति । साध्यविशेषणाप्रसिद्ध्या व्याप्तिप्रतीत्यभावं प्रसञ्जयतो व्याप्त्यभावः । तथा हि । केवलव्यतिरेक्यनुमानं प्रमाणं न वा । नेति पक्षे वक्ष्यामः । आद्ये तस्य व्याप्तिसद्भावो व्याप्त्यवगमश्चा(वश्यम)ङ्गीकार्यः । अन्यथाऽनुमानत्वव्याघातात् । न च केवलव्यतिरेकिणि साध्यं प्रसिद्धम् । पक्षे प्रसिद्धौ सिद्धसाधनत्वात् । अन्यत्र प्रसिद्धौ तत्र हेतोर्वृत्तौ केवलव्यतिरेकित्वानुपपत्तेः । अवृत्तावसाधारण्यप्रसङ्गात् । अतः (प्र)शिथिलमूलः प्रसङ्गः । व्यतिरेकिणः क्व व्याप्तिः केन चावगम्यत इति चेत् । पक्ष एव व्यतिरेकेणावगम्यत इति ब्रूमः । पक्षादिप्रविभागात् प्रागवगता तत्रैव विप्रतिपत्त्योपदर्शयितुमशक्या व्यतिरेकेणोपपाद्यत इति । तैरिति बहुवचनेनातिप्रसिद्धतां प्रसङ्गव्याप्तिभङ्गस्य सूचयति ।

४५सु०- न केवलं केवलव्यतिरेकिसाधनस्य साध्येन व्याप्तिर्व्यतिरेकेण तदवगमश्च अस्माभिरेवाङ्गीक्रियते । किन्त्वप्रसिद्धविशेषणत्वदूषणत्ववादिभिरपि कैश्चिदित्याह तैश्चेति । अवगम्यते अभ्युपगम्यते । यथाऽऽहुः । यदि साध्येनास्य क्वचिदप्यन्वयो नास्ति तदा विरुद्ध एवायमित्याशङ्क्य नोपेयत्वमन्वयस्य व्यासेधामोऽपि तूपाय(त्व)मित्यादि ।।

तथा, यथा च व्यतिरेकबलादन्वयसिदि्धस्तथा वैशेषिकैरप्युपपादनीयम् । अन्यथा साध्यसाधनयोरव्याप्तौ व्यतिरेकिणो गमकत्वभङ्गादित्यादि । तथा च अप्रसिद्धविशेषणस्यापि केवलव्यतिरेकिणो व्याप्त्युपपादनमप्रसिद्धविशेषणत्वे व्याप्त्यप्रतीतिप्रसञ्जनं च कथं न व्याहतमिति भावः ।

४६सु०- यदुक्तं केवलव्यतिरेकिणो व्याप्त्यवगमात् परैरभ्युपगमाच्च नाप्रसिद्धविशेषणत्वेऽपि व्याप्त्यनवगतिरिति तदयुक्तम् । यतः केवलव्यतिरेकिण्यस्यैव गतिः । ये हि सम्प्रतिपन्नप्रमाणभावाः केवलव्यतिरेकिणः तेषु सामान्यतोऽन्वयव्याप्तिरेवाभिधातव्या । तथा हि प्राणादिमत्त्वेन जीवच्छरीरस्य सात्मकत्वे साध्ये यद्यत्कार्यवत् तत्तत्कारणवद्यथाऽङ्कुरवती भूमिर्बीजगर्भेति । (य)तथा गन्धवत्त्वेन भुवोऽन्यभेदसाधने यद्यदसाधारणधर्मवत् तत् ततो भिद्यते यथा अबादीति । एवमीश्वरस्य सर्वकर्तृत्वेन सार्वज्ञसाधने यो यस्य कर्ता स तस्य कारणं प्रयोजनं च जानाति । यथा कुलाल इति ।

एवं शाब्दः पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्याश्रितः पृथिव्यादिवृत्तौ बाधकोपपन्नत्वे सति गुणत्वादित्यादौ यो यद्वृत्तौ बाधकोपपन्नत्वे सति गुणः स ततोऽन्यद्रव्यवृत्तिर्यथा गन्ध इत्यादिरूपेण सामान्यतो व्याप्तिरभिधातव्या ।

यद्वा सामान्यतो विशेषणप्रसिदि्धं विधाय केवलव्यतिरेक प्रयोक्तव्यः । यथा ज्ञानतारतम्यं क्वचिद्विश्रान्तं तारतम्यत्वात् इत्यनेन सामान्यतः सार्वज्ञसिद्धौ तस्येश्वरसम्बन्धः केवलव्यतिरेकिणा साध्यते । तथेच्छादयः क्वचिदाश्रिता गुणत्वाद्रूपवत् । यश्चेच्छादीनामाश्रयः स एवात्मेति सामान्येनात्मसिद्धौ तत्सम्बन्धो जीवच्छरीरस्य केवलव्यतिरेकिणा साध्यते । एवमन्यत्रापि यथासम्भवमूह्यम् ।

क्वचित् पक्षैकदेश एव विशेषणप्रसिदि्धमाश्रित्य केवलव्यतिरेक प्रवर्तते । यथा पृथिवी इतरेभ्यो भिद्यते पृथिवीत्वान्न यदेवं न तदेवं यथा जलादीत्यत्र घटादावेव विशेषणप्रसिद्धेर्नाप्रसिद्धविशेषणता । न चैवं सपक्षसम्भवेन केवलव्यतिरेकित्वभङ्गः । घटादेः पक्षैकदेशत्वात् । न चांशे सिद्धसाधनता । एकैकत्र प्रसिद्धावप्यापरमाणोः आ च भूगोलकादसिद्धेरिति ।

अभावो वा केवलव्यतिरेकिणा साध्यः । भावे हि प्रतिपाद्ये व्यतिरेकव्याप्तौ तदभावस्य प्रतियोगिप्रतीतिसापेक्षतया विशेषणप्रसिद्ध्यपेक्षा । अभावे तु साध्ये नायं दोषः । अभावाभावस्य भावत्वेन प्रतियोगिनिरपेक्षत्वात् । एवमन्येऽप्युक्तिविशेषप्रकारा द्रष्टव्याः ।

४७सु०- एतेष्वन्यतमस्याप्यभावेऽप्रसिद्धविशेषणता दूषणमेव । अतो न केवलव्यतिरेकिप्रामाण्यमवलम्ब्याप्रसिद्धविशेषणतादूषणत्वं निरसनीयमित्यत आह अप्रसिद्धस्येति ।

अनु०-अप्रसिद्धस्य साध्यस्य साधकत्वं यदेष्यते । लिङ्गस्योक्तौ विशेषोऽयं केन मानेन गम्यते

साध्यस्येति कर्मणि षष्ठी लिङ्गस्येति कर्तरि । अयमिति बुदि्धस्थपरामर्शः । भवेदेतद्यद्ययं केवलव्यतिरेकिण्युक्तिविशेषः कार्य इत्यत्र नियामकं स्यात् । न चैतदस्ति ।

तथा हि । किमनेनोक्तिविशेषेण केवलव्यतिरेकिसाध्यमन्वयितां नीयत उत नेति वक्तव्यम् । नाद्यः । उक्तेरर्थतथात्वपरिवर्तकसम्भवात् । न हि सहस्रेणाप्युक्तनां नरो वानरीकर्तुं शक्यते । शक्यत्वे वा केवलव्यतिरेकिप्रामाण्यं त्यक्तं स्यात् । द्वितीयस्येदमुत्तरम् । यदा लिङ्गस्याप्रसिद्धस्य साध्यस्य साधकत्वमिष्यते । यद्युक्तिविशेषेणापि लिङ्गं केवलव्यतिरेकिसाध्यसाधकमेव नान्वयितामापद्यत इतीष्यत इति यावत् । तदाऽयमुक्तौ विशेषः केन मानेन कर्तव्यतया ज्ञायते । न केनापि । अतोऽप्रसिद्धविशेषण एव केवलव्यतिरेक साधकश्चेति नाप्रसिद्धविशेषणत्वस्य दोषत्वमिति ।

४८सु०-अस्येवोक्तिविशेषस्य कर्तव्यतायां नियामकम् । तथा हि । यद्यप्युक्तिविशेषो न व्यतिरेकिणमन्वयिनं करोति । तथाऽपि लिङ्गस्य साध्येन व्याप्तिस्तावदवश्यम्भाविनी । न च सा केवलव्यतिरेकिणि साक्षादुपदर्शयितुं शक्या । अन्वयग्रहणस्थलस्य विप्रतिपत्त्या प्रतिरुद्धत्वात् । अतः साध्यव्यतिरेकस्य साधनव्यतिरेकेण विपक्षे व्याप्तिं प्रदर्श्योपपादनीया ।

४९सु०- यदि वा व्यतिरेकव्याप्तिरेव साध्यसिद्धेरङ्गम् । तथाऽपि तहोऽवश्यम्भावी । व्यतिरेकश्च प्रतियोगिप्रतीत्यधीनप्रतीतिक एव । प्रतियोगिनौ च लिङ्गसाध्यधर्मौ । तत्र लिङ्गं पक्षे प्रतीतमेव । साध्यधर्मश्च न पक्षे प्रतीतो नाप्यन्यत्र । तत्कथं व्यतिरेकयोरपि व्याप्तिर्गृह्यताम् । एतैस्तूक्तिविशेषैः कथञ्चित्प्रतियोगिनः साध्यधर्मस्य बुदि्धस्थतायां सुकरो व्याप्तिग्रहः स्यात् ।

५०सु०-प्रतिज्ञावाक्यं चैवमविदितपदार्थकं न प्रसज्यत इत्यत आह साधनमिति ।

अनु०-साधनं परमाण्वादेर्यद्यसिद्धस्य चेष्यते । यथानुभवमेवैतन्नाङ्गीकार्यं कुतस्तदा

परमाणुकारणकतां कार्याणामभ्युपगच्छता वैशेषिकादिना परमाणुसद्भावः साध्यते । तथा प्रधानोपादानतां वदता साङ्ख्येन प्रधानसद्भावः । एवमन्यदपि समवायादिकं तदङ्गीकारिभिः समर्थ्यते । तत्र पृच्छामः । यः परमाण्वादिकमभ्युपैति तं प्रति तत्सद्भावः साध्यते, उत न सन्ति परमाणव इति तदभावमभ्युपगच्छन्तं प्रति । नाद्यः । सिद्धस्य साधनायोगात् । द्वितीये त्वबुद्ध्यारूढस्य परमाण्वादेः साधनाय कथं वादिनः प्रयत्नः कथं च तदभावं परो मन्येत । प्रतियोगिनोऽविदितत्वात् ।

अथ मन्यसे कणादाद्युपदेशेन, सामान्यतो दृष्टस्वार्थानुमानेन वा स्वयमवगतं परमाण्वादिकं वादिना शक्यत एव साधयितुम् । वादिवाक्येन च प्रतियोगिनः परमाण्वादेरवगमे तदभावा(नुम)भिमतिः प्रतिवादिनो युक्तैव । न हि प्रमाणेनैव प्रतियोगी ज्ञाताव्य इति नियमोऽस्ति, शशविषाणाद्यभावप्रतीत्यनुपपत्तिप्रसङ्गादिति ।

यद्येवमत्यन्ताप्रसिद्धस्यापि परमाण्वादेरनुभवमार्गमनतिक्रम्य साधनमिष्यते । तदैतद्व्यतिरेकिसाध्यसाधनमप्यनुभवानुसारेणैव कुतो नाङ्गीकार्यम् । तथा हि । प्रत्यक्षेणोपदेशेन वाऽसाधारणौ(णध) धर्मावेकत्रोपलब्धवतः ततोऽन्यत्र सर्वत्रापि तदभावोपलम्भसम्भवे व्यतिरेकव्याप्तिग्रहः तावद् वादिनः सुकर एव । प्रतिवादिनोऽपि वादिवाक्यावगतप्रतियोगिनः तदभावावगमसम्भवात् । व्यतिरेकव्याप्तिग्रहः सम्भवत्येव । तथा च प्रागुक्तरीत्याऽन्वयसमर्थनेन अप्रसिद्धसाध्यसाधने सम्भवति किमेताभिः क्लिष्टकल्पनाभिः । एवञ्च न प्रतिज्ञावाक्यस्याविदितपदार्थकत्वप्रसङ्गः । वादिना तदर्थस्य व्युत्पादितत्वा(द्यत्वा)दिति ।

५१सु०-उपसंहरति यत्रेति ।

अनु०-यत्र नातिप्रसङ्गोऽस्ति मानं न च विपर्यये । क्लिष्टकल्पनयैवात्र साध्यमित्यतिदुर्वचः

यत्र विषये केवलव्यतिरेकिणि । एवं सामान्यान्व(वमन्व)याभिधानादिना साधनं कार्यमिति नियामकं (मानं ना) नास्ति । व्याप्तिप्रतीत्यादेरन्यथासिद्धत्वात् । ऋजुनाऽनुभवानुसारिणा मार्गेण सिद्ध्यतोऽर्थस्य वक्रेणानानुभाविकेन साधनायोगात् । विपर्यये तथा साधनाकरणे, अतिप्रसङ्गश्च नास्ति । स्वव्याहत्यादिनैवापरस्याभासत्वात् । अत्र क्लिष्टकल्पनयैव साध्यसाधनं कार्यमित्यतिदुष्टं वाक्यमिति । अनेन विशिष्टव्यतिरेकमाश्रित्य या महाऽविद्यादिवक्ररीतिः साऽप्यपास्ता वेदितव्या ।

भवेदेतद्यदि केवलव्यतिरेक्यनुमानं भवोत् । न चैवम् । पक्षधर्मत्वं, सपक्षे सत्त्वं, विपक्षाद्व्यावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति पञ्चरूपोपपन्नं खल्वनुमानं भवति । न च केवलव्यतिरेकिणस्तदस्ति । सपक्षाभावेन सपक्षे सत्त्वाभावात् ।

५२सु०- न चैवं केवलान्वयिनोऽपि विपक्षाभावेन विपक्षाद्व्यावृत्तेरभावादननुमानत्वप्रसङ्ग इति वाच्यम् । अन्वयव्यतिरेकवत एव अनुमानत्वेनानिष्टाभावादिति । द्वितीयमाशङ्क्याह परिशेष इति ।

अनु०- परिशेषो मिथस्सिदि्धश्चक्रकस्वाश्रयादयः । असिद्धसाधकत्वेन पञ्चावयवतां विना । अङ्गीकार्याः समस्तैः

प्रसक्तप्रतिषेधे परिशिष्यमाणे बुदि्धः परिशेषः । द्वयोः परस्परापेक्षयोत्पत्तिर्ज्ञप्तिर्वा मिथःसिदि्धः । बहूनां चक्रवदितरेतरापेक्षयोत्पत्त्यादिकं चक्रकम् । स्वापेक्षं स्वोत्पत्त्यादि स्वाश्रयः । आदिपदेनानवस्था । सा चानवस्थितासिद्धोत्पादकादिपरम्परापेक्षा । असिद्धसाधकत्वेन हेतुना । पञ्चावयवतां पञ्चरूपोपपन्नताम् । अङ्गीकार्याः अनुमानत्वेन समस्तैर्वादिभिः । न खलु कोऽपि वादी परिशेषादीननादृत्य परीक्षायां प्रवृत्तोऽस्ति ।

एतदुक्तं भवति । परिशेषादीनि तावदनुमानानि, व्याप्यज्ञानाद्व्यापकज्ञानमिति तल-लक्षणाक्रान्तत्वात् । प्रमाणप्रपञ्चरुचिभिरप्यनुमानाद्बहिर्भावेन तत्प्रामाण्यस्यानभ्युपगतत्वाच्च । तानि चासिद्धस्यैव साध्यस्य साधकानि । शब्दस्य हि पृथिव्याद्यष्टसंसर्गे प्रतिषिद्धे परिशेषात् तदतिरिक्तद्रव्याश्रितत्वं सिद्ध्यति ।

न च प्रागाकाशसिद्धेः पृथिव्याद्यतिरिक्तं द्रव्यं सिद्धम् । येन तदाश्रितत्वं क्वचित् प्रसिद्धं स्यात् । यत् यस्य कार्यं प्रमितं परेणाङ्गीकृतं वा तस्य तत्कार्यतामङ्गीकुर्वाणं प्रति मिथःसिदि्धरुच्यते । न च सा क्वचित् प्रसिद्धा । द्वयोरपि परस्परापेक्षया पूर्वभावित्वं (से त्वे) सेति पक्षेऽपि तथा । एतेन चक्रकं व्याख्यातम् । अस्यैव घटस्यैतत्कार्यत्वमभ्युप(मुप)गच्छन्तं प्रति स्वाश्रयत्वमभिधीयते । (तच्च) स्वस्यैव स्वापेक्षया पूर्वभावित्वं पश्चाद्भावित्वं चाप्रसिद्धमेव । असिद्धस्यैव कारणतां ब्रुवाणं प्रत्यनवस्थोच्यते । न च क्वचित्कार्येऽनवस्थितासिद्धकारणपरम्परा सिद्धा । सामान्यतः प्रसिदि्धस्तु केवलव्यतिरेकिण्यपि समाना । असिद्धसाधकत्वेन चैषा पञ्चरूपोपन्नता नास्ति । तथा चानुमानानामप्येषां पञ्चरूपोपपन्नत्वाभावात् । व्यतिरेकि नानुमानं पञ्चरू(पोपपन्नता)पतावैधुर्यादित्यनैकान्तिकमिति ।

५३सु०- दूषणान्तरमप्याह तन्नियम इति ।

अनु०-तन्नियमः किन्निबन्धनः

अनुमाने पञ्चरूपोपपन्नतानियमस्य निर्निबन्धनत्वादतादृशस्याप्यनुमानत्वे बाधकाभावाच्चाप्रयोजकोऽयं हेत्वाभासः । नन्वेषां रूपाणां व्याप्तिपक्षधर्मतौपयिकत्वादसिद्ध्यादिहेत्वाभासपञ्चक(स्य )व्युदासार्थत्वाच्च कथं निर्निबन्धन(त्वम्)ता । कथं च विपक्षे बाधकाभावः । उक्तप्रयोजनासिद्धेरेव बाधकत्वात् । सपक्षे सत्त्वं विनाऽप्यनुमानत्वे भूर्नित्या गन्धवत्त्वादित्यादेरसाधारणस्याप्यनुमानत्वं स्यादिति चेन्न । सपक्षहीनस्य विपक्षव्यावृत्तिमात्रेण व्याप्त्यादिसिद्धेः । साधारणस्याभासत्वासम्मतेः । सम्मतौ वा सपक्षसद्भावासद्भावाभ्यां भेदसिद्धेरिति ।

५४सु०- एवमाश्रयासिद्ध्यादेरदूषणत्वमुपपाद्य यदुक्तं परिहारेऽपि सिद्धत्वं दूषणमि ति तदयुक्तम् । वादे निग्रहस्थानाभावस्योक्तत्वादित्याशङ्कां परिहरति सिद्धेति ।

अनु०-सिद्धसाधनतायां च न कथावसितिर्भवेत्

यथा सिद्धप्रश्नादौ न वादकथावसितिर्भवेत्, किन्तु तत्त्वनिर्णयविरोधित्वादुद्भाव्य त्याजनीयमेव । एवं सिद्धसाधनतायां चेत्यर्थः । तदन्यस्य सिद्धतैव हि साधिके त्यनेन हेतोर्व्याप्त्यसिदि्धः स्वरूपासिदि्धश्च दूषणमिति सूचितम् ।

५४असु०-तत्र केचिदाचक्षते । द्विविधं व्याप्त्यभावादिकम् । वादिप्रतिवादिनोरन्यतरमतेनोभयमतेन चेति । अन्ये तु मन्यन्ते । अन्यतराव्याप्त्यादिकं नाम नास्त्येव । वस्तुनि विकल्पासम्भवादिति । तत्र किंतत्त्वमित्याकाङ्क्षायामाह व्यभिचार इति ।

अनु०- व्यभिचारो हेत्वसिदि्धरेकपक्षेऽपि दूषणम्

अत्र व्यभिचार इत्यव्याप्तिमात्रोपलक्षणम् । न केवलमुभयपक्षे, किन्तु वादिप्रतिवादिनोरेकस्य पक्षेऽपि व्यभिचारो हेत्वसिदि्धश्च हेतोर्दूषणमेव ।

यद्यपि वस्तुतोऽन्यतरव्यभिचारादिकं न सम्भवति तथाऽपि प्राग्वस्तुतत्त्वावधारणादाभिमानिकं सम्भवत्येव । तथा च हेतुसामर्थ्यसन्देहेऽपि ओतुत्वमावश्यकमेव । व्याप्त्यादिमत्तया निश्चितस्यैव हेतुत्वादिति । तदन्यस्येत्यनेन दृष्टान्तस्यापि साध्यादिमत्त्वेनासिदि्धर्दूषणमिति सूचितम् ।

५५सु०- केचिदाचक्षते । दृष्टान्तदोषा नाम न सन्ति तेषां यथायोगं हेतुदोषेष्वेवान्तर्भूतत्वादिति । तान्प्रत्याह साध्येति ।

अनु०-साध्यसाधनवैकल्यं दृष्टान्तस्य

दूषणमिति वर्तते । साध्यवैकल्यादेर्हेत्वाभासान्तर्भावेऽपि दृष्टान्ताश्रयतया स्पष्टप्रतिभासत्वात् । प्रतिभासानुसारेणैवोद्भाव्यत्वादुद्भावनार्थत्वाच्च व्युत्पादनस्य दृष्टान्तदोषत्वं युक्तमिति भावः ।

दृष्टान्तदोषांश्च केचिदष्टावाचक्षते । साध्यवैकल्यं साधनवैकल्यमुभयवैकल्यमाश्रयहीनत्वमिति चत्वारः साधर्म्यदृष्टान्तदोषाः । साध्याव्यावृत्तिः साधनाव्यावृत्तिरुभयाव्यावृत्तिराश्रयहीनत्वमिति चत्वारो वैधर्म्यदृष्टान्तदोषा इति । तन्नेत्याह साध्येति । सिद्धे सत्यारम्भो नियमार्थः । साध्यसाधनवैकल्यमेव दृष्टान्तस्य दूषणं नापरमित्यर्थः । तथा हि । उभयवैकल्यं तावत् पृथङ् न वाच्यम् । एकैकवैकल्येनैव दृष्टान्तस्य दुष्टत्वे समुदितकल्पनावैयर्थ्यात् । अन्यथैकैकवैकल्यस्य दूषणत्वाङ्गीकारभङ्गात् । सम्भवमात्रेण पृथग्वचनेऽनैकान्तिककालातीतत्वं नाम हेत्वाभासान्तरं वाच्यं स्यात् । आश्रयहीनत्वं चाश्रयासिदि्धसमानम् । वैधर्म्यदृष्टान्तो नाम नास्त्येवेति प्रागेव प्रपञ्चितमिति ।

यद्वा दृष्टान्तस्य साध्यसाधनवैकल्यमपि व्यभिचारादिवदुभयान्यतररीत्या द्विविधं प्रतिपत्तव्यं न पुनरेकविधमेव । अभिमानतो द्वैविध्यस्यापि सम्भवादित्याह साध्येति । एकपक्षेऽपि दूषणमित्यनुवर्तते ।

५६सु०- हेतोर्व्यर्थविशेषणत्वं व्यर्थविशेष्यत्वं च न दूषणम् । व्याप्तिपक्षधर्मतयोरप्रतिहतेरिति केचित् । तान्प्रत्याह विशेषण इति । विशेषणे दत्ते सति यद्वैयर्थ्यं विशेष्यस्य विशेषणस्य वा तदपि हेतोर्दूषणमेव । व्याप्त्युपयोगितया हि हेतौ विशेषणमुपादीयते । वैयर्थ्ये तु विशिष्टस्य व्याप्यत्वाभावाद्युक्तं (तस्य) हेतुदोषत्वमिति ।

यद्वा सिद्धप्रश्नादिकमिति वक्ष्यमाणत्वादाधिक्यान्तर्गतमेतत् । सर्वथा हेतुदोषत्वं सि(द्धमिति)द्धम् । व्यर्थविशेषणत्वादिकमप्युभयान्यतररीत्या द्विविधं प्रतिपत्तव्यम् । न पुनरेकविधमेवेत्याह विशेषण इति ।

अनु०- विशेषणे ।वैयर्थ्यम्

एकपक्षेऽपि दूषणमिति वर्तते ।

५७सु०- विशेषणासिदि्धर्विशेष्यासिदि्धश्च हेतुदोषो न भवति । न हि विशेषणमात्रं विशेष्यमात्रं वा हेतुर्येन तदसिदि्धहेतोर्दूषणं स्यादित्येके । तान्प्रत्याह एकासिद्धौ चेति ।

अनु०- एकासिद्धौ च विशिष्टासिदि्धरेव हि

विशिष्टो (हि) हेतुर्न विशेषणादिमात्रम् । विशेषणविशेष्ययोरेकस्यासिद्धावपि विशिष्टस्यासिदि्धरेव प्रसिद्धा । दण्डमात्राभावे पुरुषमात्राभावे वा दण्डिनोऽभावदर्शनात् । अतो विशेषणासिद्ध्यादावपि विशिष्टहेत्वसिद्धेरवर्जनीयत्वाद्युक्तं तस्य हेतुदोषत्वम् । तच्चोभयान्यतररीत्या द्विविधमिति पूर्ववत्सिद्धमेवेति । एकाभावे चेत्याद्यनुक्तवैकासिद्धौ चेति वचनमसिदि्धश्च द्विविधा स्वरूपतोऽज्ञानतश्चेति सूचनार्थम् । तदेवं व्यर्थविशेषणासिद्ध्यादेर्हेतुदोषत्वाद्युक्तं परपरिगणितासिदि्धभेदेष्वाश्रयासिद्ध्यादित्रयस्यैवादोषत्वकथनमिति ।

५८सु०- यदुक्तं प्रश्नदोषाश्चत्वार इति तत्र वैफल्यस्यासङ्गतेश्च दोषत्वमयुक्तम् । अशक्योद्भावनत्वात् । तथा हि शब्दोऽनित्योऽस्मदादिबाह्येन्द्रियग्राह्यत्वादिति प्रयुक्ते परः पृच्छति सामान्यं नित्यमनित्यं वेति । तत्र वैफल्योद्भावने निरनुयोज्यानुयोगेन परो निगृह्णीयात् । सामान्यनित्यत्वमुभयसम्मतं कृत्वा तत्रानैकान्तिकत्वोद्भावनस्य प्रयोजनस्य परेणाभिसन्धातुमप्युचितत्वात् । तत्रैव प्रयोगे परः पृच्छति सामान्यमनुगतं न वेति । तत्रासङ्गत्युद्भावने निरनुयोज्यानुयोगः स्यात् । अनुगतत्वेन नित्यत्वं प्रसाध्य तत्रानैकान्तिकत्वं वक्ष्यामीत्येवमुपोद्घातलक्षणायाः सङ्गतेरपि परेणाभिप्रेतुमुचितत्वात् । न च अशक्योद्भावनं दूषणं नामेत्यत आह अप्रयोजनतेति ।

अनु०-अप्रयोजनता तत्र प्रथमप्रश्नदूषणम्

तत्र प्रश्नदोषेष्वप्रयोजनता यद्यप्यु(त्तरो)त्तरप्रश्नेष्ववधारयितुमशक्या । तथाऽपि प्रथमप्रश्ने सम्भाविता दूषणत्वेनोद्भावयितुं शक्यत एव । न हि कथोपक्रमे प्रधानप्रमेयप्रश्नमपहायैवंविधः प्रश्नः सम्भवतीति । अनेनैव न्यायेनासङ्गतिरपि सर्वथा सङ्गत्यनुपलम्भ एवोद्भाव्येति द्रष्टव्यम् ।

५८असु०- नन्वेवं सति षडेव निग्रहस्थानानीति नियमो भज्येत । स्वव्याहत्यसङ्गत्योर्विरोधासङ्गत्यन्तर्भावेऽपि सिद्धार्थतावैफल्ययोरतिरिक्तत्वादित्यत आह सिद्धेति ।

अनु०-सिद्धप्रश्नादिकं यत्तदाधिक्यान्तर्गतं भवेत्

५९सु०-दूषणान्तर्भावकथनप्रसङ्गेन प्रागुक्तप्रमाणत्रित्वनियमसिद्धये परैः पृथक्प्रमाणत्वेनाङ्गीकृतानामर्थापत्त्यादीनामुक्तान्तर्भावमाह अर्थापत्तीति ।

अनु०-अर्थापत्त्युपमाऽभावा अनुमान्तर्गताः

अनुपपद्यमानदर्शनादुपपादके बुदि्धरर्थापत्तिः । यथा जीवतो गृहाभावदर्शनाद्बहिर्भावबुदि्धः । तत्र जीवतो गृहाभावस्यानुपपद्यमानता नाम किं सर्वथाऽसम्भवः किं वा बहिर्भावेन विनाऽनवस्थानम् । आद्ये दहनशैत्यमप्यनुमानाभासात्प्रतीतं किं कमप्यर्थं न बोधयेत् । तत्प्रतीतिर्भ्रान्तिरिति चेत् । सर्वथाऽसम्भवतो गृहाभावस्यापि प्रतीतिः कथं न भ्रान्तिः । दहनशैत्यस्योपपादकं नास्तीति चेन्न । सर्वथाऽप्यसम्भवतो गृहाभावस्यापि तदनुपपत्तेः । द्वितीये व्याप्तिरेव सेति व्याप्यदर्शनाद्व्यापकबुदि्धरर्थापत्तिरनुमानमेव ।

प्रमाणद्वयविरोधोऽनुपपत्तिरिति चेन्न । प्रकृतोदाहरणे तदभावात् । विरोधो हि तदा स्याद्यदि जीवतीत्यस्य गृहेऽस्तीत्यर्थः स्यात् । यदि वा गृहे नास्तीत्यस्य न जीवतीत्यर्थः स्यात् । न च तदस्ति । स्वस्मिन्नेव अन्यथाभावदर्शनात् । यो हि मातापितृभ्यां सु(रक्षी)शिक्षितो न जातु गृहान्निर्गच्छति सोऽन्यानपि तथा मन्यमानो जीवनप्रमाणस्य गृहे सत्त्वमेवार्थं प्रतिपद्यत इति । एवं तर्हि सन्दिहानोऽवतिष्ठेत न तु बहिर्भावं निश्चिनुयात् । अन्यथा प्रकरणसमेनापि किञ्चिदवधारयेत् ।

एतेनैतदपि निरस्तम् । यदाहुः । अनुमानत्वपक्षे किं बहिर्भावे जीवनमात्रं लिङ्गमुत गृहाभावमात्रम्, अथवा विशिष्टम् । न प्रथमद्वितीयौ । व्यभिचारात् । न तृतीयः । विरुद्धयोर्विशेषणविशेष्यभावानुपपत्तेः । अविरोधप्रतीतेश्च बहिर्भावकल्पनोत्तरकालीनत्वेनेतरेतराश्रयापत्तेरिति । जीवनगृहाभावयोर्विरोधस्य अभावात् । भावे वाऽर्थापत्तेरप्यनुपपत्तेः । अतोऽविनाभावबलेनार्थप्रतीतिहेतुत्वादर्थापत्तिरनुमानमेव ।

एतेन केवलव्यतिरेक परिशेषश्चार्थापत्तिरेव नानुमानमित्यपि निरस्तम् ।

६०सु०- गृह्यमाणे वस्तुनि स्मर्यमाणप्रतियोगिकसादृश्यदर्शनात् स्मर्यमाणे गृह्यमाणप्रतियोगिकसादृश्यप्रतीतिरुपमानम् । यथा गामनुभूय वनं गतो गवये गोसादृश्यमुपलभ्य गवि गवयसादृश्यं प्रत्येति । यद्यपि नैतत्स्मरणम् । प्रतियोगिनो गवयस्य प्रागननुभूतत्वेन गोगतसादृश्यस्याननुभूतत्वात् । न हि सामग्रयभावे योग्येन्द्रियसन्निकर्षसद्भावमात्रेणानुभवः शक्योऽङ्गीकर्तुम् । प्रतियोगिज्ञानस्यान्वयव्यतिरेकाभ्यां सादृश्यप्रतीतौ हेतुत्वमवधृतमेव ।

निर्विकल्पकप्रतीत्यभ्युपगमस्त्वप्रामाणिक एव । तथाऽपि यो यत्सदृशः स तत्सदृश इति व्याप्तिबलेन गमकत्वादनुमानमेव । व्यधिकरणत्वान्नेति चेत् तस्यादोषताया निरूपितत्वात् । एकाधिकरणतायाः शक्यसम्पादनत्वाच्च । तस्माद्वैसादृश्यदर्शनवत् सादृश्यदर्शनमपि न पृथक् प्रमाणम् ।

६१सु०- अन्ये तु संज्ञासंज्ञिसम्बन्धप्रमितिफलमनधिगतसङ्गतिसंज्ञास्मरणसहायं तत्समभिव्याहृतातिदेशवाक्यार्थप्रत्यभिज्ञानमुपमानम् । अतिदेशवाक्यार्थश्च क्वचित्साधर्म्यं क्वचिद्वैधर्म्यं क्वचिद्धर्ममात्रमिति त्रिविधो भवति । यथाऽव्युत्पन्नगवयपदार्थो गोसदृशो गवय इत्यतिदेशवाक्यानुभूतमर्थं प्रत्यक्षे(ण) गवये प्रत्यभिजानन् गवयपदं स्मरन् गवयपदस्य गवये सङ्गतिमवगच्छति ।

तदिदं साधर्म्योपमानम् । वैधर्म्योपमानं तु गवादिवद् द्विशफो न भवत्यश्व इति वाक्यार्थप्रत्यभिज्ञानादश्वेऽश्वपदसङ्गतिग्रहणम् । धर्ममात्रोपमानपि दीर्घग्रीवत्वादिधर्मवान् पशुरुष्ट्र इति वाक्यार्थप्रत्यभिज्ञानादुष्ट्रपदव्युत्पत्तिरिति मन्यन्ते ।

तत्र यद्यपि संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः प्राग्गवयादिदर्शनादतिदेशवाक्येन प्रयोगादिना लिङ्गेन वा भवितुं नार्हति । सम्बन्धिनोऽनवगमे सम्बन्धस्यावगन्तुमशक्यत्वात् । तथाऽपि गवयादिदर्शनोत्तरकालं साधर्म्यादिना लिङ्गेनैव भविष्यति । एतस्यां दशायामतिदेशवाक्यं व्याप्तिग्राहकत्वेनोपयुज्यते । यथा हि पृथिवीत्वाभिसम्बन्धात् पृथिवीति व्यवहर्तव्येति लक्षणवाक्यं श्रुतवतः पृथिवीत्वाभिसम्बन्धं क्वचिद्द्रव्ये पश्यतोऽनुमानेनैव संज्ञासंज्ञिबन्धप्रतिपत्तिरभ्युपगता । तथा प्रकृतेऽपीति कथमिदं पृथक् प्रमाणं स्यादिति ।

६२सु०- घटादिप्रत्यक्षयोग्यार्थप्रतियोगिकाभावप्रतीतिसाधनं प्रमाणमभावः । तच्चानुपलब्धिलक्षणं लिङ्गमेवेत्यभावोऽपि नानुमानादि्भद्यते । अतो युक्तं त्रीण्येव प्रमाणानीति । तत्किमभावो नियमेनानुमानान्तर्गत इत्यत आह क्वचिदिति ।

अनु०-क्वचित् । प्रत्यक्षान्तर्गतोऽभावः

कदाचिद्घटाद्यभावग्राहकं प्रत्यक्षमपि भवतीत्यर्थः । किं तर्हि प्रत्यक्षयोग्यार्थानां सर्वेषामप्यभावः प्रमाणद्वयवेद्य इत्यत आह सुखादेरिति ।

अनु०- सुखादेर्नियमेन च

चस्त्वर्थः । सुखादेरान्तरस्य साक्षिवेद्यस्याभावस्तु नियमेन साक्षिप्रत्यक्षेणैव ग्राह्य इत्यर्थः । यद्वाऽभाव इति प्रमाणमेवोच्यते । तस्य सुखादेरिति परम्परया सम्बन्धः । नियमेन प्रत्यक्षान्तर्गत इति सम्बन्धः । अनेन बाह्यानां प्रत्यक्षयोग्यानां घटादीनामभावः प्रत्यक्षानुमानवेद्य इत्युक्तम् । तदयुक्तम् । एकस्यैव ज्ञानस्य स्वतन्त्रकारणद्वयजन्यत्वानुपपत्तेः । परस्परविरुद्धपरोक्षापरोक्षत्वलक्षणाकारद्वयप्राप्तेश्चेत्यत उक्तं क्वचिदिति ।

६३सु०- तथाऽपि अनुपपत्तिरेव; प्रत्यक्षग्राह्येऽर्थे अनुमानानवकाशात् इत्यत आह अन्यत्रेति ।

अनु०-अन्यत्र खटिति प्राप्तः

सुखादेरन्यत्र घटादौ प्रतियोगिनि सति, योऽभावोऽभावप्रमाणं खडिति प्राप्नोति, तत्प्रत्यक्षम् । यत्तु विलम्बेन जायते तदनुमानमिति । एतदुक्तं भवति । घटाद्यभावग्राहकं योग्यानुपलब्धिरूपं प्रमाणं पृथगेवेति मीमांसकाः । अनुपलब्धिलिङ्गकमनुमानमेव तदिति सौगताः । तदुभयमप्यनुपपन्नम् । प्रतियोगिस्मरणवतः पुरोवर्तिनि भूतले घटाद्यभावस्य प्रत्यक्षेणैव (चाव)गम्यमानत्वात् । इन्द्रियान्वयव्यतिरेकानुविधायिनोऽभावप्रत्ययस्याप्रत्यक्षफलत्वानुपपत्तेः । अपरोक्षाकारत्वस्यानुभवसिद्धत्वात् । बाधकाभावाच्चान्यत्रोपक्षयकल्पनानुपपत्तेः । अन्यथा रूपादिज्ञानेऽपि प्रमाणान्तरकल्पनाप्रसङ्गात् । लिङ्गदर्शनव्याप्तिस्मरणादिविलम्बेन विना खडिति जायमानस्यानुमानफलत्वानुपपत्तेः । लिङ्गस्य ज्ञातस्यैव करणत्वादनुपलब्धेरप्यभावत्वेनानुपलब्ध्यन्तरापेक्षायामनवस्थाप्रसङ्गाच्च ।

६४सु०- ननु च प्रातश्चत्वरादौ प्रतियोगिस्मरणाभावेन गजाद्यभावमननुभूय देशान्तरं गतो गजस्मृतिमान् प्रातश्चत्वरे गजो नासीदिति प्रतिपद्यते । न तत्र प्रत्यक्षस्यावकाश इत्यनुपलब्धिलक्षणं पृथक् प्रमाणं तत्राङ्गीकार्यमिति । मैवम् । तत्राभावस्याप्रत्यक्षत्वेऽप्यनुपलब्धिलिङ्गकानुमानवेद्यताऽभ्युपगमात् । अनुपलब्धेश्च स्मरणाभावलिङ्गानुमेयत्वात् । अत एव तत्र क्षणं ध्यात्वा नासीच्चत्वरे गज इति प्रतिपद्यते । स्मरणाभावोऽप्यनुपलब्ध्यन्तरानुमेय इत्यनवस्थेत्यपि नास्ति । साक्षिग्राह्याणां बुदि्धसुखादीनामभावस्य नियमेन साक्षि(प्रत्यक्ष)वेद्यत्वादिति ।

६५सु०- तथाऽप्युपक्रमोपसंहारावभ्यासापूर्वताफलार्थवादाः प्रमाणानि सन्तीति कथं तत्त्रित्वनियम इत्यत आह प्रारम्भाद्याश्चेति ।

अनु०-प्रारम्भाद्याश्च युक्तयः

युक्तयः अनुमानानि । कुत इत्यत आह आगमेति ।

अनु०-आगमार्थावसित्यर्था नियतव्याप्तयोऽखिलाः

यतोऽखिलाः प्रारम्भाद्या नियतव्याप्तयो, यो यत्र प्रारभ्यते स तत्र प्रतिपाद्य इत्यादिरूपां व्याप्तिमपेक्षमाणा एवागमार्थावसित्यर्था भवन्त्यतो युक्तय एवेत्यर्थः । एतेनागमान्तर्भावोऽपि निरस्तः । उपक्रमाद्या आगमविषया एव न चार्थापत्त्युपमाभावा इति योगविभागः ।

६६सु०- वाक्यादीनामपि प्रमाणानामनुमानान्तर्भावमाह वाक्यमिति ।

अनु०- वाक्यं प्रकरणं स्थानं समाख्या च तथाविधाः

यतो वाक्यादयोऽपि तथाविधा व्याप्तिमपेक्ष्यैव आगमार्थावसित्यर्थाः ततस्तथाविधा युक्तय एवेत्यर्थः । उपक्रमादीनामुत्तरोत्तरं प्राबल्यं वाक्यादीनां तु पूर्वपूर्वमिति ज्ञापनाय योगविभागः ।

यद्युपक्रमादयो वाक्यादयश्चानुमानेऽन्तर्भवन्ति तर्हि कथम् उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये इत्युपक्रमादीनामनुमानापरपर्या(याया उप)योपपत्तेः पृथक्तवेनोक्तिः । तथा श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथे ति वाक्यादीनां लिङ्गादित्यत आह कुरुपाण्डववदिति ।

अनु०-कुरुपाण्डववत्तेषामुपपत्तेः पृथग्वचः

यथा पाण्डवानां कुरु(विशेष)त्वेऽपि सामान्यविशेषापेक्षया सन्तानबीजं कुरुपाण्डवानामि त्यादौ कुरुभ्यः पृथग्वचनं तथा तेषामुपक्रमादीनां वाक्यादीनां चानुमानत्वेऽप्युपपत्तेर्लिङ्गाच्च पृथग्वचनं युक्तमित्यर्थः ।

६७सु०- ननु तथाऽपि शाकुनलिप्यक्षरचेष्टासम्भवैतिह्यपरिशेषाः पृथक् प्रमाणानि सन्तीति चेत् (न) । शाकुनलिप्यक्षरचेष्टानामन्तर्भावस्य नविलक्षणाधिकरणे सूचितत्वात् । सम्भवैतिह्ययोरनुमानागमान्तर्भावस्य सर्ववादिसम्प्रतिपन्नत्वात् । परिशेषस्य च परिशेषो मिथःसिदि्धरि त्यनेनैवानुमानत्वस्य स्थितत्वात् ।

६८सु०- ननु तथाऽपि जैनास्तर्कं पृथक् प्रमाणमाहुः । सत्यम् । मिथस्सिदि्धरित्यादिना सोऽप्यनुमानान्तर्गत इति सूचितमेव ।

अत्राह तर्कः प्रमाणमेव न भवति । कुतोऽनुमानम् । तथा हि । अनिष्टप्रसञ्जनं तर्कः । अनिष्टं च द्विविधम्(धा), प्रामाणिकपरित्यागोऽप्रामाणिकस्वीकारश्चेति ।

स पञ्चविधः । आत्माश्रयान्योन्याश्रयचक्रकानवस्थाप्रमाणबाधितार्थप्रसङ्गभेदात् । तत्र प्रसङ्गो नाम व्याप्याङ्गीकारेऽनिष्टव्यापकप्रसञ्जनम् ।

६९सु०-सोऽयं तर्कः प्रमाणानामनुग्राहकः । अनुग्रहश्च प्रमाणविषमसम्भावनादिरूपः । तथा हि । भूतले घटः किन्न स्यादिति विपरीतशङ्कया कुण्ठितशक्तिकं प्रत्यक्षं न तावद्घटाभावं निश्चिनुयात् यावत् यद्यत्र घटोऽभविष्यत् तदा भूतलमिवाद्रक्ष्यत तत्तुल्यदर्शनसामग्रीकत्वादिति तर्केण विपरीतशङ्का नापनीयते । तर्को हि दुर्जन इव पराभिलषितं वि(व्यव)च्छिद्य घटाभावं सम्भावयति । अथेदानीं प्रत्यक्षं सुजन इव स्वप्रमेयं निश्चिनोति ।

एवं क्वचिद्व्यभिचाराशङ्कयोपाधिशङ्कया वा धूमवानपि पर्वतोऽग्निमान् मा भूदिति पक्षे विपक्षशङ्कयाऽनुमाने कुण्ठिते यदि निरग्निकः स्यात् पर्वतः तदा निर्धूमोऽपि स्यादित्यादिरूपस्तर्कः प्रवर्तते । स ह्युपाधिकोटौ तदायत्तव्यभिचारकोटौ वाऽनिष्टमुपजनयन्विपरीतेच्छां विच्छिनत्ति । ततश्च निश्चिताविनाभावमनुमानं निष्कम्पमेवाग्निमत्त्वं निश्चाययति ।

तथा स्वर्गकामो यजेते त्यत्र लिङा प्रतीयमानाया भावनाया भाव्यापेक्षायां, किं भाव्यो धात्वर्थो भवतु, भवतु वा स्वर्ग, इति सन्देहे समानपदोपात्तत्वाद्धात्वर्थ एव भाव्य इति शङ्कया कुण्ठितशक्तिः शब्दो जोषमेवास्ते । यदि धात्वर्थो भाव्यः स्यात् तदा विधेरिष्टाभ्युपायत्वं शास्त्रस्य च तद्बोधकत्वं तत्प्रणेतुश्चाप्तत्वं प्रेक्षावतां प्रवृत्तिश्चेत्येतत्सर्वं न स्यादिति तर्केणापनीतायां शङ्कायां शब्दः स्वर्गमेव भाव्यतयाऽवधारयति ।

एवं नानाविधस्तर्कसाध्योऽनुग्रहः स्वयमेव बोद्धव्यः ।

६०सु०- सोऽयं प्रमारूपं वा प्रमाणं स्यालि-लङ्गदर्शनवदप्रमारूपं वेन्द्रियादिवत् । न तावदाद्यः । त(र्क)स्याहार्यरूपत्वात् । न तत्करणमपि प्रमाणम् । प्रमाफलत्वाभावात् । न द्वितीयः । आरोपितविषयत्वात् ।। विपर्ययप्रामाण्योपगतौ तु तेनास्य नियामकः सम्बन्धो नास्ति । असम्बद्धस्य गमकत्वे चातिप्रसङ्गः ।।

अनुमानत्वे चास्यापादकं लिङ्गमापाद्यं साध्यमिति वक्तव्यम् । न च तद्युक्तम् । आपादकस्याहार्यत्वेनान्यतरासिद्धत्वात् । आपाद्यस्य चानिष्टत्वेन बाधितत्वात् । न ह्यसिद्धं लिङ्गं भवति ।

नापि बाधितं साध्यम् । सति चाश्रयेऽनुमानं भवति । न (हि) च भूतले घटोऽस्ति यः साध्यसाधनयोराश्रयः स्यात् । व्यधिकरणता चापाद्यापादकयोर्बहुलमुपलभ्यते । आपाद्यस्य साध्यत्वेऽपसिद्धान्तश्च स्यात् । धूमसद्भावस्य स्वयमभ्युपगतत्वात् । तस्माद्विपर्ययपरतन्त्रत्वादप्रमाणमेव प्रमाणानामनुग्राहकस्तर्क इति कुतोऽस्यानुमानेऽन्तर्भाव इत्यत आह स्वन्यायैरिति ।

अनु०-स्वन्यायैः साधनं कार्यं परन्यायैस्तु दूषणम् । स्वन्यायैर्दूषणं च स्यात् साधितैः प्रतिवादिनः

न्यायशब्देन धर्मिलिङ्गव्याप्तिदृष्टान्ता उच्यन्ते । न केवलं परस्य, किन्तु स्वस्यापि ये सिद्धा न्यायास्ते स्वन्यायाः । साधनमिति दूषणस्याप्युपलक्षणम् । परस्यैव सिद्धा न्यायाः परन्यायाः । स्वस्यैव सिद्धा न्यायाः स्वन्यायाः । चशब्देन साधनं च प्रतिवादिनः प्रति ।

७१सु०- एतदुक्तं भवति । द्विविधं हि कार्यं कथकस्य, स्वपक्षसाधनं परपक्षदूषणं चेति । तत्र साधनं स्वपरसम्मतैरेव न्यायैः कार्यं नान्यतरमात्रसिद्धैः । यथा पर्वतोऽग्निमान् धूमवत्त्वाद्यो यो धूमवानसावग्निमान् यथा महानस इति । क्वचित्पुनः साधनं स्वमात्रसिद्धैरेव न्यायैः क्रियते । तत्र च परेणान्यतरासिद्ध्यादावुदाहृते तं प्रति तत्साधनं क्रियते । यथा शब्दोऽनित्यः कार्यत्वात् । कार्यश्चासावव्यञ्जकप्रयत्नानन्तरोपलब्धेरित्यादि । सर्वथा साधनमुभयसिद्धन्यायसाध्यम् ।

दूषणं तु द्विविधम् । इदमित्थं न भवतीति वाऽनिष्टोपदर्शनेन वा । तत्राद्यमुभयसिद्धन्यायैरेव कार्यम् । यथा शब्दो न द्रव्यं श्रोत्रग्राह्यत्वात् सामान्यवदिति । क्वचित्पुनः स्वमात्रसिद्धैर्न्यायैः साधनमिव दूषणमपि कृत्वा परं प्रति तत्साधनं क्रियते । यथा तत्रैव प्रयोगे कालेनानैकान्त्योद्भावने तस्य अतीन्द्रियत्वसाधनमित्यादि । सर्वथाऽऽद्यं दूषणमुभयसिद्धन्यायसम्पाद्यमेव । द्वितीयं तु परसिद्धैरेव न्यायैः कार्यम् । यथा यदि पर्वतो निरग्निकस्तदा निर्धूमः स्यादिति । अत्र ह्यापादकस्य परसिद्धत्वमेव भाव्यं न स्वसिद्धत्वम् । तदतिरिक्ताङ्गानां तु स्वसिदि्धः सती असती वा न विवक्षिता परसिदि्धरेवोपयुज्यते । तदेव च तर्क इति व्यवह्रियते । तेन तत्राश्रयासिद्ध्यन्यतरासिद्धी भूषणे एव न दूषणे ।

७२सु०- व्यधिकरणत्वं तु न क्वापि दूषणमित्युक्तम् । शक्यसम्पादनं च तर्केऽपि सामानाधिकरणत्वम् । अवश्यं चैतदेवम् । अन्यथा केवलान्वयिधर्मस्य केवलव्यतिरेकिण्यभावात् तस्याननुमानत्वापत्तेः । सामान्यलक्षणसद्भावात्, विशेषलक्षणाभावेऽपि न दोष इति चेत्समं प्रकृतेऽपि । व्याप्त्यपेक्षया गमकत्वस्य तर्केऽपि विद्यमानत्वात् । विद्यमान एवाश्रये विद्यमानस्यैवेत्यपि सामान्यलक्षणे निवेश्यत इति चेत् । तर्हि विपक्षाभावो वा सप(क्षे स)पक्षसद्भावोऽपि वा निवेश्यताम् । प्रयोजनाभावान्नेति चेन्न । प्रकृतेऽपि समत्वात् ।

तर्कनिरासः प्रयोजनमिति चेत् तत्रापि केवलव्यतिरेकिनिरासः प्रयोजनं भविष्यति । निर्निबन्धनोऽसाविति चेत् । समं प्रकृतेऽपि । साधनेऽप्यसिद्धस्यानुमानत्वं स्यादिति चेत् तर्हि विपक्षवतः सपक्षेऽसतोऽपि केवलान्वयित्वं स्यात् । तद्विशेषलक्षण एव निक्षेप्यमिति चेत् समानमत्रापि । अत एव स्वन्यायैः साधनमित्यादिना व्यवस्था दर्शितेति ।

७३सु०- मा भूदाश्रयासिद्ध्यन्यतरासिद्ध्योरत्र दूषणत्वम् । तथाऽपि बाधापसिद्धान्तसद्भावान्न तर्कस्यानुमानत्वमिति चेन्न । तयोरप्यसिदि्धवत् साधनदूषणविशेषयोरेव दूषणत्वेन प्रसङ्गानुमाने तदभावादिति पूर्ववत् परिहारः सिद्ध एव । तथापि, साधनेऽप्यवान्तरभेदकल्पनया तर्हि बाधादेरदूषणत्वं कल्प्यतामित्यतिप्रसङ्गनिरासाय परिहारान्तरमाह प्रसङ्गेति ।

अनु०-प्रसङ्गार्थतया प्रोक्ता न सिद्धान्तस्य दूषकाः

प्रसङ्गः आपादनं, तदर्थतया तद्विषयतया प्रसञ्जनीयतयेति यावत् । प्रोक्ताः निर्धूमत्वादयोऽर्थाः । न सिद्धान्तस्य दूषका इत्युपलक्षणम् । न बाधिता इत्यपि द्रष्टव्यम् ।

एतदुक्तं भवति । किमापाद्यतोपेतस्य निर्धूमत्वादेर्बाध्यत्वं तत्प्रोक्तौ चापसिद्धान्त उच्यते, उत केवलस्य । नाद्यः । यत आपादनं नामाङ्गीकर्तव्यताज्ञापनम् । न पुनः सद्भावप्रतिपादनम् । न च तत्प्रमाणादिविरुद्धम् । यदि विषं भक्षयिष्यसि तर्हि मरिष्यसीति यथा । द्वितीये तु स्यादेव बाधादि । न च तदत्रोच्यते । तथा सति (तर्हि) स्यादिति न स्यादिति ।

असिदि्धरप्येवमेव परिहर्तव्या । तथा हि । किं यद्यलङ्कृतस्य निरग्निकत्वादेरसिद्धत्वमुच्यते । किं वा केवलस्य । न प्रथमः । असिद्धेः । यदि निरग्निकः स्यादित्य(स्य हि य)पि यदि निरग्निकत्वेनाङ्गीक्रियेतेत्यर्थः । न चायमसिद्धः । तथा सति तर्कस्याप्यनुत्थानापत्तेः । अत एव भगवानाचार्यो यदि विद्येत इत्येतत् विद्यत इत्यङ्गीकारो भवेद्यदी ति व्याख्यातवान् । न द्वितीयः । तस्यात्रानुपादानात् । तथात्वे (हि) यदीति न स्यादिति ।

७४सु०- अस्मिन्परिहारे सति पूर्वोक्तव्यवस्थाश्रयणेऽपि न कश्चिदतिप्रसङ्गः ।

७५सु०- स्यादेतत् । द्विविधमेवानुमानं साधनं दूषणं च । तत्र तर्को न साधनमिति तावद्भवतामपि सम्मतम् । नापि दूषणम् । दुष्टिप्रमाजनकं हि दूषणं नाम । न च तर्कस्य तत्सम्भवति । परसिद्धेन हि न्यायेन परस्य तत्र दुष्टिर्ज्ञापनीया । न चासौ साधुः । तथात्वे हि परसिद्ध इत्येव न स्यात् । असाधुना च ज्ञाप्यमाना दुष्टिराभासभूतैवेति कथं तर्कोऽनुमानमित्यतः छलजात्योर्दुष्टत्वमूलव्युत्पादनेनैवैतत्समानयोगक्षेममित्याशयवांस्तत्स्वरूपं निरूपयति छलमिति ।

अनु०-छलं जातिरिति द्वेधा व्याहत्यन्तरमिष्यते

व्याहत्यन्तरं व्याहतिप्रभेदः । इष्यते प्रामाणिकैः । यद्वा व्याहतिविरोधः । अन्यदसङ्गतं चेति व्याहत्यन्तरम् । छलं असङ्गतं जातिविरोध इत्यर्थः ।

७६सु०- तत्र जातेर्लक्षणमाह जातिरिति ।

अनु०-जातिः स्वव्याहतिर्ज्ञेया

ज्ञेयेत्यनेनोत्तरत्वविशेषणे न कार्यम् । साधनेऽपि स्वव्याहतेः सम्भवात् । वृथा प्रभेदकल्पनस्याप्रामाणिकत्वात् । स्वव्याहतिश्च स्ववचनविरोधस्वक्रियाविरोधस्वन्यायविरोधभेदेन विविधेति । छल-लक्षणमाह छलमिति ।

अनु०- छलमर्थान्तरोत्तरम्

परोक्तस्यार्थान्तरं परिकल्प्य तस्यार्थान्तरस्योत्तरमित्यर्थः ।

७७सु०- अयं भावः । अस्ति तावत् सर्वव्याहतिलक्षणा जातिः, अर्थान्तरोत्तरलक्षणं छलं चेति द्विविधं निग्रहस्थानम् । न च तदङ्गीकारे षडेव निग्रहस्थानानीति नियमभङ्गः । जातेर्विरोधभेदत्वाच्छलस्यासङ्गतिप्रभेदत्वाद्द्वयोरपि वा विरोध एवान्तर्भावयितुं शक्यत्वात् । तत्र जातिं वा छलं वा प्रयुञ्जानो दुष्टमेतदिति कथं प्रतिपादनीय इति वाच्यम् । जातौ तावद्युक्ताङ्गहीनत्वादयुक्ताङ्गाधिकत्वादविषयवृतित्वा(द्वा )द्दुष्टमेतदिति । छले च मदविवक्षितदूषणेनासङ्गतत्वादित्येवमिति चेत् । तत्र जातिवादी नेदमयुक्ताङ्गमिति वा नेदमयुक्तमिति वा नायमविषय इति वा नेदमयुक्तमिति वा (प्रति)ब्रूयादेव । छलवादी च किं त्वद्विवक्षया, त्वद्वचनेन प्रतीतोऽर्थो मया दूषणीय इति । तौ दुष्टत्वं प्रतिबोधनीयौ ।

७८सु०- अथ मन्यसे । द्विविधं दुष्टत्वमूलं साधारणमसाधारणं च (चेति) । तत्रासाधारणं युक्ताङ्गत्यागादिकम् । साधारणं तु स्वव्याहतिः । तत्रासाधारणदूषणोपन्यासेऽपि पुनश्शङ्कमानः स्वव्याहत्या बोधनीयः । यदि व्याप्त्याद्यङ्गमनपे(क्ष्यैव)क्ष्य प्रसङ्गस्तदा जातिवाक्यार्थोऽपि तथा दूषयितुं शक्यत इत्यादि । यदि (च) वक्तुर्विवक्षामनपेक्ष्यैव शब्दप्रतीतत्वमात्रेण दूषणं तदा छलवाक्येऽपि तथा शक्यमिति । एवं तर्हि परसिद्धेनैव न्यायेन परश्छलजात्योर्दुष्टिं बोधनीयः । ततःपरं न शङ्क्यत एव । व्याघातावधित्वादाशङ्काया इत्युक्तं भवति । तथा च परन्यायस्तावदसाधुः । तेन बोध्यमाना दुष्टिराभासभूतैवेति छलादेर्वास्तवमदुष्टत्वं स्यात् । न स्यात् । न ह्यत्र परन्यायः प्रमाणत्वेनोपन्यस्यते किन्त्वसाधुरयं त्वदीयो न्यायो यतः स्वात्मानमपि व्याहन्तीत्यभिप्राय इति चेत्तुल्यमेतत्प्रकृतेऽपि । न ह्यत्रापि निरग्निकत्वं प्रमाणतयोपन्यस्यतेऽपि तु असाधुरयं त्वदीयो निरग्निकत्वाङ्गीकारो यतः प्रमाणविरुद्धं निर्धूमत्वमप्यङ्गीकारयतीत्यभिप्राय इति । जात्यादौ स्वविरु(द्धताप)द्धापत्तिस्तर्के तु प्रमाणविरुद्धापत्तिरिति वैलक्षण्यमात्रम् । अस्ति च स्वविरुद्धापत्तिरन्ततस्तर्केऽपि । यथोक्तम् । व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मत इति । तदेवं तर्कस्य दूषणानुमानेऽन्तर्भावाद्युक्तमुक्तमिति ।

७९सु०- तदनेन प्रबन्धेनोक्तार्थस्य प्रकृतोपयोगं दर्शयन्नपव्याख्यानस्य दूषणान्तरमाह एवमिति ।

अनु०-एवं संशोधितन्यायसदागमविरोधतः ।नानिर्वाच्यमिदं प्रोक्तं मायामात्रपदेन हि

संशोधितः आभासात्सम्यग्विवेचितः । न्यायोऽनुमानम् । निर्दोषत्वस्यागमपदेनैव लब्धत्वात् सच्छब्देन निरवकाशत्वमुच्यते । इह सूत्रे । प्रोक्तं सन्ध्यमिति शेषः । तत्र न्यायविरोधोऽनुपदमेव प्रदर्शयिष्यते । स्वप्नस्य सत्यतां प्रतिपादयन् सदागमस्तु भाष्यादावुदाहृतः प्रसिद्ध एवेति हिशब्देनाह । न केवलं प्रमाणाभावान्मायामात्रमितीयं न स्वप्नस्यानिर्वाच्यताप्रतिज्ञा किन्नाम प्रमाणविरोधादपीत्यर्थः ।

८०सु०- न केवलं प्रमाणव्याहता इयं प्रतिज्ञा अपि तर्हि स्वव्याहता अपि इत्याह विलक्षणमिति ।

अनु०-विलक्षणं सदसतोरिति हि व्याहतं स्वतः

अनिर्वाच्यमिति न वाच्यताविरहः परस्याभिमतः स्वक्रियाविरोधापत्तेः । किन्तु सदसद्वैलक्षण्यं सदसतोः सकाशाद्विलक्षणमिति प्रतिज्ञानं च स्वव्याहतम् । सन्न भवतीत्युक्तेऽसत्त्वमेव लब्धम् । पुनरसन्न भवतीत्यभिधाने कथं न स्वव्याहतिः । एवमसन्न भवतीत्यभिहिते सति सत्त्वमेवाभिहितम् ।

पुनः सन्न भवतीत्युक्तौ कुतो न स्वव्याहतिरिति हिशब्दार्थः । तृतीयप्रकाराङ्गीकारिणां न स्वव्याहतिरिति चेन्न । अस्यां प्रतिज्ञायां सिद्धायां तृतीयप्रकारसिदि्धः तत्सिद्धौ च प्रतिज्ञासिदि्धरिति परस्पराश्रयदोषात् । सदादिप्रका(र)रैः दुर्निरूपतामात्रं प्रतिज्ञायते न पुनरसदादिप्रकारो विधीयते, अतो न स्वव्याहतिरिति चेन्न । सदादिप्रकारप्रतिषेधोऽसदादिप्रकारविधिः इत्येतयोः अनर्थान्तरभावस्योक्तत्वात् । अन्यथैवं मम माता वन्ध्या इत्यादावपि स्वव्याहतिः समाहिता स्यात् ।

८१सु०- किञ्च सदसद्विलक्षणमित्यत्र सच्छब्देन किमबाध्यमभिधीयते उत ब्रह्मस्वरूपम् । वैलक्षण्यमपि तद्धर्मविपरीतधर्म(व)त्त्वं वा तत्प्रतियोगिकान्योन्याभावो वा तत्त्वानधिकरणत्वं वा । सर्वेष्वपि दूषणान्याह प्रतियोगित्वमपीति ।

अनु०-प्रतियोगित्वमप्यस्य ब्रह्मणोऽङ्गीकृतं भवेत्

अस्य स्वाप्नप्रपञ्चस्य । स्वाप्नप्रपञ्चं प्रतीति यावत् । अपिपदं दोषान्तरसमुच्चयार्थम् ।

अस्य निराकारतयाऽङ्गीकृतस्यापि ब्रह्मण इति वा । सदसद्विलक्षणं सन्ध्यमिति प्रतिजानतेति वाक्यशेषः ।

ततश्चायमर्थः । सच्छब्देनाबाध्यमङ्गीकृत्य वैलक्षण्यमपि तद्धर्मविपरीतधर्मत्वमङ्गीक्रियते चेत् तदा अबाध्यस्यापि धर्मवत्त्वमङ्गीकृतं स्यात् । अबाध्यं च न ब्रह्मणोऽन्यदस्तीति ब्रह्मैव सद्धर्मकमु(मित्यु)क्तं स्यात् । तथा चापसिद्धान्तः । एतेन सच्छब्दस्य ब्रह्मार्थो, वैलक्षण्यं च तद्धर्मविपर्यय इति पक्षोऽप्यपास्तः ।

अथाबाध्यं सत्, वैलक्षण्यं च तत्प्रतियोगिकोऽन्योन्याभाव इति मतम् । तदा ब्रह्मातिरिक्तस्याबाध्यस्याभावाद्ब्रह्मणः प्रपञ्चं प्रति प्रतियोगित्वलक्षणो धर्मः स्वीकृतो भवेत् । अनेन सच्छब्दो ब्रह्मार्थ इति (इत्यपि) प्रत्युक्तम् ।

अथ सच्छब्दोऽबाध्यार्थो, वैलक्षण्यं च तत्त्वानधिकरणत्वं तर्हि बाध्यमिति प्रतिज्ञार्थः स्यात् । कार्त्स्न्येनानभिव्यक्तत्वं च तदेवेति साध्यहेत्वोर्भेदो न भवेत् । अबाध्यस्य धर्मित्वं चाभ्युपेतं स्यात् । अन्यथा त्वप्रत्ययवैयर्थ्यात् । एतेन ब्रह्मपक्षोऽप्यपोढः ।

न च वाच्यं सकलमप्येतदयुक्तम् । यतोऽत्र मायामात्रत्वमेव प्रतिज्ञातं न तु सदसद्वैलक्षण्यमिति । मायामात्रपदस्य सदसद्वैलक्षण्यार्थतयैव परस्याभिमतत्वात् । तच्च किं स्वप्ने पारमार्थिक सृष्टिराहोस्विन्मायामयी ति संशयोपपादनेन सन्ध्ये तथारूपैव सृष्टिरि ति पूर्वपक्षोत्थापनेन न परमार्थगन्धोऽप्यस्ती ति सिद्धान्तोपक्रमेण चावगम्यते न ह्यसत्त्वं स्वीक्रियत इति ।

८२सु०- स्यादेतत् । ब्रह्मणः प्रतियोगित्वाद्यङ्गीकारेऽपि नापसिद्धान्तः । परमार्थतो हि ब्रह्म निर्धर्मकं ब्रूमः । प्रतियोगित्वादिकं चाङ्गीक्रियमाणं मिथ्यैव । न ह्यारोपितेन नीलिम्ना नभसो नीरूपत्वं व्याहन्यत इत्याशङ्क्याह मिथ्या चेदिति ।

अनु०-मिथ्या चेत्प्रतियोगित्वं वैलक्षण्यं ततो न हि

प्रतियोगित्वं इत्युपलक्षणम् । ब्रह्मणः प्रतियोगित्वादि यदि मिथ्या स्यात् तर्हि ततो ब्रह्मणः स्वाप्नप्रपञ्चस्य वैलक्षण्यं उक्तविधं न स्यात् । यस्य यदपेक्षया न प्रतियोगित्वं न ततः तस्य वैलक्षण्यमपि । यथा तत एव घटात् तस्यैव घटस्येति व्याप्तिसूचनार्थो हिशब्दः । मिथ्याशब्दोऽनिर्वचनीयवचनो नासद्वचन इति तु प्रागनिर्वचनीयसिद्धेर्दुर्वचनम् ।

८३सु०- ननु च वैलक्षण्यं न स्यादितीदमिष्टापादनम् । मया तस्यापि मिथ्यात्वाङ्गीकारादित्यत आह अविलक्षणत्वमिति ।

अनु०-अविलक्षणत्वं सत्यं स्यात् ५

यदि स्वाप्नप्रपञ्चस्य ब्रह्मवैलक्षण्यं मृषा स्यात् तदा तत् अविलक्षणत्वं सत्यं स्यात् । घटादौ तथा दर्शनात् ।

यद्यप्यत्र न परेण तथाऽस्त्विति वक्तुं (न) शक्यम् । अपसिद्धान्तापत्तेः स्फुटत्वात् । तथाऽप्यधिकं विवक्षुराह मिथ्यात्वमिति ।

अनु०-मिथ्यात्वं ब्रह्मणस्ततः ।अनिर्वाच्यस्य सत्त्वं वा

ततः ब्रह्मस्वप्नयोरवैलक्षण्यस्य सत्यत्वात् । अनिर्वाच्यस्य अनिर्वाच्यतयाऽङ्गीकृतस्य स्वप्नस्य । सत्त्वं भवेदित्यनुवर्तते । प्रसङ्गस्यानिष्टता(प्र)दर्शनाय स्वप्नस्येति वक्तव्येऽनिर्वाच्यस्येत्युक्तम् । एवं ब्रह्मणः सत्यस्येत्यपि ग्राह्यम् । ब्रह्मस्वप्नयोरवैलक्षण्यस्य सत्यत्वेऽपि कुतो मिथ्यात्वादिप्रसङ्ग इत्यतो वेदमुदितम् । उपलब्धं हि घटस्य घटान्तरेण सालक्षण्यसद्भावे पार्थिवत्वादिसाम्यम् ।

अत्र सामान्येन विशेषापादनान्नापाद्यापादकयोरभेदः शङ्कनीयः । भावत्वे द्रव्याद्यन्यतमत्वापत्तिरिति यथा । ब्रह्मप्रतियोगिकं स्वप्नस्य सालक्षण्यं सत्यं चेद्ब्रह्मणोऽपि मिथ्यात्वं स्यादित्यसङ्गतम् । व्यधिकरणत्वादिति न वाच्यम् । यत्प्रतियोगिकं यत्र सालक्षण्यं स तद्धर्मेति व्याप्तेः सुग्रहत्वात् । यस्तु मन्दमतिस्तं प्रति समानाधिकरणमप्यनिष्टं सुवचनमिति प्रसङ्गान्तरमभिहितम् ।

९०सु०- स्यादेतत् । ब्रह्मणः प्रतियोगित्वाभावेऽनुयोगित्वं स्यात् । तथा च स्वप्नस्य ततो वैलक्षण्यं न स्यात् । तदभावे च सालक्षण्यापत्त्या ब्रह्मस्वप्नयोर्मिथ्यात्वादि प्रसज्येतेत्युक्तमयुक्तम् । सधर्मके हि वस्तुन्येकस्य धर्मस्याभावेन तद्विरुद्धस्य धर्मस्य भावो भावेन चाभावो(न्यस्य भावो) वक्तुं शक्यते ।

यथा परिमाणवत्त्वाद्द्रव्यस्य महत्त्वाभावेऽणुत्वस्य अणुत्वभावे वा महत्त्वाभावस्यापादनम् । यथा (वा) वक्तुर्मन्दवचनाभावे तीव्रवचनम् । तद्भावे वा तदभावः शक्यापादनः । ब्रह्म तु सकलधर्मविकलमिति कथं तत्रापादनं प्रतियोगित्वादेरिवायोगित्वादेरप्यभावात् । न हि परिमाणरहिते गुणादौ वक्तृत्वशून्ये काष्ठे चोक्तप्रसङ्गावकाशोऽस्ति । तथा स्वप्नेऽपि नोक्तप्रसङ्गावकाशः । स्वयमसत्यस्य वैलक्षण्यवदवैलक्षण्यस्याप्यभावात् । न हि भ्रान्तसर्पविसर्पणादयः सत्या भवेयुरित्याशङ्क्य ब्रह्मणो निर्धर्मकत्वं दूषयति यदीत्यादिना ईशतज्ज्ञानेत्यतः प्राक्तनेन प्रकरणेन ।

अनु०-यदि धर्मा न केचन ।ब्रह्मणो नैव जिज्ञास्यं

यदि ब्रह्मणः केऽपि धर्मा न स्युस्तर्हि तत् जिज्ञास्यं नैव स्यात् । भवति हि (च) जिज्ञास्यम् । अथातो ब्रह्मजिज्ञासेति वचनात् । अतो न तन्निर्धर्मकमिति ।

९१सु०- निर्धर्मकत्वेऽपि ब्रह्मणः कुतो न जिज्ञास्यतेत्यत आह जिज्ञासेति ।

अनु०-जिज्ञासा धर्मनिर्णयः

विचारो हि जिज्ञासा नाम । स च धर्मस्य निर्णयो धर्मनिर्णयः । व्याप्यधर्मदर्शनमिति यावत् । शशविषाणवन्निर्धर्मके कथमसौ स्यात् । अङ्गीकारे च व्याघातः कथं न स्यात् ।

इतोऽपि न निर्धर्मकस्य जिज्ञास्यतेत्याह इदमित्थमिति ।

अनु०-इदमित्थमिति ज्ञानं जिज्ञासायाः प्रयोजनम्

न खल्वनुमानविचारापरपर्यायायाः जिज्ञासाया वस्तुस्वरूपमात्रज्ञानं प्रयोजनम् । तस्य प्रागेव सिद्धत्वात् । असिद्धौ वा(चा)ऽऽश्रयासिद्धस्यानुमानस्यानुत्थानात् । किन्नामेदमिति स्वरूपानुवादेनेत्थमिति व्यापकधर्मविशिष्टधर्मिज्ञानम् । धूमानुमानादौ तथा दर्शनात् । तथा च कथं निर्धर्मकस्य जिज्ञास्यतेति । एतेन स्वप्नेऽपि प्रसङ्गानवकाशो(ऽपि) निरस्तः । तथा सति मायामात्रमित्यनुमानासम्भवात् । आरोपिताभ्यां व्याप्यव्यापकाभ्यां तत्सम्भवं इति चेन्न । स्वरूपासिदि्धबाधप्रसङ्गादिति ।

९२सु०- यद्यपि न ब्रह्मनिष्ठेन केनचिद्धर्मेण तत्र धर्मान्तरं विधित्सितं तथाऽपि कस्यचिद्धर्मस्य निवृत्त्या धर्मान्तरस्य भ्रान्तिप्रसक्तस्यान्यत्र सतो निवृत्तिर्ज्ञाप्यते । यथोक्तम् । सिद्धं तु निवर्तकत्वादिति । एवञ्च निर्धर्मकस्य कथं जिज्ञास्यताऽनुपपत्तिरित्यत आह इत्थम्भावो हीति ।

अनु०-इत्थम्भावो हि धर्मोऽस्य न चेन्न प्रतियोगिता

अस्य ब्रह्मणः प्रतियोगिता विरोधिता । प्रपञ्चधर्मव्यावृत्तिमत्तेति यावत् । न खलु निराधारया कस्यचिद्धर्मस्य निवृत्त्या निराधारैव धर्मान्तरव्यावृत्तिरनुमातुं शक्या । एवंविधानुमानप्रवृत्तेरलौकिकत्वात् । अतो ब्रह्मनिष्ठयैव ब्रह्मनिष्ठेति वाच्यम् । यदि चास्य धर्मो न स्यान्न तर्हि व्यावृत्तिमत्ताऽपि स्यादिति । इत्थमिति ज्ञानं जिज्ञासाफलं चेद्ब्रह्मणीत्थम्भाव एव स्वीकार्यः स्यात् । तत् किं धर्मेणेति मन्दाशङ्कानिरासाय इत्थम्भावो हि धर्मोऽस्ये त्यनुवादेन परिहारोऽभिहितः । यद्वाऽस्तु व्यावृत्तिमत्ता ब्रह्मणः किं धर्मेणेत्यत इदमुक्तम् । न विधिरूप एव धर्मः किन्नामेत्थम्भावमात्रं प्रकृतमिति । तदनेन ब्रह्म न निर्धर्मकं जिज्ञास्यत्वात् पर्वतवदित्यनुमानं (च) सूचितं भवति ।

९३सु०- इतोऽपि न निर्धर्मकं ब्रह्मेत्याह इत्थम्भावात्मकानिति ।

अनु०-इत्थम्भावात्मकान्धर्मानाहुश्च श्रुतयोऽखिलाः

श्रुतयश्चेति सम्बन्धः । भव(न्तु स)न्ति सत्यकाम इत्याद्याः श्रुतयो धर्मवादिन्यो न त्वपहतपाप्मेत्याद्यास्तत्कथमखिला इत्युच्यत इत्यत उक्तं इत्थम्भावात्मकानिति । अखण्डनिष्ठता तु प्रागेव निराकृता निराकरिष्यते चेति । न केवलं श्रुत्यनुमानविरुद्धं ब्रह्मणो निर्धर्मकत्वं किन्तु सूत्रविरुद्धं चेत्याह अदृश्यत्वादयोऽपीति ।

अनु०-अदृश्यत्वादयोऽप्यस्य गुणा हि प्रभुणोदिताः

प्रभुणाऽपीति सम्बन्धः । अदृश्यत्वादिगुणको धर्मोक्तेरि त्यादिनेति शेषः । यद्वा न विधिरूप एव धर्मः किन्नामेत्थम्भावमात्रमित्यत्र प्रयोगमनेन प्रमाणयति । अत्र चापिशब्दो न भिन्नक्रमः । गुणशब्दश्च धर्मवचनो न पारिभाषिकवचनः । अदृश्यत्वादीनां तदभावात् ।

नन्वस्माभिर्भावरूपा एव धर्मा ब्रह्मणो नाङ्गीक्रियन्तेऽभावात्मकास्तु स्वीक्रियन्त एव । अतो न सूत्रविरोध इत्यत आह यदीति ।

अनु०-यदि स्युस्तादृशा धर्माः सार्वज्ञत्वादयो न किम्

तादृशा अभावात्मकाः । यथाऽदृश्यत्वाद्याः प्रमाणावगतास्तथा सर्वज्ञत्वादयो भावरूपा अपि यः सर्वज्ञ इत्यादिश्रुतिसिद्धा इति तेऽप्यङ्गीकार्याः । अथ तदङ्गीकारे नेह नानाऽस्तीत्यादिश्रुतिविरोध इत्युच्यते सोऽदृश्यत्वाद्यङ्गीकारेऽपि समानः । अतोऽर्धचर(जर)तीयस्य अप्रामाणिकत्वात् सर्वज्ञत्वादयोऽपि स्वीकार्याः । अदृश्यत्वादयोऽपि वा त्याज्या इति ।

९४सु०- स्यादेतत् । सर्वज्ञत्वादयः सर्वनिरूप्यत्वात् सर्वापेक्षाः । वियदादिकं च सर्वं भ्रान्तिसिद्धमसत्यमेव । असत्यसापेक्षास्तु कथं परमार्थतो ब्रह्मधर्मतया स्वीकर्तुं शक्यन्त इत्यत आह अन्येति ।

अनु०-अन्यापेक्षा यदि स्युष्टे

ते सर्वज्ञत्वादयोऽन्यापेक्षा इति यदि नाङ्गीक्रियन्ते तर्हि तेऽदृश्यत्वादयोऽपि न दृश्यमदृश्यमित्येवमन्यापेक्षाः स्युरिति नाङ्गीकार्या एव । तथा च सूत्रविरोधस्तदवस्थ एव । विषयतयाऽन्यापेक्षत्वं प्रतियोगितयाऽन्यापेक्षत्वमिति (तु) वैषम्यमात्रम् । स्युष्ट इति सुषामादिषु द्रष्टव्यम् ।

९५सु०- किञ्च परापेक्षतया सर्वज्ञत्वादिकं ब्रह्मणोऽनङ्गीकुर्वाणेन सत्ताऽपि नाङ्गीकरणीया । यतः सत्ताऽप्येवं परापेक्षेत्याह सत्तैवमिति ।

अनु०- सत्तैवं

नास्त्येव स्वरूपातिरिक्ता सत्तेति चेत् स्वरूपसत्ताऽपि न स्यात् । न हि मिथ्याभूतपरापेक्षं सत्यस्वरूपं भवितुमर्हतीति त्वदीयन्यायप्राप्तत्वात् । तथा च सदेव सोम्येत्यादिश्रुतिविरोधः ।

कथं सत्ता परापेक्षेत्यत आह देशेति ।

अनु०-देशाकालगा

यतस्तस्मात् सत्तैवमिति सम्बन्धः । ननु देशकालगा इति कोऽर्थः । देशकालसम्बद्धेति वा देशकालजन्येति वा । नाद्यः । तावता परापेक्षाऽसिद्धेः । न हि गगनं घटेन संयुक्तमित्येतावता तदपेक्षम् । न द्वितीयः । अनादिनित्यत्वादिति चेदेवं तर्हि सार्वज्ञादेरपि नान्यापे(क्षा)क्षता । न हि सर्वेण सह विषयविषयिभावमात्रेण सर्वापेक्षत्वं सौरप्रकाशस्यापि घटापेक्षताप्रसङ्गात् । न (हि स) च सर्वेण जन्यत्वम् । नित्यसिद्धत्वात् ।

९६सु०- ननूत्पत्तौ सार्वज्ञादेः सर्वासापेक्षताभावेऽपि ज्ञप्तौ साऽस्त्येव । विदित एव सर्वस्मिन् सार्वज्ञादि विज्ञायते नाविदित इति । एवं तर्हि सत्ताऽपि मा भूदुत्पत्तौ परापेक्षा । ज्ञप्तौ तु भवत्येवेत्याह देशेति ।

अनु०- देशकालानपेक्षा हि न सत्ता क्वापि दृश्यते

देशकालानपेक्षा देशकालप्रतीत्यनपेक्षा । देशकालप्रतीत्यपेक्षैव । दृश्यत इत्यन्वयोऽपि द्रष्टव्यः । यदि कश्चिद्वैयात्यात् क्वचिद्देशकालप्रतीत्यनपेक्षाऽपि सत्ता दृश्यत इति ब्रूयात् तदा व्याघातः स्यात् । देशकालव्यतिरेकेण (क्वचित्सत्ताश) किंशब्दार्थानिर्वचनात् । सत्ताप्रतीताववर्जनीयतया देशकालौ दृश्येते न तु तदपेक्षेति चेन्न । अभूद्भवति भविष्यतीत्यादिप्रतीतिमवधूय सत्ताया अप्रतिभासात् । नियतविशिष्टप्रतीतिकेऽ(तदन)नपेक्षायां न कुत्राप्यपेक्षा स्यात् । तदिदमुक्तं क्वापीति ।

९७सु०- न केवलं ब्रह्मणो निर्धर्मकत्वे मीमांसाविषयत्वानुपपत्तिः किन्नाम शास्त्रयोनित्वादित्युक्तं शास्त्रविषयत्वमप्यनुपपन्नं स्यादित्याह सर्वेति ।

अनु०-सर्वधर्मोज्खितस्यास्य किं शास्त्रेणाधिगम्यते

किमाक्षेपे । स्वरूपं तावत् स्वप्रकाशत्वान्न शास्त्रप्रतिपाद्यम् । संसर्गभेदयोरेव वाक्यार्थत्वाच्च । धर्मास्तु न सन्ति । येन संसर्गभेदौ शास्त्रविषयौ स्याताम् । तस्मादस्य ब्रह्मणः किं शास्त्रेणाधिगम्यते न स्वरूपं नापि धर्मसंसर्गादीति ।

९८सु०- इत्थम्भावात्मकानिति ब्रह्मणो निर्धर्मकत्वे श्रुतिविरोधोऽभिहितः । साम्प्रतं तु श्रुतीनां निर्विषयत्वापत्त्यादिकमिति महान् भेदः । ब्रह्मणि परमार्थतो धर्माभावेऽपि मिथ्याभूता धर्माः शास्त्रस्य विषया भविष्यन्तीत्यत आह मिथ्येति ।

अनु०-मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणता

चस्त्वर्थः । अप्रमाणतैवेति सम्बन्धः । वेदान्तानां(दानां) विषयाभावेन प्रसक्तमबोधकत्वलक्षणमप्रामाण्यं परिहर्तुमङ्गीकृतं मिथ्याधर्मप्रतिपादकत्वं विपरीतबोधकत्वलक्षणमप्रामाण्यमेवापादयति । इयांस्तु विशेषः । अबोधकानामुपेक्षणीयतैव केवलं विपरीबोधकानां तु हेयता स्यादिति ।

९९सु०- भवेदप्रमाणं वेदो यदि मिथ्याधर्मान् प्रतिपाद्यैवोपरमेत् । न चैवं किन्नाम नेह नानाऽस्तीत्यादिना (तु तत्प्रति) प्रतिषेधति चेत्यत आह आप्राप्तामिति ।

अनु०-आप्राप्तां भ्रान्तिमापाद्य किं वेदो मानतां व्रजेत्

आपाद्येत्यतःपरं निषेधं कुर्वन्निति शेषः । यः सर्वज्ञः सर्ववित् । य आत्माऽपहतपाप्मे त्यादिना वेदो यदि भ्रान्तिं ब्रह्मणि मिथ्याभूतसार्वज्ञ्यादिप्रतीतिमुत्पाद्य स्वयमेव नेह नानाऽस्तीत्यादिना तत्प्रतिषेधं कुर्यात् तदा मानतां व्रजेत् किम् । परस्परविरुद्धत्वेनोन्मत्तवचनवदप्रामाण्य(प्रमाण)मेव स्यात् ।

नन्वेतदनाकलितपराभिसन्धेरसदनुवादेनोक्तम् । न हि वयं वेदो धर्मान्विधाय स्वयमेव निषेधतीति ब्रूमः । किन्त्वनूद्य निषेधतीति । तथा च कथमप्रामाण्यापत्तिरित्यत उक्तं आप्राप्तामिति । अनुवादो ह्यन्यतः प्राप्तस्य भवति । न च ब्रह्मणि मिथ्याभूतधर्मप्रतीतिः केनचित्प्राप्ता । ततोऽनुवादासम्भवात् विधायैव प्रतिषेधतीति वक्तव्ये पूर्वोक्तो दोष इति ।

१००सु०- कथमप्राप्तिर्ब्रह्मधर्माणामित्यत आह न हीति ।

अनु०-न हि वेदं विना ब्रह्म वेद्यं धर्माश्च तद्गताः

वेदेन विना ब्रह्म न वेद्यमिति तावत्समर्थितं प्रथमाध्याये । तथा च कथं तद्गतत्वेन सार्वज्ञादयोऽन्यतो वेद्या भवेयुः । वेदविदितेऽपि ब्रह्मण्यनुमानेन सार्वज्ञादिप्रतीतिरिति चेन्न । तस्या विनाऽपि वैदिकेन प्रतिषेधेन प्रत्यनुमाने(नादि)नैवापास्तत्वात् । अन्यथाऽतिप्रसङ्गात् ।

१०१सु०- अथ मतम् । मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणतेति यदुक्तं तन्नानिष्टम् । द्विविधो (हि) वेदभागः । तत्त्वावेदकोऽतत्त्वावेदकश्च । तत्र जीवेश्वरयो(वब्रह्मणो)रैक्यं प्रतिपादयंस्तत्त्वावेदकोऽपरोऽतत्त्वावेदक इत्यस्माभिरङ्गीकृतत्वादित्यत आह वेदेति ।

अनु०-वेदवेद्यस्य मिथ्यात्वं यदि नैक्यस्य तत्कथम्

तत् तर्हि तन्मिथ्यात्वमिति वा । सत्यमेव त्वयाङ्गीकृतमिति । न च तदुपपद्यते(द्युज्यते) ।

सर्वोऽपि हि वेदोऽपौरुषेयः स्वतःप्रमा(णं च)णभूतश्च । तत्र चैकस्य भागस्याप्रामाण्ये परस्यापि तत्स्यात् तस्य प्रामाण्येऽस्यापि कथं तन्न स्यात् । तात्पर्यलिङ्गभावाभावाभ्यां व्यवस्थेति चासङ्गतम् । तथात्वे ह्यस्य भागस्यान्यत्र तात्पर्यं वाच्यं स्यात् ।

न च निषेधायानुवाद इत्युपपादितम् । अहिंसादिश्येनादिविधिवद्विद्वदविद्वद्विषयतया व्यवस्थाऽस्त्विति चेन्न । वैषम्यात् । न हि श्येनादिविधयोऽप्रमाणभूताः । तात्कालिकेष्टसाधनत्वस्य सत्त्वात् । आत्यन्तिकेष्टसाधनत्वस्य चानभिधानात् । अथैक्यं प्रतिपादयितुं बुदि्धशुद्धये सार्वज्ञाद्यविद्यमानमपि प्रतिपाद्यते । सर्वत्र प्रसृता हि बुदि्धः सगुणे ब्रह्मणि दत्तपदा क्रमेणैक्ये प्रविशतीति चेन्न । प्रतिकूलत्वात् । सार्वज्ञादिप्रतिपादनेन हि भेदवासनैव दृढनिरूढा स्यादित्येषा दिक् ।

१०२सु०- यदुक्तं ब्रह्मणि धर्माणामप्राप्तिरिति तन्न । प्रमाणतोऽप्राप्तावप्यारोपतस्तत्सम्भवात् । आत्मैव हि ब्रह्म स च स्वप्रकाशतयाऽवभासत एवेति तस्मिन् धर्मारोपो नानुपपन्नः । ततश्चारोपितधर्मानुवादेन प्रतिषेधो युज्यत इति चेत् । स्यादप्येवं यदि ब्रह्मणि धर्मारोपो युज्येत । न चैवम् । तस्य सर्वधर्मरहितत्वात् । प्रधानाभावाच्च । अथ धर्मरहितत्वादावपि कुतो नारोप इत्यतो व्यतिरेकव्याप्तिं दर्शयति धर्मेति ।

अनु०-धर्मारोपोऽपि सामान्यधर्मादीनां हि दर्शने

न केवलं प्रमाणतः प्राप्त्यभावः किन्तु धर्मारोपोऽपि नोपपद्यत इत्यपिशब्दः । सामान्यं चासौ धर्मश्च सामान्यधर्मः । आदिपदेन प्रधानदर्शनम् । दृष्ट इति शेषः ।

१०३सु०- एतदेव प्रपञ्चयति इदमिति ।

अनु०-इदं तदादिधर्मित्वे धर्मोऽन्यः कल्प्यतेऽत्र हि

इदं तदिति भावप्रधानो निर्देशः । आदिपदेन साधारणधर्मग्रहणम् । धर्मित्वे दृष्ट इति शेषः । प्रधानज्ञानमप्यत्र सङ्ग्राह्यम् । अत्र लोके । शुक्तिकायां रजतत्वधर्मारोपो हि न शुक्तिकावभासमात्रेण भवति । किन्नाम वस्तुतो रजतत्वधर्मवतः प्रधानस्य, अधिष्ठाने शुक्तिकाशकले पुरोवर्तित्वादेः, प्रधानसाधारण(धर्मस्य)स्य च शुक्लभास्वरत्वादेर्धर्मस्य दर्शन एव । तथा स्फटिके लौहित्यारोपोऽपि वस्तुतो लौहित्यवतो जपाकुसुमस्य, स्फटिके च(चे)दन्तादेः, प्रधानसन्निधानस्य च दर्शन एव दृष्ट इति ।

१०४सु०- सहदर्शनमात्रेण न व्याप्तिनिश्चय इत्यत आह सर्वेति ।

अनु०-सर्वधर्मविहीनस्य धर्मारोपः क्व दृश्यते

अत्रापि प्रधानदर्शनमुपलक्षणीयम् । क्व दृश्यते येनोक्तव्याप्तेर्व्यभिचारः स्यादिति शेषः । उपाधिव्यभिचारयोरदर्शने (सहचार)साहचर्यदर्शनं व्याप्तिनिश्चायकमेवेति भावः । अयं(मत्र) समुदायार्थः । धर्मारोपस्य प्रधानदर्शनादिकं व्यापकमुपलब्धम् । न च प्रकृते तदस्ति । सार्वज्ञादीनामपहतपाप्मत्वादीनामन्यत्रानभ्युपगमात् । ब्रह्मणि च प्रधानसाधारणधर्मादेरनङ्गीकारात् । अतो व्याप्यस्य धर्मारोपस्याभाव इति । नन्वत्र प्रधानादर्शनेन धर्मारोपासम्भवः शक्यानुमानः । सार्वज्ञादिकं न ब्रह्मण्यारोपितं प्रागन्यत्रानुपलब्धत्वादिति प्रयोगसम्भवात् । धर्माभावलिङ्गकमनुमानं तु कथम् । भवतामसिद्धत्वादिति । मैवम् । धर्मराहित्यवादिनैवमनुमायोपरन्तव्यमित्यभिप्रायात् ।

१०५सु०- ननु (च) धर्मारोपोऽधिष्ठानधर्माणां प्रधानस्य च प्रतीतावेवायतते न तु सत्तायाम् । इदन्त्वादिप्रतीतौ हीदं रजतमित्यादिरूपा प्रतीतिः स्यात् । साधारणधर्मप्रतीतिरेव च प्रधानं बुदि्ध(स्थं क)स्थीकरोति । प्रधानप्रतीतिरेव चान्वयव्यतिरेकाभ्यामारोपोपयोगिनी । सत्ताया उपयोगाङ्गीकारेऽतिप्रसङ्गः । उभयोपयोगे तु गौरवम् । अस्ति चाप्यत्राधिष्ठानधर्मादिप्रतीतिरारोपरूपा । न हीदं पूर्वोऽयं ब्रह्मणि धर्मारोपः । तथा च पूर्वारोपितधर्मप्रतीत्यधीनोऽयमुत्तरारोपो भविष्यति । पूर्वमेव चोत्तरस्य प्रधानमिति किमनुपपन्नमित्यत आह तदर्थमिति ।

अनु०-तदर्थं यदि धर्माणामारोपः साऽनवस्थितिः

यदि ब्रह्म(णो)णि धर्मारोपसिद्ध्यर्थमन्यो धर्माणामारोपः कल्प्यते । तदा सोऽपि धर्मारोपो धर्मारोपान्तरायत्त इत्येवं प्रसक्तानवस्थितिः स्यात् । सिद्धविषयत्वान्नेयमनवस्था दूषणमिति चेन्न । धर्मसद्भावतत्प्रतीत्योः पूर्वसिद्धत्वेऽप्यारोपत्वकल्पनायामनवस्थाऽनिवारणात् । अस्या धर्मप्रतीतेरारोपत्वं पूर्वप्रतीतेरारोपत्वकल्पनाधीनं तस्या अपि तथेति । तदेवं ब्रह्मणि धर्मारोपासम्भवात् स्वतो निर्धर्मकत्वे वेदाप्रामाण्यादिप्रसङ्गान्न निर्धर्मकं ब्रह्मेति सिद्धम् ।

१०६सु०- यदुक्तं सार्वज्ञादेर्मिथ्यात्वसिद्धये विश्वस्य भ्रान्तिकल्पितत्वं तद्दूषयितुमीशतज्ज्ञानेत्यादिको ग्रन्थः । तथा हि । विश्वस्य भ्रान्तिसिद्धत्वं वदता तत्र प्रमाणं वक्तव्यम् । तत्किं प्रत्यक्षं स्यादनुमानं वाऽऽगमो वा । न तावत्प्रत्यक्षम् । तस्य सत्य(तत्सत्य)त्वग्राहित्वस्य वक्ष्यमाणत्वात् ।

१०७सु०- नाप्यनुमानम् । शून्यसमयनिरासे (न) निरस्तत्वात् । अधिकं च दूषणं वक्तुमाह ईशेति ।

अनु०-ईशतज्ज्ञानवेदाक्षजानुमामातृपूर्विणः ।भ्रान्तिर्विश्वस्य येनैव मानाभासेन कल्प्यते ।तन्मात्रस्यान्यथाभावे किन्न स्याद्विश्वसत्यता

यद्यप्यत्र भ्रान्तिर्विश्वस्ये त्यादिनैवालम् । तथाऽपि ये विश्वं प्रमाणप्रमेयप्रमातृप्रमितिभेदेन चतुर्विधमाचक्षते तन्निराकरणप्रस्तावनाय प्रमाणप्रमेयप्रमातृभेदेन त्रिविधमेव विश्वमिति प्रतिज्ञातुमीशे त्याद्युक्तम् । तात्रेशमातृपदाभ्यां परापरप्रमात्रोर्ग्रहणम् । यद्यपि मातृपदेनैवेश्वरोऽपि लभ्यते । तथाऽपि तस्य नियतं प्रमातृत्वमन्येषां तु विपर्ययादिसम्भवादनियतमित्यादिविशेषद्योतनाय पृथग्ग्रहणम् । वेदाक्षजानुमापदैः करणफलरूपप्रमाणस्वीकारः । वेदपदमागमो(मात्रो)पलक्षणम् । अक्षजत्वं ज्ञानसन्निकर्षयोरस्त्येव । ईश्वरादि(र)ज्ञानं न वेदादिपदैः सङ्गृह्यते । अकरणत्वादफलत्वाच्च । भवति च प्रमाणमित्यतस्तज्ज्ञानेति पृथगुक्तम् । नित्यज्ञानमात्रोपलक्षणं चैतत् । पूर्वशब्देन कर्मधारयं विधाय तत इनिप्रत्ययः । प्रत्ययार्थस्तु प्रमेयम् । तथा च प्रमातृप्रमाणप्रमेयरूपस्येत्यर्थः । यद्वेशमातृशब्दाभ्यां तद्वाक्यं गृह्यते । वेदशब्दश्चापौरुषेयवाक्यवचन एव । पूर्वशब्दः (क)कारणार्थः । प्रमाध्याहारेण तत्सम्बन्धः । ततश्चेशवाक्येशादिज्ञानवेदाक्षजानुमानानि ईश्वरप्रमातृवाक्यरूपप्रमाणवतः सर्वप्रमाणसिद्धस्येत्युक्तं भवति । भ्रान्तिः भ्रान्तिकल्पितत्वम् । येनेत्यतो लब्धमेकत्वमेवेत्यवधार्यते मानाभासेनेति । स्वभावतो दुर्बलेनानुमानेनेत्यर्थः । अन्यथाभावे अप्रामाण्ये । किमाक्षेपे ।

एतदुक्तं भवति । विश्वं तावत् स्वभावतो बहुत्वेन च प्रबलैरीशवाक्यादिभिः सर्वैः प्रमाणैः सत्यतयाऽवगतम् । तेषां असत्यमप्रतिष्ठं त इत्यादीनामन्यत्र दर्शितत्वात् । विवादपदं मिथ्या, दृश्यत्वाज्जडत्वात्परिच्छिन्नत्वाच्छुक्तिरजतवत्, अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी पटत्वात्पटान्तरवदित्यादिकं विश्वमिथ्यात्वानुमानं तु स्वभावैकत्वाभ्यां दुर्बलम् । तथा च प्रबलप्रमाणविरुद्धस्यानुमानस्याप्रामाण्योपपत्तेर्विश्वस्य सत्यत्वमेव युक्तमिति ।

१०८सु०- नाप्यागमः । स हि गौडपादादिपुरुषप्रणीतो वा वेदादिर्वा । आद्यं दूषयति येनेति ।

अनु०-येनेदं कल्प्यते भ्रान्तं भ्रान्तिस्तस्यैव किन्न सा

येन गौडपादादिना इदं प्रागुक्तमीशादिकं विश्वं, भ्रान्तं भ्रान्तिसिद्धं कल्प्यते, कल्पयित्वा च तथा वाक्यं प्रणीयते । तस्यैव सा कल्पना भ्रान्तिरयथार्था किन्न भवेत् ।

एतदुक्तंभवति । ईशवाक्यादिप्रमाणैस्तावदीशादिविश्वं सत्यतयाऽवगतम् । तद्विरुद्धा च गौडपादादीनां विश्वमिथ्यात्वप्रतीतिर्भ्रान्तिरेवेति ।

ततः किमित्यत आह भ्रान्तत्व इति ।

अनु०-भ्रान्तत्वे तस्य विश्वारेरीशाद्यभ्रान्तमेव हि

विश्वारेर्विश्वमिथ्यात्वं प्रतिपादयतस्तस्य गौडपादादेः भ्रान्तत्वे सिद्धे तन्मूलस्य तद्वाक्यस्याप्रामाण्यात् तेन विश्वमिथ्यात्वासिद्धावीशवाक्यादिभिः प्रमाणैः ईशादिविश्वमभ्रान्तं सत्यमेव सिद्धमिति । नन्वीश्वरवाक्यविरोधाद्गौडपादादीनां भ्रान्तत्वं कुतः कल्पनीयम् । गौडपादादिवाक्यविरोधादीश्वरादीनां विश्वसत्यत्वप्रतीतिरेव भ्रान्तिः कुतो न कल्पनीयेत्यत आह भवेयुरिति ।

अनु०-भवेयुर्भ्रान्तयो नॄणां नैवेशादेः कथञ्चन

बाह्या(भ्य)न्तरकारणसामग्रीसत्त्वादिति शेषः । कथञ्चनेन्द्रियदोषादेर्बाह्यकारणस्य अधर्मादेः अज्ञानादेरान्तरकारणस्याप्यत्यन्तमसम्भवादित्यर्थः । ईशादयो विप्रलम्भका इति चेन्न । कल्पकाभावादिति ।

१०९सु०- अस्तु तर्हि नेह नानाऽस्तीत्यादिरद्वैतपरो वेदादिरागमः सर्वस्यापि मिथ्यात्वे प्रमाणमिति चेन्न । तस्य विश्वसत्यत्वग्राहकप्रत्यक्षबाधितत्वेनातदर्थत्वात् ।

अथ मतम् । प्रत्यक्षं खलु तात्कालिकं प्रमाणं न पुनरात्यन्तिकम् । वेदस्तु न तथा । स्वतः प्रमाणं च । अतो बलवता वेदेन बाधितत्वात् प्रत्यक्षप्राप्तमपि विश्वसत्यत्वं भ्रान्तिसिद्धमित्येवाङ्गीकर्तुमुचितमित्यत आह सत्यत्वमिति ।

अनु०-सत्यत्वमक्षजप्राप्तं यदि भ्रान्तमितीष्यते

सत्यत्वं विश्वस्येति शेषः । आगमबलमाश्रित्य । तन्नेति वाक्यशेषः । कुतो नेत्यत आह प्रामाण्यमिति ।

अनु०-प्रामाण्यमागमस्यापि प्रत्यक्षादन्यतः कुतः

कुतः सिद्धम् । न कुतोऽपि । न केवलं प्रत्यक्षस्य किन्त्वागमस्यापि प्रामाण्यं प्रत्यक्षेणैव सिद्धं न त्वन्येनेत्यर्थः । तत्कथमित्यत आह साक्षीति ।

अनु०-साक्षिप्रत्यक्षतो ह्येव मानानां मानतेयते

आद्यादिभ्य उपसङ्ख्यानात्तृतीयार्थे तसिः । मानानां सर्वेषां ईयते श प्रतीयते । हि शब्दः सर्वप्रमाणप्रामाण्यस्य साक्षिसिद्धत्वोपपादकप्रमाणसूचनार्थः । तद्विवृणोति साक्षिण इति ।

अनु०-साक्षिणः स्वप्रकाशत्वमनवस्था ततो न हि

प्रमाणानां प्रामाण्यं हि न सत्तामात्रेण निश्शङ्कव्यवहारहेतुः । अपि तु प्रमितमेव । न च बाह्यप्रत्यक्षादिकमेव प्रामाण्यप्रमितिसाधनम् । तत्प्रामाण्यप्रमितेरप्युक्तन्यायेनावश्यकत्वात् । न च तत्प्रामाण्यं स्वग्राह्यम् । अचैतन्यज्ञानस्य स्वप्रकाशत्वाभावात् । प्रत्यक्षाद्यन्तरान्वेषणे चानवस्था स्यात् । साक्षिवेद्यत्वे तु सर्वप्रमाणप्रामाण्यस्य न कश्चिद्दोषः । साक्षी हि चैतन्यरूपतया स्वप्रकाशः । प्रामाण्यं च ज्ञानग्राहकग्राह्यमिति स्वप्रामाण्यं स्वयमेव गृह्णातीति नानवस्थाऽऽपद्यते । अतः साक्षिवेद्यमेव सर्वप्रमाणप्रामाण्यमङ्गीकार्यमिति ।

११०सु०- अस्त्वेवं साक्षिप्रत्यक्षवेद्यं प्रत्यक्षागमप्रामाण्यम् । तथाऽप्युक्तरीत्या प्रबलेनागमेन विरोधे दुर्बलस्य प्रत्यक्षस्य कुतो न बाध इति चेत् । इत्थम् । स्यादयं प्रत्यक्षागमयोर्बाध्यबाधकभावः, यदि व्युत्पादिते दौर्बल्यप्राबल्ये युक्ते स्याताम् । न चोभयप्रामाण्यस्य साक्षिवेद्यत्वे ते युज्येते इत्याशयवान् प्रत्यक्षस्य तात्कालिकं प्रामाण्यमागमस्यात्यन्तिकमिति विभागं तावदपाकरोति तात्कालिकमिति ।

अनु०-तात्कालिकं प्रमाणत्वमक्षजस्य यदा भवेत् । ऐक्यागमस्य किन्न स्यात्

यदि साक्षिगृहीतमपि विश्वसत्यत्वग्राहिणोऽक्षजस्य प्रामाण्यं तात्कालिकमेव भवेत् तर्ह्यैक्यागमस्यापि प्रामाण्यं साक्षिगृहीतत्वाविशेषात् तात्कालिकं स्यादेवेति न विभागः सिद्ध्यति ।

१११सु०- नन्वैक्यागमप्रामाण्यमपि तात्कालिकमेव । किन्तु प्रत्यक्षमाभासीकृत्य निवर्तते । यथोक्तम् । वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम् । एवं गुणव्यत्ययजो वेदः शाम्यति तद्यथे तीत्यत आह तस्यापीति ।

अनु०-तस्याप्येतादृशं यदि

ऐक्यागमस्यापि प्रामाण्यं यदि तात्कालिकं स्वीक्रियेत तदा विश्वस्य सत्यतैव स्यात् ।

अनु०-ऐक्यप्रमाणमिथ्यात्वं य(त)दा विश्वस्य सत्यता

ननूक्तमत्र प्रत्यक्षमाभासीकृत्य पश्चादैक्यागमप्रामाण्यं निवर्तत इति भवति तात्कालिकम्, न च विश्व(स्य )सत्यत्वापत्तिरित्यतः तस्याप्येतादृशं यदी त्येतत् ऐक्यप्रमाणमिथ्यात्वं यदे ति व्याख्यातम् । ऐक्यागमप्रामाण्यस्य बाध्यत्वं यदेत्यर्थः ।। न केवलं प्रामाण्यमात्रस्य बाध्यत्वम् । किन्तु धर्मिणो वाक्यस्यापीति ज्ञापनायैवमुक्तम् ।

एतदुक्तं भवति । स्यादिदं यदि प्रामाण्यस्य तात्कालिकत्वं नामानित्यत्वमिह विवक्षितं स्यात् । न चैवम् । क्षणमात्रवर्तिनोऽपि प्रामाण्यस्य विषयसत्यत्वाव्यभिचारित्वेनानित्यताया दौर्बल्यहेतुत्वासम्भवात् । किन्तु बाध्यत्वमेव । तच्चेदैक्यागमप्रामाण्यस्याभ्युपगतं तदा कथं विश्वस्य सत्यता न स्यादिति ।

११२सु०- ननु साक्षिणो विषयाव्यभिचारित्वात् तद्गृहीतमैक्यागमप्रामाण्यमबाध्यमेवेत्याशङ्क्याह ऐक्यवाक्यस्येति ।

अनु०-ऐक्यवाक्यस्य मानत्वं यद्यबाध्यमितीष्यते ।अक्षजस्यापि मानत्वं नाबाध्यं किमितीष्यते

साक्षिगृहीतत्वाविशोषादिति भावः । साक्षिगृहीतत्वाविशेषात् विश्वसत्यताग्राहकप्रत्यक्षप्रामाण्यस्य बाध्यतायामैक्यागमप्रामाण्यमपि बाध्यं स्यात् । तदबाध्यत्वे वा प्रत्यक्षप्रामाण्यमप्यबाध्यमेवैष्टव्यमिति समुदायार्थः ।

११३सु०- नन्वद्वैतब्रह्मावस्थानं मोक्षः । स च प्रत्यक्षप्रामाण्यस्याबाध्यत्वे व्याहन्येत । प्रपञ्चसत्यत्वेन सद्द्वैततापत्तेः । अतः साक्षिवेद्यत्वाविशेषेऽप्यनेन विशेषेण प्रत्यक्षप्रामाण्यं साक्षिणा तात्कालिकमेव गृह्यत इति कल्प्यत इत्यत आह औतेति ।

अनु०-औतहानिसामान्यात्

एवं तर्ह्यैक्यवाक्यप्रामाण्यमपि तथाविधमेव (मन्तव्यम्) । तदबाध्यत्वेऽप्यद्वैतहानिसामान्येनोक्तलक्षणमोक्षासिद्धेः । न हि वाक्यं वा तत्प्रामाण्यं वा तदर्थो भेदाभावो वा ब्रह्मेति ।

प्रत्यक्षप्रामाण्यस्याबाध्यत्वे बहुप्रपञ्चापत्तिः । आगमप्रामाण्याबाध्यतायां तु नैवमिति चेन्न । अस्य विशेषस्य व्यर्थत्वादित्याशयवानाह नेति ।

अनु०- न विशेषश्च कश्चन

११४सु०- यदप्यद्वैतागमस्य प्राबल्योपपादनाय स्वतःप्रामाण्यमुक्तं तत्राह यदीति ।

अनु०-यदि स्वतस्त्वं प्रामाण्ये विश्वसत्ता कथं न ते

स्वतस्त्वधर्मस्य प्रामाण्यं धर्मि, अधिकरणतया विवक्षितमिति सप्तम्युपपत्तिः । यद्यागमप्रामाण्यस्य स्वतस्त्वमुच्यते तदा प्रत्यक्षप्रामाण्यमपि स्वत एवेति ब्रूमः । सम्यङ्मिथ्याज्ञानसाधारणकारणमात्रजन्यत्वं वा सम्यङ्मिथ्याज्ञानसाधारणज्ञापकमात्रज्ञेयत्वं वा प्रामाण्यस्य स्वतस्त्वम् । तदागमजन्यज्ञानवत् प्रत्यक्षजन्यस्याप्यविशिष्टमेव । तथा चागमप्रामाण्यस्य स्वतस्त्वमङ्गीकुर्वतो यथा तद्विषयसत्यता सम्मता तथा स्वतःप्रमाणप्रत्यक्षविषयविश्वसत्ता(त्यता)ऽपि कथं न ते सम्मतेति ।

११५सु०- स्यादेतत् । प्रत्यक्षागमयोः स्वतःप्रामाण्येऽप्यस्ति विशेषः । यत्प्रत्यक्षं तात्कालिकमेव ज्ञानस्य प्रामाण्यं जनयति वाक्यं त्वात्यन्तिकम् । तथा ज्ञानग्राहकः साक्षी प्रत्यक्षज्ञानस्य तात्कालिकमेव प्रामाण्यं गृह्णाति वाक्यजन्यज्ञानस्य त्वात्यन्तिकमिति । मैवम् । अस्यां व्यवस्थायां नियामकाभावस्योक्तत्वात् । दोषान्तरं चाह प्रामाण्यस्य चेति ।

अनु०- प्रामाण्यस्य च मर्यादा कालतो व्याहता भवेत्

कालतो मर्यादा व्यवच्छेदः । तात्कालिकत्वमिति यावत् । कथं व्याहतिरित्यत आह कालान्तरेऽपीति ।

अनु०-कालान्तरेऽप्यमानं चेदिदानीं मानता कुतः

अमानं बाधितमानत्वं(नं) चेत् प्रत्यक्षम् । तात्कालिकशब्देन हीदानीमस्ति कालान्तरे तु बाध्य(त्व)मिति परस्याभिमतम् । तत्र यदि च प्रत्यक्षं कालान्तरेऽपि बाधितप्रामाण्यं स्यात् तर्हीदानीं तस्य मानताऽस्तीति कुतः स्यात् । कालत्रयसत्तानिषेधरूपत्वात् बाधस्य यदि च प्रत्यक्षप्रामाण्यमिदानीं सत् स्यात् कथं कालान्तरेऽपि तर्हि बाध्येतेति व्याहतमेव तात्कालिकत्ववचनम् । अप्रमाणमेव भवतु तर्हि प्रत्यक्षमिति चेत् । सत्यम् । भवति भवतोऽयं

मनोरथः । तत्सिदि्धरेवेदानीमपि क(पो)फोणिगुडायते ।

११६सु०- अद्वितीयब्रह्मावस्थानलक्षणं मोक्षमभ्युपेत्य प्रत्यक्षप्रामाण्याबाध्यतावदागमप्रामाण्याबाध्यतायामपि तद्धानिः समानेत्युक्तम् । इदानीं तु स एवानुपपन्न इत्याशयवान् पृच्छति मिथ्यात्वमानमिति ।

अनु०-मिथ्यात्वमानं मोक्षेऽपि मानं किन्नेति भण्यताम्

विश्वमिथ्यात्वप्रतिपादकमानमागमोऽनुमानं वा मोक्षेऽपि मानमिति मोक्षसमयेऽप्यबाधितस्वरूपप्रामाण्यमित्यर्थः । नेति बाधितस्वरूपप्रामाण्यमित्यर्थः । किं शब्दः पूर्वेण परेण च सम्बध्यते । यद्वा काक्वैव मानमित्ययं प्रश्नो ज्ञातव्यः । इति पृष्टस्योत्तरं, भण्यताम् ।

आद्ये दोषमाह मानत्व इति ।

अनु०-मानत्वेऽद्वैतहानिः स्यात्

अबाधितस्वरूपप्रामाण्यपक्षे तैनैव सद्द्वितीयत्वादद्वैतहानिः स्यादित्युक्तलक्षणो मोक्षो न सिद्ध्येत् । द्वितीये दूषणमाह अमानत्वेऽपीति ।

अनु०-अमानत्वेऽप्यमोक्षता ।

अमोक्षता विवक्षितावस्थाया इति शेषः । विश्वमिथ्यात्वमानस्य तत्प्रामाण्यस्य च बाध्यत्वपक्षेऽपि मोक्षो न सिद्ध्यति । कथमित्यत आह विश्वस्येति ।

अनु०-विश्वस्य पुनरापत्तिर्मिथ्यामानं यदा न मा

विश्वमिथ्यात्वमानं यदा न मा बाधितस्वरूपप्रामाण्यं स्यात् तदा विश्वस्य पुनरापत्तिः स्यात् । नास्तित्वप्रमाणबाधस्यास्तित्वाव्यभिचारात् । विश्वसद्भावे च कथमुक्तलक्षणो मोक्षः स्यादिति । आदौ तावत्प्रत्यक्षेण विश्वं प्राप्तम् । तदागमादिनाऽऽपाततोऽपनीतम् । आगमादेश्च बाधे पुनस्तदापतितमिति प्रतीत्यपेक्षया पुनःशब्दः । विश्वं तद्बाधकं चोभयमपि बाधितमिति चेन्न । उत्तरत्र दूषणात् ।

११७सु०- किञ्च मुक्तिः सती वाऽसती वा । पक्षद्वयेऽपि नोक्तलक्षणा मुक्तिः सिद्ध्यति । कथमिति । आद्यं प्रत्याह अस्ति चेदिति ।

अनु०-अस्ति चेन्मुक्तयवस्था च द्वैतापत्तिः

आत्मस्वरूपमेव मुक्तिः । यथोक्तम् । आत्मैवाज्ञानहानिरि ति । अविद्यास्तमयो मोक्ष इति च । तत्कथं द्वैतापत्तिरित्यतो मुक्तयवस्थेत्युक्तम् । अवस्थैवैषाऽऽत्मनो न त्वात्मैव । तथात्वे हि प्रागेव सिद्धत्वात् । प्रयत्नवैयर्थ्यम् । न चात्मा ज्ञानस्य साध्योऽनादित्वात् । अविद्याध्वंसविशिष्टो न प्राक्सिद्धो ज्ञानसाध्यश्चेति चेत् तत्किं स एव मुक्तिः । अद्धेति चेत् । तर्हि विशिष्टस्य सत्त्वाभावेन सती मुक्तिरित्ययुक्तं स्यात् । किञ्च मुक्तिर्नाम धर्मः । स कथमात्मैव स्यादिति ।

११८सु०- द्वितीयं प्रत्याचष्टे अतोऽन्यथेति ।

अनु०- अतोऽन्यथा ।। ४४४अमुक्तत्वं

सत्त्वपक्षात् पक्षान्तरे । यदि मुक्तिरसती स्यात् तदाऽऽत्मनोऽमुक्तत्वं स्यात् । विषाणासत्त्वे शशो ह्यविषाणी दृष्टः । तथा च कुत उक्तलक्षणत्वम् ।

अथ मतम् । न मुक्तिः सती नाप्यसती किन्त्वनिर्वचनीयेति । तदाऽप्यमुक्ततैव (तदप्ययुक्तमेव) । संसारेऽप्यनिर्वचनीयेनैव हि द्वितीयेन सद्द्वितीयत्वम् । तदुत्तरमपि तच्चेत्स्यात्कथममुक्तत्वं न भवेत् ।

एतेन पञ्चमप्रकारताऽपि निरस्ता । अनिर्वचनीयताऽपरिहारात् । न हि चतुर्थप्रकारतावस्थितिरनिर्वचनीयत्वम् । तथा सति निर्वचनीयतापत्तेः । अनिर्वचनीयाविद्यानिवृत्तिः कथमनिर्वचनीया स्यादिति चेत् । घटप्रध्वंसो यथा तथेति जानीथाः । तदेतत्सङ्ग्रहाय अतोऽन्यथेत्युक्तम् । अन्यथाऽसती चेदित्यवक्ष्यत् ।

११९सु०- एवमेव मुक्तेरद्वितीयब्रह्मावस्थानरूपतानिरासाय कालेऽपि विकल्प्य दोषोऽभिधातव्य इत्याह तथा काल इति ।

अनु०-तथा काले

ननु च मोक्षदशायां कालोऽस्ति न वेति विकल्प्य अस्ति चेद् द्वैतापत्तिरि ति दूषणं

चास्तु । अतोऽन्यथाऽमुक्तत्वमि ति कथमतिदेश इत्यत आह कालाधीना हीति ।

अनु०-कालाधीना हि मुक्तता

कालाधीना नियमेन कालाधिकरणा । यद्वस्तु तत्कालसम्बन्ध्येवेति व्याप्तेरिति हिशब्दार्थः ।

न केवलमनुमानसिद्धो मुक्तेः कालाधिकरणतानियमः किन्तु तदा विद्वान् , दृष्ट्वैव तं मुच्यत इत्यागमसिद्धोऽपीत्याह काल एवेति ।

अनु०-काल एवागमोऽप्याह मुक्तिं

१२०सु०- किं ततो यद्येवमधिकरणेन कालेन व्याप्ता मुक्तिरित्यत आह कालेति ।

अनु०- कालनिवर्तने ।मुक्तेरपि निवृत्तिः स्यात्

कालासत्त्वे मुक्तेरप्यसत्त्वं स्यात् । व्यापकनिवृत्तौ व्याप्यनिवृत्तेरावश्यकत्वात् । तथा चातिदेशो युक्त इति । एतदुक्तं भवति । यदि मोक्षः कालसम्बन्धी न स्यात् तदा शशृङ्गादिवदसत्त्वापत्तिः इति । ननु च न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थते ति मुक्तेरसत्त्वस्येष्टत्वान्नेयमनिष्टापत्तिरित्यत आह संसारित्वमिति ।

अनु०-संसारित्वमतो भवेत् ।

१२१सु०- चैतन्यस्य सतो बन्धाभावलक्षणे मोक्षेऽसति देवदत्तवन्मुक्ताभिमतस्यापि संसारित्वं भवेत् । बन्ध(स्य )मिथ्यात्वात् संसारो मुक्तिश्च न स्त एवेति चेन्नानङ्गीकृतत्वमेवानिष्टत्वं किन्त्वप्रामाणिकत्वादिकम् । न च बन्धमिथ्यात्वं प्रामाणिकमित्युक्तं प्राक् । तदेवमागमादितः प्रत्यक्षस्य दौर्बल्यं निराकुर्वता तन्मिषेण प्राबल्यं च व्युत्पादितम् । साक्षिप्रत्यक्षस्यागमादिप्रामाण्यग्राहकत्वेनोपजीव्यतायास्तदितरस्य साक्षिनिश्चितप्रमाण(प्रामाण्य)तायाश्च सूचितत्वात् । ततस्तद्विरुद्धस्यागमादेरेवाप्रामाण्यं युक्तमिति ।

न केवलमुपजीव्यत्वादिगुणेनान्यतः प्रबलं प्रत्यक्षम् । किन्तु स्वभावतोऽपीत्याशयवानाह क्व चेति ।

अनु०- क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितम्

प्रत्यक्षतः प्राप्तमिति साक्षात्कारसिद्धम् । अनुमानागमशब्दौ लिङ्गवचनवचनौ । प्रामाण्यनिर्णयस्येदानीं क्रियमाणत्वात् । दृष्टमिति शेषः । यदि हि प्रत्यक्षप्राप्तं क्वचिदनुमानागमाभ्यां बाधितमुपलब्धवन्तः (स्मस्)तदा प्रतीमोऽनुमानादितः प्रत्यक्षस्य दौर्बल्यम् । न च तथा । ईश्वरे दोषग्राहिप्रत्यक्षमागमादिबाधितं दृष्टमिति चेत् । सत्यम् । तत्रागमादेरुपजीव्यतया बाधकत्वमिति वक्ष्यामः । प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतमि त्यस्य वैदिकार्थविषयत्वादत्र च पृथिव्यादिप्रपञ्चस्य प्रस्तुतत्वान्न विरोधः ।

१२२सु०- दृष्टं च दहनशैत्यानुमानस्य, मम कर्णे प्रविश्य गजो गर्जतीत्यादिवाक्यस्य च प्रत्यक्षबाधितत्वम् । तत्रापि प्रत्यक्षमुपजीव्यत्वाद्बाधकं न तु स्वभावेनेति चेत् । न । धर्मिव्यापकव्याप्यव्याप्तिग्राहकत्वाभावाद्दहनौष्ण्यादिग्राहिणः प्रत्यक्षस्य अनौष्ण्यमुष्णताऽभावः । स च प्रतियोगिज्ञानाधीनज्ञानः प्रतियोगिभूतं चौष्ण्यं तेजस्येव प्रत्यक्षेण प्रत्येतव्यमिति तस्योपजीव्यत्वमिति चेन्न । उक्तोत्तरत्वात् । अनुष्णतासाधने हीदमुपपा(दितम्)दनम् । केनचिद्धेतुना शैत्यसाधने त्वस्यानवकाशः । यदा च समस्तस्यापि तेजसोऽनौष्ण्यं साध्यते तदा भवत्विदं व्युत्पादनम् । अग्निमात्रपक्षीकारे तु नेदमुपयुज्यते । सौरादौ तेजस्युष्णतां स्पर्शनेनोपलभ्य चक्षुषोपलब्धेऽग्नावनौष्ण्यसाधनस्य तु स्वभावप्रबलेनैव प्रत्यक्षेण बाध इत्येषा दिक् ।

१२३सु०- देहस्यात्मत्वं प्रत्यक्षप्राप्तमपि देहो नात्मा भूतत्वात्कार्यत्वाद्घटवदित्यानुमानेन तं स्वाच्छरीरात्प्रवृहेदि त्यागमेन च बाधितं दृष्टम् । अन्यथा बाधकान्तराभावाद्देहात्मत्वस्य वास्तवतापातात् । तत्कथमेतदित्यत आह देहात्मत्वमिति ।

अनु०-देहात्मत्वं यदि

देहात्मत्वं प्रत्यक्षतः प्राप्तमनुमानागमबाधितं दृष्टमिति यदि ब्रूयात् तदा तन्नेति ब्रूम इत्यर्थः । न तदिति पूर्वेणोत्तरेण च सम्बध्यते । कुतो नेत्यत आह न तदिति ।

अनु०-न तत्प्राप्तं प्रत्यक्षतः क्वचित्

देहात्मत्वं प्रत्यक्षप्राप्तमेव न भवति । अतः प्रत्यक्षप्राप्तस्यानुमानादिना बाध इत्यत्र नेदमुदाहरणम् । अयमभिसन्धिः । नास्त्येव देहात्मत्वप्रतीतिः, याऽनुमानादिना बाध्यते, येषां चास्ति नास्तिकादीनां तेषामपि नेन्द्रियजा, किन्त्वनुमानागमाभासजन्यैवेति ।

मा भूत्पण्डितरूपाणां देहात्मत्वप्रतीतिः, पामराणां त्वस्त्येव; सैवास्माकमुदाहरणं भविष्यतीत्यतः क्वचिदित्युक्तम् ।

१२४सु०- तदुपपादयति ममेति ।

अनु०-मम देह इति ह्येव न देहोऽहमिति प्रमा

सर्वस्यापि जन्तोर्मम देह इत्येव हि प्रमा प्रतीतिर्न तु कस्यापि देहोऽहमिति । यद्वा यस्मात् सर्वेषां मम देह इत्येव प्रमा सम्यक्प्रतीतिः स(र्व)दानुवर्तते तस्माद्देहोऽहमिति प्रतीतिर्नावकाशमासादयतीति । देहात्मत्वप्रतीत्यभावेऽपि देहधर्माणां कार्ष्ण्यादीनामात्मनिष्ठत्वप्रतीतिस्तावदस्त्येव कृष्णोऽहमित्यादिव्यवहारसन्दर्शनात् । सा च लिङ्गाद्यनपेक्षैव जायमाना प्रत्यक्षजन्यैव । बाध्यते चानुमानादिनेति सैवोदाहरणं भविष्यतीत्यत आह उपचारश्चेति ।

अनु०-उपचारश्च कृष्णोऽहमिति

कृष्णोऽहमिति च प्रतीतिर्नास्तीत्यनुवर्तते । कथं तर्हि व्यवहारः । कृष्णोऽहमिति व्यवहारस्तूपचार एवेति योजना । अथ यो व्यवहारबलेन तथाविधां प्रतीतिमप्यनुमिनोति । तस्यानैकान्तिकत्वं स्यादित्याशयवानुक्तार्थे दृष्टान्तमाह कर्दमेति ।

अनु०- कर्दमलेपने वस्त्रस्य यद्वदेवं स्यात्

यथा वस्त्रस्य कर्दमलेपने सति कृष्णं वस्त्रमित्युपचारव्यवहारो भवत्येवं प्रकृतेऽपि

स्यात् । अयमभिसन्धिः । यो हि वस्त्रस्य शौक्ल्यं कर्दमलेपनं च सम्यगवगच्छति न तस्य वस्त्रे कार्ष्ण्यप्रतीतिरस्ति । व्यवहरति च कृष्णं वस्त्रमिति । अतः कृष्णोऽहमिति व्यवहारात् तथाविधज्ञानानुमानं तत्र व्यभिचरति । उपचारव्यवहारोऽसाविति चेत् । प्रकृतेऽपि तथा किन्न स्यादिति ।

१२५सु०- ननु कृष्णं वस्त्रमिति नोपचारः । स्वतः शुक्लेऽपि वस्त्रे कर्दमोपाधिककार्ष्ण्यसद्भावेन प्रतीतिसम्भवादिति चेन्न । किमिदमौपाधिकं नाम । साधनाभिमते व्याप्तिरिव कर्दमसन्निधानादारोप्यमाणमिति चेन्न । आरोपासम्भवस्योक्तत्वात् । जपाकुसुमसन्निधानात् स्फटिके लौहित्यमिव प्रतिफलतीति चेन्न । वस्त्रस्यास्वच्छत्वात् । घृतादिना कुंकुमगन्धादि(वत्कर्द)रिव कर्दमेनाभिव्यक्तमिति चेन्न । प्राग्वस्त्रे कार्ष्ण्यसद्भावे मानाभावात् ।

अथाग्निसंयोगात् पार्थिवद्रव्ये रूपादिकमिव कर्दमोपाधिना कृतमिति मतम् । तत्र पृच्छामः । किं कर्दमः शौक्ल्यं निवर्त्य कार्ष्ण्यं वस्त्रे करोति, उतानिवर्त्यैव । नाद्यः । कर्दमापगमे शौक्ल्यानुपलब्धिप्रसङ्गात् । न च पुनः शौक्ल्यमुत्पन्नम् । कारणाभावात् । न द्वितीयः । युगपद्रूपद्वयाधिष्ठानविरोधात् । औपाधिकस्यापि सत्यत्वेन स्वाभाविकाविशेषात् ।

१२६सु०- भवतु वा वस्त्रे कथञ्चित्कार्ष्ण्यमौपाधिकं किं तदुपन्यासेनाभ्यर्थ्यते । न चोक्तव्यभिचारपरिहारः । एकोदाहरणनिराकरणेऽपि मञ्चाः क्रोशन्तीत्यादेरनेकस्य व्यभिचारोदाहरणस्य सम्भवात् । अथ वस्त्रे कर्दमेनेवात्मनि देहोपाधिना कृतं कार्ष्ण्यमस्तीति प्रतीतिसम्भावना विवक्षिता तत्राह यदीति ।

अनु०- यद्युपाधिकृतं तदा ।

यदि वस्त्र इवात्मनि देहोपाधिकृतं कार्ष्ण्यमस्तीति तत्प्रतीतिः सम्भाव्यते तदा प्रत्यक्षप्रतीतस्यानुमानादिना बाध इत्यत्र नेदमुदाहरणमिति शेषः । कथमित्यत आह स्वत इति ।

अनु०-स्वतः शुक्लत्ववत्कार्ष्ण्यं न ममेति प्रतीयते ।

अत्र दृष्टान्ते दार्ष्टान्तिके चैकदेशोत्कर्तनेनान्यदप्युपलक्ष्यते । तथा चायमर्थः । वस्त्रे खलु कार्ष्ण्यं कर्दमोपाधिकृतं (औपाधिकं) प्रतीयमानमेवं प्रत्येतव्यम् । स्वतः शुक्लमेवेदं वस्त्रं न कृष्णम् । कार्ष्ण्यं तूपाधिकृतमिति । तथाऽत्रापि स्वतो नीरूप एवाहम् । कार्ष्ण्यं तु न मम स्वभावः । किन्तु देहोपाधिकृतमिति प्रतीयत इत्यङ्गीकर्तव्यम् । तथा चास्याः प्रतीतेर्यथार्थत्वान्नानुमानादिना(तो) बाध इति ।

१२७सु०- यदुक्तं देहात्मताप्रतीतिर्नास्ति देहोऽहमिति प्रतीत्यननुभवादिति । तदसत् । अहमिति प्रतीतेरेव तत्प्रतीतित्वात् । इदमनिदंरूपवस्तुगर्भो ह्यहङ्कारः ।

यच्चोक्तं मम देह इति भेदप्रती(तेर)त्यनुवृत्तेर्देहात्मत्वप्रतिभासोऽनुपपन्न इति । तदयुक्तम् । भेदप्रतीत्यसम्प्रतिपत्तेः । मम देह इति व्यवहारस्य मम स्वरूपमितिवदौपचारिकत्वोपपत्तेः । न खलु केवले देहे आत्मत्वप्रतीतिः । किं तर्हि देहेन्द्रियान्तःकरणादिसङ्घाते । तत्र सङ्घातापेक्षया देहमात्रे सम्बन्धप्रतीतिरपि न बाधिका । प्रासादस्य स्तम्भो, वृक्षस्य शाखेति यथा । न च, देहेन्द्रियादेरात्मनश्च भेदावभासे स्फुटं प्रमाणमस्ति । येन देहाद्यात्मप्रतीतिर्विरुध्येत ।

यदप्युक्तं कृष्णोऽहमित्यादिरूपदेहादिधर्माणामात्मनिष्ठताप्रतीतिर्नास्ति प्रमाणाभावादिति । तन्न । कृष्णोऽहमिति व्यवहारदर्शनात् । ज्ञानमूलता खलु व्यवहारस्योत्सर्गतः सिद्धा । तदनुपपत्तौ तूपचारत्वकल्पना । न च, नाहं कृष्ण इत्यादिरूपा प्रतीतिरस्ति । यद्भयादुपचारत्वं कल्पयामः । अतो भेदादिप्रतीत्यभावादस्त्येवोभयी प्रतीतिः । यथाऽऽह । अन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्ये ति ।

१२८सु०- प्रत्यक्षजा चेयं प्रतीतिरिति कथं प्रत्यक्षसिद्धस्य नानुमानादिना बाध इत्यत आह कथं चेति ।

अनु०-कथं च भेदो देहादेरात्मनो न प्रतीयते

भेदशब्देनासंसर्गोऽपि गृह्यते । देहादिशब्देन सङ्घातस्तद्धर्माश्च । यदा देहादेरिति पञ्चमी तदा आत्मन इति षष्ठी । यदा चात्मन इति पञ्चमी तदा देहादेरिति षष्ठी । अन्योन्यारोपस्य परेणोक्तत्वात् । देहादिसङ्घातस्यात्मनश्चान्योन्यं भेदः तद्धर्माणां च परस्परमसंसर्गः प्रतीयत एवेत्यर्थः । तत्कथमित्यत आह जातमात्रा इति ।

अनु०-जातमात्रा मृगा गावो हस्तिनः पक्षिणो खषाः ।।४४४ भयाभयस्वभोगादौ कारणानि विजानते

जाता एव न तु व्यापारान्तरं कृतवन्तः । भुज्यत इति भोगः सुखम् । आदिपदेन दुःखम् । सिंहव्याघ्रादीनि भयकारणानि, मात्रादीन्यभयकारणानि, स्तनपानादीनि सुखकारणानि, शंक्वादिना नयनान्तःकण्डूयनादीनि दुःखकारणानीति विजानते । अत एव सिंहादिध्वनिमात्रेण पलायन्ते, मात्रादीनि चोपसर्पन्ति, स्तनपानाद्यर्थं प्रवर्तन्ते, वर्जयन्ति शंकुकण्डूयनादीनि ।

१२९सु०- ततः किमित्यत आह अस्मृताविति ।

अनु०-अस्मृतौ पूर्वदेहस्य विज्ञानं तत्कथं भवेत्

तद्विज्ञानं भयादिकारणमेतदिति विज्ञातम् । पूर्वदेहास्मरणे तद्विज्ञानं (कुतो) कथं न भवेदित्यत आह अन्वयेति ।

अनु०-अन्वयव्यतिरेकादेरनुसन्धानविस्मृतौ

आदिपदेन दृष्टान्तधर्मिणोर्ग्रहणम् । यद्वा आदिग्रहणेनोपदेशो गृह्यते । अन्वयव्यतिरेकादेर्विस्मृताविति सम्बन्धः । न केवलमेतावत् । किन्तु तथा चायमित्यनुसन्धानस्य च विस्मृतौ सत्यां विज्ञानं तत्कथं भवेदिति सम्बन्धः ।

एतदुक्तं भवति । अस्ति तावन्मृगादीनां स्तनपानादौ प्रवृत्तिः शङ्कुकण्डूयनादितो निवृत्तिश्च । ततोऽनुमीयते विद्येते तत्र तेषां रागद्वेषाविति । रागद्वेषयोरेव प्रवृत्तिकारणत्वेन अस्मदादौ निर्णीतत्वात् । रागद्वेषाभ्यां चेष्टानिष्टसाधनत्वज्ञानम् । तस्यैव रागादिकारणतया निश्चितत्वात् । न च तज्ज्ञानं प्रत्यक्षसाध्यम् । कार्यकारणभावस्यातीन्द्रियत्वात् । किन्त्वनुमानोपदेशसाध्यमेव । न च मृगादीनामुपदेशः सम्भवति । अनधिकारात् । तस्मात्प्राग्भवीयोपदेश इति वाच्यम् । न चास्मृतोऽसौ तत्कारणमिति तत्स्मृतिसद्भावोऽङ्गीकार्यः ।

यद्वाऽनुमानम् । न च तत्, यद्यत् स्तनपानं तदिष्टसाधनं, यदिष्टसाधनं न भवति तत् स्तनपानं न भवति, यथाऽमुकम्, स्तनपानं चेदमित्यन्वयादिस्मरणेन विना भवति । न चाननुभूते स्मृतिरुत्पद्यते । न च अस्मिञ्जन्मन्यन्वयाद्यनुभवोऽस्ति । जातमात्राणामुदाहृतत्वात् । अतो जन्मान्तरानुभूतान्वयादिस्मरणमेष्टव्यम् ।

प्राग्भवीयस्योपदेशस्यान्वयादेश्च स्मरणे पूर्वदेहस्मरणमप्यङ्गीकर्तव्यम् । समानयोगक्षेमत्वात् । न चेद्देहान्तरस्मरणं मृगादीनां तदा तदविशिष्टान्वयादिस्मरणमपि न स्यात् । तदभावे चानुमानाद्यभावेनेष्टानिष्टकारणताज्ञानं नोत्पद्येत । तदनुत्पादे च रागाद्यनुत्पादात् प्रवृत्त्याद्यनुत्प(द्यत)द्यते । कारणाभावे कार्याभावस्य सुलभत्वात् । अदृष्टवशात् प्रवृत्त्यादीति चेन्न । दृष्टातिक्रमदोषात् ।

एतावांस्त्वदृष्टस्योपयोगो यज्जन्मान्तरानुभूतं सर्वमस्मरन्नेतावत्स्मरति । यादृच्छिकं प्रवृत्त्यादि भवत्विति चेन्न । अनन्तानां तदनुपपत्तेः । अत एव मृगा इत्यादिबहुवचनम् । अस्तु जातिस्वभावोऽयम् । न । भिन्नजातीयानामप्युपलम्भात् । अत एव मृगा गाव इत्याद्युक्तम् । दृष्टातिक्रमदोषश्चापरिहार्यः ।

तस्मादस्ति मृगादीनां पूर्वदेहस्मरणम् । तथैव मानुषादीनामपीति सिद्धमिति ।

१३०सु०- तथाऽपि किं प्रकृत इत्यत आह यदेति ।

अनु०-यदा देहान्तरज्ञानं देहैक्यावसितिः कुतः ।

यदैवमेतद्देहवर्तिनो मम न केवलमयमेव देहः किन्तु तत्प्रागन्योऽप्यभूदिति देहान्तरस्मरणं प्रमितम्(णमापतितम्) । तदैतद्देहेन स्वस्यैक्या(ध्य)वसायः कुतः स्यात् । किं तु अनेकमणिष्वनुस्यूतं सूत्रमिवानेकदेहानुस्यूतमात्मानं पश्यतः स्वस्य ततोऽत्यन्तभेदावसितिरेव युक्ता । तथा च कार्ष्ण्यादीनामसंसर्गज्ञानमपि सुस्थमेव । परेण देहाद्यारोपनिबन्धनत्वाभ्युपगमात् तदारोपस्य । अहंप्रत्ययस्तु नारोप इति प्रागेवोक्तम् । अतो मम देह इति प्रत्ययो नान्यथयितव्यः कृष्णोऽहमित्यादिश्चोपचारोऽङ्गीकरणीय इति ।

१३१सु०- स्यादेतत् । न मुख्यार्थानुपपत्तिमात्रादुपचारो लभ्यते । किन्तु सादृश्ये सम्बन्धे वा प्रयोजने च सति । न चात्र सादृश्यादिकमस्ति । तत्कथमयमुपचारः । किञ्च मृगादीनां पामराणां मनुष्याणां च यदि देहात्मभेदज्ञानं स्यात् तर्हि नैषां ममाहमिति धीः श्वसृगालभक्ष्य इत्यादयः पुराणादिव्यवहाराः कथं सङ्गच्छन्ते । कथं च देहात्मविवेकार्थानामुपदेशानामानर्थक्यं न स्यात् । देहानुकूलप्रतिकूलार्थयो रागद्वेषौ च देहात्मभेदज्ञाने सति न स्याताम् । ततश्च संसारानुपपत्तिरित्यत आह व्याप्तत्वादिति ।

अनु०-व्याप्तत्वादात्मनो देहे व्यवहारेष्वपाटवात् । भेदज्ञानेऽपि चाङ्गारवह्निवत्स्वाविविक्तवत् । भवन्ति व्यवहाराश्च

भेदज्ञानेऽपि चेति चशब्दो व्यवहारेष्वपाटवाच्चेति सम्बध्यते । अङ्गारवह्निवदिति । अङ्गारव्याप्तवह्नाविवेत्यर्थः । स्वाविविक्तवत् स्वाभिन्ने स्वसंसृष्टे च यथा तथेत्यर्थः । व्यवहाराश्चेति चशब्दोऽनुक्तसमुच्चयार्थः । आत्मनो (देहे) व्याप्तत्वात् स्वाविविक्तवद्व्यवहारा भवन्ति इत्यनेनैकदेशत्वलक्षणं सादृश्यं सम्बन्धोऽप्यभिहितः । भेदज्ञानेऽप्यभिन्नवद्व्यवहारे किं प्रयोजनमित्यस्योत्तरं भेदज्ञानेऽपि लोकानां व्यवहारेष्वपाटवात् स्वाविविक्तवद्व्यवहारा भवन्तीति ।

न प्रयोजनमुद्दिश्य लोकास्तथा व्यवहरन्ति । किन्तु विविक्तव्यवहारेषु पाटवाभावादेवेति । अपाटवे हेतुर्व्याप्तत्वादात्मनो देह इति । रूढत्वाच्चैतेषां व्यवहाराणां न प्रयोजनापेक्षेत्याशयेन उक्तम् अङ्गारवह्निवदिति । भेदज्ञानेऽप्यात्मनो देहव्याप्तत्वादङ्गारवह्निवल-लोकानां व्यवहारेषु अपाटवादत्यन्तविविक्तवेदनेष्वसामर्थ्यात् पुराणादिव्यवहाराश्च स्वाविविक्तवद्भवन्ति । विशदविवेकाभावविवक्षयैव ते व्यवहारा इत्याशयः । अत एव विवेकार्थानामुपदेशानां च सार्थक्यमुपपद्यते । विशदो हि विवेकः पुरुषार्थाय कल्पते न त्वौत्पत्तिकः । आत्मनो देहे व्याप्तत्वादत्यन्तं प्रेमास्पदत्वात् रागादयो युज्यन्त एवेति ।

१३२सु०- ननु ज्ञानमेव व्यवहारकारणं तच्चेदस्ति कथं तर्हि व्यवहारेष्वपाटवमित्यत आह न हीति ।

अनु०-न हि प्रत्यक्षगानपि । अर्थान्यथाऽनुभवतः प्रतिपादयितुं क्षमाः । लोकाः

यथानुभवतः अनुभवानुसारेण प्रतिपादयितुं व्यवहर्तुम् । यमलयोरत्यन्तविवेकं पश्यन्तोऽपि मात्रादयः कथमेतौ विविक्ताववगन्तव्याविति पृष्टा एवमिति स्वप्रत्यक्षानुभवानुसारेण न परान् प्रतिपादयितुं क्षमन्त इत्याद्यनुभवसिद्धम् । का नामात्र कथन्ता । अथ तत्रात्यन्तसादृश्यं प्रतिबन्धकं तर्ह्यत्राप्यङ्गारवह्निवदात्मनो देहे व्याप्तत्वं प्रतिबन्धकमुक्तमेव । शुक्तिरजतादिप्रत्यक्षाणामनुमानादिना बाधो नास्तीत्यन्यत्रोपपादितमित्याशयवान् क्व च प्रत्यक्षतः प्राप्तम् इत्यादिनोक्तमुपसंहरति ततो हीति ।

अनु०-ततो हि प्रत्यक्षसिद्धं नान्येन केनचित् । शक्यं वारयितुं क्वापि

क्वचित्प्रतीतेरेवाभावात् क्वचित्प्रतीतिसद्भावेऽपि प्रत्यक्षजत्वाभावात् क्वचित्प्रत्यक्षप्रतीतिभावेऽपि यथार्थत्वात् क्वचिदयथार्थत्वेऽपि प्रबलप्रत्यक्षेणैव बाधादित्यर्थः । अत एव क्वापीत्युक्तम् । अन्येनेति । अनुपजीव्येनागमादिनेत्यर्थः । तदेवं स्वभावतः प्रबलेन प्रत्यक्षेण विरुद्धावनुमानागमावाभासावेवेति ।

१३२असु०- भवत्वागमादितः प्रत्यक्षं प्रबलं मा वा भूत् । तद्विरोधस्त्वागमादेर्नास्ति । भिन्नविषयत्वात् । तथा हि । आगमादिकं खल्वागामिनं विश्वस्य बाधं प्रतिपादयति न तु अधुनातनम् । स एव च मिथ्यादिपदेन वेदनीयः । तस्य च प्रत्यक्षविरोधस्तदा स्यात् । यद्यागामिनमपि विश्वस्य बाधं प्रत्यक्षं प्रतिक्षिपेत् । न चैवम् । तस्य वर्तमानमात्रग्राहित्वेन आगामिबाधाभावग्रहणे सामर्थ्याभावात् । यथोक्तम् । सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना इति । इदानीन्तनबाधाभावग्रहणेऽपि न विरोधः । न च भिन्नविषययोर्विरोधोऽस्ति । तथा सतीदानीन्तनघटाभावग्राहिणा प्रत्यक्षेण भविष्यति घट इत्यागमादेर्विरोधः स्यादिति ।

उच्यते । अस्ति तावत् प्रत्यक्षं वर्तमानकालीनं बाधाभावमावेदयतीति परस्यापि सम्प्रतिपत्तिः । आगमश्च नेह नानाऽस्तीत्यादिरूपो वर्तमानमेव विश्वस्य बाधं प्रतिपादयतीति कथं न प्रत्यक्षविरुद्धः । अस्तु वाऽऽगामिबाधबोधकत्वमागमादेस्तथाऽपि बाधो नाम त्रैकालिकसत्तानिषेधः । स च वर्तमानकालीनसत्ताग्राहिणा प्रत्यक्षेण विरुद्ध्यत एवेति तत्प्रतिपादकस्यागमादेः कथं न प्रत्यक्षविरोधः ।

एतेनास्मत्प्रत्यक्षमस्मन्निष्ठमेव बाधं प्रतिक्षेप्तुं क्षमते न पुरुषान्तरगतमिति निरस्तम् । घटादिसत्तानिषेधरूपस्य बाधस्य तत्सत्ताग्राहिणा प्रत्यक्षेण विरोधावश्यम्भावात् ।

१३३सु०- तदेवं प्रत्यक्षस्य वर्तमानमात्रग्राहित्वेऽप्यागमादेस्तद्विरोधो दुष्परिहर एव । तथाऽपि प्रसक्तौ वस्तुस्थितिर्वक्तव्येत्याशयवान् प्रत्यक्षस्य वर्तमानमात्रग्राहितानियममपाकर्तुम् उत्तरं प्रकरणमारभमाणः साक्षिप्रत्यक्षस्य तावत् तन्नियममपाकरोति तच्चेदिति ।

अनु०-तच्चेन्नोत्तरगोचरम् । कथमेवोत्तरः कालस्तद्गो मोक्षश्च गम्यते ।

गम्यत इति वक्ष्यमाणेन सम्बन्धः । तदिति प्रत्यक्षविशेषसाक्षिणमेवाधिकुरुते भगवान् भाष्यकारः । चेच्छब्दश्रवणात् तर्हीत्यध्याहार्यम् । नोत्तरगोचरमिति । वर्तमानमात्रगोचरमित्यर्थः । प्रमाणान्तराणां प्रागेव दूषितत्वादित्येवार्थः । उत्तर इत्यतीतस्याप्युपलक्षणम् । येषां चाखण्ड एव कालस्तैरप्युपाधिभेदोऽङ्गीकर्तव्य एव । अन्यथा सर्वाख्यातप्रत्ययानामैकार्थ्यप्रसङ्गात् । अतः स्वाभाविको वौपाधिको वाऽस्त्युत्तरः कालः । माऽवगाम्युत्तरः काल इदानीम् । किन्नश्छिन्नमित्यत आह तद्ग इति । कथमेवेत्यनुवर्तते । उत्तरकालानवगताविति चार्थः । गम्यते अवगम्यते । अत्रातीतस्य कण्ठतोऽसङ्कीर्तनं कैश्चिदतीतमोक्षस्यानङ्गीकृतत्वात् । उत्तरकालानवगतौ तत्सम्बन्धितया मोक्षोऽपि नावगम्यत एव । विशेषणानवगमे विशिष्टानवगमस्य प्रसिद्धत्वात् । भविष्यति मोक्ष इत्यवगमाभावे च तदर्थः प्रयत्नो न स्यात् । मोक्षे सर्वस्य बाधो भविष्यतीत्येतदपि न स्यादिति ।

१३४सु०- शुकवामदेवादयो ज्ञानेन मुक्ता अभूवन्नहमपि मुक्तो भविष्यामीत्याद्यवगतिः आगमादेव भविष्य(तीति)ति किमत्र साक्षिणोऽतीतानागतार्थगोचरत्वेनेत्यत आह आगमोऽपीति ।

अनु०-आगमोऽपि हि सामान्ये सिद्धे प्रत्यक्षतः पुनः ।

विशेषं गमयेदेव

एषा खल्वागमस्य स्थितिः । यत् सामान्ये अन्वयसामान्यवति पदार्थसमूहे, प्रत्यक्षतः प्रमाणान्तरेण, सिद्धे सति, पुनः पश्चाद्विशेषमन्वयविशेषवन्तं तमेव पदार्थसमूहं, गमये दित्येव न पुनः पदार्थानपि गमयेदिति । नद्यास्तीरे पञ्चफलानि सन्तीत्यादौ तथा दर्शनादिति हि शब्दार्थः । किं प्राक् पदार्थसिद्ध्येत्यत आह कथमिति ।

अनु०-कथं शक्तिग्रहोऽन्यथा ।

यदि पदार्थाः प्राङ् न सिद्धास्तर्हि पदानां तेषु वाचकत्वशक्तिग्रहणं न स्यात् । अविदितविषयायाः शक्तेर्गृहीतुमशक्यत्वात् । न हि काष्ठमजानन् कुठारस्य तच्छेदनशक्तिं ज्ञातुं शक्नोति ।

१३५सु०- अस्तु पदानां शक्तिग्रहाय पदार्थज्ञानमावश्यकम् । अथ शक्तिग्रह एव किमर्थ इत्यत आह अतीतेति ।

अनु०-अतीतानागतार्थेषु जाते शक्तिग्रहेऽखिलम् ।।न ४४४विशेषं ज्ञापयेद्वाक्यं न तदज्ञातशक्तिके ।

अत्र अतीतानागतग्रहणं प्रकृतापेक्षम् । अखिलमपि वाक्यं पदानां पदार्थेषु वाचकत्वशक्तिग्रहे जात एव अन्वयविशेषं गमयेत् । न तु तद्वाक्यं पदार्थेषु पदसमूहेऽज्ञातशक्तिके सति विशेषं गमयेदित्यन्वयव्यतिरेकाभ्यां, वाक्यस्य वाक्यार्थावगतौ कर्तव्यायां, शक्तिग्रहोऽङ्गमिति ज्ञायतेऽतोऽसावर्थनीयः । प्रकृतवाक्यानां चातीतानागतार्थसंसर्गबोधकत्वादतीतानागतार्थेषु लुङ्लृङाद्यन्तपदानां शक्तिर्ज्ञातव्येत्यर्थः ।

१३६सु०- अस्तु शक्तिग्रहावश्यम्भावः किन्तु वर्तमानेष्वेवार्थेषु नातीतानागतेष्वनुपयोगादित्यत आह शक्तिश्चेदिति ।

अनु०-शक्तिश्चेद्वर्तमाने स्यान्नातीतानागतं वदेत्

यदि वर्तमान एवार्थे पदानां शक्तिर्गृहीता स्यात् तदा वाक्यम् अतीतानागतम् अतीतानागतार्थसंसर्गं न वदेत् न प्रतिपादयेत् । सहकारिविरहात् । सर्वो द्वन्द्वो विभाषयैकवद्भवतीत्येकवद्भावः । अतीतानागतार्थेष्वित्युक्तस्याभिप्रायकथनमेतत् ।

१३७सु०- अस्त्वतीतानागतार्थेष्वपि पदानां शक्तिग्रहः । ततः किमित्यत आह यदीति ।

अनु०-यदि शक्तिग्रहोऽन्यत्र कथं स स्यात् तदग्रहे ।

वर्तमानादन्यत्रातीतानागतयोरपि पदशक्तिग्रहो यद्यङ्गीकृतस्तदा सः अतीतानागतार्थेषु पदशक्तिग्रहस्तदग्रहेऽतीतानागतार्थाग्रहे कथं स्यात् । न कथञ्चित् । निर्विषयायाः शक्तेर्ज्ञातुमशक्यत्वात् । अतोऽतीतानागतार्थज्ञानमप्यङ्गीकार्यम् ।

अयमत्र समुदायार्थः । वाक्यं तावत् पदार्थसंसर्गविशेषलक्षणं वाक्यार्थमेव बोधयति न पदार्थमात्रम् । तच्चापेक्षते पदानां पदार्थेषु वाचकत्वशक्तिग्रहम् । शक्तिग्रहश्च पदार्थग्रहम् । पदार्थग्रहश्च प्रमाणान्तरायत्तो न पदवाक्यजन्यः । इतरेतराश्रयादिदोषप्रसङ्गात् । यत्र चातीतानागतार्थसंसर्गो वाक्यार्थः तत्र अतीतानागतार्थग्रहणमावश्यकम् । शुकवामदेवादयो मुक्ता अभूवन्नहं च मुक्तो भविष्यामीत्यादिकं च तथा । तस्माल-लुङ्लृङाद्यन्तपदवाच्यानामतीतानागतकालतत्सम्बन्धिपदार्थानां च ग्रहणमागमेनोक्तार्थप्रतिपत्तिमभिलषताऽपि परेणैष्टव्यम् । न च तत्साक्षिणा विना भवतीति कथमतीतानागतार्थग्राहिणस्तस्य वर्तमानविषयत्वमिति ।

१३८सु०- मीमांसकमतानुसारेण शङ्कते सामान्यमिति ।

अनु०-सामान्यं दृष्टमेवासावन्यत्र गमयेद्यदि ।

असाविति प्रकृतवाक्यैकदेशस्य शब्दस्य परामर्शः । सकलमपि वस्तु सामान्यविशेषात्मकम् । तत्र सामान्याकार एव शब्दवाच्यो विशेषस्तु लक्ष्य एवेति तावन्निष्टङ्कितम् । सामान्यं चातीतानागतविशेषेष्वेकमेव । तच्च वर्तमानं चक्षुरादिना दृष्टं शब्दशक्तिविषयतया अवगतमेव, अन्यत्र कालान्तरेऽपि, शब्दो बोधयति । तत्र किमतीतानागतार्थज्ञानेन । विशेषाणां हि शब्दवाच्यत्वे तेषामतीतादिरूपत्वात् शक्तिग्रहणायातीतादिज्ञानमपेक्षितं स्यात् ।

न च लुङ्लृङादिशक्तिग्रहणायातीतानागतादिकालग्रहणमपरिहार्यमिति वाच्यम् । तत्रापि कालत्वजातेरेव वाच्यत्वात् । न हि वैशेषिकादिवन्मीमांसकानां निस्सामान्यं किमप्यस्ति । अतो न शक्तिग्रहायातीतादिग्रहापेक्षेति ।

१३९सु०- उत्तरमाह सामान्येति ।

अनु०-सामान्यवर्जितं वस्तुस्वरूपं गमयेत् कथम् ।

अस्तु तावत् सर्वविशेषा(षया)नुगतं नित्यं गोत्वादिसामान्यमेव गवादिशब्दवाच्यं सास्नादिमन्तो विशेषास्तु लक्ष्या एव । तथाऽपीदं वक्तव्यम् । स्वरूपशब्दो वस्तुस्वरूपाण्यवगमयति न वेति । नेति पक्षेऽनुभवविरोधः । आद्ये कथं कया वृत्त्येति वाच्यम् । न तावल-लक्षणया । वाच्यार्थद्वारैव(रेणैव) लक्षणासम्भवा(लाभा)त् सामान्यस्यैव वाच्यत्वात् । स्वरूपाणां च सामान्यवर्जितत्वात् । अतः स्वरूपशब्दो वस्तुस्वरूपाणां वाचक इत्येवाङ्गीकार्यमिति ।

१४०सु०- ननु सर्वसामान्यानां वस्तुस्वरूपाबहिर्भावात् सामान्यवर्जितं (वस्तु)स्वरूपमिति कथमित्यत आह नेति ।

अनु०-न स्वरूपत्वसामान्यं केनाऽप्यङ्गीकृतं क्वचित्

सत्यम् । सन्ति स्वरूपे सामान्यानि । न च तानि स्वरूपशब्दवाच्यानि । न हि सास्नादिमति पिण्डे वर्तमानं पशुत्वं गोशब्दवाच्यम् । किन्तु गोत्वमेव । तदत्रापि स्वरूपशब्दस्य वाच्यं सामान्यमभ्युपगच्छता स्वरूपत्वमेवाङ्गीकार्यम् । तच्च नास्ति । केनापि परीक्षकेण, क्वचिदप्यनङ्गीकृतत्वात् ।

१४१सु०- मा अङ्गीकारि केनापि स्वरूपत्वसामान्यम् । मया तु अङ्गीकरिष्यते । न हि

सर्वैरङ्गीकृतमेवाङ्गीकरणीयमित्यस्ति नियमः । तथात्वे दर्शनभेदासम्भवादिति वैयात्याद्वदन्तं

प्रत्याह स्वरूपं चेदिति ।

अनु०-स्वरूपं चेदनुगतं व्यावृत्तं तत्र किं भवेत् ।

स्वरूपं इति भावप्रधानो निर्देशः । तत्र वस्तुनि । किं शब्दः प्रश्ने । एवं सत्ययं प्रश्नो निरुत्तरः स्यादिति भावः । तत्कथमित्यत आह सर्वेति ।

अनु०-सर्वानुगतधर्माणामन्ते हि स्वत्वमिष्यते ।किं व्यावृत्तमिति प्रश्ने स्वरूपमिति केवलम् । स्यादुत्तरं

यस्मात् सर्वेषामनुगतधर्माणामन्तेऽवसाने स्वत्त्वं स्वरूपत्वमिष्यते मीमांसकेन । तस्मात् किं तत्र व्यावृत्तमिति प्रश्ने कृते स्वरूपत्वमित्येवोत्तरं वक्तव्यं स्यात् । एतदुक्तं भवति । द्रव्येष्वत्यन्तं व्यावृत्ता धर्मा अन्त्या विशेषा इति वैशेषिकैरङ्गीकृतम् । विशेषेष्वपि विशेषान्तराङ्गीकारेऽनवस्थानात्( स्यात् ) । तत्र यथा स्वरूपत्वमेव व्यावृत्तं तथा द्रव्येष्वपि तदेवास्तु किं विशेषैरिति विशेषानवज्ञाय तत्स्थाने स्वरूपत्वमभिषिञ्चता मीमांसकेन किं व्यावृत्तमिति प्रश्नेऽन्त्या विशेषा इति वक्तुं न शक्यत एव । अपसिद्धान्तापातात् । गुणादयस्तु व्यावृत्तत्वेऽप्यनुगताधारतयाऽङ्गीकृता अनुगतकल्पा एव । अतः स्वरूपत्व(मित्ये)मेव वक्तव्यम् । तस्य चेदानीमनुगतत्वाङ्गीकारे कथमयं प्रश्नो निरुत्तरो न भवेदिति ।

१४२सु०- ननु भेद एव व्यावृत्तो भविष्यति । तस्यानुगतेरनुगताधारतायाश्चाभावादित्यत आह तत इति ।

अनु०- ततोऽन्यच्चेत्तदेव स्वयमेव नः ।

एकस्य एवशब्दस्य तर्हीत्यर्थः । ततः स्वरूपत्वादन्यद्भेदलक्षणं व्यावृत्तं यद्यङ्गीक्रियते । तर्हि तदेवास्माकं स्वयं स्वरूपम् पदार्थ(यदर्थं)स्वरूपमुदाहृतं तत्र भेद एवोदाहरणं भविष्यतीत्यर्थः । एतदुक्तं भवति । उदाहरणस्यानादरणीयत्वाद्भेदस्तावन्निस्सामान्योऽपि शब्दबोध्यो वचनवृत्त्यैवेत्यङ्गीकरणीयम् । न च वाचकः शब्दः शक्तिग्रहेण विनाऽर्थं बोधयतीति तत्र तस्य शक्तिग्रहोऽप्येष्टव्य इति ।

ततः किं प्रकृत इत्यत आह एवमिति ।

अनु०-एवं व्यावृत्तरूपेऽपि यदा शक्तिग्रहो भवे । तस्य

एवमुक्तप्रकारेण व्यावृत्तरूपे निस्सामान्येऽपि स्वरूपे वा भेदे वा स्वरूपभेदादिशब्दानां वाचकत्वशक्तिग्रहो यदाऽङ्गीकृतो भवेत् तदा स च शक्तिग्रहः तस्य स्वरूपादेर्ज्ञानं विना कुतो भवेत् । सम्बन्धज्ञानस्य सम्बन्धिज्ञानपूर्वकत्वनियमान्न भवेदेवेति तज्ज्ञानमङ्गीकरणीयम् । सर्वेषां स्वरूपाणां भेदानां च ज्ञाने (च) सार्वज्ञमापतितमित्यत आह सामान्यत इति ।

अनु०- सामान्यतो ज्ञानं विना स च भवेत् कुतः ।

सामान्यतो ज्ञानेनैव व्युत्पत्त्युपपत्तिः, विशेषतो ज्ञानाभावाच्च सार्वज्ञानापत्तिरित्यर्थः ।

ननु सामान्यवर्जितस्य स्वरूपादेः कथं सामान्यतो ज्ञानमित्यत आह अत इति ।

अनु०-अतो विशेषसामान्यरूपं सर्वमपीष्यते ।

सर्वमपि वस्त्वस्माभिर्विशेषसामान्यरूपं व्यावृत्तरूपं सामान्यरूपं चेष्यतेऽतो न काचिदनुपपत्तिः । कुत एवमिष्यते । अतः पूर्वन्यायात् । यदि व्यावृत्तमेव स्यात् तदोक्तप्रकारेण सार्वज्ञमापद्येत शक्तिग्रहाभावो वा स्यात् । यदि च सामान्यरूपमेव भवेत् तदा व्यावृत्तबुद्ध्यनुपपत्तिरेवेति ।

१४३सु०- नन्विदं पूर्वोक्तविरुद्धमुच्यते । यावता प्राक् स्वरूपादिकं निस्सामान्यमेवेति प्रसाध्येदानीं सर्वमपि विशेषसामान्यरूपमिष्यत इत्युच्यत इत्यत आह व्यावृत्तमिति ।

अनु०-व्यावृत्तं यच्च सामान्यं तदेव स्याद्विशेषतः ।।४४४ न चैकधर्मता तेन पदार्थानां परस्परम् ।

यदेव व्यावृत्तं स्वरूपं तदेव विशेषबलेन सामान्यं च स्यात् यतः तेन कारणेन पदार्थानां परस्परमेकधर्मता नास्तीति ।

एतदुक्तं भवति । यत्प्राक् स्वरूपभेदादौ सामान्यं नास्तीत्युक्तं तत्पदार्थस्वरूपाणां परस्परमनुगतैकधर्मता नास्तीत्यभिप्रायेण । तदभावेऽपि व्यावृत्त(स्य)स्वरूपाभिन्नस्य प्रतिनियतस्य सामान्याकारस्याभ्युपगमे विशेषसामान्यरूपं सर्वमपीष्यत इत्युक्तमिति न पूर्वोक्तविरोधः । न चैतदयुक्तम् । एकस्यैव वस्तुनो विशेषबलेन व्यावृत्तानुवृत्तबुदि्धजनकत्वेन विशेषसामान्यरूपतोपपत्ते(त्ति)रिति ।

१४४सु०- एवं गोत्वादिसामान्यस्यानुगतत्वमङ्गीकृत्य स्वरूपत्वादिसामान्याभावात् तत्र शब्दशक्तिग्रहार्थं तत्स्वरूपज्ञानमपेक्षितमित्युक्तम् । इदानीं गोत्वादिकमपि नानुगतमित्याह धर्माणामिति ।

अनु०-धर्माणां भेददृष्ट्यैव

पदार्थानां परस्परमेकधर्मता नेत्येतावदनुवर्तते । समुदायव्यतिरिक्तानां शौक्ल्यादि धर्माणां भेददृष्ट्या प्रतिधर्मिव्यावृत्तत्वदर्शनात् तद्दृष्टान्तेन गवादिपदार्थानामपि परस्परमेकधर्मता अनुगतगोत्वादिधर्मवत्ता नेत्यनुमातव्यम् । अयमत्र प्रयोगः । गोत्वादिकं प्रतिव्यक्तिव्यावृत्तं समुदायातिरिक्तधर्मत्वाच्छौक्ल्यादिवदिति । एवशब्दः प्रतिज्ञया सम्बध्यते । तेनानुगतबुदि्धबाध इति निराकरोति । अनुगतबुद्धेरन्यथैवोपपादितत्वात् ।

१४५सु०- अथवा यथान्यासमेवास्तु सम्बन्धः । प्राभाकरा मन्यन्ते । रूपादयोऽपि धर्मा अनुवृत्ता एव न तु प्रतिव्यक्ति भिद्यन्ते । अतः साध्यविकलतेति । तन्निरासाय भेददृष्ट्यैवेत्युक्तम् । अन्यथा भेदादित्येवावक्ष्यत् । शौक्ल्यादेर्व्यावृत्तत्वेऽनुवृत्तप्रत्ययो विरुद्ध्येतेत्यत आह तदिति ।

अनु०- तत्सादृश्यस्य दर्शनात् ।

शौक्ल्यमिदं शौक्ल्यमिदमिति प्रतीतौ हिमशौक्ल्यसादृश्यमेव हिमांशुशौक्ल्ये प्रतीयते न तु तेनैक्यमित्यतो न विरोधः । मा भूदनुगतं सामान्यं ततः किं प्रकृत इत्यत आह अत इति ।

अनु०-अतः सर्वे पदार्थाश्च सामान्यात् साक्षिगोचराः ।

अनुगतसामान्याभावेनातीतानागतवर्तमानव्यक्तनामेव वाच्यत्वादगृहीतशक्तनां च पदानामबोधकत्वात् शक्तिग्रहणस्य च पदार्थज्ञानेन विनाऽसम्भवाद्विशेषतो ज्ञाने सार्वज्ञापत्तेरित्यर्थः ।। सर्व इति । वर्तमानातीतानागताः । अस्त्वतीतादिज्ञानापेक्षा शक्तिग्रहस्य । तच्च साक्षिणेति कुत इत्यत आह सर्वमिति ।

अनु०-सर्वमित्येव विज्ञानं सर्वेषां कथमन्यथा ।

एवशब्दो विशेषाकारव्यवच्छेदार्थः । प्रमाणान्तराभावादिति भावः । अनुमानेनातीतादिसर्वसामान्यज्ञानं भविष्यतीत्यस्य चेदमुत्तरम् । अतीतानागतवर्तमानं सर्वमपि लिङ्गमनेन साध्येन व्याप्तमिति ज्ञानापेक्षं खल्वनुमानम् । न चैतज्ज्ञानं साक्षिणा विना सम्भवतीति ।

यद्वा साक्षिणोऽतीतादिसर्वसामान्याकारगोचरत्वे प्रमाणान्तरमेवानेनोच्यते । अतीतादिकं सर्वं धूमादि तथाविधेनाग्न्यादिना व्याप्तमिति ज्ञानपूर्वकं खल्वनुमानम् । तथा च साक्षिणोऽतीतादिगोचरत्वाभावेऽन्यस्य तथाविधस्याभावादनुमानमात्रोच्छेदः स्यादिति ।

किञ्चास्ति तावत् सर्वेषां सर्वशब्दशक्तिग्रहः । अन्यथा सर्वं खल्विदं ब्रह्मे ति व्यवहारविलोपप्रसङ्गात् । शक्तिग्रहश्चार्थग्रहापेक्ष इति सर्वेषां सामान्यतः सर्वमिति ज्ञानमङ्गीकार्यम् । साक्षिणश्चातीतादिसर्वगोचरत्वाभावे तन्न स्यादिति ।

१४६सु०- नन्वनुगतसामान्याभावे व्यक्तनामानन्त्याद्व्यभिचाराच्च शब्दशक्तिग्रह एव

न सङ्गच्छते । कुतस्तदन्यथाऽनुपपत्त्या साक्षिणोऽतीतादिगोचरत्वसिदि्धः इत्यत आह किञ्चिदिति ।

अनु०-किञ्चित्सादृश्यविज्ञानादखिलस्यापि वस्तुनः । शब्दशक्तिग्रहश्च स्यात्

तदेतद्वैशेषिकपरीक्षायां व्याख्यातप्रायम् । नन्वेवं सति गोशब्दस्य गवयेऽपि शक्तिं गृह्णीयात् । सादृश्यसद्भावादित्यत आह तत्तदिति ।

अनु०-तत्तत्सादृश्यमानतः ।

पूर्वेणान्वयः । न यत्किञ्चित्सादृश्यज्ञानं शब्दशक्तिग्रहणकारणम् । किन्त्वतिव्याप्तिविधुरम् । यथा गोशब्दे सास्नादिमत्त्वमेवमन्यत्रान्यदिति भावः । एतेन पूर्वः किञ्चित् शब्दो व्याख्यातो भवति ।

१४७सु०- एवं साक्षिप्रत्यक्षस्य वर्तमानमात्रग्राहित्वम् अपाकृत्य मानसप्रत्यक्षस्यापि तदपाकरोति प्रत्यक्षमिति ।

अनु०-प्रत्यक्षं मानसं चैव यदाऽतीतार्थगोचरम् ।

मानसं प्रत्यक्षं चातीतार्थगोचरमेव यत्स्मृतिकारणमिति । यदेत्युत्तरवाक्ये सम्बध्यते । पूर्वानुभवानधिकविषयायाः स्मृतेः प्रामाण्यमेव दुर्लभं कुतो मानसप्रत्यक्षजत्वमित्यत आह (यदेति) तदेति ।

अनु०-तदा स्मृतिप्रमाणत्वमतीतत्वविशेषितम् ।

यदा यस्मात् अतीतत्वविशेषितम् अर्थं स्मृतिर्विषयीकरोतीति शेषः । तदा तस्मात् स्मृतिप्रमाणत्वं सिद्धम् । अतीतत्वविशेषितार्थविषयत्वेऽपि कथं स्मृतेः प्रमाणत्वमित्यत आह आधिक्यमिति ।

अनु०-आधिक्यमनुभूतात्तु यदाऽतीतत्वमिष्यते ।मानता च कथं न स्यात् स्मृतेः

यस्मात् स्मृतिविषयीकृतमतीतत्वं वर्तमानतयाऽनुभूतार्थादाधिक्यमिष्यते सर्वैः तस्मात् स्मृतेर्मानता कथं न स्यात् । मानत्वे च मानसप्रत्यक्षजत्वं कथं न स्यादिति चार्थः ।

अपि च अनधिगतार्थगन्तृत्वं प्रमाणलक्षणमङ्गीकृत्य इदं स्मृतेरनुभवाधिकविषयत्वं व्युत्पादितम् । वस्तुतस्तु नेदं लक्षणम् । किन्तु यथार्थत्वमेव । तच्चास्ति स्मृतेरनुभवसिद्धम् । बाधकप्रत्यये हि सति तन्न भवेत् । न चासावत्रास्तीत्याह बाधश्चेति ।

अनु०- बाधश्च नात्र हि

चाक्षुषादिप्रत्यक्षेऽपि न वर्तमानमात्रग्राहित्वनियम इति भावेनाह मानत्वमिति ।

अनु०-मानत्वं प्रत्यभिज्ञाया अपि सर्वानुभूतिगम्

सर्वेऽपि हि परीक्षकास्तद्बलेनात्मादेः स्थायित्वं साधयन्ति । ततः किं प्रकृत इत्यत आह अतीतेति ।

अनु०-अतीतवर्तमानत्वधर्मिणी सा च दृश्यते ।

अतीतत्ववर्तमानत्वधर्मविशिष्टार्थविषयेत्यर्थः । दृश्यते साक्षिणा । सोऽयमिति हि प्रत्यभिज्ञाकारोऽनुभूयते । सा च चक्षुरादिनैव जायत इति भावः ।

१४८सु०- अथ मतम् । प्रत्यभिज्ञायां चत्वारः पक्षाः सम्भवन्ति । अनुभव एवेति वा स्मृतिरेवेति वा स्मृत्यनुभवरूपं ज्ञानद्वयमिति वैकमेव ज्ञानमंशे स्मृतिरंशेऽनुभव इति वेति । तत्र न तावदाद्यः । तथात्वे ह्ययमित्येव स्यान्न तु स इति ।

नापि द्वितीयः । तथा सति स इत्येव स्यान्न त्वयमिति । वक्ष्यमा(ण)णो दोषश्च स्यात् । अत उत्तरं पक्षद्वयमेवाङ्गीकरणीयम् । तथा च स इत्यंशस्य स्मृतित्वान्न चाक्षुषादिप्रत्यक्षस्यातीतविषयत्वमित्यत आह न चेति ।

अनु०-न च सा स्मृतिमात्रार्धा

स्मृतिरेव (मात्रा) स्मृतिमात्रा, स्मृतिमात्राऽर्धं यस्याः सा तथोक्ता स्मृत्यनुभवरूपैकदेशसमुदायरूपा तथा स्मृत्यनुभवात्मकैकज्ञानरूपा च नेत्यर्थः । कुतो नेत्यतः प्रथमप्रतिज्ञायां हेतुमाह तदिदन्त्वेति ।

अनु०- तदिदन्त्वग्रहैकतः

तत्त्वेदन्त्वग्रहयोरेकत्वानुभवात् । ग्रहग्रहणेनानुभवत्वं सूचयति । द्वितीयप्रतिज्ञायां हेतुमाह तदिदन्त्वेति । तत्त्वेदन्त्वग्रहस्यैकत्वान्निरंशत्वात् ।

एतदुक्तं भवति । प्रत्यभिज्ञा न स्मृतिरेवेति परेणाप्युक्तम् ।

नापि ज्ञानद्वयरूपा । तत्तावत एवेदन्तायां मानाभावप्रसङ्गेन क्षणभङ्गभङ्गासिद्धेः । न च स्मृत्यनुभवरूपमेकमेव ज्ञानम् । एकत्वे द्विरूपताविरोधात् । तस्मादनुभवरूपमेकमेव विज्ञानं संस्कारसचिवेन चक्षुरादिना जातत्वात् सोऽयमित्याकारं भवति । यथा खलु शुक्लहरितपीतादिरूपाणां चित्ररूपारम्भकत्वम् । यथा वा दोषसहकृतानामिन्द्रियाणां विपर्ययहेतुत्वम् । तथा संस्कारसचिवानामिन्द्रियाणां प्रत्यभिज्ञाहेतुत्वं भविष्यतीति को दोषः । न च संस्कारस्य स्वतन्त्रस्य ज्ञानहेतुत्वम् । स्मृतेर्मानसप्रत्यक्षजत्वाङ्गीकारादिति ।

तच्चेन्नोत्तरगोचरमि त्यादिनोक्तमर्थमुपसंहरति अत इति ।

अनु०-अतो न वर्तमानैकनियमः स्याद् ग्रहेऽक्षजे ।

वर्तमानैकनियमः वर्तमानमेकमेव विषयीकरोतीत्येवंरूपो नियमः ।

१४९सु०- प्रमाणप्रमेयप्रमातृभेदं विश्वमबाध्यमिति यदुक्तं तदुपसंहरिष्यन् अर्थगताया ज्ञा(ततायाः प्राकट्यापरपर्यायाः)तताप्राकट्यसमाख्यायाः प्रमितेश्चतुर्थ्या विद्यमानत्वात् कथं त्रिविधं विश्वमित्याशङ्कां तावत्परिहरति न चेति ।

अनु०-न च प्रमाणतोऽन्या स्यात्प्रमितिर्नाम कुत्रचित् ।मानाभावाद्गौरवाच्च कल्पनायाः किमेतया ।

प्रमितिर्नाम वस्तु नास्त्येव तत्र मानाभावात् । ननु कथं मानाभावः । प्रमाता च प्रमेयं च प्रमाणं प्रमितिस्तथे त्यादेरागमस्य विद्यमानत्वादित्यत उक्तं प्रमाणतोऽन्येति । द्विविधं प्रमाणं करणं फलं च । (अत्र) तत्र प्रमाणशब्देन करणमभिधाय प्रमितिशब्देन फलरूपप्रमाणमेव उच्यते । न तु ततोऽन्या प्रमितिरिति । अस्ति तावदर्थज्ञानयोर्विषयविषयिभावनियमः । न चासौ सत्तया कारणत्वेन वाऽतिव्याप्तेः ।

नापि तादात्म्यसारूप्याभ्याम् । असम्भवात् । यत्र ज्ञाने योऽर्थोऽवभासते त(त्रासौ)स्यासौ विषय इत्यत्र सप्तम्यर्थानुपपत्तिः । तस्माद्येन यस्यातिशय उत्पद्यते तस्यासौ विषय इत्यङ्गीकार्यम् । तथा चार्थस्य विषयत्वसिद्धये ज्ञानजन्योऽर्थगतोऽतिशयः सर्वथाऽङ्गीकार्य इति कथं मानाभावः ।

मैवम् । तथा सत्यतीतानागतयोर्ज्ञानविषयताभावप्रसङ्गात् । न ह्यसति धर्मिणि तत्र धर्मोत्पत्तिः सम्भवति ।

अथ करणसम्भवात् तत्र विषयत्वमित्युच्यते तर्हि वर्तमानेऽपि तथा सम्भवान्न ज्ञातता कल्पनीयेति । तदिदमुक्तं कुत्रचिदिति । अतीतादिवद्वर्तमानेऽपि नास्तीत्यर्थः ।

किञ्च ज्ञानं स्वविषये ज्ञाततामुपजनयति यत्र क्वचिद्वा । द्वितीयेऽतिप्रसङ्गः । आद्ये ज्ञाततोपजननात्प्रागेव अर्थस्य विषयत्वसिद्धेर्व्यर्थं तत्कल्पनमित्याह किमेतयेति ।

अपि च ज्ञाततायामपि ज्ञाततोत्पादोऽङ्गीक्रियते न वा । नेति पक्षे ज्ञानविषयत्वं न

स्यात् । आद्ये अनुभवानारूढं ज्ञातताप्रवाहमङ्गीकुर्वाणस्य कल्पनागौरवं स्यादित्याह कल्पनाया गौरवाच्चेति ।

अथ ज्ञातता ज्ञाततान्तरमन्तरेणैव विषय इति कल्प्यते । तदाऽपि कल्पनागौरवमेव ।

एतेन ज्ञानं स्वविषये किञ्चित्करोति क्रियात्वाद्गमनवदित्यनुमानमपि निरस्तम् । ज्ञानमात्रपक्षीकारेऽतीतानागतज्ञातताज्ञानेषु बाधात् । अन्यथा तत्रैव व्यभिचारादिति ।

१५०सु०- ननु ज्ञातो घटः प्रकटो घट इत्यर्थविशेषणतया ज्ञातता प्रत्यक्षमीक्ष्यत इत्यत आह मयेति ।

अनु०-मयैतज्ज्ञातमिति तु साक्षिगं ज्ञानगोचरम् । ज्ञानमेव

ज्ञानमेव मयैतज्ज्ञातमिति ज्ञानगोचरम् । क्रिया हि कर्तृस्थैव यदा कर्तृप्राधान्येन व्यवह्रियते तदा कर्तृधर्मतया प्रतीयते । यथा देवदत्तो घटमिच्छति द्वेष्टीति । यदा तु कर्मप्राधान्येन तदा तद्धर्मतया । यथेष्टो द्विष्ट इति । यदा पुनः स्वप्राधान्येन तदा स्वतन्त्रैव । यथेच्छा द्वेष इति । एवमात्मगतमेव ज्ञानं विषयधर्मतयाऽवभासत इति किमनुपपन्नम् ।

ननु च ज्ञानं तावन्न प्रत्यक्षम् । तथा हि । न तावत्पूर्वभाविनो ज्ञानस्य ज्ञानं विषयः ।

तथा सति ज्ञास्यामीत्येव(मेव) स्यान्न तु जानामीति ।

नाप्यागामिनः । तथात्वे ह्यज्ञासिषमित्येव स्यात् । न च सहभाविज्ञानान्तरमस्ति । ततो ज्ञाततालक्षणकार्येणैवानुमातव्यमिति कथं सा नाभ्युपगम्यत इत्यत उक्तं साक्षिगमिति । साक्षिणो नित्यत्वान्नोक्तदोषः । स च स्वप्रकाश इति । अनुपलम्भबाधिता च ज्ञाततेत्याह ततोऽन्येति ।

अनु०-ततोऽन्या न प्रमितिर्नाम दृश्यते

प्रथमज्ञाने हि शुद्ध एवार्थो ज्ञायते न ज्ञातताविशिष्टः । तदानीं तस्या अजातत्वात् । तामुत्पाद्य पुनस्तद्विशिष्टमर्थं विषयीकरोतीति पक्षे विरम्यव्यापारप्रसङ्गात् । न च प्रथमज्ञानविषयीकृतादधिकोऽर्थ उत्तरज्ञानेषु चकास्ति । ज्ञात इत्यत्र तु ज्ञानं विषय इत्युक्तमेवेति ।

१५१सु०- इदानीं ईशतज्ज्ञाने त्यादिनोक्तमर्थमुपसंहरति मानेति ।

अनु०-मानमातृप्रमेयाणां तदुच्छित्तिर्न हि क्वचित्

तत्तस्मान्मानादिभेदेन त्रिविधमेव विश्वं तस्य क्वचिदप्युच्छित्तिर्बाधो ना(स्ती)स्त्येवेत्यर्थः । प्रकृत(मनुस)मुपसंहरन् स्वप्नस्य मिथ्यात्वं हेत्वन्तरेण दूषयति स्वाप्नानामपीति ।

अनु०-स्वाप्नानामपि चैतेषां न बाधो दृश्यते क्वचित्

चः हेतौ । यस्मात्स्वाप्नानामप्ये(ते)षां मानमातृप्रमेयाणां क्वचित्काले न बाधो दृश्यते अतः स्वप्नो मिथ्या नैवेति सम्बन्धः । न केवलं बाह्यप्रपञ्च इत्यपेरर्थः । स्वप्नादुत्थितस्य नात्र गजोऽभूदित्यादिना बाधदर्शनात् कथमेतदित्यत आह जाग्रत्त्वमात्रमिति ।

अनु०-जाग्रत्त्वमात्रमत्रैकमन्यथा दृश्यते स्फुटम् ।अतो मिथ्या न च स्वप्नो

अन्यथा अविद्यमानत्वेन । व्याख्यातप्रायमेतत् । यत्तूक्तं रथोऽयमित्यादि, तत्परिणामितामावेदयति । न बाधमिति वक्ष्यते । न तत्र रथा इत्यादिश्रुतिस्तु तत्प्रागभावम् ।

ननु स्वाप्नपदार्थानां जाग्रत्त्वं यदि भ्रमसिद्धं बाधितं च तदा तेषां मिथ्यात्वमवर्जनीयम् । स्वाप्नगजादयो मिथ्या भ्रमविषयत्वाद्बाधविषयत्वाच्च शुक्तिरजतवदित्यनुमानादिति चेत्किमिदं भ्रमविषयत्वमारोप्यतया वाऽऽरोपाधिष्ठानतया वा साधारणं वा । तथा बाधविषयत्वमपि किन्निषेध्यतया उत निषेधाधिकरणतया अथ साधारणम् । उभयत्रापि द्वितीयतृतीययोर्दोषमाह जाग्रद्वदिति ।

अनु०-जाग्रद्वत्

जाग्रता दृष्टं शुक्तयादिकं यथा तथेत्यर्थः । यथा शुक्तिकादेरारोपबाधाधिष्ठानत्वेऽपि

न मिथ्यात्वं तथा स्वाप्नानामपीत्यनैकान्त्यमित्यर्थः । ननु जागरोपलब्धस्य शुक्तयादेरप्यनेनैव हेतुना मिथ्यात्वमस्माकं सिषाधयिषितमेवेति कथं तत्रानैकान्तिकत्वमित्यत आह जाग्रदिति ।

अनु०- जाग्रदेव च ।आत्मवत्

एवं तर्हि जाग्रत्स्वप्नश्चात्मवन्नैव मिथ्येत्यर्थः ।

१५२सु०- तद्विवृणोति क्वचिदिति ।

अनु०-क्वचिदात्मा च स्यादेव भ्रमगोचरः । एतावता न मिथ्याऽसौ स्वप्ने जागरिते तथा

क्षणिकोऽहमित्यादि भ्रमगोचरः । उपलक्षणं चैतत् । न क्षणिकोऽहं स्थिर एवेति बाधगोचरश्चेत्यपि द्रष्टव्यम् । स्वप्ने जागरिते तथेति । तत्रोपलब्धाः पदार्था अपि न मिथ्येत्यर्थः । उभयपक्षीकारेणानुमा(नेऽप्या)नस्यात्मनि व्यभिचारोऽपरिहार्य इति ।

ननु क्षणिकत्वादिना प्रतिपन्न आत्माऽपि मिथ्येति कथं तत्र व्यभिचार इति चेत् । किं क्षणिकत्वादेरारोपितस्य मिथ्यात्वादेवमुच्यते उतात्मस्वरूपस्यैव । द्वितीये त्वपसिद्धान्तः स्फुट एव । आद्यमाशङ्क्य दूषयति यदीति ।

अनु०-यद्यात्मन्यन्यथा दृश्यं भ्रान्तमत्रापि तद्भवेत्

एवं तर्ह्यारोपिताकारस्य मिथ्यात्वं साध्यमित्युक्तं स्यात् । तथा च सिद्धसाधनत्वं जाग्रत्स्वप्नावगतार्थेष्वारोपिताकाराणां मिथ्यात्वस्यास्माभिरप्यङ्गीकृतत्वात् । आरोप्यतया निषेध्यतया वा भ्रान्तिबाधविषयत्वं हेतुरित्याद्यपक्षे दोषमाह अबाधितेति ।

अनु०-अबाधितानुवृत्तेस्तु स्वाप्नादेर्भ्रान्तता कुतः

जाग्रत्त्वादेः रजतत्वादेश्च बाधादुत्तरमप्यबाधितत्वेन गजादेः शुक्तयादेश्चानुवृत्तेः स्वप्नादेरुक्तविधा भ्रान्तता बाध्यता च कुतः । तथा च स्वरूपासिदि्धः । यथा खलु बाधोत्तरकालमप्यनुवर्तमान आत्मा नारोप्यो नापि बाध्यः । तथा स्वप्नजागरावपि । तयोरप्यद्राक्षमेवाहं गजमित्याद्यनुवृत्तेरिति ।

अनुकूलप्रमाणाभावात् प्रतिकूलप्रमाणभावाच्च भ्रान्तिविषयत्वादिहेतुना जाग्रत्स्वप्नयोर्मिथ्यात्वानुमानमनुपपन्नमित्याह न चेति ।

अनु०-न च काचित्प्रमा विश्वभ्रान्तत्वे सर्वमेव च । अभ्रान्तत्वे प्रमाणं तु कथं तद्भ्र्रान्तता भवेत्

विश्वमित्युभयविधं विवक्षितम् । भ्रान्तत्वे मिथ्यात्वे । यद्वा भ्रान्तिविषयत्वादिहेतुद्वयस्यासिदि्धं प्रकारान्तरेण साधयितुमिदं वाक्यम् । भ्रान्तत्व इ( मि )ति बाध्यत्वस्याप्युपलक्षणम् । यतस्तस्मादित्युपस्कर्तव्यम् । तद्भ्रान्तता तस्य द्विविधस्यापि विश्वस्य भ्रान्तिविषयता ।

१५३सु०- दृश्यत्वादिहेतुना स्वप्नजागरयोर्भ्रान्तत्वादिसाधनात् कथमसिदि्धरित्याशङ्कां परिहर्तुं भ्रान्तत्वं प्रकारान्तरेण दूषयति किञ्चेति ।

अनु०-किञ्च भ्रान्तत्ववादी स भ्रान्तत्वं स्वमतस्य च ।।अङ्गीकरोति नियतं

भ्रान्तत्ववादी दृश्यत्वादिना द्विविधस्यापि विश्वस्य भ्रान्तत्वादिकं (सा त्वं) साधयन् । स्वमतस्येति । स्वप्रतिज्ञार्थस्य ।। नियतमिति । अन्यथा तत्रानैकान्त्यापत्तेरिति भावः ।

न केवलं परेण स्वव्याप्तिसिद्धये स्वप्रतिज्ञातार्थस्य भ्रान्तत्वादिकमङ्गीकरणीयम् । किन्तु वयमपि तदङ्गीकुर्म इत्याह तत्रेति ।

अनु०-तत्र सम्प्रतिपन्नता ।वादिनोः ५

परप्रतिज्ञातार्थस्य भ्रान्तत्वादौ वादिनोः वादिप्रतिवादिनोः । एतच्च वक्ष्यमाणानुमानस्यान्यतरासिदि्धनिरासार्थमिति बोद्धव्यम् । ततः किमित्यत आह तेन चेति ।

तेन चाभ्रान्तं विश्वमेव भविष्यति

न केवलमुक्तप्रमाणैः किन्तु विश्वभ्रान्तत्वादेर्भ्रान्तत्वादिहेतुना च विश्वमभ्रान्तमेव तथाऽबाध्यमेव भविष्यति । तत्र व्याप्तिं सूचयति भ्रान्तत्वेति ।

भ्रान्तत्वभ्रान्तता चेत्स्यात्कथं नाभ्रान्तिसत्यता

तदेतौ प्रयोगौ भवतः । विश्वमभ्रान्तं भ्रान्तभ्रान्तत्वात् । तथा विश्वमबाध्यं बाध्यबाध्यत्वात् । आत्मवदिति । अपव्याख्यानदूषणस्य प्रयोजनमाह अशेषेति ।

अनु०-अशेषदोषदुष्टं तन्मतं हेयं बुभूषुभिः

तन्मतमिति । स्वाप्नजागरप्रपञ्चस्य मिथ्यात्वं प्रतिपादयन्मतम् ।

१५४सु०- स्यादेतत् । विश्वस्य भ्रान्तत्वादिकमिवाभ्रान्तत्वादिकमपि मिथ्या किन्न स्यात् । न चैतदघटितं दुर्घटत्वस्य भूषणत्वादित्याशङ्कां परिहरन् मन्दमेतदस्मदीयं तन्मतहेयताव्युत्पादनमुपादानप्रसक्तेरभावादिति सोल-लुण्ठमाह येनेति ।

अनु०-येन स्वमतहेयत्वं स्वयमङ्गीकृतं सदा ।भ्रान्तित्वाद्दुर्घटत्वस्य भूषणत्वाच्च केवलम् ।उन्मत्तोऽपि कथं तस्य मतं स्वीकर्तुमिच्छति

भ्रान्तित्वात् भ्रान्तिविषयत्वेनाङ्गीकृतत्वात् । दुर्घटत्वस्य भूषणत्वात् भूषणत्वेनाङ्गीकृतत्वाच्च । केवलमुन्मत्तोऽपि साक्षादुन्मत्तोऽपि न पुनरुन्मत्तकबीजाद्यदनेनोन्मत्तः न ह्युन्मत्तः स्वमतं भ्रान्तं दुर्घटं चेति स्वयमेव मन्यते । तर्हि कथं लोके प्रवृत्तमित्यत आह ईशेति ।

अनु०-ईशशक्तेरचिन्त्यत्वान्महोन्मत्तैः प्रवर्तितम्

महोन्मत्तै रिति हेत्वन्तरम् ।

१५५सु०- सूत्रव्याख्यानमुपक्रम्य अपव्याख्यानस्य हेयताव्युत्पादनम् असङ्गतमित्यतः स्वव्याख्यानदार्ढ्यार्थमित्याशयवानुक्तं सूत्रार्थं विवृण्वन् मायाशब्दार्थं तावदाह अत इति ।

अनु०-अतः प्रज्ञाऽत्र मायोक्ता जैवी

अन्यथा व्याख्यानस्य दुष्टत्वात् माया वयुनमभिख्ये ति प्रज्ञानामसु पाठादिति भावः । मायायाः सन्ध्यकारणत्वं वक्ष्यते । तत्र जैवी प्रज्ञा कदृशं कारणमित्यत आह उपादानमेवेति ।

अनु०-उपादानमेव सा

सन्ध्यस्येति शेषः । न केवलं जैवीप्रज्ञाऽत्र माया । किन्त्वैश्वरी च । सा च सन्ध्यस्य निमित्तमेवेत्याह निमित्तमिति ।

अनु०-निमित्तमैश्वरी मुख्या

प्रज्ञाशब्दश्चात्र लाक्षणिको वासनार्थ इति वक्ष्यति(ते) । तच्च व्याख्यानं नोभयसाधारणमित्याशयेनोक्तं मुख्येति । ईश्वरप्रज्ञा मुख्यैव जीवप्रज्ञा तु लाक्षणिकी ।

१५६सु०- मायामात्रपदं व्याख्याति निर्मितमिति ।

अनु०- निर्मितं त्रातमेव च

ताभ्यामेवेति सम्बन्धः । तेन तुशब्दो व्याख्यातो भवति । यथासङ्ख्येनान्वयपरिहारार्थमुक्तं सह पृथगेवेति ।

अनु०-ताभ्यां सह पृथक् चैव मायामात्रमितीर्यते

च शब्दः तस्मादित्यर्थे । ईर्यते सन्ध्यमिति शेषः । सह पृथक् इत्युक्तं विवृणोति उभाभ्यामिति ।

अनु०-उभाभ्यां मातमैश्वर्यात् त्रातं सह पृथक् ततः ।

जीवेश्वरप्रज्ञाभ्यां मातं निर्मितमैश्वर्या प्रज्ञया त्रातं यस्मात् ततः सह पृथगित्युक्तम् । धातुसमुदायात् आतोऽनुपसर्गे क इति कः । अदिभूभ्यां डुतजिति यथा ।

यद्यपि एकस्मादेव धातोस्त्रप्रत्ययः शक्यः कर्तुम् । तथाऽप्यधिकार्थलाभायैव कृतम् । सौत्रत्वान्निर्देशस्य कर्मणि प्रत्ययः । घञर्थे कविधानमिति वा । नन्विदं पूर्वापरविरुद्धम् । पूर्वं हि जीववासनोपादानकं सन्ध्यमित्युक्तम् । इदानीं तु प्रज्ञोपादानकमिति । मैवम् । प्रज्ञाशब्द(स्यापि वा)स्य वासनोपलक्षणत्वात् ।

१५७सु०- अथ प्रज्ञाया वासनायाश्च कः सम्बन्धो येन लक्षणा स्यादित्यत आह प्रज्ञात्मकमिति ।

अनु०-प्रज्ञात्मकं मनो येन मनोरूपाश्च वासनाः

येन कारणेन मनः प्रज्ञात्मकं प्रज्ञोपादानं, वासनाश्च मनोरूपा मनउपादानकाः तेनैतयोरेककारणत्वलक्षणसम्बन्धेन लक्षणोपपद्यत इति शेषः । प्रज्ञावासनयोर्मन उपादानमित्येतत्कुत इत्यत आह धीरिति ।

अनु०-धीर्भीरिति मनस्त्वेवेत्याह च श्रुतिरञ्जसा

श्रुतावितिशब्द आद्यर्थः । तेन वासनाया अपि मनोविकारत्वं लभ्यते । इति त्विति सम्बन्धः । इति श्रुतिश्चशब्दादन्या चाह प्रज्ञादेर्मनोविकारत्वम् । अञ्जसा स्पष्टम् । एतेनात्मकार्यत्वं वदन्तो निरस्ता भवन्ति । बाह्यार्थज्ञानस्य तदानीमभावादसतश्चोपादानत्वानुपपत्तेः मुख्यार्थत्यागः । यदि च वासनामात्रमिति मुख्य एव प्रयोगः क्रियेत तदेश्वरप्रज्ञा न सङ्गृहीता स्यात् पृथगुभयग्रहणे च गौरवं स्यात् । अतो मुख्यामुख्यविवक्षयोभयस्य लाघवेन ग्रहणाय मायामात्रमित्युक्तम् । अत एव मायैव मायामात्रमिति न व्याख्यातम् । सन्ध्यस्य निमित्तकारणभूतयेश्वरप्रज्ञया तादात्म्याभावात् ।

१५८सु०- ननु प्रज्ञावासनयोरस्ति कार्यकारणभावः सम्बन्धः । स एव लक्षणाबीजमस्तु । किं द्वयोर्मनःकार्यत्ववर्णनेनेत्यत आह चिदिति ।

अनु०-चिदचिन्मिश्रमेवैतन्मनो यावच्च संसृतिः ।तेनावस्था इमास्सर्वा जीवः पश्यति सर्वदा ।

न केवलं स्वप्नं किन्त्विमाः सांसारिकः सर्वा अप्यवस्थास्तेन मनसैव सर्वदा जीवः पश्यति । अतः प्रधानत्वात् तद्द्वारक एव सम्बन्ध आदरणीयो नापरः । मनश्च केचन जडमेव मन्यन्ते । अपरे त्वचेतनमेवारोपितचैतन्यम् । तन्निरासेन स्वरूपं कथयति चिदचिन्मिश्रमेवेति ।

यदित्यध्याहार्यम् । केवलमचेतनस्य घटादिवदेवम्भावासम्भवाच्चैतन्यारोप्यस्य निराकृतत्वाच्चिदचिन्मिश्रमेवाङ्गीकार्यम् । भवन्ति चात्रागमाः । यदि मनसा सर्वावस्थाप्राप्तिस्तदा मोक्षेऽपि तस्य भावा(दव)देवावस्थाः स्युरित्यत उक्तं यावत्संसृतिस्तावदेव जीवस्योपकारापकारौ करोतीति । कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादिति व्याख्याति मनोविकारा इति ।

अनु०-मनोविकारा विषयाः स्वाप्ना यद्बाह्यवन्न ते ।स्थूला भवन्त्यतस्तेषां स्पष्टता न तथा क्वचित्

यद्यस्मात्स्वाप्ना विषया मनोजन्यवासनाविकारा अत एव हि ते बाह्यवत् स्थूलाः न भवन्ति, संवृते देशेऽवकाशानर्हा न भवन्ति । तेषां तथा बाह्यवत् क्वचित् स्पष्टता बाह्यार्थक्रियाकारिता नास्ति । यद्वा यस्मात्ते बाह्यवत् स्थूला न भवन्ति तथा तेषां क्वचित् स्पष्टता नास्ति अतः स्वाप्ना विषया मनोविकारा इति योजना । यथा चैतत्तथोक्तं पुरस्तात् ।

१५९सु०- ननु (च) स्वाप्नकामिनीसम्भोगादेश्चरमधातुविसर्गादिबाह्यार्थक्रियाकारितादर्शनाद्भागासिदि्धरित्यत आह क्वचिदिति ।

अनु०-क्वचित्स्पष्टा अपि स्युष्टे

ते स्वाप्ना विषयाः क्वचित्स्पष्टा अपि स्युरेव । तथाऽपि तदतिरिक्तपक्षीकरणेनादोष इति भावः । एवं तर्हि तस्यांशस्य वासनामयत्वं न स्यादित्यत आह वासनेति ।

अनु०- वासना मानसी च सा ।।

सा च मानसी वासना सिद्धा । अस्पष्टताऽभावेऽप्यस्थूलत्वस्य सत्त्वादिति भावः । अत एव सौत्रो हेतुर्द्वेधा व्याख्यातः । तदनेन देशकालनिमित्तसम्पत्तिः स्वप्ने नास्तीति यदुक्तं तद्वासनामयोक्तया निरस्तम् । अत एव सृष्टिश्रुतेर्भाक्तत्ववर्णनमपास्तम् । प्राज्ञस्य निर्मातृत्वं च न वृथा त्याज्यम् । स्वयं विहृत्येत्याद्यपीश्वरविषयमन्यत्र व्याख्यातम् । स्वप्ननिर्माणे शुभाशुभयोगापत्तिरिति चासङ्गतम् । व्याप्त्यभावात् । जीवस्य ब्रह्मभावोपदेश इति च सार्वज्ञादेः पारमार्थिकत्वसमर्थनादयुक्तम् । वियदादिप्रपञ्चस्य मिथ्यात्वकथनं च तत्सत्यत्वोपपादनात् निरस्तम् ।। ३२१ ।।

।। इति सन्ध्य(स्वप्न•धिकरणम् ।।

न्यायसुधा

।। अथ पराभिध्यानाधिकरणम् ।।

ब्र०सू०-ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ ।।

१६०सु०- परकृतस्य अपव्याख्यानतां प्रतिपादयितुं पराभिध्यानादिति सूत्रतात्पर्यमाह ईशेति ।

अनु०-ईशेच्छयाऽन्तर्दधाति

सन्ध्यमिति शेषः । न केवलं स्वप्नः किन्तु तत्तिरोधानमपीश्वरेच्छाधीनमित्येष एवार्थोऽनेन सूत्रेणोच्यते नान्यः । जीवस्येश्वरांशताया अप्रामाणिकत्वस्य द्वितीयेऽभिहितत्वात् । न च ज्ञानैश्वर्यशक्त ब्रह्मणस्तात्त्विकतया परेणाङ्गीकृते । किञ्च देहयोगात्तिरोहितमित्येतावताऽलम् । अन्यदसङ्गतमेव ।

किञ्च देहयोगश्चेत्तिरोधान (एव) हेतुस्तदा सुप्तिप्रलययोराविर्भावः स्यात् । अविद्याद्युपलक्षणमेतदिति चे(देतदपि त)त् अथ तथैव किन्नोक्तमित्यास्तां विस्तरः । यदि स्वप्नोऽन्तर्धत्ते कथं तर्हि पुनस्तत्प्रतीतिरित्यत आह व्यज्यते चेति ।

अनु०-व्यज्यते च पुनस्तया ।

एतेन परकीयं बाधकथनं निरस्तम् । व्यक्तिस्तिरोधानं च न ज्ञायत इत्यतोऽधिकरणद्वयार्थमुपसंहरति सृष्ट्वैवेति ।

अनु०-सृष्ट्वैव वासनाभिश्च प्रपञ्चं स्वाप्नमीश्वरः । वासनामात्रतां तस्य नीत्वाऽन्तर्धापयत्यजः ।

एवशब्देनारोपं वारयति । दर्शयित्वेत्यपि द्रष्टव्यम् । तस्य च वासनामात्रतां नीत्वा

कृत्वा । अन्यथा द्वितीया स्यात् । अन्तर्धापयति अदर्शनं गमयति । तस्य जीवस्य वासनाभिरिति वा । तस्यान्तर्धापयतीति वा ।। ३२२ ।।

।। इति पराभिध्यानाधिकरणम् ।।

न्यायसुधा

।। अथ सुषुप्तिबोधमोहाधिकरणानि ।।

ब्र०सू०-ॐ तदभावो नाडीषु तच्छतेरात्मनि ह ॐ ।।

ॐ अतः प्रबोधोऽस्मात् ॐ ।।

ॐ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॐ ।।

१६१सु०- अत्र यज्जीवब्रह्मणोरेकत्वं परेण वर्णितं तत्सूत्राक्षराप्रतीतं तद्विरुद्धं चोपेक्षणीयमेवेति ज्ञापयितुमधिकरणत्रयस्य तात्पर्यमाह सुषुप्तीति ।

अनु०-सुषुप्तिबोधमोहांश्च स्ववशस्तद्वशं सदा । जीवं नयति जीवेशो ।

सुषुप्तिबोधादेः कारणान्तरदर्शनात् कथमेतदित्यत उक्तं स्ववशस्तद्वशमिति । स्वतन्त्रोऽपीश्वरो लीलया तानि कारणान्युपादाय जीवं तद्वशतां नीत्वा सुषुप्त्यादिकं प्रापयतीत्यर्थः । एतच्च भाष्यादौ स्पष्टम् ।। ३२४,५,७ ।।

।। इति सुषुप्तिबोधमोहाधिकरणानि ।।

न्यायसुधा

।। अथ कर्मानुस्मृत्यधिकरणम् ।।

ब्र०सू०- ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ ।।

१६२सु०- केचिदेवं व्याचक्षते । सुषुप्तौ ब्रह्मसम्पन्नो य एव जीवः (किं) स एवोत्तिष्ठति

उत अन्योऽपीति संशये महाजलनिधौ क्षिप्तस्योदबिन्दोरिव ब्रह्मणैकभूतस्योद्धरणासम्भवादनियम इति प्राप्ते समाधीयते । स एवोत्तिष्ठति, यः सुप्तः । कुतः । कर्मशेषसमापनात्प्रत्यभिज्ञानाच्छब्देभ्यो विधिभ्यश्च । सुप्तस्य मुक्तत्वापत्त्या विध्यनुपपत्तेरिति । तदेतदपव्याख्यानमिति सूचनायाधिकरणतात्पर्यमाह नान्य इति ।

अनु०- नान्यः कर्ताऽस्य कश्चन ।

स्वप्नादीनां परमेश्वरकृतत्वेऽभिहिते किं देशकालान्तरेऽन्योऽपि कर्ताऽस्त्युतेश्वर एवेति संशये लौकिकेश्वराणां देशकालव्यवस्थयैश्वर्यदर्शनादयमपि तथाविध इति प्राप्ते । स एव ईश्वरोऽस्य स्वप्नादेः कर्ता न तु देशकालान्तरेऽन्यः कश्चनेत्येष एवार्थोऽत्र प्रतिपाद्यत इति । न हि यः सुप्तः स एवोत्तिष्ठत्यन्यो वेति कस्यचित्संशयोऽस्ति । न च सुप्तस्य ब्रह्मणैक्यं प्रमाणदृष्टमिष्टं वा परस्येति यत्किञ्चिदेतत् । लाघवार्थं क्रमोल-लङ्घनेन व्याख्यानमिति बो(द्धव्य)ध्यम् । सूत्रकृता च स्वप्नादिवन्न मोहः स्वतन्त्रावस्थेति ज्ञापनाय व्यवधानं कृतमिति ।। ३२६ ।।

।। इति कर्मानुस्मृत्यधिकरणम् ।।

न्यायसुधा

।। अथ स्थान(तोऽप्य)भेदाधिकरणम् ।।

ब्र०सू०- ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ।।

१६३सु०- केचिदिदमित्थं व्याचक्षते । द्विरूपं ब्रह्म श्रूयते सर्वकर्मा सर्वकाम इत्यादौ सविशेषमस्थूलमनण्वित्यादौ निर्विशेषम् । तत्र किमुभयरूपं ब्रह्म प्रतिपत्तव्यमुतान्यतररूपम् । यदाऽप्यन्यतररूपं तदा(ऽपि) किं सविशेषमुत निर्विशेषमिति संशये द्विविधश्रुत्यनुरोधादुभयरूपमेव ब्रह्मेति प्राप्ते इदमुच्यते ।

न तावत् स्वत एव परस्य ब्रह्मण उभयरूपत्वं सम्भवति, विरोधात् । अस्तु तर्हि स्थानतः पृथिव्याद्युपाधियोगात् । मैवम् । न ह्युपाधिरन्यदन्यथाकरोति किन्त्वविद्योपस्थापिताः पृथिव्याद्युपाधयो भ्रममुपजनयन्ति । अतश्चान्यतरपरिग्रहेऽपि निरस्तसमस्तविशेषमेव ब्रह्म प्रतिपत्तव्यम् । सर्वत्राशब्दमस्पर्शमित्यादिवाक्येषु तथाभूतमेव हि ब्रह्मोपदिश्यते ।

न भेदादिति चेन्न प्रत्येकमतद्वचनात्

न निर्विशेषमेव ब्रह्म । चतुष्पाद्ब्रह्म षोडशकलं ब्रह्मेत्यादौ भेदेनोपदेशादिति चेन्न । यश्चायमस्यां पृथिव्यामित्यादिना प्रत्युपाधि भेदाभाववचनात् ।

अपि चैवमेके ।

नेह नानाऽस्ति किञ्चनेत्यादौ भेददर्शननिन्दापूर्वकमभेदमेके शाखिनः समामनन्तीति ।

तदिदं व्याख्यानं सम्यग्व्याख्यानेनैवापहस्तितं भविष्यति किं पुनः प्रयत्नेनेत्याशयवान् व्याख्यानमेवारभते ।

सर्वशरीरेषु, प्रतिशरीरं च दक्षिणाक्ष्यादिस्थानेषु, स्थितः परमपुरुषः स्वप्नाद्यवस्थाः प्रवर्तयतीत्युक्तम् । तत्र सर्वत्र स्थितः किमेक एवोत परस्परं भिन्न इति संशये यद्युगपदि्भन्नस्थानं तदि्भन्नं दृष्टम् । यथा घटादि । भिन्नस्थानश्चायमित्यतो भिन्न एव भवेत् । भिन्नानां च तारतम्यमनुग्राह्यानुग्राहकभावश्चोपलब्ध इति तत्प्रसङ्गोऽपीति कथं स एव चेत्युक्तमिति प्राप्ते प्रतिविहितं सूत्रकृता न स्थानतोऽपीति । तद्व्याचष्टे नेति ।

अनु०-न स्थानभेदतोऽप्यस्य भेदः कश्चित्परेशितुः

अत्र स्थानशब्दस्तद्भेदस्योपलक्षण इत्युक्तं भवति । सप्तम्यर्थे तसिः । आद्यादिभ्य उपसङ्ख्यानात् ।

१६४सु०- भेद इति वदता उभयलिङ्गमि त्येतदि्भन्नस्वरूपत्वमिति व्याख्यातम् । स्थानानां सुरनरादिशरीराणां तत्रापि दक्षिणाक्ष्यादीनां भेदे सत्यप्यस्य तत्र तत्र स्थितस्य परेशितुः कश्चित् अन्योऽन्याभावलक्षणो हीनाधिकत्वरूपोऽनुग्राह्यानुग्राहकत्वरूपो वा, भेदो नास्ति । कुत इत्यतः सर्वत्र हीत्युक्तं व्याचष्टे सर्वत्रेति ।

अनु०-सर्वत्राशेषदोषोज्खपूर्णकल्याणचिद्गुणः ।

सर्वत्र स्थानेषु निर्भेदश्चेत्यपि द्रष्टव्यम् । अशेषदोषोज्खश्चासौ पूर्णकल्याणचिद्गुणश्चेति विग्रहः । कल्याणा विनाशादिरहिताः ।

यद्वा गुणशब्दो दुःखादिष्वपीत्यतः कल्याणेत्युक्तम् । चिच्छब्दात्परत आदिपदमध्याहार्यम् । अथवा चिद्रूपा न त्वचेतना इत्यर्थः । सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षत इत्यादौ परमात्मा श्रूयते यत इति शेषः ।

१६५सु०- उक्तमर्थमाक्षिप्य समाधातुं सूत्रं न भेदादिति ।

ब्र०सू०-ॐ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॐ ।।

निर्भेदं सर्वत्र सर्वदोषदूरं सकलगुणपरिपूर्णं ब्रह्मेति नोपपद्यते । कार्यकारणबद्धौ तौ इत्यादिश्रुतिपुराणादिवाक्यैः भिन्नत्वदोषित्वाल्पगुणत्वादेः भेदशब्दोपलक्षितस्योक्तत्वादित्याक्षेपार्थः । नेति परिहारांशं व्याचष्टे तद्विरुद्धं त्विति ।

अनु०-तद्विरुद्धं तु यत्तत्र मानं नैव क्वचिद्भवेत्

यत्तु वाक्यं तस्योक्तार्थस्य विरुद्धं प्रतीयते तत्तत्र उक्तविरुद्धे क्वचिदर्थे मानं नैव भवेत् किन्त्वन्य एव तस्यार्थः प्रतिपत्तव्यः । कुत इत्यतः प्रत्येकमतद्वचनादित्युक्तम् । तदनुपपन्नमिवाभाति । सर्वत्र हीत्युक्तस्य प्रतिपक्षचोदनायां पुनस्तन्मात्रोपन्यासस्य व्यर्थत्वात् । अतः तात्पर्यमाह महातात्पर्येति ।

अनु०-महातात्पर्यरोधेन कथं तन्मानमत्र तु

सकलस्मृतीतिहासपुराणानां परमेश्वरस्य अशेषदोषदूरत्वे समस्तगुणपरिपूर्णत्वे च यन्महातात्पर्यं तद्विरोधेन तत् वाक्यं अत्र भगवतो दोषित्वादौ कथं मानं भवेत् । तुशब्दो महावाक्यत्वावान्तरवाक्यत्वलक्षणविशेषार्थः । दृष्टं हि निर्णीतमहावाक्यार्थविरुद्धस्य तदवान्तरवाक्यस्य तत्राप्रामाण्यम् । यथा स्वर्गप्रयोजनाग्निहोत्रपरमहावाक्यार्थविरुद्धस्य यद्यमुष्मिल-लोकेऽस्ति वा न वेत्यादेस्तदवान्तरवाक्यस्य महावाक्यं हि प्रधानम् । अनन्यार्थत्वात् । अप्रधानं त्ववान्तरवाक्यम् । तदर्थप्रतिपत्तिहेतुत्वात् ।

१६६सु०- स्यादेवम् । यदि परमेश्वरस्य सकलगुणपरिपूर्णत्वे निरस्तसमस्तदोषत्वे च वेदादीनां महातात्पर्यमित्यर्थः प्रमाणवान् स्यात् । तदेव तु न पश्याम इत्यत आह दुःखेति ।

अनु०-दुःखाप्ययसुखावाप्तिहेतुत्वेनैव वेदवाक् ।भवेन्मानं

मोक्षहेतुत्वेनेति वक्तव्ये दुःखाप्ययेत्यादिवचनं वादिविप्रतिपत्तेर्मोक्षस्वरूपनिरूपणार्थमात्यन्तिकदुःखनिवृत्तिर्निरतिशयसुखाभिव्यक्तिश्च मुक्तिरिति ।

यद्वाऽप्रधानप्रयोजनस्वर्गादिसङ्ग्रहार्थमिदम् । इत्थम्भूतलक्षणे तृतीया । दुःखाप्ययसुखावाप्तिहेतुत्वेनैव तद्धेतुत्वं यथा निर्वहेत् तथैव, मानं कस्यचिदर्थस्य प्रतिपादिका भवेत् । वेदवागिति स्मृत्यादेरुपलक्षणम् ।

एतदुक्तं भवति । शास्त्रेण हि विषयप्रयोजनवता भाव्यम् । प्रमाणत्वात् परार्थत्वाच्च ।

तत्र यदा विषयः सन्दिग्धः प्रयोजनं च निश्चितं तदा निश्चितेन प्रयोजनेनानिश्चितो विषयो निश्चेतव्यः । न हि शास्त्रं साक्षात् प्रयोजनस्य कारकम् । किन्तु विषयप्रतिपादनद्वारैव । तथा च तत्प्रयोजनं यस्मिन् ज्ञापिते सम्पद्यते स एव विषयोऽवधार्यते । अन्यथा विषयप्रयोजनयोरसम्बद्धत्वेन शास्त्रस्यानुपादेयताऽऽपत्तेः । वेदादेश्च मोक्ष एव प्रधानं प्रयोजनम् । तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तत इत्यादेः । स्वर्गादिकं चाप्रधानम् । अतः स एव विषयः कल्पनीयो यस्मिन्ज्ञा(पि)ते मोक्षादिकं सम्प(द्यत इति)द्येतेति ।

१६७सु०- ततः किमित्यत आह तदिति ।

अनु०- तदीशानात् प्रसन्नादेव नान्यथा

तत् दुःखाप्ययादिरूपं कैवल्यम् । ईशानात् विष्णोरेव भवेन्नान्यस्मात् । स हि तस्येष्टे नान्यः । अस्तु तर्हि स एव विषयः किं गुणपूर्णत्वादिनेत्यत उक्तं प्रसन्नादेव नान्यथा न ज्ञातमात्रादिति ।

ततोऽपि किमित्यत आह प्रसन्नेति ।

अनु०-प्रसन्नता गुणोत्कर्षज्ञानादेव हि केवलम् ।निर्दोषतापरिज्ञानादपि नान्येन केनचित्

विष्णोः प्रसन्नता च तदीयगुणोत्कर्षज्ञानादेव केवलं निर्दोषतापरिज्ञानाच्च भवति । हिशब्दः प्रमाणप्रसिदि्धं द्योतयति । तच्च वक्ष्यते । केवलशब्दोऽवधारणार्थः । नान्येन केनचिदित्येतत्प्रतिरूपेण अल्पगुणत्वादिज्ञानेन कर्मादिना वा नेत्यर्थः । तथा च मोक्षादिप्रयोजनेन शास्त्रेण तत्साधनभूतं भगवद्गुणोत्कर्षनिर्दोषताज्ञानमेव जीवानामुत्पादनीयमित्यतः सकलगुणपरिपूर्णे निरस्तसमस्तदोषे नारायण एवाशेषशास्त्रस्य महातात्पर्यमित्यवसीयते ।

१६८सु०- स्यादेतद्यदि तदीशानादित्यादिनोक्तं प्रामाणिकं स्यादित्यतस्तत्रागमवाक्यान्युदाहरति यो मामिति ।

अनु०-यो मामशेषदोषोज्खं गुणसर्वस्वबृंहितम् ।जानात्यस्मै प्रसन्नोऽहं दद्यां मुक्तिं न चान्यथा ।यो मामशेषाभ्यधिकं विजानाति स एव माम् ।विजानात्यखिलांस्तस्य दद्यां कामान् परं पदम् ।यो मामेवमसम्मूढः किं मां निन्दन्ति शत्रवः ।

बृंहितशब्देन प्रत्येकमपि गुणानामनवधिकत्वमाचष्टे । अशेषाभ्यधिकं गुणैर्दोषाभावैश्च सर्वोत्तमम् । स एव मां विजानाति । अन्यज्ञानस्य मत्प्रसादाहेतुत्वात् । यो मामेवमि त्यनेन कृतकृत्यस्य भारते त्यन्तं भगवद्वाक्यं सङ्गृह्णाति । एवं समस्तैर्गुणैर्दोषाभावैश्च । क्षराक्षरोत्तमो हि पुरुषोत्तमः । स सर्वविदित्यादिस्तुत्या प्रसन्नता द्योत्यते । सर्वभावेन सर्वेण प्रकारेण । अन्यथा व्याघातात् । कृतकृत्यो मुक्तः । किं मामि त्यनेन अभी ३ इदमेकमेको अस्मि निष्पालभी द्वा किमु त्रयः करन्ति । खले न पर्षान्प्रति हन्मि भूरिकिम्मा निन्दन्ति शत्रवोऽनिन्द्रा (ऋ. १०४८७) इति श्रुतिमुपादत्ते । इदमेकं विश्वं अभि प्रति अहमेको निष्पालस्मि नितरां सहत इति निष्पाट् । द्वौ प्रपञ्चावभि प्रति अहमेको निष्पालस्मि । त्रयोऽपि प्रपञ्चा मम किमेव कुर्वन्ति न किमपि ममानिष्टं कर्तुमीशते । किन्त्वहमेव खल इव खलस्थितानि धान्यानीव भूरि भूरीन् बहून् बहुवारं वा तान्निष्ठुरान्निन्दकान् प्रतिहन्मि । तस्मादनीश्वरास्ते शत्रवो मां किं निन्दन्तीत्यर्थः । एतद्भगवतो वाक्यम् । अत्र निन्दकेषु भगवतोऽप्रसादोऽ(नर्थावा)निष्टावाप्तिश्च श्रूयते । निन्दा च दोषज्ञानादिकेति प्रसिद्धमेव ।

१६९सु०- वाक्योदाहरणफलमाह इत्यादीति ।

अनु०-इत्यादिवेदस्मृतिगवाक्यैरेवावसीयते

अवधारणेन प्राबल्यं सूचयति । प्रसादेन मुक्तिः सगुणवेदनादि ति वक्ष्यमाणमत्रापि सम्बध्यते । अत्रानुमानमप्याह लोकतश्चेति ।

अनु०- लोकतश्च प्रसादेन मुक्तिः सगुणवेदनात्

इतिशब्दोऽध्याहार्यः । अवसीयत इति वर्तते । भगवत्प्रसादेन संसारान्मुक्तिर्भवति स भगवत्प्रसादस्तद्गुणोत्कर्षवेदनाद्दोषाभाववेदनाच्च भवतीत्ययमर्थो लोकतो लोकदृष्टान्तोपेतानुमानतश्चा(नुमीयते)वसीयते । तथा च प्रयोगः । संसारान्मुक्तिः समर्थ(परमपु)पुरुषप्रसादसाध्या मुक्तित्वान्निगडमुक्तिवत् । न (च्) हि भगवतोऽन्यस्तत्र समर्थोऽस्ति ।

विमतो भगवत्प्रसादो गुणोत्कर्षज्ञानसाध्यो महाप्रसादत्वाद्राजप्रसादवत् । पक्षतुल्यत्वान्न व्यभिचारश्चोदनीयः ।

१७०सु०- महातात्पर्यरोधेनेत्यादिनोक्तम् उपसंहरन् परकृतापव्याख्याननिरासेऽप्युक्तां युक्तिमतिदिशति महातात्पर्येति ।

अनु०-महातात्पर्यमुख्यस्य विरोधादत एव हि ।दोषित्वनिर्गुणत्वाल्पगुणत्वादि कथञ्चन । नार्थः श्रुतिपुराणादेः

परममहातात्पर्यस्य । निर्गुणत्व ग्रहणमपव्याख्याननिरासार्थम् । कथञ्चने त्युपाधिसम्बन्धादिनेत्यर्थः । न केवलमानुमानिकं सकलवेदा(दीनां)न्तानां भगवद्गुणोत्कर्षादौ महातात्पर्यम् । किन्तु वाचनिकं चेत्याह तद्विरुद्ध इति ।

अनु०-तद्विरुद्धोऽखिलस्य च । अर्थः स्वयं विनिर्णीतो वासुदेवेन सादरम्

दोषित्वात् अविरुद्धः । अखिलस्य शास्त्रस्य । तद्वाक्यं पठति इति गुह्यतममिति ।

अनु०-इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।एतद्बुद्ध्वा बुदि्धमान् स्यात् कृतकृत्यश्च भारत । इति

इति यन्मया मम पुरुषोत्तमत्वादिकमुक्तं इदं गुह्यतमं शास्त्रं तात्पर्येण सर्वशास्त्रैः प्रतिपाद्योऽर्थः । एतद्बुद्ध्वा इति प्रशंसया आदरः प्रतीयते । यदुक्तं स्थानभेदानुमानं तदन्यथासिद्धमिति परेशितुरित्यनेन सूचितम् । यथोक्तम् । ऐश्वर्याद्रूपमेकं च सूर्यवद्बहुधेयते इति । कालातीतं चेत्याह अत इति ।

अनु०- अतोऽखिलसच्छास्त्रविरुद्धत्वेन नानुमा ।वर्तते तत्र

तत्र परमेश्वरभेदादौ ।

अधिकरणार्थमुपसंहरति तेनेति ।

अनु०-तेनेशो निर्णीतोऽखिलसद्गुणः ।

सच्छब्दो निर्दोषार्थः । निर्भेद इत्युपसंहर्तव्ये तत्फलोपसंहारोऽयमपव्याख्याननिरासमप्युपसंहर्तुम् ।। ३२८ ।।

।। इति स्थान(तोऽप्य)भेदाधिकरणम् ।।

न्यायसुधा

।। अथ उपमाधिकरणम् ।।

ब्र०सू०-।। ॐ अत एव चोपमा सूर्यकादिवत् ॐ ।।

१७१सु०- इह परमेश्वरे जीवस्यात्यन्तिकभक्तिसिद्धये भेदाभेदमतं निराक्रियते । तथा हि । जीवब्रह्मणोर्भेदस्तावत्सिद्धान्तिनाऽङ्गीक्रियत एव । अभेदस्त्वनुमानतः सिद्धः । जीवो ब्रह्माभिन्नश्चेतनत्वाद्ब्रह्मवत्; ब्रह्मांशत्वात् । यो यदंशः स तदभिन्नो यथेश्वरांशो मत्स्यादिस्तदभिन्न इति । अतो भिन्नाभिन्नो ब्रह्मणा जीव इत्येवं प्राप्ते प्रतिविहितं सूत्रकृता सूर्यकादिवदिति सूत्रखण्डेन । तदेतद्दृष्टान्तवचनमात्रं न कस्यचिदर्थस्य साधकं बाधकं वेत्यतः पूर्वपक्षनिषेधपूर्वकं प्रतिज्ञाहेतू दर्शयति न चेति ।

अनु०-न च चित्त्वादभिन्नत्वं जीवस्येशवदाप्यते ।यत आभासतामेव श्रुतिरस्य वदत्यलम्

चित्त्वादित्यंशत्वस्याप्युपलक्षणम् । अभिन्नत्वं ब्रह्मणेति शेषः । ईशवत् ब्रह्मवदीश्वरावतारवच्च । आप्यते युज्यते । अस्य जीवस्य । अस्य ब्रह्मण आभासताम् । एवेत्यविगानेनालं विस्पष्टम् । एतदुक्तं भवति । न चेतनत्वाद्यनुमानेन जीवस्य ब्रह्माभेदसाधनं युक्तम् । जीवो ब्रह्माभिन्नो न भवति तदाभासत्वाद्यो यदाभासो नासौ तदभिन्नो यथासूर्यकादिः सूर्यादिनेत्यनुमानविरोधात् । न चासिद्धो हेतुर्विस्पष्टश्रुतिसिद्धत्वादिति ।

१७२सु०- काऽसौ श्रुतिरित्यतस्तामुदाहरति यथेति ।

अनु०-यथैषा पुरुषे छाया एतस्मिन्नेतदाततम्

छायाऽऽतता तथैतस्मिन्परमात्मनि एतज्जीवजातं आततं आयत्तमिति यावत् ।

एतदेव विशदश्रुतिभ्यां दर्शयति छायेति ।

अनु०-छाया यथा पुंसदृशी पुमधीना च दृश्यते ।एवमेवात्मकाः सर्वे ब्रह्माद्याः परमात्मनः । सत्ताप्रतीतिकार्येषु पुमधीना यथेयते । आभासा एव पुरुषा मुक्ताश्च परमात्मनः

आत्मका अल्पचेतनाः । पुरुषाः संसारिणः । तदधीनत्वादिकमेवाभासत्वमिति

वक्ष्यति । परमेश्वराभासत्वं (न सर्वेषां सा) च न साक्षात्किन्तु पारम्पर्येणेति स्वरूपकथनाय श्रुतिद्वयं पठति छाया विष्णोरिति ।

अनु०-छाया विष्णो रमा, तस्याश्छाया धाता, विशेषकौ । तस्य, इन्द्रकामौ च तयोः, तयोरन्येऽखिला अपि । हरेर्ब्रह्मा,ऽस्य गीः, तस्या विशेषौ, इन्द्र एतयोः । मारश्चाभासकाः सर्व एतयोस्तदधीनतः ।सर्वेऽल्पशक्तयश्चैव पूर्णशक्तिः परो हरिः ।

चेतनत्वेऽपि भिन्नास्ते तस्मादेते न सर्वदा

छायेव छाया । विशेषकौ गरुडशेषौ । तस्य धातुश्छाये । तयोः गरुडशेषयोः । पुनस्तयोरिन्द्रकामयोः । हरेर्ब्रह्मा । आभास इति सर्वत्र सम्बन्धः । आभासत्वव्याख्यानं तदधीनत इति । सर्व इत्यनेन सर्वेषां परमेश्वराभासत्वमुपपादयति । चशब्दो हरिस्त्विति तुशब्दार्थः । आभासत्वे किमित्यत उक्तं चेतनत्वेऽपीति । अत्रापि तदंश(त्वस्योप)त्वोपलक्षणम् । तस्मात् आभासत्वात् । सर्वदा इत्यनेन भिन्ना एवेत्यवधारणं सूचयति । उदाहृतश्रुतीनां फलमाह इत्यादीति ।

अनु०-इत्यादिश्रुतिवाक्येभ्यो ज्ञायते भेद एव हि

जीवस्य परमेश्वराभासत्वं ज्ञायते तेनात्यन्तभेदश्च ज्ञायत इत्यर्थः । न परानुमानयोः सत्प्रतिपक्षत्वमुच्यते । किन्त्वस्मदीयानुमानस्य श्रौतत्वेन प्रबलत्वाद्बाधितत्वमिति भावः ।

१७३सु०- इदानीं अत एव चोपमे ति सूत्रावयवं व्याख्यातुं तन्निवर्तनीयामाशङ्कामाह आभासत्वं हीति ।

अनु०-आभासत्वं हि निर्णीतं जीवस्य परमात्मनः ।तन्न युक्तं

यज्जीवस्य परमात्मन आभासत्वं श्रुतिबलेन निर्णीतं तद्युक्तिविरुद्धम् । न हि निरवकाशायुक्तिविरुद्धोऽर्थः श्रुत्याऽपि प्रतिपादयितुं शक्यते । तथा सति अभिमान्यधिकरणानारम्भप्रसङ्गात् । अतः सा कथञ्चिद्योजनीयेति ।

कथं न युक्तमित्यत आह यदिति ।

अनु०- यदाभास उपाध्यायत्त ईयते

यस्मादाभासः सूर्यकादिर्जलाद्युपाध्यायत्तो ज्ञायते । आभासत्वस्योपाध्यायत्तत्वं व्यापकत्वेन सर्वत्र निश्चितमित्यर्थः । तथाऽपि कुतो न युक्तमित्यत आह उपाधीति ।

अनु०-उपाध्यायत्तताभावात्

जीवानामिति शेषः । व्यापकस्योपाध्यायत्तत्वस्य जीवेष्वभावाद्व्याप्यमप्याभासत्वं

न युक्तम् । ततो हेतोरसिद्धेर्दुष्टमनुमानम् । इतश्च दुष्टमित्याह आभासत्वेति ।

अनु०- आभासत्वविरोधतः

आभासत्वस्य भिन्नत्वेन विरोधतश्चानुमानं दुष्टम् । तथा हि । दर्पणादिना सन्निकृष्टाः प्रतिहताः परावृत्ता नायनरश्मयो मुखेन सन्निकृष्टास्तदेव विषयीकुर्वन्ति । न तु ततोऽन्य आभासो नामास्ति । तत्र व्यवच्छेदः पराक्तवं सव्येतरव्यत्यासश्चेत्यादिकं भ्रान्त्यैव प्रतीयते । सोपाधिकश्चायं भ्रम इति यावदुपाधिसत्त्वं न निवर्तते । एवञ्चाभासत्वस्याभेदेन व्याप्तत्वाद्भेदसाधने विरुद्धत्वमिति । उपलक्षणं चैतत् । तत्त्वमस्यादिश्रुतिविरुद्धत्वेन कालातीतत्वमपि द्रष्टव्यम् ।

एवमाभासत्वानुमाने दुष्टे किम् इति चेन्निराबाधेन प्रागुक्तानुमानद्वयेनैक्यं सिद्धमित्याह चेतनत्वेनेति ।

अनु०-चेतनत्वेन चांशत्वात् समुदायैक्यमापतेत् ।

अंशत्वाच्चेत्यन्वयः । ऐक्यं च साध्यमानं न मायावादिनामिवेत्युक्तं समुदायेति ।

१७४सु०- मायावादिनो हि जीवानां प्रत्येकं ब्रह्मणाऽत्यन्ताभेदमङ्गीकुर्वते । न चैवमस्मन्मतम् । समुदायैक्ये भेदस्यापि सत्त्वादिति । अत्यन्ताभेदं परित्यज्य समुदायैक्यं कुतोऽङ्गीक्रियत इत्यत आह अत इति ।

अनु०-अतः पृथक्तवमुदितं समुदायांशयोर्भवेत्

समुदायैक्याङ्गीकारतो यच्छत्याद्युक्तं पृथक्तवं तत्समुदायस्य तदंशस्य च जीवस्य भवेत् । समुदायस्य यावंशौ जीवेश्वरौ तयोर्भवेदिति वा । एतदुक्तं भवति । यदि जीवस्य ब्रह्मणाऽत्यन्ताभेदः सा(ध्येत)ध्यते तदा भेदश्रुतय उपरुध्येरन् । मायिक(भेद)परत्वाभिधाने चाप्रमाणमापद्येरन् । न चायमस्माकमस्ति दोषः । जीवब्रह्मणोर्जीवेश्वरयोश्च भेदसद्भावेन तद्विषयत्वोपपत्तेरिति । एतेन चेतनत्वाद्यनुमानस्याभासोद्धारः कृतो भवति ।

समुदायैक्यमित्युक्तम् । तत्किञ्चित्प्रपञ्चयति ईशाख्येति ।

अनु०-ईशाख्या समुदाये स्यात्

ईशशब्दो ब्रह्मपरः । समुदाये चेतनानाम् । एतदुक्तं भवति । ब्रह्मैकमेव स्वभावसिद्धं तत्त्वं तत्परमार्थभूतं मायासम्बन्धादीश्वरतामापद्यते । स च सर्वज्ञः सर्वेश्वरो जगज्जननादिकर्ता । जीवास्तु ब्रह्मणोंऽशाश्चित्स्वभावा वह्नेरिव विष्फुलिङ्गा अत एव ब्रह्मणो भिन्नाभिन्नाः । परस्परमीश्वराच्च भिन्ना एव । ब्रह्म तु सकलचेतनसमुदायात्मकमतिरिक्तं चेति । अत्र दृष्टान्तमाह ईशेति ।

अनु०- ईशरूपेष्विवोदिता

यथा भगवद्रूपाणां मत्स्यादीनां समुदाये भगवत्संज्ञा न स्थानतोऽपीत्यादौ सिद्धान्तिनोदिता तथा । एतेनात्यन्ताभेदं परित्यज्य भेदाभेदाङ्गीकारे श्रुतिद्वयमिवांशत्वानुमानं चोक्तं भवति । यदि मत्स्यादयः परमेश्वरस्येव जीवा ब्रह्मणोंऽशाः स्युस्तदा मत्स्यादीनामैश्वर्यादिवज्जीवानां निर्दुःखत्वादिकं स्यात् । अंशेष्वंशिसाधर्म्यस्याव्यभिचारात् ।

१७५सु०- किञ्च यदि जीवस्य ब्रह्मणाऽभेदोऽपि परमार्थः स्यात् तदा ब्रह्मैव भवतीत्युक्ता मुक्तिरयुक्ता स्यादित्यत आह अत इति ।

अनु०-अतो देहाद्युपाधीनामपाये समता भवेत् । ईशरूपैः

बुदि्धसन्निहितं तदीयसिद्धान्तमत इति परामृशति । न जीवानां ब्रह्मणा भेदाभेदौ स्वाभाविकौ । किन्त्वभेदः स्वाभाविको भेदस्त्वौपाधिकः । यथेश्वरांशानां मत्स्यादीनामीश्वरेण । इयांस्तु विशेषः । मत्स्याद्या जगदनुग्रहार्थं लीलाविग्रहोपाधिभिन्ना अतिरस्कृतैश्वर्यादिमन्तः ।

जीवास्तु अनाद्यविद्याकामकर्मादिनिबन्धनदेहेन्द्रियाद्युपाधिभिन्नाः तिरस्कृतब्रह्मस्वभावा उपाधिनिबन्धनदुःखादिभाजश्चेति । यत एवमौपाधिक एव भेदोऽतो ज्ञानकर्मभ्यां देहाद्युपाधीनामात्यन्तिकेऽपाये सति जीवानामीशरूपैः समता भवेत् । यथेश्वररूपाणि कार्यावसाने स्वेच्छयैव लीलाविग्रहत्यागेनेश्वरतामापद्यन्ते । तथा जीवा अप्यनुष्ठितज्ञानकर्मसमुच्चयाः प्रारब्धकर्मावसाने देहाद्युपाधिभिरत्यन्तविमुक्ताः स्वाभाविकं ब्रह्मत्वमापद्यन्त इति न कश्चिद्दोषः ।

१७६सु०- यदुक्तमुपाध्यायत्तताभावादिति तदसिद्धम् । जीवानामपि सूर्यकादिवदाभासत्वाङ्गीकारे बाधकाभावादिति भावेनाशङ्कते अथेति ।

अनु०- अथाभासा मुख्यतः सूर्यकादिवत् । यदा

अथशब्दः शङ्कोपक्रमे पक्षान्तरे वा । आभासाः जीवाः । मुख्यत इति उपाध्यायत्त

त्वेन । सूर्यकादिना तुल्यं वर्तत इति सूर्यकादिवत् । उत्तरवाक्ये वाऽस्य सम्बन्धः । परिहरति तदेति ।

अनु०-तदोपाध्यायत्तरूपाणां नाशिता भवेत्

यदि जीवानामुपाध्यायत्तता स्यात् तर्ह्युपाधिनाशे सूर्यकादीनामिव तेषां नाशिता भवेत् । अथोपाधयोऽविनाशिनस्तदा प्रत्यक्षादिविरोधः सर्वदा संसारित्वं च स्यादित्युभयथा मोक्षशास्त्रवैयर्थ्यम् । तस्मादुपाध्यधीनत्वेऽङ्गीकर्तुमशक्ये सुस्थैवाभासत्वस्यासिदि्धरिति ।

१७७सु०- एतदाशङ्कानिवर्तकत्वेन सूत्रावयवमवतारयति इत्याशङ्केति ।

अनु०-इत्याशङ्कानिवृत्त्यर्थमाह वेदाधिपः प्रभुः ।अत एवोपमेत्येव च

च शब्दोऽत एव चोपमेति भिन्नक्रमः । एतावदेव वाक्यमेतदाशङ्कानिरासार्थं न पुनरिदं सूत्रस्य प्रतीकग्रहणमिति एवशब्दः । अन्यथा हि सूर्यकादिवदित्यस्यावृत्तिराशङ्क्येत । यद्वैकवाक्यतानिरासेन परकृतस्यापव्याख्यानतामाह; यत एवायमात्मा चैतन्यस्वरूपो निर्विशेषो वाङ्मनसातीतः परप्रतिषेधोपदेश्योऽत एव चास्योपाधिनिमित्तामपारमार्थिकं विशेषवत्तामभिप्रेत्य जलसूर्यकादिवदित्युपमोपादीयते मोक्षशास्त्रेष्विति । यद्यप्येवमेकवाक्यतालाभः तथाऽप्यर्थदोषस्तत्र तत्र व्युत्पादित एव । वतेर्वैयर्थ्यं च । सूर्यकादिरित्येतावता पूर्णत्वात् ।

इति शब्दाध्याहारश्चैवं न कर्तव्य इति ।

१७८सु०- सूत्रखण्डस्य तात्पर्यमाह अन्येति ।

अनु०-अन्याभासविशेषिताम्

अन्यस्मात्सूर्यकादेराभासात् जीवानां विशेषितां विलक्षणतां अनेन सूत्रखण्डेनाह सूत्रकारः । तदेतत्तात्पर्यं सूत्राक्षरैः कथं लभ्यत इत्यत एतच्छब्द (इदंशब्द)परामृष्टमर्थं तावत् दर्शयति यदुक्तमिति ।

अनु०-यदुक्तं तदधीनत्वं सर्वावस्थास्वशेषतः ।जीवस्य सदृशत्वं च चित्त्वमात्रं न चापरम्

तदधीनत्वं परमात्माधीनत्वम् । अशेषतो ऽशेषेषु व्यापारेषु । सन्ध्ये सृष्टिराह हीत्यादौ । सदृशत्वं च परमात्मना, यदुक्तं पुंस्त्वादिवदित्यादौ किं तत्सदृशत्वम्, चित्त्वमात्रम् । न चापरं स्वातन्त्र्यादिकं; येन हेतोर्विरुद्धता स्यादिति भावः ।

१७९सु०- इदानीमत एव चोपमेति वाक्यं योजयति तावन्मात्रेण चेति ।

अनु०-तावन्मात्रेण चाभासो रूपमेषां चिदात्मनाम्

तदधीनत्वतत्सदृशत्वमात्रेणैषां चिदात्मनां रूपं स्वरूपमस्माभिराभास इत्युक्तम् । सूर्यकाद्युपमा च तावन्मात्रेण चोपपत्तेरिति चार्थः । जीव इति वक्तव्ये एषां चिदात्मनां रूपमिति वचनं मुक्तेष्विदं द्वयमस्तीति दर्शयितुम् । अनेन अत एव प्रकृताभ्यां तदधीनत्वतत्सदृशत्वाभ्यामेव । आभासत्वं सूर्यकाद्युपमा चोक्तेति स्वाभिप्रायप्रकटनं सूत्रार्थ इत्युक्तं भवति । एवशब्दव्यावर्त्यं दर्शयति नेति ।

अनु०-नोपाध्यधीनताद्यैश्च

उपाध्यधीनत्वतन्नाशनश्यत्वजडत्वाद्यैरपि नेत्यर्थः । (इह) बहुवचनप्रयोगान्नाशिता भवेदित्यापादनमप्युपलक्षणं बोद्धव्यम् ।

१८०सु०- नन्वेवं सति दृष्टान्तदार्ष्टान्तिकभावो न स्यात् । अत्यन्तसाम्ये हि स भवति । अन्यथा प्रमेयत्वादिमात्रसाम्यस्य सर्वत्र सम्भवेन मशकोऽपि मातङ्गस्य दृष्टान्तः स्यादित्यत आह नातिसाम्यमिति ।

अनु०-नातिसाम्यं निदर्शने

निदर्श्यते साध्येन साधनस्य व्याप्तिरत्रेति हि निदर्शनम् । अतः साध्यसाधनधर्मसाम्यमेव दार्ष्टान्तिकेन तत्रान्वेष्टव्यम् । न त्वतिसाम्यम् । तथा सति सर्वानुमानोच्छेदप्रसङ्गात् । मशकादेरपि विवक्षितधर्मसाम्ये दृष्टान्तत्वं नानिष्टमिति ।

१८१सु०- ननु चित्त्वमात्रमित्यसत् । मुक्तौ सुखाद्यङ्गीकारविरोधात् इत्यत आह किञ्चिदिति ।

अनु०-किञ्चित्सुखादिसादृश्यमपीशेनासुरानृते

असुरान्विहायान्येषां जीवानामीशेन किञ्चित्सुखादिसादृश्यमप्यस्त्येव । सुखादिसादृश्यं विद्यमानमप्यसर्वगामित्वान्नोक्तम् । चित्त्वसादृश्यं तु सर्वगामित्वादुक्तमिति भावः । निरवधिकसुखादिव्यवच्छेदाय किञ्चिदित्युक्तम् । अन्यथा हि हेतोर्विरुद्धता स्यात् ।

१८२सु०- अयं समुदायार्थः । ब्रह्माभासत्वादिति हेतोर्ब्रह्माधीनत्वात् तत्सदृशत्वाच्चेत्यर्थो न तु सूर्यकादिवत्प्रतिबिम्बत्वादिति । न चायमर्थोऽसिद्धः । निपुणतरं प्रागुपपादितत्वात् । न च उपाध्यधीनत्वेन व्याप्तो येन तद्व्यावृत्त्या व्यावर्तेत । उपाध्यधीनतारहितेष्वपि भावात् । न च भागासिदि्धः(द्धः) । चिदात्मस्वरूपतयोपपादितत्वात् । नापि विरुद्धः । भिन्नेष्वेव(ष्वपि) भावात् ।

तथाऽपि बिम्बप्रतिबिम्बयोरैक्यात् सूर्यकादिदृष्टान्तः साध्यसाधनविकल इति चेन्न । प्रमाणाभावात् । न तावत् प्रत्यक्षम् । तस्य प्रत्यक्तवपराक्तवादिना भेदग्राहित्वात् । प्रत्यभिज्ञानं त्वसिद्धमेव । नाप्यनुमानं लिङ्गाभावात् । अत्यन्तसादृश्यस्य सव्येतरकरादिना व्यभिचारात् । वैधर्म्याभावस्य चासिद्धत्वात् । क्रियासाम्यस्य छायादावनैकान्त्यात् । पृथक्कारणाभावस्य नित्येषु व्यभिचारात् । बिम्बकारणमात्रजन्यत्वस्य सन्दिग्धत्वात् । पृथग्दृष्टकार्यानुरोधेन ह्यदृष्टमपि पृथक्कारणं कल्प्यते । न तु कारणादर्शनेन दृष्टकार्यापलापः । तथा सति बहुविप्लवापत्तेः । ततः कारणमुपाधिरेव कल्प्यते । आगमास्तु प्रत्यक्षादि(क्षवि)विरोधादुपचरितार्था एव । यदि च जलादिना प्रतिहता नयनरश्मयो मुखमीक्षन्ते तदा शिलादिप्रतिहता अपीक्षेरन् । न चास्यां प्रक्रियायां स्वच्छतायाः कोऽप्युपयोगोऽस्तीत्यलम् । तत्त्वमस्यादिश्रुतिविरोधस्तु परिहरिष्यते । अतो निर्दोषमेवाभासत्वानुमानमिति ।

१८३सु०- ननु ब्रह्माभासशब्दो जीवस्य ब्रह्माधीनतां ब्रह्मसदृशतां च कया वृत्त्या वक्ति । गौण्येति चेत् । एवं तर्ह्यस्मदायत्ते शब्दप्रयोगेऽवाचकं किमिति प्रयोक्ष्यामह इति प्रयोजनं वाच्यम् । मैवम् । योगाश्रयणादित्याह तत इति ।

अनु०-तत आभासते नित्यं तद्वदाभासतेऽपि च ।भानमस्तित्वमपि चैवासमन्ताद्यतस्ततः ।जीव आभास उद्दिष्टः सदैव परमात्मनः ।

तेन परमात्मना निमित्तेनाभासते प्रतीतो भवतीति प्रतीतौ तदधीनत्वमुच्यते । तद्वत् । ब्रह्मवदाभासत इत्यनेन तत्सदृशत्वम् । अपि चेति व्याख्यानसमुच्चये । भानं ज्ञानम् । अस्तित्वं सत्त्वम् । अस्तिशब्दोऽव्ययम् । अस्ति स्वतीति पाठात् । अपि शब्दो भानास्तित्व योः समुच्चये । चशब्दो व्याख्यानसमुच्चये । एव शब्दस्य तत एवेति सम्बन्धः । आ इत्यनुवादेन समन्तादिति व्याख्यानम् । यतः कारणात् ततः परमात्मन एव जीवस्य भवतः ततः कारणादित्यावृत्त्या योज्यम् । भा च आसा च भाऽऽसे, आ सर्वकालवर्तिन्यौ भाऽऽसे आभासे, परमात्माधीने आभासे यस्यासौ परमात्माभासः ।

पूर्वान्तवत्स्वरःसन्धौ क्वचिदेव परादिवत् । द्रष्टव्यो यतिचिन्तायां यणादेशः परादिवदि ति वचनान्न यतिभङ्गः शङ्कनीयः ।

१८४सु०- न जलायत्तसूर्यादिप्रतिबिम्बोपमत्वत इति ।

अनु०-न जलायत्तसूर्यादिप्रतिबिम्बोपमत्वतः

सूर्यादिप्रतिबिम्बा यथा जलाद्युपाध्यायत्तास्तथोपाध्यायत्तत्वेनाभासो नेत्यर्थः । नन्वयमर्थो नोपाध्यधीनताद्यैरित्यनेनैवोक्तः । सत्यम् । यदुक्तमित्यादिनोक्त एवार्थस्तत आभासत इत्यादिना प्रपञ्चित इत्यदोषः । तथा हि । रूपमेषां चिदात्मनामि त्युक्तस्य तात्पर्यं सदैवेत्युक्तम् ।

स्यादेतत् । सूत्रकारेण दृष्टान्तमात्रमुक्तम् । तद्बलात्कश्चिद्धेतुरध्याहर्तव्यः । न चाभासत्वमेवेत्यस्ति नियमः । नाप्याभासपदोपादाने नियामकमस्ति । तस्मादसङ्गतमेतत् । मैवम् । आभास एव चेति सूत्रकारोक्तस्य ब्रह्माभासत्वस्यात्र हेतुत्वेन विवक्षितत्वात् । ब्रह्मांशत्वेन आक्षेपे तदधिकरणगतार्थस्यैव (तु) बुदि्धसन्निधानात् तत्र कर्तव्य एवायं चर्चोऽत्र कृत इति न कश्चिद्दोषः ।

ननूपाधिमत्त्वेनैव जीवस्य भगवत्प्रतिबिम्बत्वमिति सिद्धान्तः । उपाधेरपि नित्यचेतनत्वेन दोषपरिहारः । यथोक्तम् । उपाधेश्चैव नित्यत्वान्नैव जीवो विनश्यति । स्वरूपत्वादुपाधेश्च न भिन्नोपाधिकल्पने ति । तत्कथमेतत् । इत्थम् ।

द्विविधो हि जीवोपाधिः । आभ्यन्तरो बाह्यश्च । तत्र स्वरूप(स्वभाव)प्रतिभासहेतुराभ्यन्तरः । स्वभावविपरीतावभासहेतुरन्तःकरणादिर्बाह्यः । तदायत्तत्वादिकं चैतन्यस्य नास्तीत्यभिप्रेत्येदमुदितम् । तदुक्तम् । जीवोपाधिर्द्विधा प्रोक्तः स्वरूपं बाह्य एव च । बाह्योपाधिर्लयं याति मुक्तावन्यस्य तु स्थितिरि ति । निरुपाधिप्रतिबिम्बवाचोयुक्तेरपि बाह्योपाध्यधीनत्वाभावाभिप्रायेण नेतव्येति ।

१८५सु०- सौत्रश्चशब्द आभासत्वसमुच्चयार्थतया व्याख्यातः । अवधारणार्थो वा प्रतिपत्तव्यः । एवं तर्हि पुनरुक्तिदोषः । एवशब्दस्याप्यवधारणार्थत्वादित्यत आह तदधीनत्वमिति ।

अनु०-तदधीनत्वमेवेति किञ्चित्सादृश्यमेव च ।

सम्प्रकाशयतः सूत्रगतौ

एवे तिशब्दस्तदधीनत्वमेवेत्यर्थं, च (श्च)शब्दः किञ्चित्सादृश्यमेवेत्यर्थमित्युभावर्थद्वयं सम्प्रकाशयत इत्यावृत्त्या योज्यम् । यद्वैवेतिशब्दस्तदधीनत्वम्, चः किञ्चित्सादृश्यमित्युभावर्थद्वयं सम्प्रकाशयतः अवधारयत इति व्याख्येयम् । एतदुक्तं भवति । अत इत्यर्थद्वयं हेतुत्वेनोक्तम् । प्रत्येकं चोपाध्यधीनत्वादिकं व्यावर्तनीयम् । तदधीनत्वादेव तत्सदृशत्वादेवेति । तस्मादुभावपि सार्थकाविति ।

एवशब्देनैकेनैवशब्देनोभयावधारणं प्रतिषेधति । नन्वेकेनैवशब्देनार्थद्वयस्योक्तत्वादेकेनैवावधारणेनालम् । मैवम् । बुद्ध्या विविक्तेनार्थद्वयेन सम्बन्धात् । अथार्थद्वयमेककृत्य कस्मान्नावधार्यते । अस्त्यत्र सूचनीयोऽर्थः ।

यद्यत एवेत्येतावदेवोच्येत तदेकस्यैवार्थस्यायं परामर्शो न द्वितयस्य परामर्शो द्वितयपरामर्शेऽपि मिलितस्य हेतुत्वमिति ज्ञायेत । अवधारणद्वयप्रयोगे तु तदन्यथाऽनुपपत्त्या प्रत्येकं हेतुभूतार्थद्वयपरामर्शो विज्ञायते । तथा च बाधकस्यानेकत्वेन प्राबल्यं विशेषणकृत्यगवेषणप्रयासनिरसनं च लब्धं स्यात् (प्रयासनिरासोऽपि न स्यात्) । तदिदमुक्तं सूत्रगताविति ।

१८६सु०- एवं चेतनत्वाद्यनुमानस्य बाधकतयोक्तमाभासत्वानुमानं समर्थितम् । तदिदं प्रमाणान्तरोपलक्षणमित्याशयवानाह अखिलेति ।

अनु०- अखिलमानतः । जीवेशभेददृष्ट्यैव समुदायैकता कुतः

न केवलमाभासत्वानुमानेन किन्त्वखिलैरपि मानैः । भेददृष्ट्येत्युक्ते सिद्धसाधनता

स्यात् । परेणापि भेदस्याङ्गीकृतत्वात् । अत एव शब्दः । स च समासे गुणभूतेनापि बुद्ध्या विविक्तेन भेदशब्देन सम्बध्यतेऽभेदनिरासेन भेदस्य दर्शनादिति । कुतः प्रमाणात्सिद्ध्येत् ।

तत्रैक्यबाधकं प्रत्यक्षं ताव(त्प्रसिद्ध)त्सिद्धमेव । नाहं सर्वज्ञो निर्दोष इत्याद्यनुभवात् । यथा हि स्तम्भे कुम्भतादात्म्याभावः प्रत्यक्षस्तथाऽऽत्मनि सार्वज्ञादिलक्षणब्रह्मतादात्म्याभावः साक्षिणा सिद्ध एव । तदभ्रान्तता च प्रागेवोपपादिता । आगमास्तु तत्र तत्रोदाहृता द्रष्टव्याः ।

१८७सु०- अनुमानान्तरं (त्वाह) चाह अशेषेति ।

अनु०-अशेषदोषराहित्यं सर्वशक्तित्वतो हरेः । सर्वोपेतेति कथितमत ऐक्यं क्व दोषिणा

एतदुक्तं भवति । जीवब्रह्मणी नाभेदवती विरुद्धधर्माधिकरणात्, छायाऽऽतपवत् । न च असिद्धो हेतुः । सर्वोपेता च तद्दर्शनादिति सर्वशक्तित्वेन हेतुना ब्रह्मणोऽशेषदोषराहित्यस्य समर्थितत्वात् । जीवे दुःखादिदोषाणामनुभवसिद्धत्वात् । विरुद्धधर्माधिकरणयोरप्यैक्यं स्तम्भकुम्भयोरप्यैक्यं स्यादिति ।

नन्वस्तु परमात्मा सर्वशक्तिः अशेषदोषरहितश्च । तथाऽप्युपाधिभिन्नस्तदंशो जीवः तन्निमित्तदोषवांश्च भविष्यति को विरोधः । प्रकारभेदस्य विरोधशान्तिहेतुत्वादित्यत आह अशेषेति ।

अनु०-अशेषशक्तियुक्तश्चेत्स्वातन्त्र्याद्दोषवान् कथम्

यद्यशेषशक्तियुक्तः परमात्माऽङ्गीकृतस्तदा तस्योपाधौ तन्निमित्ते च स्वातन्त्र्यात् कथं तन्निमित्तदोषवान् स्यात् ।

अयमभिसन्धिः । भवतु वाऽनेन प्रकारभेदेन विरोधशान्तिर्मा वा भूत् । प्रकारभेद एवायमनुपपन्नः । तथा हि । अन्तःकरणाद्युपाधयोऽविद्यादिनिमित्तानि च स्वशक्तया परमात्मानं विच्छिद्य तदंशस्य जीवस्य दुःखादिदोषान् कुर्वन्तीति तावन्न युज्यते । परमात्मनः सर्वशक्तिस्वातन्त्र्यहानिप्रसङ्गात् । अतः परमात्मैव सर्वशक्तिः स्वाधीनैरेव तैः स्वात्मानं विच्छिद्य स्वांशं जीवं दुःखादिदोषयोगिनं करोतीति मन्तव्यम् ।

तच्चायुक्ततरम् । अप्रेक्षावत्त्वप्रसक्तेः । न हि कश्चित्प्रेक्षावानात्मानमात्माधीनैरहिकण्टकादिभिरपुरुषार्थभाजं कुर्वाणो दृष्टः । न च तापसस्येवात्मनो दुःखोत्पादनेन परमात्मनः किञ्चित्प्रयोजनमस्ति । परिपूर्णत्वात् । न चाविद्यादिनोऽनादिताऽत्र समाधानम्, अनादिनोऽपि तत्प्रवाहस्य तदधीनत्वात् । न च लीलामात्रमेतदिति साम्प्रतम् । स्वापुरुषार्थहेतोर्लीलायाः प्रेक्षापूर्वकारिभिरनुपादानात् । अतः परमपुरुषस्य न केनापि प्रकारेण दोषसंसर्गो युज्यत इति न दोषिणा जीवेन तस्यैक्यं युक्तमिति ।

१८८सु०- जीवब्रह्मणोरैक्येऽपि ब्रह्मणो जीवगतदुःखाद्यनुसन्धानाभावान्नोक्तदोषानुषङ्गः । तथा चोक्तेन प्रकारभेदेन विरोधशान्तिर्भविष्यतीति भावेन शङ्कते अनुसन्धानेति ।

अनु०-अनुसन्धानरहितमैक्यं चेत्

अनुसन्धानं नाम भोगसमाख्यातः स्वीयतया दुःखादिसाक्षात्कारोऽभिमतः । परिहरति एकतेति ।

अनु०- एकता न तत्

तत् तर्हि । जीवस्तावद्ब्रह्मस्वरूपं निर्दुःखत्वादिकं नानुसन्धत्त इत्यविवादम् । ब्रह्मापि चेज्जीवगतं दुःखादिकं नानुसन्दध्यात् तदा तयोरेकता नास्तीत्येवोक्तप्रायं स्यात् । कथमित्यत आह चेतनेति ।

चेतनैक्येऽनुसन्धानं प्रमाणं नैव चापरम्

चः हेत्वर्थः । अस्त्वैक्योऽनुसन्धानप्रमाणम् । ततः किम् । एकप्रमाणव्यावृत्तौ प्रमेयव्यावृत्त्यभावात् । मा हि भूद्धूमाभावोऽग्न्यभाव इत्यत उक्तं नैवापरमिति । नन्वस्ति घटस्य घटेनैक्यं न त्वनुसन्धानं तत्कथमेतदित्यत उक्तं चेतनेति ।

एतदुक्तं भवति । चैतन्यावच्छिन्नमैक्यमनुसन्धानैकप्रमाणकम् । आगमादिकं त्वनुसन्धाने सति संवादितया प्रवर्तते । अत एव हि ममात्मा भद्रसेन इति वाक्यमनुसन्धानाभावेन बाध्यते । तथा नायं स इत्यादिवाक्यमनुसन्धानेन । न च प्राग्भवीयदुःखाद्यनुसन्धानमिदानीं नास्त्यस्ति चैक्यमिति व्यभिचारः शङ्कनीयः । न हि वयं सदाऽनुसन्धानं ब्रूमः । किन्तु यश्चेतनो यत्स्वरूपं कदाचिदनुसन्धत्ते स तेनाभिन्नो यो नानुसन्धत्ते स तेन नाभिन्न इति । तदेकप्रमाणकस्य तन्निवृत्तौ निवृत्तिरेव । यथा रूपग्रहणनिवृत्तौ चक्षुर्निवृत्तिः । न च चेतनत्वं शक्यनिवर्तनम् । उभयवादिसिद्धत्वात् । तस्मादेकतैव निवर्तत इति ।

एतेन चेतनत्वाद्यनुमानस्य सोपाधिकत्वं चोक्तं भवति । अनुसन्धानं खलु चेतनत्वावच्छिन्नस्यैक्यस्य व्यापकमुपलब्धं देवदत्तादौ । अव्यापकं च चेतनत्वादेः । पक्ष एव तदभावात् । तथा च सुलभः प्रयोगः । जीवब्रह्मणी चेतनत्वे सति परस्परैक्यवती न भवतः परस्प(रस्वरूपानु)रानुसन्धानरहितत्वात् सम्प्रतिपन्नवदिति । न च प्रतिज्ञायां विशेषणं व्यर्थम् । शब्दो न स्पर्शवद्विशेषगुण इत्यादाविव हेतुव्यभिचारपरिहारार्थत्वात् ।

१८९सु०- शङ्कते अनुसन्धानेति ।

अनु०-अनुसन्धानरहितं समुदायैक्यमेव चेत् । चेतनेषु

यतः समुदायैक्यमेव मयोच्यते नात्यन्तैक्यम् । अतश्चेतनेष्वप्यनुसन्धानरहितं तद्युक्तम् । अयमभिसन्धिः । समुदायैक्यवादिना हि जीवब्रह्मणोर्भेदाभेदौ स्वीक्रियेते । तत्रानुसन्धानाभावो भेदनिमित्तस्तज्ज्ञापनेनैव चरितार्थो नाभेदं निवर्तयति । तन्तुपटादिषु हि समुदायैक्यस्थलेषु विरुद्धधर्माध्यासो भेदज्ञापनमात्रेण कृतार्थो नाभेदं बाधते । अन्यथा तत्राप्यभेदाङ्गीकारो दुर्घटः स्यात् । तस्मादैक्यं नानुपपन्नमिति । गूढाभिसन्धिः सम्प्रतिपत्तिमुत्तरमाह अस्तु तदिति ।

अनु०-अस्तु तत्

सर्वथाऽपि परस्परस्वरूपानुसन्धानरहितं जीवब्रह्मणोरैक्यं भवत्वित्यर्थः । विप्रतिपन्नार्थाङ्गीकारे प्रतिज्ञाहानिर्निग्रहस्थानं स्यादित्यत आह नाममात्रमेवेति ।

अनु०- नाममात्रमेव यतस्ततः

यतस्तदैक्यं नाममात्रं न वास्तवं ततस्तदभ्युपगमो न दूषणम् । अयमभिसन्धिः । तन्तुपटाद्यभेदो न विरुद्धधर्माध्यासाभावैकप्रमाणकः । प्रत्यक्षादिना तदभेदस्य सिद्धत्वात् । तथा च विरुद्धधर्माध्यासः कालात्ययापदिष्टत्वभयादभेदबाधनान्निवृत्तो भेदसाधनेनैव कृती भवति । तथा यदि चेतनैक्यं निरवकाशप्रमाणान्तरगम्यं स्यात् तदाऽनुसन्धानाभावोऽभेदमबाधमानो भेदमात्रप्रतिपादनेन चरितार्थः स्यात् । न चैवम् । चेतनैक्यस्यानुसन्धानव्याप्यतयोक्तत्वात् । व्यापकाभावे च व्याप्यनिवृत्तेरावश्यकत्वेनैक्याभावे पुनस्तद्वचनं निरर्थकमेवेति ।

१९०सु०- भवत्वनुसन्धानैकप्रमाणकं चेतनैक्यम् । अनुसन्धानं च कादाचित्कमप्यैक्यं साधयत्।ि विद्यते च मुक्तावनुसन्धानमित्यैक्यसिदि्धः । मुक्तस्वरूपस्य दुःखादिदोषदूरत्वेन प्रागुक्तदोषाभावश्चेत्यत आह मुक्ताविति ।

अनु०-मुक्तौ स्यादनुसन्धानमित्यपि स्यात्सुदुष्करम्

इत्यपि वचनं सुदुष्करं स्यात् । प्रमाणाभावेन सन्दिग्धत्वादिति भावः । किञ्च मुक्तावनुसन्धानं भविष्यतीति वदता वक्तव्यमिदानीं कुतोऽनुसन्धानं नास्तीति । अथ ब्रूयादविद्याकामकर्मादि(निमित्त)प्रतिबन्धकसद्भावादिति । तत्र वक्तव्यम् । प्रतिबन्धकसद्भावनिबन्धन एवेदानीमनुसन्धानाभावो न पुनरैक्याभावनिबन्धन इति कुतस्ते निश्चय इति । वयं तु वदामः । ऐक्याभावनिबन्धन एवायमिदानीमनुसन्धानाभावो नाज्ञानादिनिमित्त इति । कुतोऽयं निश्चय इति तत्राह सर्वज्ञ इति ।

अनु०-सर्वज्ञ एकतां नानुसन्धत्ते नैव सा यतः

यतः सर्वज्ञ एकतां नानुसन्धत्ते अतः सा एकता नैवेति सम्बन्धः । एतदुक्तं भवति । यद्यज्ञानादिनिबन्धनोऽयमनुसन्धानाभावो भवेत् । भवेत्तदा जीवानामेव तेषामेवाज्ञानादिसम्बन्धित्वात् । परमात्मा त्वनुसन्दध्यादेव । तस्य सर्वज्ञत्वेनाज्ञानाद्यभावात् । न चासावनुसन्धत्ते । यस्मात्क्षरमतीतोऽहमित्यादितद्वाक्यैर्भेदानुभवस्यैवावगमात् । तेन निश्चिनुमोऽनुसन्धानाभावो नाज्ञानादिप्रतिबन्धकनिबन्धनः । किन्त्वैक्याभावनिमित्त एवेति ।

१९१सु०- ईश्वर एवासाविति चेत् । कस्ततोऽन्यः परमात्मा प्रमाणाभावात् । किञ्च ईश्वरोऽपि सर्वज्ञ एवेति किमनेनेति । अपि चैक्ये प्रमाणसिद्धेऽनुसन्धानाभावः प्रतिबन्धकनिबन्धन इति कल्पनोपपद्यते । न च तदस्तीत्युक्तम् । ननु च दुःखादिकं जीवस्य न चैतन्यस्वरूपानुबन्धि । किन्नाम विशिष्टाकारगतमेव । तत्कथमीश्वरोऽनुसन्दधीतेति दुःखाद्यननुसन्धानेऽप्यैक्यं तावदनुसन्दध्यादेवेत्युक्तम् एकतामिति । अत एव विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यती त्यादिवाक्यान्यन्यथा योज्यानि । विभेद शब्दो हि विरोधवाची । मित्रभेद इति यथा । तथा च जीवस्य परमात्मना विपरीतमतित्वमज्ञाननिबन्धनम् । तदपाये न भवतीत्यर्थः ।

१९२सु०- परमात्मन ऐक्यानुसन्धानाभावोऽसिद्धः । यत इदानीमननुसन्दधदपीदमागामिनि कालेऽनुसन्धास्यति । न हि सार्वकालिकमनुसन्धानमैक्यस्य व्यापकमित्याशङ्कते पश्चादिति ।

अनु०-पश्चात्स्यादनुसन्धानं चेत्

परमात्मनो जीवैक्यस्येति शेषः । अत्र प्रमाणं नास्तीति स्फुटः परिहारः । गूढाभिसन्धिः परिहारान्तरमाह मिथ्येति ।

अनु०- मिथ्याज्ञानिता भवेत्

परमात्मन इति शेषः । सर्वज्ञो हि यदीदानीं जीवैक्यं नानुसन्धत्ते तदा तदसदेव स्यात् सप्तमरसादिवत् । तथा चागामिनि काले तदनुसन्धास्यति चेन्मिथ्याज्ञानी प्रसज्येतेत्यभिसन्धिः ।

१९३सु०- नन्वविद्यमानं विद्यमानतयाऽनुसन्दधानो मिथ्याज्ञानी भवति । न चैक्यमविद्यमानम् । तत्कथं परमात्मनो मिथ्याज्ञानित्वमित्यविदिताभिसन्धेराशङ्कामभिसन्धिमुद्घाटयन् परिहरति विद्यमानेति ।

अनु०-विद्यमानानुसन्धानं न चेदज्ञत्वमापतेत्

यद्यैक्यं विद्यमानं तर्हि तदिदानीमननुसन्दधदसर्वज्ञः स्यात् । न च तद्युक्तम् । अतो नास्त्येव तदिति वाच्यम् । तथा च तदनुसन्धास्यन् कथं मिथ्याज्ञानी न भवेत् । एतेनेश्वरस्येदानीं शरीरसद्भावादननुसन्धानमित्यपि निरस्तम् । सार्वज्ञहानिप्रसङ्गानिस्तारात् । ईश्वरस्य साकारताया नित्यत्वेन न भाविन्यप्यनुसन्धाने प्रत्याशा ।

१९४सु०- यदै(द्यै)क्यमविद्यमानमेव यदि वा विद्यमानमेव तदा उक्तदोषद्वयं स्यात् ।

न चैवम् । किन्त्विदानीमसदेव पश्चाज्ज्ञानोत्तरकाले भवेत् । तत्रेदानीमसत्त्वान्न परमात्मनस्तदननुसन्धाने सार्वज्ञहानिः । पश्चाद्भावाच्च न तदनुसन्धाने मिथ्याज्ञानित्वमिति परिशिष्टं पक्षं कस्यचिन्मतं वा शङ्कते असदिति ।

अनु०-असदैक्यं भवेत्पश्चाद्यदि स्यात्सप्तमो रसः

परिहरति स्यादिति । तर्हीति शेषः । न ह्यनादौ संसारे यस्य येन नैक्यं तत्तेनैकभूतमुपलब्धम् । न च तथा भविष्यतीत्यत्र प्रमाणमस्ति । परेऽव्यये सर्व एकभवन्ति , यावन्मोक्षं तु भेदः स्याज्जीवस्य परमस्य च । ततःपरं भेदोऽस्ति भेदहेतोरभावतः इत्यादिश्रुतिस्मृतीनां स्थानैक्यादिविषयत्वेन सावकाशत्वात् । अतः सप्तमो रसो भविष्यतीतिवदियं प्रत्याशाऽत्यन्तासम्भावितविषयेति भावः ।

१९५सु०- जीवब्रह्मणोः संसारे भेदाभेदौ मोक्षे त्वभेद एवेति संसारे केवलभेदो मुक्तावत्यन्ताभेद इति भेदाभेदमतद्वयदोषातिदेशेनावस्थाद्वयेऽपि भेदाभेदाविति तृतीयमतमपाकरोति समुदायेति ।

अनु०-समुदायैक्यमेतस्मात् दूरतोऽपाकृतं सदा

सदा समुदायैक्यमिति सम्बन्धः । एतस्मात्प्रमाणशून्यत्वादाभासत्वादिप्रमाणविरुद्धत्वाच्च । इयांस्तु विशेषः । अभेदकार्यस्यानुसन्धानस्य भेदः प्रतिबन्धकः । तस्मिन्नपगते मुक्तावनुसन्धानं भविष्यतीत्यस्ति पूर्वयोर्मतयोः प्रत्याशा । अत्र तु साऽपि नास्ति । भेदस्य सदातनत्वात् । अनुसन्धानं च चेतनैक्यस्य व्यापकमित्युक्तम् । तदिदमुक्तं दूरत इति । देहाद्येवानुसन्धानस्य प्रतिबन्धकमिति चेन्न । कायव्यूहवतां योगिनामनुसन्धानसद्भावस्य वक्ष्यमाणत्वात् ।

१९६सु०- यद्येवं न सकलचेतनसमुदायः परमात्मा तर्हि कियती सीमा परमात्मत्वस्येत्यत आह अत इति ।

अनु०-अतोऽशेषगुणोन्नद्धं निर्दोषं यावदेव हि । तावदेवेश्वरो नाम

साधकस्यानुसन्धानस्य सर्वत्राभावाद्बाधकस्याभासत्वादेर्भावादिह तु तद्भावाभावाभ्यामित्यर्थः । अशेषगुणोन्नद्धत्वं निर्दोषत्वं च प्रत्येकं निर्धारणहेतुत्वेनोक्तम् । स्वमते ब्रह्मण ईश्वरातिरिक्तस्याभावं सूचयितुं सर्वत्रेश्वर इत्याद्युक्तिः । इदं हि ब्रह्मणो लक्षणो लक्षणं श्रुत्यादिसिद्धमिति हि शब्दः । तावद्वस्त्वीश्वरो नामेत्युक्ते समुदायैक्यं प्रतीयते तन्निराकरोति तत्रेति ।

अनु०-तत्र भेदोऽपि न क्वचित्

क्वचिदिति । परस्परं परमात्मना चेत्यर्थः । एतेनैतदपि निरस्तम् । ईश(श्वर)रूपेष्विवोदिते ति यदुक्तं पूर्वपक्षिणा तत्कुत इत्यत आह नेहेति ।

अनु०-नेह नानाऽस्ति किमपि हरयोऽयमयं हि सः । इत्यादिश्रुतिमानेन

अनेन नेह नानाऽस्ति किञ्चने ति श्रुतिमुपादत्ते हरय इति । अयं वै हरय इत्यादिकाम् । अयं हि स इति । अयमेव स योऽयमात्मे त्यादिकाम् । पूर्वेणैवान्वयः । एतासां श्रुतीनामभेदपरत्वान्न विवक्षितार्थे मानत्वमित्याशङ्कानिरासाय मानेनेत्युक्तम् । आद्यश्रुतावीश्वररूपेषु भेदनिराकरणस्य स्पष्टत्वात् तृतीयायामेवशब्द(स्य )श्रवणात् तदनुसारेण द्वितीयायामपि वैशब्दस्यैवार्थत्वोपपत्तेरेताः श्रुतयो विवक्षितार्थे मानतामापद्यन्त इति भावः ।

१९६असु०- चेतनैक्यस्यानुसन्धानं व्यापकमित्युक्तं क्व तदुपलब्धमिति चेन्न । देवदत्तसम्बन्धिनः सुखादेर्देवदत्तेनानुसन्धीयमानत्वात् । उपाधिभिन्ने नोपलब्धमिति चेन्न । हस्तपादाद्युपाधिभिन्नेऽपि दर्शनात् । विश्लिष्टोपाधिभिन्ने न दृष्टमिति चेत्तत्राह जीवांशा इति ।

अनु०- जीवांशाः सर्व एव च ।नियमेनानुसन्धानवन्तो

जीवानामिन्द्रादीनामंशा अर्जुनादयः । एतच्च एक आत्मनः शरीरे भावादि त्यादिना समर्थयिष्यते । चशब्देनेश्वरांशाः समुच्चीयन्ते । न च (नु) आत्मा वै पुत्रनामासीदि त्यादिवचनात् पितापुत्रयोः सत्यप्यैक्येऽनुसन्धानं नास्तीति कथं तद्व्यापकमित्यत आह यदीति ।

अनु०-यद्येकता स्वतः ।

तर्ह्यनुसन्धानवन्त इति सम्बन्धः । अयं भावः । वास्तवस्यैक्यस्यानुसन्धानं व्यापकमभिमतं न तूपचरितस्य । न चाभिमतस्य व्यभिचारोऽस्ति । पितापुत्रैक्यं तूपचरितमेवेति न तत्र व्यभिचारो दोषायेति । स्वतः वस्तुतः ।

१९७सु०- यद्वा परमेश्वरांशत्वहेतुरसिद्धश्चेत्याह जीवांशा इति ।

एतदुक्तं भवति । चैतन्यावच्छिनांशत्वस्यानुसन्धानं व्यापकमर्जुनादिषु दृष्टम् । तच्च परमेश्वरजीवयोर्नास्तीत्युपपादितम् । व्यापकाभावे च व्याप्याभावोऽवश्यम्भावी । न च चैतन्यव्यावृत्तिर्युक्तेत्यंशत्वमेव व्यावर्तते । तथा च प्रयोगः । जीवेश्वरौ न चेतनत्वे सत्यंशांशिनौ । परस्परानुसन्धानशून्यत्वात् । यथा घटपटौ । यथा चेन्द्रार्जुनाविति ।

ननु पितापुत्रयोरंशांशिभावे सत्यप्यनुसन्धानं नास्तीति कथं तत्तस्य व्यापकमित्यत आह यदीति । एकता एकदेशतारूपांशता पितापुत्रयोरंशा•शिभावो नैकदेशतादिरूप इति भावः ।

नन्वनुसन्धानाभावेनांशत्वव्यावृत्तावंशाधिकरणविरोधः स्यात् । न स्यात् । अंशशब्दो हि तदेकदेशार्थस्तत्सदृशाद्यर्थश्च । तत्र (तच्च) द्वितीयमंशत्वमंशाधिकरणप्रतिपाद्यं न निराक्रियते । तस्यानैकान्त्यप्रसङ्गेन परेण हेतूकर्तुमशक्यत्वात् । आद्यस्यासिदि्धव्युपादने न कोऽपि दोषः ।

१९८सु०- नन्विन्द्रादीनामनुसन्धानसद्भावे कथमिन्द्रानभिमतं खाण्डववनदाहादिकमर्जुनः कृतवान् । कथं चेन्द्रोऽर्जुनानभिमतं दहनशमनादिकम् । न हि हस्तादावनुसन्धाने सतीदं दृष्टमित्यत आह अंशिन इति ।

अनु०-अंशिनोऽशेषसन्धानमत्यल्पस्यापि विद्यते ।भुवि जातेन चांशेन सुखदुःखादि तद्गतम् ।अनुभूयते विशेषस्तु कश्चिदीशकृतो भवेत्

अत्यल्पस्याप्यंशिनोंऽशगताशेषानुसन्धानं विद्यत एव । तथाऽपि कश्चिद्विशेषोंऽ शानभिमतकरणादिः ईशकृतो भवेत् । अंशकर्त्याद्यर्थम् ईश्वरप्रेरितेन अंशिना क्रियत इत्यर्थः । अल्पस्यापीति स्वरूपसङ्कीर्तनम् । भुवि जातेनांशेन चांशिगतं सुखदुःखाद्येवानुभूयते न तु सर्वम् ।

सत्यप्यैक्ये कश्चित्सर्वाननुसन्धानरूपो विशेषस्तु ईशकृतो भवेत् । भूम्याद्यपकृष्टदेशं गर्भवासाद्यवस्थां मानुषान्नोपभोगादिकं च निमित्तीकृत्येश्वरेण क्रियते । अतोंऽशस्यांश्यनभिमतकरणादिकं युज्यते । न ह्यशेषानुसन्धानमस्माभिश्चेतनैक्यादेर्व्यापकमुक्तम् । किन्त्वनुसन्धानमात्रमिति भावः ।

१९९सु०- नन्वीश्वरोऽपि कथं स्वानभिमतं कारयति । कथं चाभिन्नेऽनुसन्धानं प्रतिबध्नातीत्यत आह ईशस्येति ।

अनु०-ईशस्याचिन्त्यशक्तित्वान्नाशक्यं क्वापि विद्यते

दृश्यन्ते खल्वघटितं घटयन्त्येश्वरशक्तया प्रेरिताः कामक्रोधादिपरवशा ऐहिकामुष्मिकदुःखहेतुं स्वशिरश्छेदं पातकं च कुर्वाणा इत्याशयः ।

नन्वेवं तर्हि मयाऽपि शक्यते वक्तुम् । यथाऽर्जुनस्यैक्ये सत्यपीन्द्रगताशेषानुसन्धानमचिन्त्यया ईशशक्तया प्रतिबद्ध्यते । तथा जीवपरमात्मनोरभेदेऽपि तयैवानुसन्धानप्रतिबद्धो भविष्यति । अपकृष्टदेशादिकमिव देहाद्युपाधयो निमित्ततामापत्स्यन्ते । तथा चानुसन्धानाभावादैक्याभाव इत्यनुपपन्नम् । अनुसन्धानस्यैक्यव्यापकत्वं चासति प्रतिबन्ध इति कल्प्यत इत्यत आह सेति ।

अनु०-सेशताऽनुपपन्नैव यदि जीवैकताऽस्य हि

सा अघटितघटनारूपा । अस्य परमात्मनः । भवेदेतद्यदि भवन्मते परमात्मनोऽचिन्त्यशक्तिमत्तारूपेशता भवेत् (स्यात्) । जीवेनाभिन्नस्य सेशतैवानुपपन्ना । कुतस्तयाऽनुसन्धानप्रतिबन्धकल्पनादिकमिति । हिशब्देन यो जीवेनाभिन्नो नासावचिन्त्यशक्तिरूपेशतोपेतो यथा देवदत्त इति व्याप्तिं सूचयति । जीवेनैकभूतोऽपि परमात्माऽस्त्वीशतोपेतः । किं विपक्षे बाधकमित्यत आह अनीशस्येति ।

अनु०-अनीशस्येशतेत्येव विरुद्धं सर्वमानतः

जीवस्तावदनीश इत्यनुभवसिद्धम् । तदभेदे परमात्माऽप्यनीश इत्युक्तमेव । तथा च अनीशस्येशताऽस्त्विति शङ्कितं स्यात् । एतच्च सर्वप्रमाणैर्विरुद्धं स्वव्याहतं च । न चैवंविधमनुन्मत्तः शङ्कते । शङ्काया एवानुदये कुतो बाधकोपन्यासावसर इत्येवशब्दः।

२००सु०- स्यादेतत् । सेशताऽनुपपन्नैवेति तर्कोऽनुमानं वा । नाद्यः । ऐक्यस्य श्रुतिसिद्धत्वेन विपर्ययपर्यवसानानुपपत्तेः । न द्वितीयः । जीवैकताया भवतामसिद्धत्वात् । यदि पदवैयर्थ्याच्चेति ।

मैवम् । यस्य जीवैक्यं सिद्धं (स्यात्) तस्यानीशताविषयस्वार्थानुमानापादनस्य अभिमतत्वात् । तर्कपक्षेऽपि न दोषः । श्रुतीनामैक्यपरत्वाभावादित्याशयवानाह ईशत्वेनैवेति ।

अनु-ईशत्वेनैव विज्ञातमनीशत्वेन चेच्छतिः । अनीशत्वेन विज्ञातमीशत्वेनाथ वाऽऽदिशेत् । उपजीव्यविरोधेन नैव मानत्वमेष्यति ।

त्रैविध्यं खल्वत्र सम्भवति । काचित् श्रुतिः प्रमाणान्तरेण ईशत्वेनैव विज्ञातं परमात्मानमुद्दिश्य अनीशत्वेन प्रमितानीशत्वजीवभावेन आदिशेत् । काचिदनीशत्वेन प्रमितं जीवमुद्दिश्य ईशत्वेन प्रमितेशभावपरमात्मत्वेन उपदिशेत् । काचिदुभावपि तथा प्रमितावुद्दिश्यैक्यमुपदिशेदिति । सर्वथाऽप्युपजीव्यविरोधप्रसङ्गेन नैक्ये प्रामाण्यमश्नुत इति । यदत्र वक्तव्यं तत् कथं ब्रह्मेति तज्ज्ञेयमि त्यादिना वक्ष्यते । चेच्छतिरिति द्वितीयार्धेऽपि ग्राह्यम् । आदिशेदिति प्रथमार्धेऽपि । तृतीयः प्रकारोऽप्यध्याहार्यः । तर्हीतिपदम् उपजीव्येत्यतःपूर्वम् ।

२०१सु०- ननु परमात्मनोऽघटितघटनस्वरूपया शक्तयैवेशताऽनीशतयोः (विरुद्धयोरपि) एकत्र समावेशो भविष्यति । तत्कथमुपजीव्यविरोध इत्यत आह अत एवेति ।

अनु०-अत एवेशतासिद्धेर्न किञ्चिच्छक्यमस्य च

जीवैक्यादेवेत्यर्थः । ईशता उक्तरूपा शक्तिः । किञ्चित् ईशताऽनीशतयोरेकत्रावस्थानम् । अस्य च परमात्मनोऽपि । जीवैक्येनेशताऽभावानुमानमशक्यम् । ईशतायाः पराऽस्य शक्तिः इत्यादिश्रुतिसिद्धत्वात् ।

२०२सु०- किञ्च जीवैक्येऽपि भेदस्य विद्यमानत्वादीशतोपपद्यत इत्याशङ्कां परिहरन् तर्हि कियती सीमा परमात्मशक्तयाऽघटितघटनकल्पनस्येति मन्देन जिज्ञासिते सत्याह ईशत्व इति ।

अनु०-ईशत्वेऽनीशभेदेन श्रुत्या सम्यक् प्रकाशिते । अयुक्तमपि चान्यत्र युक्तं भवति तद्बलात् । अतोऽन्यत्रापि यद्दृष्टं तदीशेनैव कल्प्यते । श्रुत्याभासाप्तमपि न हीशत्वपरिपन्थि यत्

अत्र अनीशभेदेनाङ्गीकृतेनैव ईशत्वं श्रुत्या सम्यक् प्रकाशितं भवतीति वदता श्रुतिविरोधः परिहृतः । तथा हि । यदि जीवपरमात्मैक्यं तात्त्विकं तदा निरवकाशानुमानविरुद्धा श्रुतिरुपचरितार्था भवन्ती नेशत्वं व्यवस्थापयेदिति सुस्थः स्वार्थानुमानप्रसङ्ग इति । सम्यग् अनीशभेदेन न तु भेदमात्रेणेति वा । तथा च भेदेनेशतोपपत्स्यत इति निरस्तम् ।

अनीशताहेतोः अभेदस्य विद्यमानत्वात् । किमभेदेनानीशताऽस्तु उत भेदेन मा भूदिति सन्देहानिवारणात् । अन्यत्र ईश्वरात् । अयुक्तं परस्परपरिहारेण वर्तमानमपि युक्तं भवति । ईश्वर इति शेषः । तद्बलात् ईशत्वबलात् । दृष्टमिति अत्रापि सम्बध्यते । अतः परमेश्वरात् । ईशेनेति भावप्रधानो निर्देशः । कल्प्यते युक्ततयेति शेषः । उक्तस्यापवादः श्रुतीति । आभासत्वं च वस्तुवृत्तापेक्षया । हीति तत्रोपपत्तिः ।

२०३सु०- अयमर्थः । यत्क्वचिद्विरुद्धमिव प्रतीयमानमपीश्वरे तदितरत्र वा प्रमाणसिद्धमीश्वरैश्वर्यविरोधि च न भवति । यथाऽणुत्वमहत्त्वयौगपद्यादि, यथा वाऽर्जुनादीनामशेषानुसन्धानाभावः । तत्सर्वमीश्वरैश्वर्यबलेन घटत इत्यङ्गीकार्यम् । न तु निराकार्यम् । यत्पुनरप्रमितं तदीश्वरैश्वर्याविरुद्धमपि न कल्पनीयम् । शशविषाणादिकल्पनापत्तेः । यच्च प्रमितमपि ईश्वरैश्वर्यविरोधि तन्न कल्पनीयमेव । कल्पकविघातकत्वात् । किन्तु तस्य प्रमाणस्य यथायोगमाभासत्वं वर्णनीयम् । यथा प्रकृतमिति ।

२०४सु०- अनीशस्येशतेत्येव विरुद्धं सर्वमानतः इत्युक्तम् । तदुपपादयितुं स्मृतिमेव पठति ईश इति ।

अनु०-ईशोऽनीशो जगन्मिथ्या दुःखी मुक्तो भिदा न हि । इति प्रतिज्ञाव्याघातः सर्वदोषाधिकाधिकः । इति हि ब्रह्मतर्कोक्तिः

द्विविधो हि प्रतिज्ञाविरोधः । प्रमाणस्ववाक्यविरोधभेदात् । तत्रेशोऽनीशो दुःखी मुक्त इति स्ववाक्यविरोधस्योदाहरणद्वयम् । जगन्मिथ्या भिदा न हीति प्रमाणविरोधस्य ।

यद्वेशोऽनीशो दुःखी मुक्त इति स्ववाक्यविरोधोदाहरणे । जगन्मिथ्येति स्वन्यायविरोधस्य । जगतो मिथ्यात्वे तन्न्यायेन मिथ्यात्वस्यापि मिथ्यात्वापत्त्या सत्यत्वप्रसङ्गात् । भिदा न हीति स्वक्रियाविरोधस्य । अनया हि प्रतिज्ञाक्रियया साध्यधर्मधर्मिणोर्भेदस्तावत् प्राप्यत इति । सर्वदोषेष्वधिकाधिकोऽत्यन्ताधिकः । स्मृत्युदाहरणस्य साध्यमाह अतिहेयमिति ।

अनु०- अतिहेयमतोऽखिलैः । बुभूषुभिर्मतमिदं जीवेशाभेदवादिनः

इदम् ईशस्य अनीशत्वम् । ईशत्वेन ईशभेदेन इत्यादिनोक्तेऽर्थे स्मृतिमप्याह नायुक्तमिति ।

अनु०- नायुक्तमीशितुः किञ्चिदीशत्वस्याविरोधि यत् । यदीशत्वविरोधि स्यात्तदेवायुक्तमञ्जसा । ईशत्वस्याविरोधेन योजयित्वाऽखिलाः प्रमाः । सिद्धेशत्वेन चायुक्तमपि हीशेन योजयेत् । मानतः प्राप्तमखिलं नामानं योजयेत् क्वचित् । इति हि ब्रह्मतर्कोक्तिः

यस्मान्नायुक्तमीशतुः किञ्चिदित्यादि तस्मादीशत्वस्याविरोधेनेत्यादि । सिद्धमीशत्वं यस्यासौ तथोक्तः । तेनेशेन संयोजयेत् । ईश्वरेऽस्तीति जानीयात् । अपिपदादन्येनापि । सिद्धेन ईशत्वेन निमित्तेनेति वा । स्मृत्युदाहरणस्य प्रयोजनमाह अत इति ।

अनु०- अतो युक्तमिहोदितम् ।

तस्मादत्यन्तभिन्न एव ब्रह्मणा जीव इति स्थितम् ।।

।। इति उपमाधिकरणम् ।।

न्यायसुधा

।। अथ अरूपाधिकरणम् ।।

ब्र०सू०- ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ।।

२०५सु०- अत्राधिकरणे प्रथमसूत्रेण ब्रह्मणो रूपराहित्यमुपपाद्य प्रकाशवच्चावैयर्थ्यमिति (द्वितीय)सूत्रेण रूपवत्त्वविषयाणां श्रुतीनां वैयर्थ्यमाशङ्क्य विलक्षणरूपवत्त्वाङ्गीकारेण परिहृतम् ।। विलक्षणरूपवत्त्वं च, आह च तन्मात्रं , दर्शयति चाथोऽपि स्मर्यत इति सूत्रद्वयेन समर्थितमिति भाष्येण प्रतीयते । तदनुपपन्नम् । अन्ततो रूपवत्त्वाङ्गीकारेऽरूपवदेव

हि तदित्यस्यावक्तव्यत्वापातात् । प्रयोजनाभावाच्चास्य विचारस्येत्यतश्चतुःसूत्र्यास्तात्पर्यमाह स चेति ।

अनु०-स चाप्राकृतरूपत्वादरूपः स्वगुणात्मकम् । रूपमस्य शिरःपाणिपादाद्यात्मकमिष्यते
अनु०- स परमात्मा । प्रकृतिशब्दोऽन्येषामपि तत्त्वानामुपलक्षकः । अप्राकृतरूपत्वात् । प्राकृतरूपरहितत्वात् । गुणात्मकमित्युक्ते सत्त्वादीनां प्रतीतिः स्यात् । तन्निरासार्थं स्वशब्दः । ये परमात्मनः स्वरूपभूता गुणा आनन्दाद्यास्तदात्मकमिति । रूपशब्देन च शुक्लादिगुणप्रतीतिः स्यात् । अतः शिरःपाणीति विवरणं कृतम् । अतो रूपवांश्चेति शेषः । विचारप्रयोजनं दर्शयति अत इति ।
अनु०-अतो नानित्यता नैव श्रुतिद्वयविरोधिता

अनित्यता जन्ममरणवत्ता । नापि सौन्दर्याद्यभाव इति च द्रष्टव्यम् । तथा च तस्मिन् भक्तिरुपपन्नेति शेषः ।

२०६सु०- यद्यस्ति परमात्मनो रूपं कथं तर्हि तस्य प्रसिद्धवैलक्षण्यमात्रेणारूपत्वव्यवहार इत्याशङ्कापरिहारार्थत्वेन प्रकाशवदिति सूत्रावयवो भाष्ये व्याख्यातः । इदानीं यदीश्वररूपं लोकविलक्षणं तदा तत्र रूपशब्द(प्र)वृत्तिर्दुर्घटा स्यात् । सम्बन्धग्रहणानुपपत्तेः । तथा च रूपवत्त्वश्रुतीनां वैयर्थ्यं दुष्परिहरमित्याशङ्कापरिहारार्थत्वेनापि व्याचष्टे यथा हीति ।

अनु०-यथा हि तैजसस्यैव प्रकाशस्योज्खितावपि । आत्मैव ज्योतिरित्याह जीवस्येशं श्रुतिस्तथा ।

तैजसस्यैव प्रकाशस्ये त्येतत्तैजस एव हि सौरादिरालोकः प्रकाशशब्दवाच्यः प्रसिद्धस्तस्येति व्याख्येयम् । उज्खितावपि परमेश्वरस्य तत्त्वाभावेऽपीति यावत् । आत्मैवास्य ज्योतिर्भवती ति श्रुतिर्जीवस्येशं प्रकाशमाहेत्यर्थः । तथा लोकविलक्षणेऽपि भगवद्रूपे रूपशब्दप्रवृत्तिर्युक्तेति शेषः । उपपत्तिस्तु परमत इत्यत्र वक्षमाणाऽत्रा(प्य)नुसन्धेयेति ।

२०७सु०- नन्वेतदधिकरणम् अत एव चे(चोपमे) ति सूत्रात्पूर्वम् । तत्कथं पश्चाद्व्याख्यातम् । उच्यते । अत एवे(चे)ति सूत्रं न स्थानतोऽपी त्यधिकरणेन सङ्गतमिति ज्ञापनाय क्रमभेदः । तत्सिद्धा(म)र्थमुपजीव्य पूर्वपक्षोत्थानात् । तथा च भाष्यं यस्मादेवमि त्यादि । अत्रापि ईशरूपेष्वि त्यादि ।

अथ तदनन्तरमेव किन्न कृतमरूपवत्त्वाधिकरणार्थस्य अत एव चे ति सूत्रार्थं प्रति हेतुत्वेनोपोद्घातलक्षणया सङ्गत्या वर्णितस्याव्यवधायकत्वात् । हेतुत्वमपि प्रपञ्चयितुमाचार्येण स चाप्राकृतरूपत्वादि ति चशब्दो निबद्धः । कालत्रयेऽप्यशरीरात्परमात्मनो जीवस्य अत्यन्तभेद एव ह्युपपन्न इति ।। ३२९ ।।

।। इति अरूपाधिकरणम् ।।

न्यायसुधा

।। अथ वृदि्धह्रासाधिकरणम् ।।

ब्र०सू०- ॐ वृदि्धह्रासभाक्तवमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ ।।

२०८सु०- यदर्थं भगवन्महिमाऽत्रोच्यते सा भक्तिः पुरुषेषु तारतम्येन तिष्ठतीत्येतदिहोपपाद्यते । तथा हि । अस्ति भक्तेर्वृदि्धह्रासभाक्तवम् । कुतः । ब्रह्मादीनामस्मदादीनां च भक्तत्वेऽन्तर्भावात् । एवं भक्तितारतम्येऽङ्गीकृते एवेश्वरस्योभयान्प्रति सामञ्जस्यसम्भवादिति । तदेतदसङ्गतम् । युक्तेः प्रतिज्ञातार्थेन सह सम्बन्धाप्रतीतेरि(त्यत)ति तत्र आह तद्भक्तीति ।

अनु०-तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम् । ब्रह्मादीनां च सर्वेषामानन्दादेर्यथाक्रमम् ।

ब्रह्मादीनां चशब्दादस्मदादीनामित्येवं सर्वेषां यथाक्रमं श्रौतक्रमानतिरेकेण यद्विमुक्तिगमानन्दादेस्तारतम्यं तद्भगवद्भक्तितारतम्येनैव भवतीत्यर्थः ।

एतदुक्तं भवति । साधितं तावन्मौक्तस्यानन्दादेः फलस्य भक्तिसाध्यत्वमम्बुवदग्रहणात्तु न तथात्वमिति सूत्रेण । तच्च अथात आनन्दस्य मीमांसे त्यादिश्रुत्या तारतम्यवदवगम्यते । साध्यतारतम्ये (च) साधनतारतम्यमावश्यकम् । अन्यथा तस्य आकस्मिकत्वप्रसङ्गात् । फलदातुरीश्वरस्यासामञ्जस्यप्रसक्तेश्च । न चैवम् । अतोऽस्ति भक्तेर्वृदि्धह्रासभाक्तव(मिति)म् ।। ३२१२ ।।

।। इति वृदि्धह्रासाधिकरणम् ।।

न्यायसुधा

।। अथ स्थानविशेषाधिकरणम् ।।

ब्र०सू०-ॐ स्थानविशेषात्प्रकाशादिवत् ॐ ।। (ॐ उपपत्तेश्च ॐ)

२०९सु०- यद्यप्येतदधिकरणं परमत इत्यतोऽनन्तरम् । तथाऽपि तेनेवानेनापि सङ्गति

रस्य । अनेन विषयोपक्षेपात् तेन पूर्वपक्षोपपत्तिदर्शनात् । यद्वाऽनेन पूर्वपक्षयुक्तयुत्थानात् तेन विषयोपक्षेपात् । तथा हि । न ब्रह्मादीनामानन्दस्य तारतम्यमुपपद्यते । भगवदानन्दप्रतिबिम्बत्वाभ्युपगमात् । बिम्बे च तारतम्याभावस्य न स्थानतोऽपीत्युक्तत्वात् । अन्यथाऽऽकस्मिकत्वप्रसङ्गादिति । यद्वा न ब्रह्मा(द्या)दीनामानन्दो भगवदानन्दप्रतिबिम्बः । परस्परं विभिन्न(चित्र)त्वात् । बिम्बाभिमते च वैचित्र्याभावादिति । अतोऽत्रेदं विशदयति प्रतिबिम्बवदिति ।

अनु०-प्रतिबिम्बवदप्येषामानन्दोऽन्यगुणा यथा

यद्यप्येषां ब्रह्मादीनामानन्दः प्रतिबिम्बवत् । प्रसिद्धप्रतिबिम्बैस्तुल्यं वर्तते । भगवदानन्दप्रतिबिम्बो भवतीति यावत् । तथाऽपि परस्परं विचित्रो भवतीति शेषः । कथम् । अन्येषां साधनभूतानामुपाधिगुणानां भक्तयादीनां वैचित्र्यानतिक्रमेण । तत्र दृष्टान्तः प्रतिबिम्बवदिति । यथा सूर्यादिप्रतिबिम्बानां सूर्यकान्तजलादिगतानां सूर्यादिबिम्बवैचित्र्याभावेऽपि सूर्यकान्तादिस्थानगुणवैचित्र्याद्वैचित्र्यं तथेत्यर्थः ।

२०९असु०- वैचित्र्ये हेत्वन्तरमाह नारायणेति ।

अनु०-नारायणगुणाधीनश्च

बिम्बशक्तया च विचित्र इत्यर्थः । स्थानगुणस्य बिम्बसामर्थ्यस्य च प्रयोजकत्वं न्यायविवरणे व्युत्पादितम् अनेन उपपत्तेश्चेति सूत्रं व्याख्यातं भवति । बिम्बप्रतिबिम्बयोरैक्यं केचिदिच्छन्ति । अतः प्रतिबिम्बत्वं व्याख्या(तं)ति नारायणेति । गुण आनन्दः । चशब्देन तत्सदृशश्चेति ग्राह्यम् । बिम्बाभिन्न एव किन्न भवतीत्यत आह अत्यल्प इति ।

अनु०- अत्यल्पस्तदपेक्षया । तस्मादि्भन्नश्च सततमन्यज्ज्ञानं परस्य च

चः हेतौ । यस्मात् तदपेक्षयाऽत्यल्पः तस्मात् सततं भिन्न इति । तदपेक्षयाऽत्यल्पत्वं कुत इत्याकाङ्क्षां परिहरन्नत्र श्रुतिमाह अन्यदिति ।

अनु०-अन्यज्ज्ञानं तु जीवानामन्य आनन्द ईशता । मुख्येशता परेशस्य गौणी जीवस्य सा यतः । इति श्रुतेः ।

अन्य आनन्दः परस्य जीवानां चेति सम्बन्धः । एवमीशतेत्यपि योज्यम् । मुख्येशतेत्युपलक्षणया हेतुमाह । इति श्रुतेरिति पूर्वेण सम्बन्धः ।। ३२१७ ।।

।। इति स्थानविशेषाधिकरणम् ।।

न्यायसुधा

।। अथ पालकत्वाधिकरणम् ।।

ब्र०सू०- ॐ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॐ ।।

२१०सु०- अत्र पूर्वपक्षप्रदर्शनपरं भाष्यं सृष्टिसंहारकर्तृत्वमेवास्य न पालकत्वम् । स्वतःसिद्धेरि ति । तदयुक्तम् । सृष्टिसंहारकर्तृत्वाभ्युपगमस्य व्यर्थत्वात् । स्वतःसिद्धेरित्यत्र अस्येत्यप्रतीतेश्च । स्थितेरित्यध्याहारेऽपि स्वभाववादाश्रयणस्य सृष्टिसंहारयोरपि साम्येन तत्कर्तृत्वाभ्युपगमानुपपत्तेरित्यतः पूर्वपक्षं विशदयति सृष्टीति ।

अनु०- सृष्टिनाशौ तदधीनावितीरिते । स्वभावत्वात्स्थितेर्नैतदपेक्षा

इति ईरिते सिद्धान्तिनाऽभ्युपगते सति । ततश्चायमर्थः । ईश्वरस्य पालकत्वं नोपपद्यते स्थितेस्तत्प्रयोजनत्वात् । तस्याश्च स्वभावसिद्धत्वेनेश्वरानपेक्षत्वात् । ईश्वर एव हि विश्वस्य सृष्टिसंहारयोः कर्ता नान्य इत्यभ्युपगतम् । तथा च सृष्ट्वा यावन्न संहरेत्तावत्स्थितिः स्वभावसिद्धैव न परव्यापारमपेक्षते । यदि खलु सृष्टिसंहारयोः कर्ताऽन्यः स्यात् तदोदासीनस्य तस्य सृष्टौ प्रेरणाद्यर्थं संहारे प्रवृत्तस्य निवारणार्थं च स्थितावीश्वरापेक्षा सम्भवेत् । न च तदस्ति । अतः संहारोदासीनत्वातिरिक्तं पालकत्वं नोपपद्यत इत्येवमत्र पूर्वपक्ष इति ।

एवं तर्हि सिद्धान्तो न युक्तः । स्वभावत्त्वयुक्तेरपरिहृतत्वादित्यतः सूत्राभिप्रायमाह इति नेति ।

अनु०-इति न युज्यते । यतस्स्वभावोऽप्यखिल ईशायत्तोऽखिलस्य च ।

परानपेक्षतया प्रतीयमानं स्वरूपं धर्मो वा स्वभाव इत्युच्यते । स सर्वेषां पदार्थानाम् । (स) सर्वोऽपीशायत्त एव । अन्यथा तेषां स्वातन्त्र्यप्रसङ्गेनास्येशत्वानुपपत्तेः । सर्वं खल्वित्यादिश्रुतिविरोधापत्तेश्च । अन्नदानादौ व्यापारश्च स्फुट एवेति ।। ३२१३ ।।

।। इति पालकत्वाधिकरणम् ।।

न्यायसुधा

।। अथ अव्यक्ताधिकरणम् ।।

ब्र०सू०- ॐ तदव्यक्तमाह हि ॐ ।।

२११सु०- अत्र परमात्मनोऽव्यक्तत्वमादौ विस्तरेण समर्थितम् । ततस्तर्हि भक्तयादिसाधनवैयर्थ्यमित्याशङ्क्य प्रकाशश्च कर्मण्यभासादि ति दृश्यत्वं चोक्तम् । तदेतदुभयं विरुद्धमित्याशङ्क्य अतोऽनन्तेन तथा हि लिङ्ग मिति सूत्रितम् । अत्र विरोधशान्तिर्न स्फुटा प्रतीयत इत्यतस्तस्य तात्पर्यमाह अव्यक्तोऽपीति ।

अनु०-अव्यक्तोऽपि स्वशक्त्यैव भक्तानां दृश्यते हरिः।

भक्तानामव्यक्तोऽपीत्यन्वयः । भक्तानामनुग्रहायेत्यध्याहारो वा । जीवशक्तयपेक्षया अव्यक्तोऽपि स्वशक्तयैव दृश्यत इत्यविरोध इति ।। ३२१४ ।।

।। इति अव्यक्ताधिकरणम् ।।

न्यायसुधा

।। अथ उभयव्यपदेशाधिकरणम् ।।

ब्र०सू०-।। ॐ उभयव्यपदेशात्त्वहिकुण्डलवत् ॐ ।।

१२१सु०- यदीश्वरस्य गुणक्रियादयो धर्माः ततो भिन्नाः तदा समवायस्य निराकृतत्वात् तद्वत्त्वमनुपपन्नम् । यदि च अभिन्नाः तदा ज्ञानादिमत्त्वमानन्दादिभोक्तृत्वमित्याद्ययुक्तमित्युभयथा तत्र भक्तयनुपपत्तिरिति पूर्वपक्षप्राप्ताविदमारभ्यते । तत्र हेतुदृष्टान्तावेव सूचितौ । न तु पक्षपरिग्रहरूपा प्रतिज्ञा । अध्याहारोऽपि हेतुदृष्टान्तबलेन भेदाभेदपक्षपरिग्रहस्येति प्रतिभाति । अतः प्रतिज्ञां दर्शयति तदभिन्ना इति ।

अनु०-तदभिन्ना गुणा नित्यमपि सर्वे विशेषतः । गुणत्वेन गुणित्वेन भोक्तृभोग्यतया स्थितः ।

नित्यशब्दो नियमार्थः । परमेश्वराः सर्वे गुणा धर्मा नित्यं तदभिन्नास्तेनात्यन्ताभिन्नास्तथाऽपि विशेषशक्तया गुणगुण्यादिभावेन स्थिताः ।

२१३सु०- स्यादेतत् । परिमाणादीनां यावद्द्रव्यभाविनां भवतु नाम भगवताऽत्यन्ताभेदः । क्रियाणां (ज्ञानादि)गुणानां चास्राक्षीत्सृजति स्रक्ष्यति व्यज्ञासीज्जानाति ज्ञास्यतीत्यादि श्रौतव्यवहारैरनित्यतयाऽवगतानां तु न युज्यत इत्यत आह विशेषात्मतयेति ।

अनु०-विशेषात्मतया तेषां नित्यशक्तयात्मना तथा । नित्यं स्थितेर्न धर्माणां क्रियादीनामनित्यता ।

तेषां परमेश्वरसम्बन्धिनां क्रियादीनां धर्माणां नित्यशक्तयात्मना नित्यं स्थितेस्तथा विशेषात्मतया व्यक्तिरूपेण व्यवहारविषयतोपपत्तेर्नानित्यतेति योजना । प्रपञ्चस्तु प्रागेव कृतः ।

ननु च क्रियादीनां या व्यक्तता सा तावदनित्यैव । अन्यथोक्तव्यवहाराणां निरालम्बनत्वापातात् । ततस्तस्या भगवद्धर्मभूताया अपि नात्यन्ताभेदोपपत्तिरित्यत आह न विशेषेति ।

अनु०-न विशेषात्मता चेयमनित्या

इयं व्यवहारालम्बनत्वेनोक्ता । कुत इत्यत आह शक्तति ।

अनु०-शक्तिरूपता । सैव यत्

यद्यस्मात्सा विशेषात्मता शक्तिरूपतैव । शक्तिश्च नित्येत्युक्तं तस्मादित्यर्थः । नन्वेवं तर्हि शक्तिर्व्यक्तिरिति व्यवहारविशेषो न स्यात् । उक्तव्यवहाराणां निरालम्बनत्वं च न परिहृतं स्यादित्यत आह सविशेषेति ।

अनु०-सविशेषा स्यात्

नेयं व्यक्तिः शक्तया निर्विशेषाभिन्ना । येनोक्तदोषः स्यात् । किन्तु सविशेषाभिन्नैव । यद्ययं सर्वनिर्वाहहेतुर्विशेषो भगवतो भिन्नस्तदा सर्वेषां तद्धर्माणां तेनात्यन्ताभेद इति प्रतिज्ञा भज्येत । अभिन्नश्चेद्विशेषता तस्य न स्यात् । स्वरूपमात्रपर्यवसानेन सोऽपि न स्यादित्यत आह विशेष इति ।

अनु०-विशेषोऽन्यो न चाप्ययम् । स्वनिर्वाहकताहेतोस्तथाऽपि स्याद्विशेषता

चः अवधारणे । अयं विशेषोऽपि भगवतो नैव भिन्नस्तेन न प्रतिज्ञाहानिः । तथाऽपि तस्य विशेषता स्यात् । कथम् । न ह्ययमभिन्नो भवन्निर्विशेषः । एवं तर्हि विशेषपरम्परयाऽनवस्था स्यात् । न स्यात् । कुतः विशेषस्य स्वनिर्वाहकताहेतोरिति ।

२१४सु०- एवं प्रतिज्ञा दर्शिता । तत्र बाधकानि परिहृतानि । अत्र चोदना । स्यादेवम् । यद्येतेष्वर्थेषु प्रमाणं स्यात् । न च तत्पश्याम इत्यतः सौत्रमुभयव्यपदेशादिति हेतुं व्याचष्टे विशेषत्वेनेति ।

अनु०-विशेषत्वेन विज्ञातेः प्रमाणैरखिलैरपि

अखिलैः उभयविधैः प्रमाणैः वेदवाक्यैर्ज्ञानादिधर्माणां भगवद्विशेषत्वेनापिशब्दात् तदभिन्नत्वेन च विज्ञातेर्विज्ञानादित्यर्थः ।

ननु विज्ञातेरिति कथम् । आतश्चोपसर्ग इत्यङः क्तिन्बाधकत्वात् । क्तिन्नाबादिभ्यश्चे ति वचनाद्भविष्यति । एतदेव विवृणोति ससर्जेति ।

अनु०- ससर्ज सञ्जहारेति विशेषो ह्यवगम्यते ।श्रुत्येव स स एवेति तदभेदश्च गम्यते ।

स इदं सर्वमसृजते त्यादिश्रुतिं ससर्जेत्यनेनोपादत्ते । तत्तदत्तुमध्रियते त्यादिकां सञ्जहारेत्यनेन, स आनन्दादिः सः परमात्मैवेत्यनेन आनन्दो ब्रह्मे त्यादिश्रुतिम् ।

तदयमर्थः । स इदं सर्वमसृजत, उक्षा स द्यावापृथिवी बिभर्ति, तत्तदत्तुमध्रियत, स ऐक्षत सोऽकामयत, आनन्दं ब्रह्मणो विद्वानि त्यादिश्रुत्या सर्जनादिकं ब्रह्मणो विशेषोऽतिशयो न ब्रह्ममात्रमित्यवगम्यते । तन्मात्रत्वे क्रियाकर्तृभावादेरनुपपत्तेः । आनन्दो ब्रह्मेति व्यजानात्; सत्यं ज्ञानमनन्तं ब्रह्म; एकधैवानुद्रष्टव्यमि त्यादिश्रुत्यैव तस्य तेनाभेदश्चावगम्यते । तदेवमुभयव्यपदेशान्यथाऽनुपपत्त्या सकलमिदं कल्प्यते । सर्वेषां ब्रह्मधर्माणां ब्रह्मणा सविशेषोऽत्यन्ताभेदः । क्रियादीनां नित्यता शक्तिव्यक्तिरूपता व्यक्तिरूपस्यापि नित्यता शक्तिरूपाभिन्नता सविशेषता विशेषस्याप्यभेदः स्वनिर्वाहकता चेति । न ह्येतेष्वर्थेष्वन्यतमस्याप्यकल्पनायामुदाहृतोभयव्यपदेशविरोधशान्तिर्भवतीति ।

एतदेव प्रपञ्चयितुं निदर्शनत्रयेण इत्यतः प्राक्तनो ग्रन्थसन्दर्भः ।

२१५सु०- अथ मतम् । भेद एव ब्रह्मधर्माणां ब्रह्मणाऽस्तु । समवायेन विशेषणविशेष्यभावो भविष्यति । समवायदूषणानि च श्रुतिविरोधेनाभासतां यास्यन्ति । समवायाभावेऽपि वा धर्मधर्मिणोरेव स कोऽपि महिमा कल्प्यते । न चाभेदश्रुतिविरोधः । अनागन्तुकत्वेनोपचारोपपत्तेः । अतः किमभेदमादाय विशेषाद्यङ्गीकारेणेति । अपर आह अखण्डमेव ब्रह्म न तु तत्र कश्चिद्विशेषः ।

न चापरश्रुतिविरोधः । क्रियादिविषयाणां सगुणविषयत्वात् । तस्य च मायामयत्वेनाविचारितरमणीयत्वात् । आनन्दं ब्रह्मण इत्यादीनां च राहोः शिर इत्यादिवदुपचरितत्वोपपत्तेरिति ।। अन्यस्त्वाह भेदाभेदाभ्यामेवोभयव्यपदेशसामञ्जस्योपपत्तेः किमनया सविशेषाभेदकल्पनयेति ।

मैवम् । त्रिभिरप्येतैरन्ततोऽभिन्ने विशेषस्याङ्गीकर्तव्यत्वात् । ततो वरमादित एव तदङ्गीकरणमित्याशयवान् भेदवादिनं तावद्विशेषमङ्गीकारयितुमाह भेद इति ।

अनु०-भेदो यदि विशेषस्य स भेदो भेदिना कथम्

विशेषस्य ज्ञानादेर्ब्रह्मधर्मस्य, यदि ब्रह्मणो भेदोऽङ्गीक्रियते तदा पृच्छामः । स भेदो, भेदिना ब्रह्मणा ज्ञानादिना च सह, कथं किं प्रकारः, प्रतिपत्तव्यः । किं भिन्नः किंवाऽभिन्न इति ।

आद्ये दोषमाह भिन्नश्चेदिति ।

अनु०- भिन्नश्चेदनवस्था स्यात्

यदि भेदो भेदिभ्यां भिन्नस्तदा सोऽपि भेदस्तथेत्यनवस्था स्यात् । विशेषणविशेष्यभावादिप्रतिपत्तये खलु धर्मधर्मिणोर्भेदोऽभ्युपगम्यते । स च प्रतीयमान एव तद्धेतुः । तत्प्रतीतिश्च विशेषणादिभावेनैवेत्युत्तरोत्तरभेदप्रतीतिरवश्यमपेक्षितैवेति सुस्थाऽनवस्था ।

२१६सु०- अभिन्नत्वेऽपि वक्तव्यं सविशेषाभिन्न उत निर्विशेषाभिन्न इति ।

प्रथमे दोषमाह अभिन्नश्चेदिति ।

अनु०-अभिन्नश्चेत्पुरा न किम्

पुरा न किमिति । धर्माणां धर्मिणा सविशेषाभेदः किं नाङ्गीक्रियते अङ्गीकार्य एवेत्यर्थः । भेद इव विनाऽपि भेदेन विशेषेणैवोपपत्तावपि वृथा परम्पराकल्पनायां गौरवं स्यात् ततो धर्माणामेव सविशेषाभेदाङ्गीकारः श्रेयानिति भावः । अस्त्वेवमित्यत आह विशेष इति ।

अनु०-विशेषोऽभिन्न एवेति तेन नाभ्युपगम्यते

विशेषो धर्मोऽभिन्न इत्येव तावत् । तेन भेदवादिना नाभ्युपगम्यते । दूरे सविशेषत्वमित्यतोऽपसिद्धान्तः स्यात् । समीहितं च नः (न) सिद्ध्येदित्याशयः ।

द्वितीयं दूषयति अभिन्न इति ।

अनु०-अभिन्नो निर्विशेषश्चेद्भेदस्तद्भेदता कुतः

भेदो यदि भेदिभ्यामभिन्नो निर्विशेषश्च स्यात् तदा तस्य तद्भेदता तयोरयं भेद इत्येवम्भावः कुतो न कुतोऽपि । तदीयताया भेदेन विशेषेण वा विनाऽनुपपत्तेः । तन्मात्रत्वे च धर्मधर्मिणावेव स्तो न भेद इति स्यात् । तथा च धर्मधर्मिणावित्यपि न स्यात् । भेद एवास्ति न धर्मधर्मिणाविति वा भवेत् । ततश्च भेदोऽपि न स्यादिति ।

२१७सु०- भेदस्य भेदिस्वरूपत्वमङ्गीकृत्य विशेषमनङ्गीकुर्वाणं प्रति दूषणान्तरमाह अनेनेति ।

अनु०-अनेनानेन भिन्नोऽयमिति यत्सविशेषतः । भेद एवैष बहुधा दृश्यते तत्किमुत्तरम्

भिन्नोऽयं घट इति स भेद एव विशेषतः विशेषणत्वेन दृश्यते न तु घटः, किन्तु विशेष्यत्वेन । तथा अनेनानेन । व्यत्ययो बहुलमिति पञ्चम्यर्थे तृतीया । सहयोगे वा । पटादि्भन्नस्तम्भादि्भन्नो घट इत्येष भेद एव सविशेषतः प्रतियोगिविशेषसाहित्येन दृश्यते । तथाऽयं पदार्थोऽनेन वक्रत्वेनानेन कोटरवत्त्वेन पुरुषादि्भन्न इति स एष भेद विशेषतो व्यावर्तकधर्मेण दृश्यते । पदार्थस्त्वक्षसन्निकर्षमात्रेण ।

तथाऽस्मात्पटादस्मात्स्तम्भादस्मात्कुड्यादि्भन्नोऽयं घट इत्येष भेद एव सविशेषतः प्रतियोगिविशेषसाहित्येन निमित्तेन बहुधा दृश्यते । घटस्त्वेकधैव । अतो न भेदो घटस्य स्वरूपमिति यत्स्वरूपभेदस्य दूषणं परैरुच्यते । तत्तस्य किमुत्तरं त्वयाऽभिधास्यते, यदि विशेषो नाङ्गीक्रियते; इत्यर्थः ।

यदि विशेषो नाङ्गीक्रियते तदा भेदो भेदिनाऽभिन्न इत्यपि नाङ्गीकर्तुं शक्यते । भेदभेदिनोर्भेदसाधकानामनेकेषां भावात् । विशेषेणैव हि तेषामन्यथासिदि्धं व्युत्पाद्य प्रतीतिबलेन भेदस्य भेदिनाऽभेदो वक्तव्यो नान्यथेति भावः ।

तदीयत्वेन विशेषणत्वेन सप्रतियोगित्वेन लिङ्गित्वेन बहुत्वेन च प्रतीयमानोऽन्योन्याभावादिरूपो भेदो न भेदिस्वरूपतयाऽङ्गीक्रियते ।

यस्तु स्वरूपतयाऽङ्गीक्रियते नासौ तदीयत्वादिना प्रतीयत इति तस्योत्तरं ब्रूम इति चेन्न । अस्यैव प्रसिद्धत्वादन्यस्य तदभावात् । अन्यथा स्वरूपस्यैव भेद इति पारिभाषिकं नामान्तरमुक्तं स्यात् । न चाद्वैतवादिनः स्वरूपं नाङ्गीकुर्वते । तत्किमनेन भेदेन । तदिदमुक्तं स एष इति प्रसिदि्धद्योतकाभ्याम् । तदीयत्वादिरुपचार इति चेन्न । प्रतीतेः स्फुटत्वात् । बाधकाभावेनाभ्रान्तित्वाच्च । तदिदमप्युक्तं दृश्यत इति ।

२१८सु०- दूषणान्तरमाह अभेदेति ।

अनु०-अभेदभेदयोश्चैव स्वरूपत्वं हि भेदिनः

न केवलं भेदस्य । किन्त्वभेदस्य च भेदिनः स्वरूपत्वमेवेति योजना । यो भेदस्य भेदिना घटेनाभेदमङ्गीकरोति । तेन तस्याभेदस्यापि घटस्वरूपत्वमेवाङ्गीकरणीयम् । भेदसमानन्यायत्वादिति हिशब्दार्थः । ततः किमित्यत आह तयोरपीति ।

अनु०-तयोरपि

अभेदोऽङ्गीकार्य इति शेषः । अस्त्वेकेन घटेनात्यन्ताभिन्नयोरभेदभेदयोरभेदस्ततोऽपि किमित्यत आह अविशेषत्व इति ।

अनु०- अविशेषत्वे पर्यायत्वं हि शब्दयोः

अभेदभेदयोरत्यन्ताभेदे विशेषे चासत्यभेदाभेदशब्दयोः पर्यायत्वं स्यात् । एकार्थवाचित्वाद्घटकलशशब्दवदिति हिशब्दार्थः । अस्त्वित्यत आह अभेदेति ।

अनु०-अभेदभेदशब्दौ च पर्यायाविति को वदेत्

को वदेत् न कोऽपि । प्रत्युतापर्यायावित्येव वदति सर्व इत्यप्रामाणिकं प्रमाणविरुद्धं चैतदिति ।

एतदुक्तं भवति । भेदो भेदिनोऽभिन्नस्तन्न्यायेन सोऽभेदोऽपि ततस्तावन्योन्यमप्यभिन्नाविति तावत् तत्त्वम् । तथा च भेदाभेदशब्दयोः पर्यायत्वप्राप्तौ विशेषबलेनैव हि तत्परिहरणीयम् । तस्य चानङ्गीकारे दुष्परिहरं तदापद्येतेति ।

ननु भेदभेदिशब्दयोरपि पर्यायत्वमापादयितुमुचितम् । सत्यम् । शिष्यैरूह्यतामिति नोक्तम् ।

२१९सु०- शङ्कते भेद इति ।

अनु०-भेदोऽन्योन्यमभेदश्च भेदिना चेत्

यद्यपि भेदाभेदयोः भेदिना घटेन सहाभेदः तथाऽपि तयोः अन्योन्यं भेदः अस्तीति

न तच्छब्दयोः पर्यायत्वं प्रसज्यते । तत्किं विशेषेणेति । परिहरति विशेषितेति ।

अनु०-विशेषिता

एवमङ्गीकुर्वाणेनाप्यभिन्ने वस्तुनि विशेषिताऽङ्गीकरणीयैवेत्यर्थः । तत्कथमित्यत आह अविशेष इति ।

अनु०-अविशेषे कथं भेदो भेदिनैकस्तथाऽभिदा ।पुनस्तयोर्विभेदश्च भेदिमात्रत्वतो भवेत्

विशेषाभावे भेदो भेदिना एकः अभिन्नः तथाऽभिदा भेदिना घटेनाभिन्ना, पुनस्तयोः भेदाभेदयोः परस्परं भेदश्चेति कथमुपपन्नं भवेत् । कुतो न भवेत् । भेदाभेदयोः भेदिमात्रत्वतः । अन्यथा घटस्यापि स्वतो भेदः स्यात् । घटेनाभिन्नयोर्भेदाभेदयोः परस्परं भेद(कार्य)निर्वाहार्थं घटेन सविशेष एवाभेदोऽङ्गीकार्य इति भावः ।

२२०सु०- शङ्कते भेदिनश्चेति ।

अनु०-भेदिनश्चैव भेदस्य विशेषो यदि गम्यते । अभेदाभेदिनोश्चैव

चशब्दावन्योन्यसमुच्चयार्थौ । एवशब्दौ परस्परं सविशेषाभेदव्यावृत्त्यर्थौ । गम्यते अभ्युपगम्यते । भेदस्य भेदिनश्च घटस्याभेदो विशेषश्च मयाऽभ्युपगम्यते । तथाऽभेदस्य अभेदिनश्च तस्य सविशेषोऽभेदोऽभ्युपगम्यते । तथा च भेदाभेदयोर्घटतन्मात्रत्वाभावेन परस्परं भेदोपपत्तेः न शब्दयोः पर्यायत्वम् । ततश्च भेदाभेदयोः परस्परमभेदो विशेषश्च अङ्गीकार्य इत्यसदिति भावः ।

एवमपि धर्मधर्मिणोर्भेदमभ्युपगच्छता अन्ततोऽभिन्ने वस्तुनि विशेषोऽङ्गीकर्तव्य इत्यभिमतं यद्यपि सिद्धमेव, तथाऽप्युक्तं तत्त्वं न परित्याज्यमित्याशयवान् परिहरति किमिति ।

किं भेदोऽभेदभेदयोः

एवञ्चेदभेदभेदयोर्भेदः कस्मात्कल्प्यते । तयोरपि सविशेषाभेद एवाङ्गीकर्तव्यः । तत्रोपपत्तिमाह विशेषेणैवेति ।

अनु०-विशेषेणैव सर्वत्र यदि व्यवहृतिर्भवेत् । कल्पनागौरवायैव किं भेदः कल्प्यते तदा

सर्वत्र भेदभेदिनोरभेदाभेदिनोश्चाभेदेऽपि विशेषेणैव तन्मात्रताभावनिबन्धना व्यवहृतिर्भवेदित्यङ्गीकृतं चेद्भेदाभेदयोस्तर्हि भेदः किं कल्पनागौरवायैव कल्प्यत इति सोल-लुण्ठवचनम् । भेदाभेदयोर्घटेनेव परस्परमपि सविशेषत्वेनैव सर्वस्योपपत्तौ भेदकल्पने कल्पनागौरवं स्यात् । अनेकपदार्थकल्पनात् द्विधा कल्पनाच्चेति भावः ।

अस्त्वेवं ततः किमायातं प्रकृत इत्यत आह विशेषेणैवेति । भेदस्य भेदिनाऽभेदेऽपि तदीयत्वादिव्यवहृतिर्भेदाभेदयो(श्च)र्घटेनाभेदेऽप्यपर्यायशब्दव्यवहृतिर्यदि विशेषेणैव भवेत् तदा धर्मधर्मिणोरपि भेदः किं कल्पनागौरवायैव कल्प्यते । धर्मधर्मिणोर्भेदमङ्गीकृत्याप्यन्ततो विशेषोऽङ्गीकार्यः । ततो वरमादित एव तदङ्गीकरणम् । अन्यथा कल्पनागौरवप्रसङ्गादिति । एतेन पुरा न किमिति विवृतं भवति ।

२२१सु०- यदि कल्पनागौरवभयाद्धर्मधर्मिणोरभेदमङ्गीकृत्य व्यवहारविशेषार्थं विशेषोऽङ्गीक्रियते । तर्हि गवाश्वयोरपि तथा कल्प्यताम् । अविशेषात् । तथा च भेद एव जगति न स्यादित्यत आह ऐक्येति ।

अनु०-ऐक्यप्रतीत्यभावेन भेद एव गवाश्वयोः

भेद एव स्वीक्रियते न विशेषः । गवश्वयोरिति प्रमादपाठः । मूलकोशेष्वदर्शनात् । ऐक्यप्रतीत्यभावेऽपि कुतो विशेषो नाङ्गीक्रियत इत्यत आह स एवेति ।

अनु०-स एवेति प्रतीतौ हि विशेषो नाम भण्यते

धर्मधर्मिप्रतिबन्द्या हि गवाश्वयोर्विशेषः परेणापादनीयः । न च तत्राविशेषः । अभेदप्रतीत्या तत्र तदङ्गीकारात् । इह च तदभावात् । भेदस्य प्रतीतिसिद्धत्वेन कल्पना(गौरवाभावाच्चेति)भावादिति ।

२२२सु०- अधुनाऽभेदवादिनाऽपि विशेषमङ्गीकारयति सच्चिदादेरिति ।

अनु०-सच्चिदादेरपर्यायसिद्ध्यर्थं मायिनाऽपि हि । अङ्गीकार्यो विशेषोऽयं

मायिनाऽपीति । क्रियादिविषयाणां वाक्यानां मायिकविषयतामङ्गीकुर्वताऽपि इति यावत् । तत्र हेतुः सच्चिदादेः पदसमूहस्य अपर्यायत्वसिद्ध्यर्थमिति । अयमि ति अपर्यायशब्दप्रवृत्तिहेतुः । विशेषस्य तथाभावः प्रमित इति हि शब्दः ।

एतदुक्तं भवति । सन्तु तावत् क्रियादिविषयाणि वाक्यान्यसत्यविषयाणि । तथाऽपि सत्यं ज्ञानमनन्तं ब्रह्मे त्यादीनि तावत् सत्यविषयाणि परेणाङ्गीकृतान्येव । तेषां चाखण्डार्थनिष्ठत्वे सत्यज्ञानादिपदानामेकार्थत्वेन पर्यायत्वं स्यात् । न च तद्युक्तं सहप्रयोगदर्शनात् । न च भेदोऽङ्गीकर्तुं शक्यः । एकमेवाद्वितीयमित्यादिश्रुतिविरोधात् । अतः सत्येऽपि विशेषोऽङ्गीकार्यः । तस्यापर्यायशब्दप्रवृत्तिहेतुता चानयैवार्थापत्त्या सिद्धा । तथात्वेनैव तत्कल्पनादिति ।

२२३सु०- अपोहवादाश्रयेण शङ्कते यदीति ।

अनु०-यद्यसत्यविशेषणम् । पृथक् पृथग्वारयितुं शब्दान्तरमितीष्यते

सत्यादिपदानां विधिवाचित्वे विधीयमानानां सत्यत्वादिविशेषणानां ब्रह्मण्यभावात् स्वरूपमात्रस्य चैकत्वात् पर्यायत्वं स्यात् । न चैवम् असत्यत्वाद्यपोहवाचित्वात् । न चैवं सति वैयर्थ्यम् । ब्रह्मण्यसत्यत्वादीनां विशेषणानां भ्रान्तिकल्पितत्वेन तन्निवारणार्थत्वात् । सन्ति हि नास्ति ब्रह्म, सदपि न ज्ञानं परिच्छिन्नं (चे)वेत्यादिप्रतीतयः प्राणिनाम् । न च सत्यपदमज्ञानस्याप्यपोहं वक्ति येनैकेनैवालमिति स्यात् । तस्मान्न पर्यायत्वं वैयर्थ्यं चेति ।

यद्वा सत्यादिपदानि सत्यत्वादिपृथगर्थवाचीन्येवेति न पर्यायतामापद्यन्ते । ब्रह्मणि तु लक्षणया प्रवर्तन्त इति न तत्र विशेषणानि समर्पयन्ति । न हि गङ्गापदं तीरे गङ्गात्वमर्पयति । न चैवमेकेनैव लक्षितत्वादितरेषां वैयर्थ्यमिति वाच्यम् । आरोपितानामसत्यत्वादिविशेषणानां प्रत्येकं निवारणेन सार्थक्यात् । न च सङ्गतिग्रहणविषयाभावाल-लक्षणानुपपत्तिः । शबले गृहीतसङ्गतिकानां सत्यब्रह्मलक्षकत्वोपपत्तेः । अतो न पर्यायत्वं नापि वैयर्थ्यमिति शङ्कार्थः । असत्यविशेषणम् असत्यत्व•दि)विशेषणम् । आरोपितं विशेषणमिति वा । इति यदीष्यत इत्यन्वयः ।

परिहरति मायेति ।

अनु०-मायाविशेषराहित्यविशेषणविशेषिता । सत्यस्यापि भवेत्

मायाशब्देनारोपितत्वमाचष्टे । एवं कुसृष्टौ कल्पितायामपि न सत्यस्याखण्डतासिदि्धः । कल्पितासत्यत्वादिविशेषराहित्यलक्षणविशेषणविशेषिताया अवर्जनीयत्वादित्यर्थः ।

२२४सु०- शङ्कते सा चेति ।

अनु०-सा च तथा चेत्

भवेदखण्डत्वखण्डनं यद्यारोपितविशेषराहित्यरूपविशेषणविशेषिता सत्या स्यात् । न चैवम् । अपि तर्हि साप्यसत्यत्वादिवदारोपितैव । न ह्यारोपितेन रूपेण गगनस्य नीरूपता विहन्यत इत्यर्थः । परिहरति अनवस्थितिरिति ।

अनु०-अनवस्थितिः

वाक्यार्थस्येति शेषः । एवं तर्हि न कोऽपि वाक्यार्थो व्यवस्थितः स्यात् । सत्यत्वादिविशेषवत्तयाऽसत्यत्वादिव्यावृत्तिमत्तया चाप्रतिपादितत्वात् । संसर्गभेदौ विहाय वाक्यार्थोऽस्ति । ब्रह्मैव वाक्यार्थ इति चेन्न । तस्य स्वप्रकाशत्वात् । व्यावृत्तेश्चासत्यत्वादिति ।

यद्वा प्रतीता सा च स्वाभावव्यावर्तकत्वेनैव व्यवतिष्ठते न ब्रह्मविषयत्वेन । येनाखण्डता व्याहन्यत इति शङ्कार्थः । एवमपि तदभावव्यावृत्तिरूपविशेषणविशिष्टताया अपरिहारादखण्डत्वहानिरेव । साऽपि तथा चेत् अनवस्थितिः ब्रह्मज्ञानस्याव्यवस्थैवेति परिहारार्थः ।

न केवलं ब्रह्मणो निर्विशेषत्वे पदानां पौनरुक्तयादि(कं) किन्नामैकस्यापि पदस्य तत्र प्रवृत्तिर्न भवेदित्याह यदीति ।

अनु०-यदि सत्ये विशेषो न न तदुक्तिर्भवेत्तदा

गुणकर्मादिनिमित्तमनालम्ब्य कस्यापि शब्दस्य प्रवृत्त्यभावादिति भावः ।

२२५सु०- शङ्कते लक्ष्यते चेत्तेनेति ।

अनु०-लक्ष्यते चेत्तेन

स्यादयं दोषो यदि ब्रह्म शब्दाभिधेयं स्यात् । न चैवम् । किन्तु तेन शब्देन लक्ष्यत एव । न हि लक्षणा गुणक्रियाद्यपेक्षा । तथात्वे खल्वभिधैव स्यादिति । परिहरति लक्ष्यमिति ।

अनु०- लक्ष्यमित्यपि स्याद्विशेषिता

एवमङ्गीकारेऽपि ब्रह्मणो लक्ष्यमिति विशेषिता स्यात् । लक्ष्यत्वं तावदपरिहार्यमित्यर्थः । उपलक्षणं चैतत् । मुख्यार्थयोगादिनाऽपि विशेषिता स्यादेव । ननु लक्ष्यत्वमपि ब्रह्मणो नास्त्येव लक्ष्यमित्यपि लक्षणयैवोच्यते नाभिधानवृत्त्येति चेन्न । अत्रापि वाक्ये परेण लक्ष्यपदस्य प्रयोगाल-लक्ष्यत्वविशेषप्राप्तेः । तेनापि लक्ष्यमेवेति चेत्तत्राह पुनरिति ।

अनु०-पुनः पुनर्लक्षणायामपि स्यादनवस्थितिः

लक्षणायामाश्रितायां सत्यामिति शेषः ।

२२६सु०- शङ्कते यदीति ।

अनु०-यद्यभावविशेषित्वं स्यादङ्गीकृतमेव ते

ते मते इति शेषः । तृतीयार्थेऽव्ययं वा । यदुक्तं मायाविशेषराहित्यविशेषणविशेषिता सत्यस्यापि भवेदिति । तन्नानिष्टम् । अभावरूपविशेषवत्त्वस्य मयाऽङ्गीकृतत्वात् । नेह नानाऽस्तीति श्रुतिः इह भूतले घटो नास्ती तिवदभावं ब्रह्मण्यङ्गीकरोत्येव । यच्चोक्तं न तदुक्तिर्भवेत्तदेति ।

तदप्यसत् । भावनिमित्ताभावेऽप्यभावनिमित्तेन पदप्रवृत्त्युपपत्तेः । अभावधर्मवत्त्वस्य चाङ्गीकृतत्वात् । एतेन लक्ष्यमित्येतदपि निरस्तम् । लक्ष्यपदस्याप्यपोहवाचित्वोपपत्तेरिति भावः ।

२२७सु०- अत्र वक्तव्यं परमसिद्धान्तमखण्डत्वं परित्यज्याभावधर्मवत्त्वं कस्मादङ्गीकरोषीति । अथ ब्रूयात् । सत्यं ज्ञानमनन्तं विज्ञानमानन्दमित्यादिपदानि तावद्ब्रह्मणि श्रूयन्ते । न च तेषां विधिरूपोऽर्थः स्वीकर्तुं शक्यः । नेह नानाऽस्तीत्यादिश्रुतिविरोधात् । अभावधर्माङ्गीकारे च न विरोध इत्युक्तमिति । तत्राह असार्वज्ञादीति ।

अनु०-असार्वज्ञादिराहित्यमप्येवं ते भविष्यति

ते अङ्गीकार्यमिति शेषः । यथा हि सत्यज्ञानादिपदानि ब्रह्मणि श्रूयन्ते, एवमेष सर्वज्ञः, एष सर्वेश्वरः, इति सार्वज्ञादिपदान्यपि । तथा च यथा तान्यनृतत्वाद्यभाववाचीन्येवमेतान्यपि असर्वज्ञत्वाद्यभाववाचितया (त्वया) अङ्गीकर्तव्यान्येव । ततश्च सत्यज्ञानादिवाक्यं तत्त्वावेदकं सार्वज्ञादिवाक्यं मायाशबलपरमिति विभागो न युक्त इति भावः ।

२२८सु०- मा भूदयं विभागोऽसार्वज्ञाद्यभावोऽपि ब्रह्मण्यङ्गीक्रियत एवेत्यत आह तदेति ।

अनु०-तदा सार्वज्ञमेव स्याद्भावार्थत्वान्नञोर्द्वयोः

ब्रह्मण्यसार्वज्ञाद्यभावेऽङ्गीकृते (सति) सार्वज्ञादिभावधर्मा दुर्निवारा एव । कुतः । द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति न्यायादित्यर्थः । एतच्च चतुर्थे स्पष्टयिष्यते ।

२२९सु०- असार्वज्ञादिराहित्यमप्येवं ते भविष्यती त्युक्तानङ्गीकारे बाधकमाह यदीति ।

अनु०-यदि नैतादृशं ग्राह्यम्

सर्वज्ञादिपदं ब्रह्मणि श्रूयमाणमसार्वज्ञादिनिवृत्तिं बोधयतीत्येतादृशं प्रमेयं यदि न ग्राह्यं तदाऽऽनन्दपदमप्यसुखत्वं न निवर्तयेत्, सत्यपदं चासत्यत्वम्, ज्ञानपदं चाज्ञानत्वम्, आत्मपदं चानात्मत्वम् । अविशेषादिति वाक्यशेषः ।

२२९असु०- मा भूत् आनन्दादिपदानामसुखत्वादिव्यावर्तकत्वम् । को दोष इत्यत आह असुखत्वेति ।

अनु०-असुखत्वानिवर्तनात् । असत्त्वाज्ञानतादेश्च स्यादसत्त्वादिकं तदा

असत्त्वाज्ञानतादेश्चानिवर्तनादिति सम्बन्धः । अयं भावः । ब्रह्मणि तावदसत्त्वादिकं प्रसक्तम् । तद्व्यावर्तनाय सत्यज्ञानादिवाक्यानां प्रवृत्तिः । तान्यपि चेन्न तद्व्यावर्तयन्ति तदा ब्रह्मणोऽसत्त्वादिकं तात्त्विकमेवेत्यापन्नमिति । यद्वा यदि नैतादृशमित्यध्याहारेण विनैकमेव वाक्यं बुद्ध्या विविच्य तु योज्यमिति ।

२३०सु०- शङ्कते अनृतादीति ।

अनु०-अनृतादिविरोधित्वं यद्यस्याभ्युपगम्यते

अस्य सत्यत्वादेः अयमर्थः । सत्यादिपदानि तावदापाततः सत्यत्वादिविशेषणानि समर्पयन्ति । तदनन्तरं तत्तद्विरोध्याकारनिवर्तकत्वेन पर्यवस्यन्ति । यथोक्तं प्रति(पा)पद्यपदार्थं हि विरोधात्तद्विरोधिनः । पश्चादभावं जानाति वध्यघातकवत्पदादि ति । सत्यत्वादिविशे(षणानां)षाणां चानृतत्वादिविरोधित्वं सुप्रसिद्धमिति कथं न तद्व्यावृत्तिरिति । सममेतत् प्रकृतेऽपीत्याह अनैश्वर्येति ।

अनु०-अनैश्वर्यविरोधित्वमप्येवं किन्निवार्यते

सर्वेश्वरादिपदसमर्पितस्यैश्वर्यादेरिति शेषः ।

२३१सु०- उपसंहरति अखण्डेति ।

अनु०-अखण्डखण्डनादेवं विशेषोऽखण्डवादिना । खण्डितेनापि मनसा स्वीकार्योऽनन्यथा गतेः

ए(यस्मादे)वमखण्डखण्डनादखण्डवादिनाऽपीत्यन्वयः । अन्यथागतेर्हेतोः, खण्डितेन उत्तरोत्प्रेक्षारहितेन ।

२३२सु०- इदानीं भेदाभेदवादिनं विशेषमङ्गीकारयति अखण्डेति ।

अनु०-अखण्डखण्डवादिभ्यां खण्डाखण्डेन चैव तत् । महादरेण शिरसि विशेषो धार्य एव हि

यस्मादेवमखण्डखण्डवादिभ्यां विशेषोऽङ्गीकार्यः तत्तस्मादेव हि खण्डाखण्डेन खण्डाखण्डवादिना च विशेषोऽङ्गीकार्य एव । कुन्ताः प्रविशन्तीतिवदुपलक्षणया अर्शआदिभ्योऽजिति वा खण्डाखण्डेनेति साधु । तथा हि । धर्मधर्मिणोर्भेदाभेदाविति वदता तौ किं ताभ्यामत्यन्तं भिन्नावङ्गीक्रियेते उतात्यन्ताभिन्नावथ भिन्नाभिन्नौ । नाद्यः । भेदानवस्थापत्तेः । भेदस्य स्वरूपत्वे च विशेषानङ्गीकारे तदीयत्वाद्यनुपपत्तेः । भेदाभेदयोरत्यन्तभिन्नयोः सम्बन्धाभावेन तदीयत्वानुपपत्तेश्च । न द्वितीयः । तदीयत्वाद्यनुपपत्तेरेव । भेदाभेदशब्दयोः पर्यायत्वापत्तेश्च । न तृतीयः । अनवस्थापत्तेः । क्वचिद्भेदाभेदयोरभेदे पूर्वदोषानुषङ्गात् । तस्माद्भेदाभेदवादिनाऽपि क्वचिद्विशेषोऽङ्गीकार्य इति ।

तदेवमुभयव्यपदेशान्यथाऽनुपपत्त्या भगवद्धर्माणां सविशेषोऽत्यन्ताभेद एवेति सिद्धम् ।

२३३सु०- ननु नायं सूत्रकाराभिप्रायो भवितुमर्हति । तेनानेवंविधानामहिकुण्डलादीनां निदर्शनानामुपात्तत्वात् । ओरवयवानामन्योन्यसंयोगविशेषो ह्यहिकुण्डलमित्युच्यते । स तावदहिना नात्यन्ताभिन्नः । प्रकाशश्च द्रव्यान्तरं न सूर्याभिन्न इत्यतः प्रकाशाश्रयवद्वेति निदर्शनमपि नात्यन्ताभेदोपयुक्तम् । कालस्य पूर्वत्वं नाम प्रध्वस्तक्रियासम्बन्ध इति न पूर्ववद्वेत्यपि प्रकृतानुगुणमित्यत आह निदर्शनेति ।

अनु०-निदर्शनत्रयेणातो भगवानत्यभिन्नताम् । गुणानामादरेणाह

यत एवमर्थापत्त्या भगवद्गुणानां भगवता सविशेषोऽत्यन्ताभेदः सिद्धोऽत इत्यर्थः । अत्यभिन्नतां सविशेषाम् । निरवकाशप्रमाणानुसारेण निदर्शनत्रयमपि सविशेषाभेदोपयुक्तत्वेन सूत्रकारस्याभिमतं ज्ञातव्यमित्याशयः । तत्राहिकुण्डलं यद्यपि भेदाभेदवत्तथाऽपि मन्दानामभेदे बुदि्धमवतारयितुमुपात्तम् । यथा पृथिव्यामोषधयः सम्भवन्तीति यथा । प्रकाशशब्देन च भास्वरं रूपं विवक्षितम् । तच्च यावद्द्रव्यभावित्वात् सूर्यमण्डलेनात्यन्ताभिन्नमेव । पूर्वत्वं च पूर्वकालसम्बन्ध इति सकललोकसिद्धमिति ।

नन्वेकेनैव निदर्शनेनालं किं त्रयेणेत्यत उक्तम् आदरेणेति ।

२३४सु०- एवं साक्षादधिकरणार्थं व्याख्यायेदानीमनुषङ्गसिद्धमर्थं दर्शयति तच्चेति ।

अनु०- तच्च नाभिहितान्वयः

तस्मादेव भगवद्धर्माणां भगवता सविशेषाभेदस्य समर्थितत्वादेव पदाभिहितैः पदार्थैरन्वयबोध इत्येतन्मतं नेति लभ्यत इति शेषः । अभिहितान्वयग्रहणमुपलक्षणम् । वक्ष्यमाणान्विताभिधानव्यतिरिक्तानां सर्वेषामपि मतानामनुपपन्नत्वात् । यदि तर्ह्यभिहितान्वयवादोऽनुपपन्नः । कः पन्थाः सूत्रकारस्याभिमतः । न हि निरुपायमन्वयज्ञानमिति सम्भवति । अन्विताभिधानमिति ब्रूमः । तत्राप्यस्ति विशेष इत्याशयेनाह यदेति ।

अनु०-यदाऽशेषविशेषाणामुक्तिः सामान्यतो भवेत् ।पदैकेनाप्युत्तरेण विशेषावगतिर्भवेत्

यदाशब्दो यद्यर्थः । यद्यप्यशेषविशेषाणामित्यशेषविशेषान्वितस्येत्यर्थः । एकशब्दो मुख्यार्थः । पदेष्वेकं पदैकमा(द्ये न)द्यपदेनेत्यर्थः । कर्मधारयत्वे तु पूर्वकालैकेत्येकपदस्य पूर्वनिपातः स्यात् । अपि तथाऽपि । उत्तरेण पदजातेनान्वयविशेषावगतिः ।

२३४असु०- एतदुक्तं भवति । सत्यं ज्ञानमनन्तं ब्रह्म , यः सर्वज्ञः स सर्वविदि त्यादिब्रह्मप्रतिपादकवाक्यगतानि सकलान्यपि पदान्यन्वितार्थाभिधायीनि । तत्र ब्रह्मपदं सत्यत्वसर्वज्ञत्वाद्यशेषविशेषान्वितं ब्रह्म प्रतिपादयति । न चैवं सत्यादिपदानां वैयर्थ्यम् । यतः सामान्यत एव अन्विताभिधाने शक्तिः पदानां नान्वयविशेषाभिधाने । अतो ब्रह्मपदेन सामान्यतः समस्तयोग्यधर्मान्विते ब्रह्मणि प्रतीते सत्यत्वेनान्वितं ज्ञानत्वेनान्वितमिति विशेषान्वयप्रतिपत्त्यर्थानि सत्यादिपदानीति ।

२३५सु०- नन्वभिहितान्वयादिवादानामनुपपन्नत्वमन्विताभिधानस्योपपन्नत्वं च प्रथमसूत्रे सूत्रकारेणोक्तमेव । तत्किमत्राधिकरणसिद्धान्ततया तद्वर्णनेन ।

उच्यते । अतःशब्देन ह्यन्वयबोधेऽस्त्युपाय इत्येतावन्मात्रं प्रतीयते । न पुनः पदान्येव न पदाभिहितार्थादीनीति विशेषः । तत्र व्याख्यातारं प्रति कुतोऽयं सूत्रकृतोऽभिप्राय इति भवत्येव परिचोदना । तत्समाधानाय च अधिकरणसिद्धान्तवर्णनमुपपन्नमेव ।

यद्यप्युपपन्नः सूत्रकाराभिप्राय इति शक्यते वक्तुम् । तथाऽप्यधिकरणसिद्धान्तवर्णनमिषेण तत्र सङ्क्षेपतो व्युत्पादितोपपत्तीनां प्रपञ्चाय प्रयत्नोऽयमित्यदोषः ।

२३६सु०- तदिति परामृष्टं हेतुं दर्शयति यत इति ।

अनु०-यतोऽशेषविशेषाणां वस्तुनाऽस्त्येव चैकता । अतः

वस्तुना ब्रह्मणा । च शब्दाद्विशेषश्च । अतो नाभिहितान्वयादिवादाः किन्नामोक्तविधान्विताभिधानमिति शेषः । तथा हि । सत्यत्वादिधर्माणां तावद्ब्रह्मणाऽत्यन्ताभेदः समर्थितः । ततो ब्रह्मवाचकस्य ब्रह्मपदस्य सत्यत्वादिवाचकत्वमावश्यकमेव । किन्त्वभेदेऽन्वय एव नास्ति कुतस्तदभिधानं विशेषतोऽभिधानप्रसङ्गश्चेत्यवशिष्यते । तत्र सविशेषत्वाङ्गीकार एव समाधिः । अभेदेऽपि विशेषशक्तयाऽन्वितत्वस्य विशेषानभिधानस्य चोपपत्तिरिति ।

२३७सु०- स्यादेतत् । अस्मिन्नन्विताभिधानवादे विशेषान्वयप्रतिपत्तिर्निर्निबन्धनैवापद्यते । सकलपदानां सामान्यतोऽन्विताभिधाने सामर्थ्यात् । न चाद्यं पदं सामान्यतोऽन्विताभिधाय्युत्तरं तु विशेषत इति वाच्यम् । आद्यत्वादेरव्यवस्थितत्वात् । वेदवाक्येऽपि हि क्वचिद्ब्रह्मपदमाद्यं क्वचिदुत्तरमित्यत आह सामान्यत इति ।

अनु०- सामान्यतो ज्ञातः पदान्तरबलात्पुनः । भवेद्विशेषतो ज्ञातस्तेन स्यादन्वितोक्तिता

एकैकशः पदैः सामान्यतोऽन्विततया ज्ञातोऽर्थः पुनः पदान्तरसन्निधानाहित(शक्ति)बलाद्विशेषतोऽन्वितत्वेन ज्ञातो भवेत् । तेन कारणेन पदानामन्वितोक्तिताऽन्विताभिधायिता स्यादुपपन्नेति शेषः ।

२३८सु०- सविशेषाभेदसमर्थनेनोक्तप्रकारं पदानामन्विताभिधानं सिद्धमित्ययुक्तम् । अतिप्रसङ्गात् । रूपस्य हि घटेनाभेद इति त्वचा तस्मिन् गृहीते तदपि गृह्येत । अथाविशेषेण प्रतिबद्धं तहणमित्युच्यते । तर्ह्यत्रापि प्रतिबन्धः स्यात् । विशेषाभिधानं प्रतिबद्धमेवेति चेत् । सामान्याभिधानमपि कुतो न प्रतिबद्धम् ।

अथ सम्भावनैवैषोक्तेति मतं तदा नायमधिकरणसिद्धान्तः । एकस्य सिद्धावनुषङ्गी योऽर्थः सिद्ध्यति सोऽधिकरणसिद्धान्तो न हि सम्भावनासिदि्धरित्यत आह स्वार्थ एवेति ।

अनु०-स्वार्थ एवान्वितो यस्मात्केनचित्तद्विशेषतः । अनेनेति तदुक्तयैव ज्ञायतेऽनुभवेन हि

यस्मात्केनचिदन्वित एव पदानां स्वार्थ इति, अनेन सत्यत्वेन ज्ञानत्वेन वाऽन्वित इति, तद्विशेषतो धर्मविशेषेण अन्वयः तदुक्तयैव सत्यादिपदोक्तयैव ज्ञायत इत्यनुभ(वेन )वसिद्धम् । तस्मादुक्तं युक्तमिति शेषः । प्रत्येकं पदानि सामान्यतोऽन्विताभिधायीनि, विशेषतोऽन्वितार्थप्रतीतिस्तु परस्परसन्निधानाहितशक्तिभिः पदैर्भवतीत्येतदनुभवसिद्धमित्यर्थः ।

एतदुक्तं भवति । अभेदेन तावद्विशेषाभिधानं प्राप्तं न च तदस्त्यनुभवविरोधात् । अतस्तत्प्र(ती)तिबन्धकत्वेन विशेषः कल्पनीयः । स च यथाऽनुभवमेव स्वीकार्य इति नातिप्रसङ्गः कश्चिदिति ।

२३९सु०- एवं प्रतिज्ञातमन्विताभिधानमुपपाद्य यदुक्तमभिहितान्वयादिपक्षाणामयुक्तत्वं तदन्विताभिधानानङ्गीकारे बाधकप्रदर्शनमुखेनोपपादयति यदीति ।

अनु०-यद्यनन्वितमेवैतत्पदं स्वार्थं वदेदिह । तथाऽन्यान्यपि सर्वाणि कः कुर्यादन्वयं पुनः

एतद्ब्रह्मादिकमाद्यं पदम् । इह सत्यज्ञानादिवाक्ये । अन्यान्युत्तरा(ण्यपि)णि पदा(नि)न्यपि तथा यद्यनन्विता(न्येव)नेव स्वार्थान्वदेयुस्तर्ह्यन्वयमन्वयज्ञानं तु कः कुर्यात् । आद्यं पदमलब्धसहायं प्रथमं सामान्यतोऽन्वितमभिधत्ते । उत्तराणि त्वादित एव लब्धसहायानि विशेषत एवान्विताभिधायीनि । तदिदं वैलक्षण्यं सूचयितुमेतदन्यानीति विभागेन ग्रहणम् । अन्यथा यदि वाक्यस्थानि समस्तानि पदानि नान्विताभिधायीनि किन्त्वनन्वितानेव स्वार्थानभिदधतीति, तर्ह्यन्वयज्ञानं निर्निबन्धनमापद्येतेत्यवक्ष्यत् ।

२४०सु०- एतदेव प्रपञ्चयति व्यापार इति ।

अनु०-व्यापारो न हि शब्दस्य परः स्वार्थप्रकाशनात् । पुमानप्येकवारोक्तया कृतकृत्यो यदा भवेत् । अन्वयस्य कथं ज्ञानं शब्दार्थत्वं यदाऽस्य न

यदा यद्यस्यान्वयस्य शब्दार्थत्वं पदाभिधेयत्वं न स्यात् तर्ह्यन्वयस्य ज्ञानं कथं न कथञ्चित् । उपायान्तराभावात् । तथा हि । अन्वयज्ञानात्पूर्वभावित्वेन वादिभिरङ्गीकृतत्वेन वा प्रसक्तानि तावदेतानि पदानि वा वक्ता पदैरभिहिताः पदार्था वा वाक्यं वा वाक्यान्त्यवर्णो वा वर्णमाला वा स्फोटो वा श्रोता वेति । तत्र तावदन्विताभिधानानङ्गीकारे पदानामुपायत्वं नोपपद्यत इत्येतद्व्यापारो न हीत्यर्धेनाह ।

शब्दस्य पदस्य, स्वार्थप्रकाशनादन्यो व्यापारो नास्तीति तावत्सुप्रसिद्धम् । अन्वयश्च

न पदाभिधेयः । तत्कथं पदस्य तज्ज्ञानोपायत्वम् । वक्तुरपि तन्नास्तीत्याह पुमानपीति ।

यदा यस्मात् तस्मात् सोऽपि नोपाय इति शेषः । एकवारग्रहणं तस्यात्यन्तव्यवहितत्वद्योतनार्थम् । सकृदुच्चारण एव तस्योपक्षीणत्वादिति ।

२४१सु०- पदाभिहितानां पदार्थानामन्वयबोधकत्वपक्षे दोषमाह यदैवेति ।

अनु०-यदैवानन्वितार्थस्य वचनं तैः पदैर्भवेत् ।अनन्वितः स्याच्छब्दार्थो

अनन्वितार्थस्यैवेति सम्बन्धः । जातावेकवचनम् । तैः वाक्यस्थैः । यदि पदानि अनन्वितानेव स्वार्थान् प्रतिपाद्य निवर्तन्ते । ततः पदार्था एवाकाङ्क्षादिमन्तोऽन्वयं बोधयन्ति । तर्ह्यनन्वित एव शब्दार्थः स्यात् । अन्वयस्य शाब्दत्वं न स्यादिति यावत् । पदार्थाख्यं प्रमाणान्तरं चाप(द्येत)द्यते । भवेदेतत् । यदि पदार्थानामेवान्वयबोधकत्वं ब्रूमः । न चैवम् । किन्नाम पदैरभिहितानाम् । तत्कथमन्वयस्याशाब्दत्वमित्यत आह नेति ।

अनु०- न तदर्थो हि सोऽन्वयः ।

स पदार्थैः प्रतिपादितः अन्वयः तेषां पदानामर्थो न ही त्यर्थः । तथा सति प्रत्यक्षावगतधूमप्रतिपादितस्याग्नेः प्रत्यक्षप्रमेयत्वं स्यादिति भावः ।

२४२सु०- अस्तु तर्हि वाक्यस्यान्वयबोधकत्वमिति पक्ष इत्यत आह निराकाङ्क्षेति ।

अनु०- निराकाङ्क्षपदान्येव वाक्यमित्युच्यते बुधैः

पदानामन्विताभिधानसामर्थ्यमनङ्गीकुर्वता वाक्यस्यान्वयबोधकत्वमङ्गीकर्तुमशक्यम् । यतः पदान्येव वाक्यमिति बुधैरुच्यते । पदव्यतिरिक्तस्य वाक्यस्याभावादित्यर्थः । केचित्पदातिरिक्तमेव वाक्यं प्रतिपन्नास्तद्व्युदासाय बुधैरित्युक्तम् । तच्च निराकरिष्यते । गौरश्वः पुरुषो हस्तीत्यादिपदानां वाक्यत्वं मा भूदिति निराकाङ्क्षेत्युक्तम् । सन्निधानाभावे निराकाङ्क्षत्वमेव न निर्वहतीति निराकाङ्क्षत्वेनैव सन्निधानस्य लब्धत्वान्न पृ(तत्पृ)थगुक्तम् । अग्निना सिञ्चेदित्यादौ योग्यताभावेऽप्यन्वयप्रतीतेः प्रकृतानुपयोगाद्योग्यताऽपि नोक्ता ।

२४३सु०- नन्वेवं वदता भवतैव पदव्यतिरिक्तं वाक्यमङ्गीकृतम् । यथा खलु तन्तूनां विक्रियाविशेषः पटो न तन्तुमात्रम् । तथा पदानां यो निराकाङ्क्षतालक्षणो विक्रियाविशेषः स वाक्यं, पदातिरिक्तमेवेत्यत आह तत्तदिति ।

अनु०-तत्तदर्थाभिधानेन स्यान्निराकाङ्क्षता च सा

न तन्तूनां पट इव पदानां निराकाङ्क्षता विक्रिया । येन पदातिरिक्तं वाक्यं स्यात् । किन्नाम श्रोतृपुरुषधर्म एव । जिज्ञासा खल्वाकाङ्क्षा । निराकाङ्क्षता च निवृत्तजिज्ञासत्वम् । सा च निराकाङ्क्षता पदैः स्यादिति पदानि निराकाङ्क्षाणीत्युच्यन्ते । निराकाङ्क्षताकारित्वं च न पदानां विक्रियाविशेषः । जिज्ञासितार्थाभिधानमात्रेण तद्धेतुत्वात् । तस्य च स्वभावत्वात् । तथा च जिज्ञासितार्थानभिदधति जिज्ञासां निवर्तयन्ति पदानि निराकाङ्क्षाणीत्युक्तं भवति ।

२४४सु०- जिज्ञासितार्थाभिधानेनैव श्रोतुर्निराकाङ्क्षता स्यादित्येतदुपपादयति अपूर्तेरिति ।

अनु०-अपूर्तेस्तावदर्थानामाकाङ्क्षा पूर्वमिष्यते

आनयेत्येवोक्ते गवादिपदप्रयोगात्पूर्वं, या किमि(त्यादि)तिजिज्ञासा (वर्तते) सा तावतां जिज्ञासितानामर्थानां कर्मादीनामपूर्तेर्गवादिपदैरनभिधानादिति यावत् । एतदुक्तं भवति । शाब्दी जिज्ञासा यावत्पदानि जिज्ञासिता(न)र्थान्नाभिदधति तावन्न निवर्तते । निवर्तते च पदैस्तेष्वभिहितेष्वित्यतोऽन्वयव्यतिरेकाभ्यां विज्ञायते तत्तदर्थाभिधानेनैव निराकाङ्क्षता स्यादिति ।

वाक्यान्त्यवर्णो वर्णमालेति पक्षद्वयमतिमन्दमिति न दूषितम् । तथा चोक्तं पुरस्तात् ।

२४५सु०- अस्तु तर्हि निरस्तवर्णपदविभागं स्फोटाख्यं वाक्यमेवान्वयस्य प्रतिपादकम् । पदानि तु तदभिव्यञ्जकतयोपयुज्यन्त इति पक्ष इत्यत आह कर्मेति ।

अनु०-कर्मकर्तृक्रियाणां तु पूर्तौ कोऽन्योऽन्वयो भवेत्

अत्र कर्मादिग्रहणमुपलक्षणम् । जिज्ञासितानां पदार्थानामित्यर्थः । अन्योन्यसंसृष्टानामिति शेषः । पूर्तावभिधाने सति पदैरिति शेषः । अन्वयो भवेत् प्रतिपादनीय इति शेषः ।

एतदुक्तं भवति । स्फोटमन्वयस्य प्रतिपादकं वदता तत्सद्भावे प्रमाणं वाच्यम् । अन्वयप्रतीत्यन्यथाऽनुपपत्तिरिति चेन्न । पदानामेव संसृष्टार्थप्रतिपादकत्वसम्भवात् । न च तदतिरिक्तोऽन्वयो नामास्ति प्रतिपादनीयो यदर्थं स्फोटान्वेषणमिति ।

एवमनङ्गीकारे बाधकमाह अपूर्तिरिति ।

अनु०-अपूर्तिश्चेत्पदैरुक्तैः किं नृृङ्गेण पूर्यते

अन्वयस्यापूर्तिरनभिधानम् । उक्तैरिति पदानां प्रमितत्वमभिप्रैति । नृशृङ्गेण स्फोटेनेति तस्याप्रामाणिकत्वम् । नृशृङ्गतुल्येनेति पूर्यतेऽभिधीयतेऽन्वय इति शेषः ।

इदमुक्तं भवति । पदवादिनः कल्पनालाघवं प्रमितानां पदानामन्विता(र्था)भिधानस्य कल्पनात् । स्फोटवादिनस्तु गौरवम् । यतो निष्प्रमाणकः स्फोटस्तस्यान्वयप्रतिपादकत्वं चेति द्वयं कल्पनीयमिति ।

२४६सु०- अस्तु तर्हि नवीनाभिहितान्वयपक्षः । यदि हि पदानि पदार्थान् प्रतिपाद्यैव निवर्तन्ते पदार्था एवान्वयं बोधयन्तीति मतं तदा स्यादेवोक्तदोषः । न चैवम् । किन्तु पदान्येव पदार्थप्रतिपादनावान्तरव्यापाराण्यन्वयं बोधयन्तीति । मैवम् । तथा सति पदानां विरम्यव्यापारप्रसङ्गात् । ततः को दोष इत्यत आह व्यापारश्चेदिति ।

अनु०-व्यापारश्चेत्पुनस्तेषामनुक्तावपि किन्न सः

अचेतनानामपि पदानां यदि पुनर्व्यापारो विरम्यव्यापारोऽङ्गीक्रियते तदा पृच्छामोऽनुक्तानामपि पदानां पदार्थादिप्रतिपादने व्यापारः कुतो न भवतीति ।

उत्तरमाशङ्कते उक्त इति ।

अनु०-उक्ते बुदि्धस्थताहेतोर्यदि व्यापार इष्यते

भावे क्तप्रत्ययः । बुदि्धस्थता बुदि्धविषयता । पदानि हि ज्ञातकरणानि न तु चक्षुरादिवत् सत्तामात्रेण । उक्तिस्तु(श्च) (तज्ज्ञा)ज्ञानोपाय इत्यतोऽनुक्तौ ज्ञातत्वाभावान्न व्यापार इत्याशयः । इति यदीष्यत इति सम्बन्धः ।

२४७सु०- पुनः सिद्धान्ती पृच्छति बुदि्धस्थत्वायेति ।

अनु०-बुदि्धस्थत्वाय यत्नं न कथं कुर्युः पुरैव च

पदार्थबोधनादिव्यापाराय यत्पदानां ज्ञातत्वमावश्यकम्, तदर्थं तानि पदान्युक्तेः प्रागेव यत्नं कथं कुर्युरिति च त्वां पृच्छामः । उक्तिं विनाऽपि बुदि्धविषयतायै कुतो यत्नं न कुर्युरिति प्रश्नार्थः ।

यद्वा बुदि्धविषयत्वाय यदुच्चारणं तदर्थं तूष्णीं स्थितं कुतो न प्रेरयन्तीति ।

उत्तरं शङ्कते पुरुषेति ।

अनु०-पुरुषाधीनता तेषां यदि

स्यादेतद्यदि पदानि चेतनानि स्युः । न चैवम् । अतो वक्तृपुरुषायत्तान्येव । स यदोच्चारणेन व्यनक्ति तदा श्रोतृबुदि्धस्थानि भूत्वा पदार्थप्रतिपादनादिव्यापारवन्ति भवन्ति । न तु स्वयं किमपि कुर्वन्तीति ।

एवं तर्ह्यन्वयबोधरूपोऽपि विरम्यव्यापारो न तेषामुपपद्यत इत्याह पश्चाच्चेति ।

अनु०-पश्चाच्च सा समा

पश्चादन्वयबोधने सा पुरुषाधीनता । एतदुक्तं भवति । चैतन्ये हि पदानामन्वयबोधनाय समभिव्याहृतानाम् अस्माकं न पदार्थप्रतिपादनमात्रेण कृतार्थता । अतोऽन्वयोऽप्यस्माभिः प्रतिपादनीय इति विमृश्य विरम्यव्यापारो युज्यते । न चैवम् । अन्यथोक्त एवातिप्रसङ्ग इति । श्रोतान्वयज्ञाने कारणमिति तु स्यात् । किन्तु कर्तैव । तस्य करणं तु विचार्यते ।

अनन्विताभिधायीनि पदान्येव करणीकृत्य श्रोता तत्स्मारितानामर्थानामन्वयज्ञानाय यतत इति चेत् तत्राह पुमानेवेति ।

अनु०-पुमानेवान्वयायैषां यदि पश्चाद्विचेष्टते ।अनन्विताभिधानानां स एवार्थान्तरोक्तिषु ।यततां

अन्वयशब्देन तज्ज्ञानमुपलक्ष्यते । पश्चात् पदैः पदार्थस्मरणानन्तरम् । अनन्विताभिधानानां साहाय्येनेति शेषः । सः पुमानेव । उक्तिशब्दस्तत्कार्यज्ञानोपलक्षणः । अन्वयानभिधायिभिरपि पदैर्यद्यन्वयं प्रतिपद्यते, तदा गवादिपदैरश्वादिकमपि प्रतिपद्येतेत्यर्थः ।

शङ्कते शब्देति ।

अनु०-शब्दशक्तिश्चेत्तत्र नैव

गवादिपदानामश्वादौ शक्तिरेव नास्ति तत्कथं तैस्तत्प्रतिपद्यताम् । न (हि) चक्षुषा शब्दं प्रतिपद्यत इति चेदित्यर्थः । तर्हि समं प्रकृतेऽपीत्याह अन्वये कथमिति ।

अनु०-अन्वये कथम्

अन्वये शक्तिरहितैस्तैः कथम् अन्वय ज्ञानाय यतेतेत्यर्थः ।

२४८सु०- यद्यनन्वितमित्यादिनोक्तमर्थमुपसंहरति तदिति ।

अनु०-तत्कल्पनागुरुत्वादिदोषेऽतोऽभिहितान्वयः ।

अनुभूतिविरुद्धश्च त्याज्य एव मनीषिभिः

तत् तस्मात् । तस्यैव विवरणं कल्पनेत्यादि । कल्पनागौरवं प्रथमसूत्रेण व्युत्पादितम् । अभिहितान्वय इत्युक्तसमस्तपक्षोपलक्षणम् । कथमनुभूतिविरोध इत्यत आह कर्तृशब्दे हीति ।

अनु०-कर्तृशब्दे ह्यभिहिते धर्मसामान्यवेदनात् ।विशेषधर्ममन्विच्छन् किमित्येव हि पृच्छति

कर्तृग्रहणं सम्बन्धिमात्रोपलक्षणम् । विशेषधर्ममिति तज्ज्ञानम् । देवदत्तेनेति कर्तृवाचिनि शब्दे प्रयुक्ते श्रोता किमिति पृच्छतीति तावदविवादम् । स च पचनादिधर्मविशेषज्ञानमि(मन्वि)च्छन्नेव पृच्छति । विशेषजिज्ञासा च धर्मसामान्यज्ञानादेव । न च तदा तस्य धर्मसामान्यज्ञानोपायोऽस्त्यन्यः पदात् । अतः पदेन धर्मसामान्यान्वितं वस्तु प्रतिपादितमिति ज्ञायते । किमिति प्रश्नो विशेषजिज्ञासयेत्येतत्कुत इत्यत आह गुणेति ।

अनु०-गुणक्रियादिधर्माणां विशेषे कथिते पुनः ।

निराकाङ्क्षो भवेद्यस्मात्

निराकाङ्क्षो निवृत्तजिज्ञासः । तस्माद्विशेषधर्ममन्विच्छन् किमित्येव हि पृच्छतीति सम्बन्धः ।

एतदुक्तं भवति । कर्त्रादिपदश्रवणानन्तरभावी किमित्यादिप्रश्नो जिज्ञासामूलः । प्रश्नत्वात् सम्मतवत् । सा च जिज्ञासा धर्मविशेषविषया । तदुक्तया निवर्तमानत्वा(त्सम्मत)त्सम्प्रतिपन्नवत् । विशेषजिज्ञासा च धर्मसामान्यज्ञानपूर्विका विशेषजिज्ञासात्वात्सम्मतवत् । सामान्यज्ञानं चेदमेतत्पदजन्यं तदनन्तरभावित्वात्सम्मतवदिति । पदेन पदार्थमात्रेऽभिहिते अविनाभावबलेन धर्मसामान्यज्ञानमिति चेन्न । दृष्टपदपरित्यागेन अदृष्टानुमानकल्पनानुपपत्तेरिति ।

एतेन विशेषान्विताभिधानपक्षोऽपि परास्तः ।

अभिहितान्वयादिपक्षाणां त्याज्यत्वे प्रकृते किमायातमित्यत आह शब्दा इति ।

अनु०- शब्दा अन्वितवाचकाः

सर्वेऽपि शब्दाः सामान्येनान्वित(स्व•र्थवाचका इत्येष एव पक्षो ग्राह्य इत्यर्थः ।

२४९सु०- अधिकरणस्य साक्षात्प्रतिपाद्यमर्थमुपसंहरति अत इति ।

अनु०-अतोऽनन्तगुणात्मैको भगवान्

अनन्तगुणात्मकत्वेऽपि न तस्यैक्यं विहन्यते, नाप्येकेनाभिन्नानामनन्तत्वं गुणत्वं चेत्यर्थः । तच्चेत्यानुषङ्गिक(मर्थ)मुपसंहरति एक एवेति ।

अनु०-एक एव तु । उच्यते सर्ववेदैश्च ।

तु शब्देन सकलधर्मान्वित इति सूचयति ।। ३२१५ ।।

।। इति उभयव्यपदेशाधिकरणम् ।।

न्यायसुधा

।। अथ परानन्दा(परमता)धिकरणम् ।।

ब्र०सू०- ॐ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॐ ।।

२५०सु०- परमेश्वरस्यानन्दादयो गुणाः किं लौकिकानन्दादिसलक्षणाः किंवा तद्विलक्षणाः । आद्ये न तत्र बहुमानः सम्भवति । न द्वितीयः । प्रकारप्रमाणाभावात् । विमता लौकिकसलक्षणा आनन्दादिशब्दवाच्यत्वादिति बाधकसद्भावाच्च । अन्यथा तत्रानन्दादिशब्दप्रवृत्तिर्न स्यात् । व्युत्पत्त्यभावात् । अतीन्द्रियत्वेन तत्रोपदेशा(द्युपायाद्य)भावे सादृश्यानुमानस्यैवानुसरणीयत्वात् । तस्य चासिद्धत्वात् । ततश्च वेदवेद्यत्वं न स्यादित्यस्य समाधानार्थमिदमारभ्यते । तत्राशङ्कितसकलदोषपरिहारो न स्फुटः प्रतीयत इत्यतो व्याचष्टे ते चेति ।

अनु०-ते चाखिलविलक्षणाः

ते गुणा न केवलं गुणिनाऽभिन्नाः किन्नामाखिलेभ्यो लौकिकानन्दादिभ्यो विलक्षणाश्च । कथं विलक्षणा इत्यत आह सर्व इति ।

अनु०-सर्वे सर्वगुणात्मानः सर्वकर्तार एव तु

आनन्दोऽपि ज्ञानात्मको ज्ञानमप्यानन्दात्मकमित्यादि । न ह्येवमन्तःकरणपरिणामभेदाः सुखादयः । सर्वकर्तारो जगत्सृष्ट्यादिकर्तारश्च । एवशब्देनोपचारं वारयति । अन्योन्यमभेदे शब्दानां पर्यायत्वमनेकत्वावभावश्च स्यादित्यत आह तथाऽपीति ।

अनु०-तथाऽपि सविशेषाश्च

परस्पराभेदेऽपि । ततो नोक्तदोष इति (शेषः) भावः । अनेन वैलक्षण्यप्रकारो दर्शितः । प्रमाणं च वक्ष्यते । तथा चाद्यं सूत्रद्वयं व्याख्यातं भवति ।

२५१सु०- बाधकपरिहारार्थं सूत्रम् ॐ बुद्ध्यर्थः पादवत् ॐ इति ।। तद्व्याचष्टे विद्वदिति ।

ब्र०सू०-ॐ बुद्ध्यर्थः पादवत् ॐ ।।

अनु०- विद्वद्व्युत्पत्तितोऽपि च । तैस्तैश्शब्दैश्च भण्यन्ते

अपि च तथाऽपि तैस्तैः शब्दैश्च भण्यन्ते । कथं विद्वद्व्युत्प(त्तितः)त्त्य न्विता ।

विद्वांसो हि साक्षात्कृतभगवद्गुणाः पूर्वैर्विद्वदि्भर्व्युत्पादयितुं शक्यन्ते । अविदुषां कथं व्युत्पत्तिः । भवितव्यं हि तया । अन्यथा विद्वत्त्वस्यैवानुपपत्तेरित्यत आह युज्यते चेति ।

अनु०- युज्यते चोपदेशतः

विद्व दुपदेशतो ऽविदुषामपि व्युत्पत्तिः युज्यते । अतीन्द्रिये कथमुपदेश इत्यत आह अन्येति ।

अनु०-अन्यानन्दादिसादृश्यम्

लौकिकानन्दादिसादृश्यं भगवदानन्दादेर्विद्यते । ततश्च योऽस्मदानन्दसदृशो भगवद्गुणः स आनन्दादिशब्दवाच्य इत्यादिरुपदेशो घटते । तर्हि पूर्वोत्तरविरोधः स्यात् । प्राक् ते चाखिलविलक्षणा इत्युक्तवेदानीमन्यानन्दादिसादृश्याभ्युपगमादित्यत आह आनुकूल्यादीति ।

अनु०- आनुकूल्यादि नापरम्

आनुकूल्यं निरुपाधिप्रियत्वमानन्दस्य । बोधात्मकत्वं ज्ञानस्येत्यादि । अपरमल्पत्वास्थिरत्वादि । आनुकूल्यादेः प्रवृत्तिनिमित्तस्य सत्त्वात् तदाश्रयेण व्युत्पत्तेरपि सम्भवादानन्दादिशब्दप्रवृत्त्युपपत्तावनुमानमप्रयोजकमित्युक्तं भवति । ननु विलक्षणेष्वानन्दादिषु विलक्षणा एव शब्दाः कुतो न प्रयुज्यन्ते । तथा सति तत्र बुदि्धप्रवेशाभावप्रसङ्गात् । अल्पत्वादिसादृश्यं कुतो नेत्यत आह पूर्णत्वादीति ।

अनु०-पूर्णत्वादिमहत्तेषां वैलक्षण्यं श्रुतौ श्रुतम्

(तां) श्रुतिं पठति पूर्ण इति ।

अनु०-पूर्णोऽशेषनियन्ता च सुस्वादुतम एकलः । गुणोरुसमुदायोऽयं वासुदेवः सुनिष्कलः । वासुदेवश्रुतिश्चैषा गुणान् वक्ति हरेः परान् ।

पूर्णः पूर्णगुणः । सुस्वादुतमः शोभनानन्दतमः । एकलः एकाकी परानपेक्षः । सुनिष्कलः सर्वथा विभक्तांशविकलः । हरेर्गुणान् परान् विलक्षणान् वक्ति इति ।

२५२सु०- एतेषामधिकरणानामपव्याख्यानं न स्थानतोऽपीत्यत्रैव निराकृतमिति न पुनः प्रक्रान्तम् ।। ३२१६ ।।

इति परानन्दा(परमता)धिकरणम् ।।

न्यायसुधा

।। फलदानाधिकरणम् ।।

ब्र०सू०- ॐ फलमत उपपत्तेः ॐ ।।

२५३सु०- अत्रादौ तावत् स्वर्गनरकादिकं फलं प्राणिनामीश्वरादेव भवतीति श्रुत्युपपत्तिभ्यामुपपादितम् । तदाक्षेपार्थं सूत्रं धर्मं जैमिनिरत एवे ति । तस्यार्थः । ईश्वरः फलकारणं चेद्धर्माधर्मावपेक्षते न वा । नेति पक्षे वैषम्याद्यापत्तिर्वेदाप्रामाण्यप्रसक्तिश्च । आद्ये किमीश्वरेण तदपेक्षणीयेनैव कर्मणा फलसिद्धेः । अन्यथा गौरवापत्तेः । न चाचेतनत्वोपपत्तिविरोधः । न हि राजादिरिव कर्म फलं ददातीति ब्रूमो येनाचेतनत्वं बाधेत । किन्तु कारणमात्रम् । न च श्रुतिविरोधः । फलकारणयोर्धर्माधर्मयोरीश्वरकारितत्वेन तत्स्तुतये तस्य फलकारणत्वोपचारादिति ।

समाधानार्थं सूत्रम् ।

ब्र०सू०-ॐ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॐ ।।

ब्र०सू०- ॐ फलमत उपपत्तेः ॐ ।।

तेनेदमुक्तम् । अपेक्षत एवेश्वरो धर्माधर्मौ । न च तावता तयोरेव अस्तु फलहेतुतेति युक्तम् । धर्मादेरिवेश्वरस्यापि फलहेतुतया श्रुतिसिद्धत्वेन त्यागायोगात् । बाधकाभावेन श्रुतेरुपचरितार्थताकल्पनाऽनुपपत्तेः । गौरवस्याप्रामाणिकविषयत्वात् ।

परस्य ब्रह्मणः कर्मणश्चोभयोर्हेतुत्वे साम्यापत्तिरित्यपि न वाच्यम् । यतः फलदाने परमेश्वरः कर्तृत्वेन, कर्म तु करणत्वेन पुण्येन पुण्यमित्यादौ व्यपदिश्यते । करणं च कर्तृप्रयोज्यमिति प्रसिद्धमेवेति । तत्रेदमाशङ्क्यते । तथाऽपि कर्मापेक्षस्येश्वरस्य फलदानेऽनुपचरितं स्वातन्त्र्यं न सिद्ध्यति । ततश्च न तस्मिन् बहुमानातिशय इति ।।

एतत्परिहारत्वेन पूर्वपदं व्याख्याति स एवेति ।

अनु०-स एवाशेषजीवस्थनिस्सङ्ख्यानादिकालिकान् । धर्माधर्मान् सदा पश्यन् स्वेच्छया बोधयत्यजः । कांश्चित्तेषां फलं चैवं ददाति स्वयमच्युतः । न ते विशेषं कमपि प्रेरणादिकमच्युते । कुर्युः कदाऽपि तेनायं स्वतन्त्रोऽनुपचारतः

अनादिकालत्वं च प्रवाहापेक्षयोक्तं कांश्चित् बोधयति सव्यापारीकरोति स्वयमेवेति सम्बन्धः । लीलया करणीकरोति न तु तेन विना दातुं न शक्नोतीति भावः ।

२५४सु०- यदेतदत्रोक्तं धर्माधर्मदर्शनं तत्प्रेरणं तत्फलदानं तदप्रेर्यत्वादिकं चेश्वरस्य । तदेव विचार्यमाणं तस्मिन् महान्तं बहुमानमुत्पादयिष्यति किमु समस्तपदार्थ इत्याशयवान् कर्मणां स्वरूपं तावत् प्रपञ्चयति कर्माणीति ।

अनु०-कर्माणि तानि च पृथक् चेतनान्येव सर्वशः । अचेतनशरीराणि स्वकर्मफलभाञ्जि च । प्रत्येकं तेषु चानन्तकर्माण्येवंविधानि च । तानि चैवम्

तानीत्यशेषजीवस्थेत्याद्युक्तविशेषणानि । पृथगित्येकैकधर्माधर्माधिष्ठा(तृ)नभूतानि मुक्तव्यावृत्तयेऽचेतनशरीराणीत्युक्तम् । तत एव स्वकर्मफलभाञ्जि च । तेषु कर्माभिमानिषु । एवंविधानीति चेतनत्वाद्युक्तधर्मवन्ति तानि तेष्वपि कर्मसु वर्तमानानि । ततः किमित्यत आह इतीशस्येति ।

अनु०- इतीशस्य निस्सीमा शक्तिरुत्तमा

एवम्भूतानां कर्मणां दर्शनादिमतः । उत्तमा प्रतिबन्धादिरहितत्वात् । कर्मणामेवंविधत्वं कुत इत्यत आह एकैवेति ।

अनु०-एकैव ब्रह्महत्या हि वराहहरिणोदिता

हरिणैव न त्वर्वाचीनेन । वराह ग्रहणेन वाराहपुराण इति सूचितम् । उदिता चेतनत्वादिरूपेणेति शेषः । तदेव दर्शयति ब्रह्मपारेति ।

अनु०-ब्रह्मपारस्तवेनैव निष्क्रान्ता राजदेहतः । स्तोत्रस्य तस्य माहात्म्याद्व्याधत्वं गमिता पुनः । प्राप्य ज्ञानं परं चाप तथाऽन्यान्यपि सर्वशः । अनन्तान्युदितान्येवं प्रभुणा कपिलेन हि । संसारे पच्यमानानि कर्माण्यपि पृथक् पृथक्

अनेन समग्रमितिहासं सङ्क्षेपेण स्मारयति । व्याधत्वादिप्राप्त्या चेतनत्वादिकं गम्यते । तथा शब्दः प्रमाणसमुच्चये । अन्यानि ब्रह्महत्यायाः । पृथक् पृथक् उदितानि । एवं चेतनत्वादिना । हीति (परम)सा(ङ्ख्ये)ङ्ख्यप्रसिदि्धं दर्शयति । कथं चेतनत्वादिना प्रतीतिस्तेषामित्यत उक्तं संसारेति ।

२५५सु०- पादार्थमुपसंहरति तस्मादिति ।

अनु०-तस्मादनन्तमाहात्म्यगुणपूर्णो(गो) जनार्दनः ।भक्तया परमयाऽऽराध्य इति पादार्थ ईयते ।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने

तृतीयाध्यायस्य द्वितीयः पादः ।।

माहात्म्यं शक्तिः । गुणाः आनन्दाद्याः । आराध्य उपास्य इत्युत्तरपादार्थेन सङ्गतिमस्य सूचयति ।। ३२२० ।।

सु०-इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।४४४कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयेऽध्यायेऽस्मिन् भजनचरणः पर्यवसितः ।।

इति श्रीमन्न्यायसुधायां तृतीयाध्यायस्य द्वितीयः पादः ।।

पादः 3

न्यायसुधा

अविघ्नत्वाविरोधौ च गुणवैशेष्यमागमः । सिद्धान्तनिर्णया ह्येता युक्तयो व्याहृताः सदा ॥67॥

अथ तृतीयाध्यायस्य तृतीयः पादः

१सु०- उपासनाऽस्मिन्पाद उच्यत इति भाष्यम् । तत्रोपासनार्थस्यास्य पादस्य का पूर्वेणोत्तरेण वा सङ्गतिरित्यतोऽस्य पादस्य सङ्गतिं वदन् प्रसङ्गादेतदध्यायगतपादचतुष्टयस्याप्याह वैराग्यत इति ।

अनु०-वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् । आपरोक्ष्यं भवेद् विष्णोरिति पादक्रमो भवेत् ।

मीमांसासाध्याद्वैराग्यात्प्रागेव भक्तेर्भाव्यत्वात् दार्ढ्य मित्युक्तम् । यदाशब्दो यस्मादित्यर्थे । तयाऽपरोक्ष्यं भवेत् । इति तस्मात् ।

अयमर्थः । साधनविचारोऽयं तावदध्यायः । मोक्षसाधनं च भगवत्प्रसाद एव । तत्साधनानि च विषयवैराग्यं भगवद्भक्तिस्तदुपासना तत्साक्षात्कार इति चत्वारि । तानि च

न समकक्ष्याणि । किन्त्वादौ वैराग्यं साध्यम् । तेन भक्तिः । न हि हेये रागवत उपादेये प्रेमोत्पत्तिरस्ति । दृश्यते तावदिति चेत् । नासौ दृढ(ः) प्रेमा । अत एवं चोक्तं भक्तिदार्ढ्यमिति । तेन वैराग्येण भक्तिदार्ढ्येन चोपासा भवेत् । न ह्यन्यत्र रागवतस्तत्र भक्तिरहितस्यादरनैरन्तर्याभ्यामनुचिन्तनमुप(त्प)द्यते । उपासनया च अतिदीर्घकालमनुष्ठितया प्रसन्नो भगवानात्मानं दर्शयति । यस्मादेवं वैराग्यादीनां क्रमस्तस्मात्तद्विषयाणामेषां पादानामप्ययं क्रमो भवेदिति ।

२सु०- एवमेतदध्यायगतानां चतुर्णामपि पादानामानन्तर्यलक्षणां सङ्गतिमभिधाय तत्प्रसङ्गात्प्रथमसूत्रमारभ्यातीतानां सर्वेषामपि सूत्राणां परस्परं सङ्गतिं विवक्षुः प्रथमसूत्रार्थं तावदनुवदति युक्तित इत्यारभ्य विशिष्टचार्यसम्पदेत्यन्तेन ।

अनु०-युक्तितो ज्ञातवेदार्थो निरस्य समयान् परान् । परस्परविरोधं च प्रणुद्याशेषवाक्यगम् । अध्यात्मप्रवणो भूत्वा तस्य सन्निहितत्वतः । बहुयुक्तिविरोधानां भानात् तत्सहितश्रुतेः । विरोधं च निराकृत्य श्रुतीनां प्राणतत्त्वगान् । परिहृत्य विरोधांश्च तत्प्रसादानुरञ्जितः । देहकर्तृत्वमीशस्य ज्ञात्वा तत्पितृतास्मृतेः । विशेषस्नेहमापाद्य सर्वकर्तृत्वतोऽधिकम् । निष्पाद्य बहुमानं च तदन्यत्रातिदुःखतः । उत्पाद्याधिकवैराग्यं तद्गुणाधिक्यवेदनात् । सर्वस्य तद्वशत्वाच्च दार्ढ्यं भक्तेरवाप्य च । यतेतोपासनायैव विशिष्टाचार्यसम्पदा

तत्र यतेतोपासनायैव इत्यनेन ब्रह्मजिज्ञासा कर्तव्येत्येतद्व्याख्यातम् । अन्यत्सर्वमपि अथशब्दव्याख्यानम् । यद्यपि सङ्गतिमात्रविवक्षयेदमारब्धं, तथाऽपि प्रागथशब्दस्याव्याख्यातत्वात् तस्य च केवलस्य व्याख्यातुमशक्यत्वात् सूत्रार्थानुवादः कृतः । अतीतेन सार्धेनाध्यायद्वयेन यावानर्थो मीमांसितस्तावतः सामान्यतो ज्ञानादिमत्त्वमथशब्दस्यार्थ इति सङ्क्षेपः ।

विशिष्टाचार्यसम्पदेति सर्वत्रान्वयः ।

तत्र ज्ञातवेदार्थ इति सर्ववेदानां भगवानेवार्थ इति ज्ञानवानित्यनेन प्रथमाध्यायप्रमेयमुक्तम् ।

युक्तित इति ल्यब्लोपनिमित्ता पञ्चमी । वेदार्थविरोधियुक्तः सामान्यतो निराकृत्येति द्वितीया(ध्याया)द्यपादस्य ।

परान् वैष्णवसमयाद् अन्यान् साङ्ख्यादिसमयान् सामान्यतो (निराकृत्ये)निरस्येति द्वितीयपादस्य ।

परस्परविरोधञ्चेति तृतीयचतुर्थयोः ।

कथं तर्हि पादभेद इत्यतः अध्यात्मप्रवणो भूत्वेति बहुयुक्तिविरोधानां भानात् कारणात् श्रुतीनां युक्तिसहितश्रुतेर्विरोधं च निराकृत्येति चतुर्थस्य विशेषो दर्शितः ।

अध्यात्मविषयश्रुतिविरोधपरिहारज्ञानस्य चरमत्वोपपादनाय तस्ये त्युक्तम् । आध्यात्मिका(हि)भावा मिथ्या सम्यग्वा विदिता बन्धमोक्षयोरन्तरङ्गतामश्नुवते । न तथा बाह्याः ।

प्राणतत्त्वगानि त्यनेन चतुर्थपादगतानामेव मुख्यप्राणविषयाणामधिकरणानां प्रमेयमध्यात्मेत्यनेनैव लब्धमेतत्कस्मात्पुनरुच्यत इत्यतो विशेषेणैतद्भाव्यं तत्प्रसादायत्तत्वाज्जिज्ञासाया इत्याशयवतोक्तं तत्प्रसादेति ।

अनुरञ्जितः समीचीनः कृत इति यावत् ।

देहकर्तृत्वमि त्यादिना त्रिवृत्कुर्वत इत्यधिकरणस्य सर्वकर्तृत्वत इति सर्वकर्तृत्वं विज्ञाय ततश्च भगवद्भक्तिमान् भूत्वेत्यर्थः । अत्रापि पुनर्वचनस्य तात्पर्यं पूर्ववदवधेयम् ।

अतिदुःखसाधनत्वं विज्ञाय । तदन्यत्र भगवतोऽन्यत्राधिकं वैराग्यमुत्पाद्येति तृतीयाद्यस्य ।

अजिज्ञासूनामपि कदाचित्क्वचिद्वैराग्यं जायते अतः अधिकमि त्युक्तं अतीति च ।

तद्गुणाधिक्ये ति द्वितीयस्य ।

तद्वशत्वात् तद्वशत्वं विज्ञाय भक्तेः प्राक् सिद्धत्वात् दार्ढ्यम् इत्युक्तम् ।

न चैतत्सर्वमनुपासितगुरोर्भवतीत्यतो विशिष्टे त्यभिहितमिति ।

३सु०- कथमयमथशब्दस्यार्थ इति चेत् । उच्यते । यद्यप्यथशब्दोऽनेकार्थः । तथाऽप्यर्थान्तराणामत्रायोगादानन्तर्यार्थः परिगृह्यत इत्यविवादम् । आनन्तर्यं न यतः कुतश्चिदभिधातव्यम् । वैयर्थ्यात् । किन्तु येन विना न ब्रह्मजिज्ञासा भवति यस्मिंश्च सति भवत्येव तदानन्तर्यम् । तथाविधं च वेदार्थज्ञानादीति ।

किञ्च जिज्ञासा नाम विचारापरपर्यायं मननम् । न च तच्छ्रवणमन्तरेण सम्भवतीत्यतो यावदर्थजातमत्र शास्त्रे विचार्यं तावतः श्रवणजन्यं ज्ञानं पूर्ववृत्तम् । सति च तस्मिञ्जन्मान्तरानुष्ठितसत्कर्मणः सत्कुलप्रसूतस्य सात्त्विकप्रकृतेर्वैराग्यादिकमवश्यं भवत्येव ।

यत्तु परैर्नित्यानित्यवस्तुविवेकः शमदमादिसाधनसम्पदिहामुत्रफलभोगवैराग्यं मुमुक्षुता चेति साधनचतुष्टयं पूर्ववृत्तमुक्तं तदस्मदुक्त एवान्तर्भवतीत्यविरुद्धम् । उत्तमभक्तानां मुमुक्षुता नास्तीत्याचार्येण न सङ्कीर्तिता ।

एतेन जिज्ञासासाध्यस्य वैराग्यादेस्तत्साधनत्वेऽन्योन्याश्रयत्वं स्यादित्यपि निरस्तम् । सात्त्विकप्रकृतेः सत्सङ्गवशादीषद्वैराग्यादिमतः श्रवणेन तदभिवृद्धौ कृतमननादेर्भूयस्तदभिवृदि्धरिति ।

४सु०- एवं प्रथमसूत्रार्थमभिधाय तेन द्वितीयसूत्र(स्य) सङ्गतिमाह कर्तव्येति ।

अनु०-कर्तव्या ब्रह्मजिज्ञासेत्युक्ते किमिति संशये ।

उक्ते सति किमिति कर्तव्या प्रयोजनाभावान्न कर्तव्येति संशयो भवति । संशयशब्देनात्र विपर्ययोऽभिधीयते । मिथ्याज्ञानत्वसाम्यात् । संशये सति तत्परिहाराय जन्माद्यस्य यतः इत्याहेति शेषः । यद्वा किं कर्तव्या न वेति संशये प्रयोजनाभावान्न कर्तव्येति पूर्वपक्षे च सतीति व्याख्येयम् । इत्याहेति वक्ष्यमाणेनैव (वा) सम्बन्धः ।

५सु०- प्रथमसूत्रे अतःशब्देन जिज्ञासाया मोक्षार्थत्वात् कथं पुनराशङ्का इत्यत आह अत इति ।

अनु०-अत इत्युदितेऽप्यस्य विशेषानुक्तितः पुनः

अतःशब्देन जिज्ञासाया मोक्षार्थत्वे उदितेऽप्यस्य मोक्षार्थत्वस्य विशेषानुक्तितो हेतोः पुनः संशय इति पूर्वेण सम्बन्धः । एवं तर्हि जन्मादिसूत्रेणापि नैषा शङ्का निवर्तते । तत्रापि (हि) मोक्षः समासार्थतया व्याख्यातव्य एव । न तु विशेषेणोक्त इति चेन्न । प्रमाणविशेषानुक्तित इति व्याख्यानात् ।

एतदुक्तं भवति । मोक्षप्रयोजनत्वाद्ब्रह्मजिज्ञासाकर्तव्येत्यतःशब्देनोदितेऽपि पुनराशङ्का भवत्येव । तत्र प्रमाणस्यानुक्तत्वादिति ।

६सु०- एवञ्चेद् द्वितीयसूत्रमपि कथमेतदाशङ्कां निवर्तयेत् । न ह्यत्रायमर्थः प्रमाणेनोपपादित इत्यतस्तद्व्याचष्टे सृष्टीति ।

अनु०-सृष्टिबन्धनमोक्षादिकर्तृत्वस्य श्रुतत्वतः । यतो मोक्षादिदाताऽसावतो जिज्ञास्य एव वः । इत्याह तत्परं ब्रह्म व्यासाख्यं ज्ञानरश्मिमत्

श्रुतत्वतोऽसौ मोक्षादिदाता । यतश्च मोक्षादिदाताऽसावतो वो युष्माकं मुमुक्षूणां जिज्ञास्य एवेत्येतमर्थं जन्मादिसूत्रेणाहेत्यर्थः । अयमभिसन्धिः । जन्माद्यस्य यत इति सूत्रे श्रुतमिति वाक्यशेषः । तथा च परमेश्वरस्य मोक्षदातृत्वे श्रुतिः प्रमाणमित्युक्तं भवति । किञ्चात्र मोक्षदातृत्वं प्रधानम् । सृष्ट्यादिकर्तृत्वं तु तत्र हेतुत्वेनोक्तम् । केवलव्यतिरेक चायं हेतुः । तस्य चासिदि्धपरिहाराय श्रुतत्वमभिहितमिति । कृत्यानां कर्तरि चेति व इति षष्ठी ।

७सु०- ननु मोक्षादिकर्तृत्वस्येत्यादि कथम् । कर्तरि चेति तृजन्तेन षष्ठ्याः समासप्रतिषेधात् । तृन्नयं तच्छीलादौ विहितः । तेन च श्रितादिषु गमिगाम्यादीनामुपसङ्ख्यानमिति द्वितीयायाः समासः ।

८सु०- ज्ञानं रश्मय इव ज्ञानरश्मयः । व्याप्तज्ञानवदित्यर्थः । अपां तरतमो नाम कश्चन मुनिर्व्यासो बभूवे ति प्रवाददर्शनाच्छिष्याणां सूत्रकारे भक्तिमान्द्यं मा भूदित्यतो विशेषणोपादानम् ।

६सु०- जिज्ञासाया मोक्षसाधनत्वे प्रमाणाभावेनाक्षिप्ते भगवतो मोक्षसाधनत्वसमर्थनमसङ्गतमित्यत आह येनैवेति ।

अनु०-येनैव बन्धमोक्षः स्यात् स च जिज्ञासया गतः ।सुप्रसन्नो भवेदीशो जिज्ञासातोऽस्य मुक्तिदा

बन्धान्मोक्षो बन्धमोक्षः । पञ्चमीति योगविभागात् समासः । षष्ठीसमासो वा । येन प्रसन्नेनेति शेषः । गतो ज्ञातः । गत्यर्थानामवगत्यर्थत्वात् । चो यस्मादित्यर्थे । प्रसादमात्रस्य मोक्षसाधनत्वाभावात् सु शब्दः । अस्येशस्य जिज्ञासाऽस्य जीवस्य मुक्तिदा ।

एतदुक्तं भवति । जिज्ञासा तावन्न साक्षान्मोक्षसाधनत्वेनास्माकमभिमता । किन्तु (सु)प्रसन्नो भगवानेव । स चोत्कृष्टतया ज्ञातः सुप्रसन्नो भवति । उत्कर्षज्ञानं च जिज्ञासयेत्येवम्परम्परया । तत्र भगवतो मोक्षदातृत्वं तावत्प्रमाणैः समर्थितम् । प्रसन्न एव ददातीत्युत्कर्षज्ञानात् प्रसीदतीति जिज्ञासयोत्कृष्टतया ज्ञायत इति च लोकत एव सिद्धम् । किं तत्र प्रमाणोपन्यासेन । अतो भगवज्जिज्ञासाया मोक्षहेतुत्वं प्रमितमिति मन्यते सूत्रकार इति ।

ननु स्थानान्तरेऽस्य सूत्रस्यान्यथासङ्गतिरुक्ता । सत्यम् । सत्यां तस्यामियमपराऽत्रोक्तेति ।

१०सु०- तृतीयसूत्रनिवर्त्यामाशङ्कामभिधाय तत्परिहारत्वेन तत् पठति मोक्षादीति ।

अनु०-मोक्षादिदत्वमीशस्य कथमेवावगम्यते । इति चेच्छास्त्रयोनित्वाच्छास्त्रगम्यो हि मोक्षदः

प्रधानं मोक्षदातृत्वं तत्साधनं सृष्ट्यादिकर्तृत्वं चेशस्यैवेति सम्बन्धः । कथमवगम्यते । न कथञ्चित् । अनुमानैस्तत्तदागमैश्चान्येषां तथाऽवगमादिति भावः । इति चेत्तत्रोक्तमिति शेषः । कथमिदं सूत्रमेतदाशङ्काया निवर्तकमित्यतः तद्व्याचष्टे शास्त्रगम्यो हीति । मोक्षग्रहणं सृष्ट्यादेरप्युपलक्षणम् । यस्मान्मोक्षादिदः पुरुषः शास्त्रमात्रस्य विषयोऽतो वेदादिकं यं तथाविधं प्रतिपादयति स एव तथा प्रतिपत्तव्यो नानुमादिना कल्पनीय इति ।

११सु०- मोक्षादिदातुः शास्त्रैकसमधिगम्यत्वं कुतः । परिशेषादित्याशयवान् प्रत्यक्षगम्यत्वं तावद्दूषयति प्रत्यक्षेति ।

अनु०-प्रत्यक्षावसितेभ्यः स्याद्यदि मोक्षः कथञ्चन । किमित्यनादिसंसारमग्नाः सर्वा इमाः प्रजाः

यदि मोक्षादिदाता प्रत्यक्षः स्यादिति यावत् । कथञ्चन तत्सेवादिना । तदा सर्वेऽपि युक्ताः स्युरित्यर्थः । मोक्षदातुः प्रत्यक्षत्वे कुतः सर्वैमुक्तैर्भाव्यमित्यत आह यस्मादिति ।

अनु०-यस्मान्नियमतो दुःखहानिः प्रत्यक्षतो भवेत् । धावन्त्येव तमुद्दिश्य राजाद्यमखिलाः प्रजाः

यस्मात्पुरुषाद्धेतोः । अमुमुक्षुत्वान्न धावन्तीत्याशङ्कानिवारणाय मोक्षस्वरूपं व्याख्यातं दुःखहानिरिति । न हि कोऽपि दुःखी दुःखं न जिहासति इति सम्भवति । प्रत्यक्षतः प्रत्यक्षगम्यात् । राजाद्यमिति सम्भावनयोक्तम् । दारिद्य्रदुःखं जिहासवो वदान्यं राजाद्यमिवेति वा ।

अनुमानगम्यत्वं दूषयति अनुमेति ।

अनु०-अनुमागम्यतो मोक्षो यदि स्यादनुमैव हि । दृष्यपूरुषवन्मोक्षदातृतां विनिवारयेत् । तच्छास्त्रगम्य एवैको मोक्षदो भवति ध्रुवम्

यदि कश्चिन्मोक्षदातृत्वेनानुमीयत इत्यर्थः । अनुमैव पुरुषत्वादिका । अनुमानं सप्रतिपक्षत्वान्न तत्र भवतीत्यर्थः ।

आगमास्त्वाप्तेरनिश्चयादसमर्था एवेत्याशयवान् परिशेषमुपसंहरति तदिति ।

तत्तस्मान्मोक्षदः पुरुषो केवलं ध्रुवं शास्त्रगम्य एव भवेदिति योजना ।

१२सु०- अस्त्वेवं तथाऽपि मोक्षदत्वेन शास्त्रगम्यत्वमन्येषां भविष्यति । तथा प्रतिभासादिति चतुर्थसूत्रस्य सङ्गतिं सूचयंस्तत्त्विति पदद्वयं व्याख्याति शास्त्रेति ।

अनु०-शास्त्रगम्यश्च नान्योऽस्ति मोक्षदत्वेन केशवात्

मोक्षदत्वेन शास्त्रगम्यश्च केशवादन्यो नास्ति । किन्तु स एव कुत इत्यतः । सौत्रं हेतुं व्याख्याति मोक्षदो हीति ।

अनु०-मोक्षदो हि स्वतन्त्रः स्यात्

स्वतन्त्र एव हि मोक्षदः स्यादित्यन्वयः । स्वातन्त्र्येण समन्वयश्च भगवत एव नान्येषाम् । यस्य च प्रतीयते श्रुत्यादौ स एव भगवान्विष्णुरिति भावः । परतन्त्रो मोक्षदः किन्न स्यादिति चेत् । स किं स्वतन्त्रमनाश्रित्य स्वयमेव मोक्षं दद्यादुत स्वतन्त्रमन्यमाश्रित्य । आद्ये दोषमाह परतन्त्र इति ।

अनु०-परतन्त्रः स्वयं सृतौ । वर्तमानः कथं शक्तः परमोक्षाय केवलम् ।

परतन्त्र एव । केवलं परानपेक्षया । यद्यसौ स्वतन्त्रमनपेक्ष्यैव स्वभक्तमोक्षाय शक्तः स्यात् तर्हि स्वात्मानमपि मोचयेदिति न संसारी स्यादित्याशयः । द्वितीयं दूषयति अन्येति ।

अनु०-अन्याश्रयेण यद्येष दद्यान्मोक्षं स एव हि । तेन नानुसृतो मोक्षं न दद्यादन्यवाक्यतः

एषोऽवान्तरेश्वरोऽन्यस्य स्वतन्त्रस्य विष्णोराश्रयेण स्वभक्ताय मोक्षं दद्यादिति यद्युच्यते तदा स स्वतन्त्रस्तेन मुमुक्षुणाऽननुसृतोऽसेवितोऽन्यस्यावान्तरेश्वरस्य मम भक्ताय मोक्षं देहीति प्रार्थनावाक्यमात्रेण मोक्षं नैव दद्यादित्यपि सम्भावितमेव । तथा लोके दर्शनादिति हिशब्दः । ततः किमित्यत आह अत इति ।

अनु०-अतस्तदर्थमपि स ज्ञेयो विष्णुर्मुमुक्षुभिः

तदर्थमप्यवान्तरेश्वरान्मोक्षप्राप्त्यर्थमपि स स्वतन्त्रः । तथा च भगवज्जिज्ञासाया अपरिहार्यत्वाद्व्यर्थावान्तरेश्वरस्य मोक्षदत्वकल्पनेति भावः ।

१३सु०- प्रकारान्तरेण हेतुं व्याचष्टे यमेवेति ।

अनु०-यमेवैष इति श्रुत्या तमेवेति च सादरम् ।शास्त्रयोनित्वमस्यैव ज्ञायते वेदवादिभिः

अनेन यमेवैष वृणुते तेन लभ्य इति श्रुतिमुपादत्ते । तमेव चेति श्रुत्या । तमेवं विदित्वाऽति मृत्युमेती ति श्रुतिरनेनोपात्ता । नान्यः पन्था विद्यत इति वाक्यशेषेणादरो गम्यते । मोक्षदत्वेन शास्त्रयोनित्वमस्य विष्णोरेव । अनेन श्रुतीनां सम्यक् सादरमन्वयः समन्वय इत्युक्तं भवति । नन्वेतयोः श्रुत्योरेष इति तमिति च भगवानुच्यत इत्येतत् कुतः । प्रकारणादिपर्यालोचनया तदवधारणात् । तदिदमुक्तं वेदवादिभिरिति ।

अत्र श्रुत्यन्तरमाह य एनमिति ।

अनु०-य एनं विदुरमृता

य एनं विदुरमृतास्ते भवन्ती ति च श्रुत्येति पूर्वेण सम्बन्धः । मीमांसार्थमस्याः श्रुतेः पृथग्ग्रहणम् । अत्रैनमित्युक्तो हरिरित्येतत्कुत इत्यत आह इत्युक्त इति ।

अनु०- इत्युक्तस्तु समुद्रगः

य एनं विदुरि ति श्रुतौ मोक्षहेतुज्ञानत्वेनोक्तस्तु यमन्तः समुद्रे कवयो वयन्ती ति समुद्रग उक्तः । तच्च हरेर्लिङ्गमित्यर्थः ।। प्रमाणान्तरमाह तदेवेति ।

अनु०-तदेव ब्रह्म परममिति श्रुत्याऽवधारितः

इत्युक्त इति वर्तते । तदेव ब्रह्म परमं कवीनामिति श्रुत्या ब्रह्मत्वेनावधारितः ।

एतदुक्तं भवति । एनमित्युक्ते ब्रह्मपदश्रवणात् तस्य च भगवान्नामत्वाद्भगवानेवायमिति ज्ञायते । यद्यपि ब्रह्मपदस्यान्यत्रापि वृत्तिरस्ति तथाप्यमुख्यैव । न चैवमत्र शक्यते ग्रहीतुम् । तदेवेत्यवधारणविरोधात् । इदं खल्वस्य मुख्यतो ब्रह्मत्वमाचष्टे । अन्यत्र ब्रह्मशब्दवृत्तिमात्रस्य प्रामाणिकत्वेन निषेधानुपपत्तेरिति । युक्तयन्तरमाह यत इति ।

अनु०-यतः प्रसूतेति ततः सृष्टिमाह

यतः प्रसूता जगतः प्रसूती ति श्रुतिः ततो य एतमित्युक्तान्मूलप्रकृतेः सृष्टिमाह । न च मूलप्रकृतेः कारणत्वं परमपुरुषादन्यस्य सम्भवति । अतोऽप्ययं भगवानिति । एतेन मोक्षादिकर्तृत्वस्य श्रुतत्वत इत्युक्तमपि विवृतं वेदितव्यम् ।

१४सु०- द्वितीयं हेतुव्याख्यानमुपसंहरति तत इति ।

अनु०- ततो हरिः । शास्त्रयोनिर्न चान्योऽस्ति मुख्यतस्त्विति गम्यते

मुख्यत इति मोक्षदत्वेनेति यावत् ।

१५सु०-विष्णोरिवान्येषामपि शास्त्रयोनित्वं प्रतीयत इति यदुक्तं तत्परिहारार्थत्वेनापि सौत्रं हेतुं व्याचष्टे शास्त्रेति ।

अनु०-शास्त्रयोनित्वमेतस्य ज्ञायते हि समन्वयात्

अन्वय उपपत्त्यादिलिङ्गम् ।

यतो वाचो निवर्तन्ते इत्यादिश्रुतिभिर्ब्रह्मणोऽवाच्यत्वमाशङ्क्य वाच्यत्वमीक्षत्यधिकरणे साध्यते । तदसङ्गतम् । प्राग्वाच्यताया अनुक्तत्वात् । शास्त्रयोनित्वस्य लक्षणादिनाऽपि सम्भवादित्यतोऽधिकरणं सङ्गमयितुं संशब्दं व्याख्याति समिति ।

अनु०-समिति ह्युपसर्गेण परमुख्यार्थतोच्यते

परममुख्यार्थतोच्यते । सङ्कोचे (प्रमाणा)कारणाभात् । ततः किमित्यत आह एवमिति ।

अनु०- अनु०-एवं परममुख्यार्थो नारायण इति श्रुतेः ।निर्धारणाय नाशब्दमिति वेदपतिर्जगौ

एवं मोक्षादिदत्वेन नारायणः श्रुतेः परममुख्यार्थ इत्यस्य अर्थस्य निर्धारणाय इति सम्बन्धः । यस्मात्समित्युपसर्गेण परममुख्यार्थतोच्यते, एवं तस्मात् सङ्गतिसद्भावात् नाशब्दमिति जगौ इति वा ।

१६सु०- अत्राधिकरणे गतिसामान्यादि ति सूत्रम् । तत्प्राग्वाच्यतासमर्थनपरं न भवतीति न व्याख्यातम् । तस्येदानीं सङ्गतिमाह कथमिति ।

अनु०-कथं समन्वयो ज्ञेयः स्वल्पशाखाविदां नृणाम्

संशब्दो द्व्यर्थो मुख्यवृत्त्येति सर्ववेदानामिति च । तत्र द्वितीयार्थोऽत्राक्षिप्यते । अत्र एवैकाधिकरणत्वमेषां सूत्राणाम् । संशब्दार्थाक्षेपसमाधानस्यैकत्वात् । उपक्रमादिलिङ्गैर्जगज्जन्मादिकारणत्वेन परमेश्वरे सर्ववेदानां समन्वयो न ज्ञातुं शक्यः । कुतः । नृणां स्वल्पायुःप्रज्ञादिमतां स्वल्पशाखावेदि(त)त्वस्य एव सम्भवेन सर्ववेदज्ञानासम्भवात् । वेदानामपि स्वल्पत्वे शक्यत एव तत्समन्वयो ज्ञातुमस्मदादिभिरपीत्यत आह वेदा इति ।

अनु०-वेदा ह्यनन्ता इति हि श्रुतिराहाप्यनन्तताम्

अनन्ता वै वेदा इति श्रुतिमनेनोपादत्ते । आद्यो हिशब्दः श्रौतवैशब्दार्थः । द्वितीयः श्रुतेः प्रसिद्धत्वं द्योतयति । अपिः समुच्चये । न केवलं पुरुषाः स्वल्पवेदविदः । किन्तु वेदा अप्यनन्ता इति । अनन्तता वेदानामिति शेषः । सन्तु पुरुषाः स्वल्पविदो वेदाश्चानन्तास्तथाऽपि कथं समन्वयज्ञानमशक्यमित्यत आह अनन्तेति ।

अनु०-अनन्तवेदनिर्णीतिर्महाप्रलयवारिधेः । उत्तारणोपमा

स्वल्पशाखाविदामिति वर्तते । महाप्रलयवारिधेरुत्तारणोपमेति गमकत्वात्समासः । देवदत्तस्य गुरुकुलमिति यथा । यो यद्वाक्यं स्वरूपतो न जानाति स तत्रोपक्रमाद्यनुसन्धाय वाक्यार्थमवधारयतीत्यसम्भावितमेतदिति भावः । एतदुक्तं भवति । विमताः पुरुषा न सर्ववेदसमन्वयज्ञानार्हाः सर्ववेदाज्ञत्वात् । यो यद्वाक्यं न जानाति नासौ तत्समन्वयमपि जानाति ।

यथा सम्मतः । विमता न सर्ववेदवेदनार्हा अल्पप्रज्ञादिमत्त्वात् यो यदपेक्षयाऽल्पप्रज्ञादिमन्नासौ तद्वेत्ति यथा सम्मतः । वेदा वा नैतत्पुरुषवेद्याः । एतत्प्रज्ञाद्यतिक्रान्तत्वात् । यदेवं तदेवं तथा सम्मतमिति ।

आक्षेपमुपसंहरति इत्यस्मादिति ।

अनु०-इत्यस्मान्न ज्ञेयोऽत्र समन्वयः

अत्र विष्णौ । ततश्च शाखान्तरे प्रतिपाद्यान्तरशङ्कया नोक्तार्थावधारणं सम्भवतीति भावः ।

१७सु०- एतत्परिहारार्थत्वेन सूत्रमवतारयति इत्याशङ्केति ।

अनु०-इत्याशङ्काऽपनोदार्थं स आह करुणाकरः

आह गतिसामान्यादिति सूत्रमि ति शेषः । नन्वस्य सूत्रस्य कोऽर्थः । सर्वाभिः शाखाभिरुत्पाद्याया ब्रह्मावगतेरेकरूपत्वात् सर्वा अपि शाखाः परमपुरुषमेकमेव जगज्जन्मादिकारणत्वेनावगमयन्तीति न क्वचिद(प्य)न्यथाप्रतिपादनं शङ्कनीयमिति चेत् । नन्वेतदेव वेदानामनन्तत्वेन ज्ञातुमशक्यत्वादुपक्रमादिभिस्तन्निर्णयो दूरे निरस्त इत्याक्षिप्तम् । पुनस्तदेवोच्यत इति किमनेन कृतं स्यादित्यतः सूत्रकृतोऽभिसन्धिमाह अशक्येति ।

अनु०-अशक्योत्तारणत्वेऽपि ह्यागमापारवारिधेः । निर्णीयते मयैवायं रोमकूपलयोदिना

मदन्यैरिति शेषः । हि शब्देन परोपन्यस्तं प्रमाणमभ्युपैति । उत्तारणं पारगमनम् । उपक्रमादिभिर्निर्णयनमिति यावत् । उदमुदकमस्यास्तीत्युदी । भूमविवक्षायामिनिः । समुद्र इत्यर्थः । रोमकूपे लयोदौ यस्यासौ तथोक्तः । प्रलयसमुद्रसमानोऽपि वेदो मदीयज्ञानेऽन्तर्भवतीति भावः । एतदेव विवृणोति यद्यपीति ।

अनु०-यद्यप्यशेषवेदार्थो दुर्गमोऽखिलमानवैः ।मज्ज्ञानाव्याकृताकाशे प्राप्नोति परमाणुताम्

अव्याकृताकाशे परमाणुरिव मज्ज्ञानेऽन्तर्भवति । भूताकाशस्य परिमितत्वादव्याकृतग्रहणम् । विवरणाभावे पूर्वश्लोकोक्तं किञ्चिद् व्याहतं किञ्चिच्चासङ्गतं प्रतीयेत ।।

अभिप्रायमुपसंहरति इतीति ।

अनु०-इति प्रकाशयन्विश्वपतिराह प्रमेयताम् । निखिलस्यापि वेदस्य गतिसामान्यमञ्जसा

उक्तप्रकारेण निखिलस्यापि वेदस्य स्वेनाञ्जसा प्रमेयतां प्रकाशयन् सूचयन् गतिसामान्यमाह न तु निरभिसन्धिर्येनोक्तदोषः स्यात् । विश्वपतिरिति सर्ववेदवित्त्वे प्रमाणम् । न हि पालनीयमविद्वान् पालको भवति । विश्वान्तर्गताश्च सर्वे वेदा इति ।

एतदुक्तं भवति सूत्रकारेण । सर्ववेदज्ञानासम्भवेन सर्ववेदसमन्वयाज्ञानं किं मानवादीनामुच्यते उत सूत्रकर्तुर्मम । आद्येऽपि किं विशेषतोऽथ सामान्यतोऽपि । आद्योऽभ्युपगम्यत एव । द्वितीये तु वक्ष्यामः । न तृतीयः । मम सर्वज्ञत्वेनासिद्ध्यादिप्राप्तेरिति ।

१८सु०- एवं चेद्यदि कश्चिदन्यः सूत्रकारवद्विषयान्तरे गतिसामान्यं ब्रूयात् तदा पुनरनिर्णय एवेत्यत आह को नामेति ।

अनु०-को नाम गतिसामान्यमनन्तागमसम्पदः । ज्ञानसूर्यमृते ब्रूयात् तमेकं बादरायणम्

ज्ञानेन सूर्य इव ज्ञानसूर्यः । यथा सूर्यः स्वतेजसा विश्वस्य प्रकाशकः तथाऽयं ज्ञानेनेति । विना वातमि त्यादिप्रयोगदर्शनाद्विना योग इव ऋतेऽपि द्वितीया भवत्येव ।

इदमुक्तं भवति ।

किं सर्वज्ञो विपरीतं गतिसामान्यं ब्रूयात् । उतापरः । नाद्यः । सर्वज्ञोक्तयोर्विरोधायोगात् । योगे वा सार्वज्ञानुपपत्तेः । द्वितीये सम्प्रतिपन्नसर्वज्ञसूत्रकारवचनविरोधान्मिथ्यादृष्टिर्वा प्रतारको वाऽसौ स्यादिति कथमनिर्णय इति ।

१९सु०- अस्तु भगवतः सर्वज्ञत्वेन गतिसामान्यज्ञानं, परस्य तु कथं यदर्थमिदं शास्त्रमित्यतः सूत्रस्यार्थान्तरमाह अन्योऽपीति ।

अनु०-अन्योऽप्यल्पमतिः शाखाचतुष्पञ्चगतं वसु । जानन्ननुमितत्वेन ब्रूयात् तस्य प्रसादतः

अल्पमतिः अपि अन्यः तस्य प्रसादतः शाखाचतुष्पञ्चगतं वसु जानन् अनुमितत्वेन अनन्तागमसम्पदो गतिसामान्यं ब्रूयात् इति योजना । यासां शाखानामुदाहरणेन सूत्रकृता परमेश्वरसमन्वयोऽभिहितस्तद्दृष्टान्तीकृत्य शाखात्वाद्विप्रतिपन्नशाखानामपि तत्परत्वानुमानसम्भवादन्येषामपि गतिसामान्यज्ञानं युक्तमिति भावः । अनेन गतिसामान्यानुमानादि ति सूत्रं व्याख्यातमिति । ननु चतुष्पञ्चशाखागतमिति वक्तव्यम् । तदि्धतार्थोत्तरपदसमाहारे च इति सङ्ख्यातया उपसर्जनत्वात् । कडाराः कर्मधारय इत्युपसर्जनस्य परनिपातो भविष्यति । वर्गार्थौ वा चतुष्पञ्चशब्दौ । प्रपञ्चो यदि विद्येतेति यथा ।

२०सु०- इदमेवास्तु सूत्रव्याख्यानं श्रोतृप्रत्यायनाङ्गत्वात् । न पूर्वम् । शङ्कानिरासाहेतुत्वात् । न हि सूत्रकारः सर्वज्ञत्वात् । सर्ववेदगतगतिसामान्यं वेत्तीत्येतावताऽन्येषां शङ्का निवर्तत इत्यत आह इति मुख्यतयेति ।

अनु०-इति मुख्यतयाऽशेषगतिसामान्यवित्प्रभुः । प्रतिजज्ञे दृढं यस्माद्देवानामपि पूर्यते

इति प्रतिजज्ञ इति सम्बन्धः । मुख्यतये त्यनुमानादिना विना अशेषवेदगतिसामान्यवित् । देवानाम् इत्युत्तमाधिकारिणाम् । अपिः पदार्थे । शङ्केत्यर्थः । मधुनोऽपि स्यादिति यथा । पूर्यते निवार्यते । ये सूत्रकारस्य परमाप्तत्वं जानन्त्युत्तमाधिकारिणस्तेषां तदीयप्रतिज्ञामात्रेण शङ्का निवर्तत एवेति तान्प्रति पूर्वव्याख्यानम् । अन्यान्प्रति तु द्वितीयम् । तथा भाष्योक्तं गतिसामान्यश्रुतेरिति तृतीयं चेति भावः ।

२१सु०- नन्वनया पञ्चाधिकरण्या वक्तव्यस्योक्तत्वात्किमध्यायशेषेणेत्यतः प्रपञ्च्यप्रपञ्चनरूपां सङ्गतिं दर्शयन्नाह अत इति ।

अनु०-अतो निखिलवेदानां सिद्ध एव समन्वयः । इति सुज्ञापितार्थोऽपि पृथक् चाह समन्वयम्

अतीतप्रबन्धेनेत्यर्थः । पृथग् विस्तरेणाध्यायशेषेणेति शेषः ।

२२सु०-तत्र प्रथमपादे अन्यत्रप्रसिद्धानां शब्दानां समन्वयोऽभिधीयते । द्वितीयेऽन्यत्रप्रसिद्धानां लिङ्गात्मकानाम् । तृतीये तत्रान्यत्रप्रसिद्धानामुभयरूपाणाम् । चतुर्थेऽन्यत्रैव प्रसिद्धानामिति उक्तम् ।

२तमेतं क्रममुपपादयन्नाह तत्रेति ।

अनु०-तत्र प्रथमतोऽन्यत्रप्रसिद्धानां समन्वयः । शब्दानां वाच्य एवात्र महामल-लेशभङ्गवत्

तत्र प्रथमाध्याये, प्रथमतः प्रथमपादे, शब्दानां नामात्मकानाम्, अत्र विष्णौ । महामल्लेशभङ्गेन तुल्यं वर्तत इति तथा । यथाऽनेकेषु मल्लेषु प्रत्यर्थितयाऽवस्थितेष्वपि भगवता कृष्णेन प्रधानत्वाच्चाणूरादिमल-लानामेवादौ भङ्गो विहितस्तथेत्यर्थः । उभयत्रप्रसिद्धानां हि शब्दानां समन्वयेऽन्यत्रप्रसिदि्धनिवारणमात्रे यत्नो विधेयः । अन्यत्रप्रसिद्धानां तु भगवति प्रसिदि्धरप्युपपादनीयेति । ततः एतेषां प्राधान्यम् । लिङ्गात्मकाश्च धर्मवचना व्यवधानेनान्यबुदि्धं जनयन्ति । नामात्मकास्तु सत्त्ववचनाः साक्षादेवेति तत्समन्वये यत्नगौरवमस्तीति लिङ्गात्मकेभ्यो नामात्मकानां प्राधान्यमिति ।

२३सु०- यदि प्राधान्यादन्यत्र प्रसिद्धानां नामात्मकानां शब्दानां समन्वयः प्रथमपादे वक्तव्यः स्यात् तदा चतुर्थपादोदितस्यान्यत्रैव प्रसिद्धानां शब्दानां समन्वयस्येतोऽपि प्राधान्यात् प्राथम्यं भवेत् । अन्यत्र प्रसिद्धेरन्यत्रैव प्रसिदि्धर्बलीयसीत्यत आह इत इति ।

अनु०-इतोऽप्यभ्यधिकत्वेऽपि तुर्यपादोदितस्य तु

तुर्यपादोदितस्य समन्वयस्येतो(ऽत्य)प्यभ्यधिकत्वेऽप्यसावत्राध्याये प्राथम्येन नैवोदित इति सम्बन्धः । तत्तु समन्वयादिति सङ्क्षेपेण तस्याप्यत्रोक्तत्वादञ्जसेत्युक्तम् । कुतो नोदित उत्सर्गस्यापवादविशेषसद्भावादिति तुशब्दः । तमेवापवादहेतुं दर्शयति महासमन्वय इति ।

अनु०-महासमन्वये तस्मिन्नाधिकारोऽखिलस्य हि । ब्रह्मैवाधिकृतस्तत्र मुख्यतोऽन्ये यथाक्रमम् । दुर्गमत्वाच्च नैवात्र प्राथम्येनोदितोऽञ्जसा ।

तर्हि न वक्तव्य एव निरधिकारिकत्वात् । न हि गायमानो बधिरेषु गायतीत्यत उक्तं ब्रह्मैवेति । नैकाधिकारिकं शास्त्रमित्यतः अन्य इत्याद्युक्तम् । सर्वाधिकारिसाधारणमर्थमादावभिधाय असाधारणं पश्चाद्वक्ष्यामीत्याशयः सूत्रकारस्य । तत्र साधारणे त्विदं तारतम्यं चिन्तितमिति । दुर्गमत्वाच्चेति हेत्वन्तरम् । प्रथमं बुद्धावनारोहादित्यर्थः । एतदुक्तं भवति । ब्रह्मादीनामेव तत्र यद्यपि मुख्याधिकारिता । तथाऽप्यस्मदादीनामीषदधिकारोऽस्त्येव । न च मन्दानामसौ समन्वयः प्रथमं बुदि्धमधिरोहति । साधारणसमन्वयज्ञानेन वैदिकव्युत्पत्त्यनुरक्ता तु बुदि्धः क्रमेण तत्राप्यवतरतीति । ततः किमित्यत आह अत इति ।

अनु०-अतोऽन्यत्र प्रसिद्धानां शब्दानां निर्णयाय तु । प्रवृत्तः प्रथमं देवः

प्राधान्यादतिप्राधान्यस्योपपादितत्वाच्चेत्यर्थः । तु शब्दोऽवधारणे ।

२४सु०- तत्रानन्दमयाधिकरणस्याद्यत्वे हेतुं सूचयन्नाह तत्रेति ।

अनु०- तत्रानन्दादयो गुणाः । ईशस्यैवेति निर्णीताः श्रुतियुक्तिसमाश्रयात्

तत्र समन्वयप्रपञ्चने । प्रथममित्यनुवर्तते । सर्वेषु हि शुभेषु मूर्धाभिषिक्ता आनन्दविज्ञानादयः । अतो माङ्गलिक आचार्यस्तच्छब्दसमन्वयमादावाहेति ।

अन्तरधिकरणस्याकाशाधिकरणस्य चानन्दमयाधिकरणसङ्गतत्वे समाने कुतः क्रम इत्यतस्तत्र हेतुं सूचयन्नन्तरधिकरणतात्पर्यमाह देवतेति ।

अनु०-देवतान्तरगास्सर्वे शब्दवृत्तिनिमित्ततः । विष्णुमेव वदन्त्यद्धा

देवताः खलु जडेभ्यो मुख्याः । अतस्तद्वाचिनामाकाशादिजडवाचिभ्य उत्कर्षः । सर्वे शब्दा अद्धा वचनवृत्त्यैव नोपचारेण । कथम् । शब्दवृत्त्योर्योगरूढ्योर्निमित्तानां बहुलप्रयोगादीनां हरौ विद्यमानत्वात् ।

तत्किमन्यत्र शब्दानां वृत्तिरेव नास्ति । येन विष्णुमेव इत्यवधार्यत इत्यत आह तत्सङ्गादिति ।

अनु०- तत्सङ्गादुपचारतः । अन्यदेवान्वदन्तीह विशेषगुणवक्तृतः ।।४४४ विष्णुमेव परं ब्रूयुः

उपचारप्रकारश्च प्रागेव विवृतः । अक्षादिशब्दवदुभयत्र साम्येन प्रवृत्तिः किं न स्यात् इत्यत आह इहेति । इन्द्रादिशब्दा हि परमैश्वर्यादिगुणान् वदन्ति । ते च भगवत एवासाधारणा इति तमेव परं मुख्यं ब्रूयुः । इह देवतान्तरे । तथा नेति शेषः । यद्वा इह देवेषु तत्सङ्गादिति पूर्वत्र सम्बन्धः । रूढिनिमित्तातिशयस्याप्येतदुपलक्षणम् । उत्तराधिकरणेष्वप्येवं क्रमनिमित्तादिकं स्वयमूहनीयमित्याशयवानाह एवमिति ।

अनु०-एवमन्येऽप्यशेषतः

विष्णुमेव परं ब्रूयुरिति वर्तते ।

२५सु०- अन्यत्रप्रसिद्धानां नामात्मकानां शब्दानामनन्तत्वात् कथं पादपरिसमाप्तिरित्याशङ्कां निराकुर्वन् प्रथमपादार्थमनूद्य द्वितीयपादस्य सङ्गतिमाह इत्यन्यत्रेति ।

अनु०-इत्यन्यत्रप्रसिद्धोरुशब्दराशेरशोषतः । ज्ञाते समन्वये धिष्णौ लिङ्गैर्ह्येष समन्वयः । तेषामन्यगतत्वे तु न स्यात् सम्यक् समन्वयः ।इत्येवाशेषलिङ्गानां ब्रह्मण्येव समन्वयम् । आह

समानन्यायसञ्चारविषयत्वादिति भावः । ज्ञाते प्रथमपादेन । शङ्का जायत इति शेषः । कथं (इति) । प्रायेण लिङ्गबलेन ह्येष नामात्मकशब्दसमन्वयोऽभिहितः । लिङ्गानां चान्यगतत्वं प्रतीयते । ततश्च विरुद्धत्वात् तैः प्रतीतः समन्वयः सम्यङ् न स्यादेव । न हि कृतकत्वेन नित्यत्वज्ञानं सम्यगुत्पद्यते । इति शब्दः शङ्कासमाप्तौ । तत्परिहाराय अन्यत्रप्रसिद्धानामशेषलिङ्गानाम् । आह द्वितीयपादे ।

नन्वेवं तर्हि यानि अन्तस्तद्धर्मोपदेशादित्यादौ समुद्रान्तस्थत्वादीनि लिङ्गानि साधनत्वेनोक्तानि तेषामिह विचारः करणीयः । न चैवम् । किन्तु यान्युक्तानि न तानि विचार्यन्ते । यानि च विचार्यन्ते न तान्युक्तानि । उच्यते । सर्वश्रुतिगताः सर्वेऽप्यन्यत्र प्रसिद्धाः नामात्मकाः शब्दा भगवद्विषया एव तत्र तत्र श्रुतैः सर्वैर्लिङ्गैरिति हि प्रथमपादस्यार्थः । तत्र यानि लिङ्गान्यसन्दिग्धानि तानि विहायेतराणि विचार्यन्त इति को विरोधः । अत एवाशेषत इत्युक्तं प्राक् ।

२६सु०- तृतीयपादस्य प्रथमद्वितीयाभ्यां सङ्गतिमाह उभयेति ।

अनु०-उभयगतत्वं च स्यादतो लिङ्गशब्दयोः । इति संशयनुत्यर्थम्

भगवत्तदितरविषयत्वम् । अतोऽन्यत्रप्रसिद्धानां भगवत्परत्वस्य समर्थनात् । लिङ्गात्मकानां च शब्दानाम् ।

नन्वन्यवाचित्वनिरासोऽपि तत्रैव नेतर इत्यादिना विहित एव । तत्कथं शङ्कोदयः । मैवम् ।

अन्यत्र तात्पर्याभावो हि नेतर इत्यादिना दर्शितः । शक्तिस्तूभयत्र स्यादेव । तर्हि त एव पुनर्विचार्याः । सत्यम् । तेष्वेव यत्र यत्र विचारप्राप्तिस्ते विचार्यन्ते । यदा यत्रानुपपत्त्यादीनां सञ्चारः सुगमस्तान्विहायान्यत्रोभयगतत्वं शङ्केतैवेति युक्तमुक्तम् । तथा च तत्त्वित्यवधारणानुपपत्तिरिति शङ्काशेषः । इत्याशङ्कानिवृत्त्यर्थं तृतीयपादमारब्धवानिति शेषः । इत्याहेति वक्ष्यमाणेन वा सम्बन्धः । कथमियमाशङ्का तृतीये परिहृतेत्यतस्तात्पर्यमाह उभयत्रेति ।

अनु०- उभयत्र प्रतीतितः । शब्दानां वर्तमानानां सलिङ्गानां विशेषतः । समन्वयो हरावेव

हरौ तदितरत्र च । प्रतीतितो न तु वस्तुतो वर्तमानानां सलिङ्गानां शब्दानां नाम्नां लिङ्गानां च हरावेव विशेषतः परममुख्यया वृत्त्या तात्पर्येण च समन्वयः । कुत इत्यत आह यदिति ।

अनु०-यन्नैवान्यत्र मुख्यतः । शब्दा लिङ्गानि च

यद्यस्माद्वर्तन्त इति शेषः । एतदपि कुत इत्यत आह यत इति ।

अनु०-यतो नैवान्यत्र स्वतन्त्रता

स्वतन्त्रता अस्तीति शेषः । स्वातन्त्र्याभावेऽपि कुतोऽन्यत्र शब्दानां मुख्यवृत्त्यभाव इत्यत आह अस्वतन्त्रेष्विति ।

अनु०-अस्वतन्त्रेषु शब्दस्य वृत्तिहेतुर्न मुख्यतः । यतोऽतो

नन्वन्येषामस्वतन्त्रत्वात् तेषु मुख्यतः शब्दप्र वृत्तिहेतो र्गुणादेरभावात् मुख्यतः शब्दा न वर्तन्त इति चेत् । मा वर्तिषत ।

तथाऽपि विशेषतः समन्वयो हरावेवेत्येतत् कुत इत्यत आह अत इति । इतरस्य मुख्यार्थत्वाभावादित्यर्थः ।

भाव्यं खलु शब्दस्य मुख्यार्थेन । अन्यथा तदपेक्षस्यामुख्यस्यानुपपत्तेः । तथा च द्वयोः प्रसक्तयोः एकस्य मुख्यार्थत्वानुपपत्तौ इतरस्य मुख्यार्थत्वम् आवश्यकमेव । यदधीनास्त इत्यादिना युक्त्यन्तरमाह ।

अनु०- यदधीनास्ते शब्दार्थत्वमुपागताः ।अत्यल्पेनैव शब्दस्य वृत्तिहेतुगुणेन तु ।अयो यथा दाहकत्वं स एवेशः स्वतन्त्रतः ।मुख्यशब्दार्थ इति हि स्वीकर्तव्यो मनीषिभिः । इत्याह

ते भगवतोऽन्ये पदार्था भगवदपेक्षया अत्यल्पेनैव शब्दप्रवृत्तिहेतुना गुणादिना यस्मिन्भगवत्यायत्ताः सन्तः शब्दार्थत्वमुपगताः स भगवानेव ईशो निरवधिकशब्दप्रवृत्तिनिमित्तवान् । स्वतन्त्रतश्च मुख्यशब्दार्थ इति हि स्वीकर्तव्यः । इतरेषु शब्दप्रवृत्तिनिमित्तान्यल्पान्येव तान्यपि भगवदधीनानि । भगवति तु निरवधिकान्यपराधीनानि चेत्येतदसिद्धमित्यत उक्तं मनीषिभिरिति । श्रुत्यादिपरिचयवदि्भः । यो यदधीनः शब्दार्थः सोऽमुख्य इतरस्तु मुख्य इत्यत्र दृष्टान्तः । अयो यथाऽग्न्यधीनं सद् दाहकत्वं दाहकशब्दार्थत्वमुपागतम् अत एव दहतीति शब्दस्तस्मिन्नमुख्योऽग्नौ तु मुख्यस्तथेत्यर्थः । अत्रेतरस्यामुख्यार्थत्वमनूद्यत एवेति न पुनरुक्तिः । इत्याह तृतीयपादेनेति शेषः ।

२७सु०- चतुर्थपादस्य सङ्गतिं करोति एवं चेति ।

अनु०- एवं च शब्दानां नारायणसमन्वये । सिद्धेऽप्यशेषशब्दानां न कथञ्चन युज्यते । विरोधादवरत्वादेरपि प्राप्तिर्यतो भवेत् । इति चेत्

एवं चे त्यस्यैव विवरणमतीतेन पादत्रयेण केषाञ्चिच्छब्दानां नारायणसमन्वये सिद्धेऽपीति । अशेष शब्दानां नारायणे समन्वयो न युज्यते । यः प्रतिज्ञातो दुःखिबद्धावरादिशब्दानां कर्मादिविषयाणां च कथञ्चन योगेन रूढ्या वा प्रवृत्त्यनुपपत्तेरिति शेषः । कथम् । यतोऽवरादिशब्दवाच्यत्वे भगवतोऽवरत्वादेर्दोषस्य प्राप्तिर्भवेत् । तस्याश्च सर्वप्रमाणविरोधात् । कर्मक्रमादिविरोधाच्चेति । इति चेत् तत्र प्रतिविहितं सूत्रकारेणेति शेषः ।

कथमित्यतः प्रथमाधिकरणतात्पर्यमाह अवरत्वादीति ।

अनु०- अवरत्वादि द्विविधं ह्युपलभ्यते

अवरादिशब्दप्रवृत्तिनिमित्तमुपलभ्यते प्रमाणैः । हि शब्दस्तेषां प्रसिदि्धं द्योतयति । कथं द्विविधमित्यत आह परस्येति ।

अनु०-परस्यावरताहेतुर्यः स्वयं पर एव सन् । सोऽपि ह्यवरशब्दार्थो यथा राजा जयी भवेत् । अन्योऽवरत्वानुभवी

स्वयं पर एव सन्निति न प्रवृत्तिनिमित्तकथनं किन्तु स्वस्यावरत्वाभावेऽपीति प्रदर्शनार्थम् । परस्मिन्नवरत्वादिधर्मनियन्तृत्वमेकं निमित्तमित्यर्थः । तस्य प्रमितत्वदर्शनं यथेति । परगतस्य जयस्य राजाधीनत्वेन यथा राजा जयिशब्दवाच्यो भवेत् तथेत्यर्थः । अवरत्वानुभवी अन्योऽवरशब्दार्थः । अवरत्वादिमत्त्वम् अपरं निमित्तमिति यावत् । एतच्च सुप्रसिद्धमिति न प्रमाणमुक्तम् । ततः किं प्रकृत इत्यत आह तयोरिति ।

अनु०-तयोः पूर्वोऽस्ति केशवे

तयोः प्रवृत्तिहेत्वोर्मध्ये । तेनावरादिशब्दवाच्यत्वं चेति शेषः । कुतः पूर्व एवाङ्गीक्रियते न द्वितीय इत्यत आह द्वितीय इति ।

अनु०-द्वितीयो जीव एवास्ति

जीव इति जडस्याप्युपलक्षणम् । तथा च सतीश्वरत्वहानिः स्यादित्यर्थः । अधिकरणफलमाह स्वातन्त्र्यादिति ।

अनु०- स्वातन्त्र्यान्नैव दूषणम् । हरेः

परगतावरत्वादौ स्वातन्त्र्यस्यैव निमित्तत्वाङ्गीकाराद्धरेरवरत्वादिकं दूषणं न प्रसज्यत इति । एवमुत्तराधिकरणतात्पर्यमपि वक्तव्यम् ।

२८सु०- प्रथमाध्यायार्थानुवादेन द्वितीयाध्यायस्य सङ्गतिमाह एवमिति ।

अनु०- एवमशेषेण सर्वशब्दसमन्वये । उक्ते विरोधहीनस्य स्यात्समन्वयता यतः । अतोऽशेषविरोधानां कृतेशेन निराकृतिः

सर्वशब्दार्थविवरणम् अशेषेणेति । उक्ते सति द्वितीयेऽशेषविरोधानां निराकृतिरीशेन कृतेति सम्बन्धः । विरोधहीनस्यैव समन्वयस्य ।

२९सु०-तृतीयाध्यायस्य सङ्गतिमाह समन्वयेति ।

अनु०- समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णये

तदर्थयोरध्याययोरुपलक्षणमेतत् । वस्तुनिर्णये ब्रह्मनिर्णये । किं मया कार्यमिति ।

अनु०-किं मया कार्यमित्येव स्याद्बुदि्धरधिकारिणः

अयमर्थः । यद्यपि ब्रह्मविचारः कर्तव्य इत्युक्तम् । कृतश्चासौ । तथाऽपि साधनफलविचारसहितस्य ब्रह्मविचारस्य कर्तव्यतयोक्तत्वात्कृतब्रह्मविचारस्याधिकारिणो यन्मया कार्यं साधनं तत्किं कथम्भूतमिति । बुदि्धः स्यादिति । फलविषये कुत एवं बुदि्धर्न स्यादिति चेत् स्यादेव । किन्तु फलापेक्षया साधनस्य पूर्वभावित्वात् तद्विषयैवादौ स्यात् । तदिदमुक्तम् एवशब्देन । तदर्थं तृतीयोऽध्यायः प्रवृत्त इति शेषः ।

३०सु०- तद्गतानां त्रयाणां पादानां प्रागुक्तामेव सङ्गतिं स्फुटीकरोति तत्रेति ।

अनु०-तत्र भक्तिविधानार्थमभक्तानर्थसन्ततौ । उक्तायां भक्तिदार्ढ्याय प्रोक्तेऽशेषगुणोच्चये । वक्तव्योपासना नित्यं कर्तव्येत्यादरेण हि

तत्र तृतीयेऽध्याये । भक्तिविधानार्थं भक्तयुत्पादनार्थं वैराग्यार्थमिति यावत् । अभक्तानां काम्यार्थकर्मिणां पापिनां द्वेषिणां च । उक्तायां प्रथमपादेन । अशेषगुणोच्चये परमेश्वरस्य प्रोक्ते द्वितीयेन । उपासनाऽस्मिन्पादे वक्तव्यावसरप्राप्ता । ननूपासनायां को भक्तेरुपयोगो यतस्तदानन्तर्यमस्येत्यत आह नित्यमिति । यस्मादुपासना नित्यमादरेण कर्तव्या । आदरनैरन्तर्याभ्यामेव संस्कारातिशयस्योत्पादात् । आदरनैरन्तर्ये चोपासनायां नाभक्तस्य भवतः । इति तस्मादिदानीमुपासना वक्तव्येति सम्बन्धः ।

३१सु०- एवं तर्ह्युपासनैव विचारणीया । सर्वशास्त्रपरिज्ञानं प्रथमाधिकरणे कस्माद्विचार्यत इत्यत आह सेति ।

अनु०-सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी । ध्यानरूपा परा चैव

या वक्तव्यतयाऽवसरप्राप्ता सा चोपासना द्विविधैव । न त्वेकरूपैव । कथम् । एका शास्त्राभ्यासस्वरूपिणी । परा च ध्यानरूपा । अतो युक्तः प्रथमाधिकरणस्यात्रान्तर्भावः । तथाऽप्ययं क्रमः कुतः । ध्यानस्य शास्त्राभ्याससाध्यत्वात् । तदिदमुक्तं परेति । ध्यानसमाध्योरनतिभिन्नत्वाद्ध्यानशब्देन समाधिरपि गृह्यते । धारणाप्रत्याहारप्राणायामाऽऽसनयमनियमानामपि उपासनाभेदानां सत्त्वात् कथं द्वैविध्यमित्यत आह तदङ्गमिति ।

अनु०- तदङ्गं धारणादिकम्

तस्य ध्यानस्याङ्गमेव न तु स्वतन्त्रमुपासनम् । योगशास्त्रे चैतत् स्पष्टमवगन्तव्यम् । शास्त्राभ्यासस्य ध्यानाङ्गत्वेऽपि स्वतन्त्रोपासनत्वं चास्ति । ब्रह्मसाक्षात्कारहेतुत्वात् । चित्तवृत्तिनिरोधा(कत्वा)च्च । यच्चोक्तम् । अथवा सततं शास्त्रविमर्शेन भविष्यती ति ।

३२सु०- किमतो यद्युपासनावसरप्राप्ता द्विविधा चेति । तत्राह तथेति ।

अनु०-तथोभयात्मकं चैव पादेऽस्मिन् बादरायणः । आहोपासनमद्धैव विस्तराच्छतिपूर्वकम्

तथा तस्मादवसरप्राप्तत्वात् । अस्मिन्नेवेति सम्बन्धः । उपासनमेवेति च (वा) । तेन परेषामिदानीं तु प्रतिवेदान्तं विज्ञानानि भिद्यन्ते न वेति विचार्यत इति पादार्थकथनं निराकरोति । तथा हि । किं भेदाभेदौ, विरोधाविरोधौ, उत विलक्षणत्वाविलक्षणत्वे । नाद्यः । गतार्थत्वात् । द्वितीये ब्रह्मणोऽखण्डत्वेन प्राप्त्यभावः ।

सगुणब्रह्मविषया प्राणादिविषया चेयं चिन्तेति चेन्न । प्रकृतविषयप्रयोजनविरुद्धत्वेनाकर्तव्यत्वादिति । अद्धा उपयुक्तप्रमेयेण सह । अत एव विस्तरात् ।

अनेन केषाञ्चिदधिकरणानामनन्तर्भावशङ्का निराकृता भवति । श्रुतिग्रहणमुपलक्षणम् । अत्र सङ्गतिकथनप्रस्तावेऽपि केषाञ्चित्सूत्राणामर्थव्याख्यानं सङ्गतिसमर्थनार्थमेवेति न दोषः ।

३३सु०- एवं सङ्गतिमभिधायैतत्पादाधिकरणेषु पूर्वपक्षयुक्तः सिद्धान्तयुक्तश्च सङ्ग्रहेणाह पृथग्दृष्टिरित्यादिना ।

अनु०-पृथग्दृष्टिरशक्यत्वमनिर्णीतिः समुच्चयः । विशेषदर्शनं कार्यलेपो नानोक्तिराशुता । विभ्रमोऽपाकृतिर्लिङ्गमनवस्था विशेषिता । अप्रयोजनता चातिप्रसङ्गो दूरसंश्रयः । विशिष्टकारणं चेष्टा दृष्टवैरूप्यमुन्नतिः । अनुक्तिरप्रयत्नत्वं दृढबन्धपराभवौ । पुंसाम्यं प्राप्तसन्त्यागः कारणानिर्णयो भ्रमः । विशेषदर्शितालापौ गुणसाम्यं पृथग्दृशिः । अगम्यवर्त्मसन्धानमिष्टं फलमकल्पना । शुद्धवैरूप्यमङ्गत्वमविशोषदृशिः क्रिया । युक्तयः पूर्वपक्षस्थास्सुज्ञेयत्वं विधिक्रिया । माहात्म्यमल्पशक्तित्वं यथायोग्यफलं भवः । फलसाम्यं विशेषश्च गुणाधिक्यं प्रधानता । यथाशक्ति क्रिया सन्धिः प्रमाणबलमानतिः । कारणं कार्यवैशेष्यं स्वभावो वस्तुदूषणम् । प्रतिक्रियाविरोधश्च प्रतिसन्धिरनूनता । संस्कारपाटवं स्वेच्छानियतिर्वस्तुवैभवम् । विशेषोक्तिरमानत्वं प्राधान्यं प्रीतिरागमः । सुस्थिरत्वं कृतप्राप्तिरनादिगुणविस्तरः । साधनोत्तमता नानादृष्टिशिष्टिरनूनता । अविघ्नत्वाविरोधौ च गुणवैशेष्यमागमः । सिद्धान्तनिर्णया ह्येता युक्तयोऽव्याहताः सदा ।

अव्याहताः सदेति सिद्धान्तयुक्तित्वसमर्थनम् ।।

।। इति न्यायमालास्थलानि ।।

न्यायसुधा

।। अथ सर्ववेदा(न्तप्रत्यया)धिकरणम् ।।

ब्र०सू०- ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ ।।

३४सु०- अत्र ध्यानोपासनार्थिभिः किं स्वस्वशाखा एवाध्ययनश्रवणमननैर्ज्ञातव्याः किंवा सर्वेऽपि वेदा इति संशये शाखाभेदस्य सुप्रसिद्धत्वादन्यथा तदनुपपत्तेः प्रथमपक्ष एव ज्यायानिति प्राप्ते सिद्धान्तितं सर्ववेदान्तप्रत्ययमिति । तत्र सर्वशब्दोऽसङ्कुचितवृत्तिरिति प्रतीतिनिरासाय व्याचष्टे यथाशक्तति ।

अनु०-यथाशक्तयखिलान्वेदान्विज्ञायोपासनं भवेत्

विज्ञायावस्थितस्येत्यध्याहारात् समानकर्तृकतासिदि्धः । उपासनं कुर्वाणो भवेदिति वा । उपासनं कुर्वीतेति वा । भवेदित्यस्योत्तरवाक्येऽन्वयः । अत्र यथाशक्तयखिलान्वेदान्विजानीयादित्येव वक्तव्यम् । तथाऽप्यत्रोच्यमानं सर्वपरिज्ञानं ध्यानोपासनाङ्गमिति दर्शयितुमेवमुक्तम् । ततश्च परेत्युक्तं विवृतं भवति ।

३५सु०- यथाश्रुत एवार्थोऽस्तु किं विशेषणेनेत्यत आह तत्रेति ।

अनु०-तत्राखिलस्य विज्ञप्तिः सम्यग्ब्रह्मण एव हि । तदन्येषां यथायोगमखिलज्ञप्तिरिष्यते

तत्रोपासकेषु यस्मात् सम्यग् अखिलस्य वेदस्य विज्ञप्तिर्ब्रह्मण एव युक्ता भवेन्नान्येषां तस्मादन्येषां यथायोगं यथाशक्तयेवाखिलज्ञप्तिरेष्टव्या । एतदुक्तं भवति । सर्वाधिकारिसाधारणं तावदिदं सूत्रम् । चोदनाद्यविशेषादियुक्तिभिस्तदवगमात् । संशयपूर्वपक्षासङ्गतत्वप्रसङ्गाच्च । न च सर्वेषां सर्ववेदविज्ञानं सम्भवति । वेदानामनन्तत्वात् । अल्पप्रज्ञादिमत्त्वाच्च पुंसाम् । ततो युक्तमुक्तमिति ।

यद्वा प्रथमवाक्य एव भवेदित्यनेनैवैषोऽर्थोऽभिहितः । यस्मादेवमेवोपपन्नं भवेदिति । ततः कस्य कदृशी शक्तिरिति जिज्ञासायामिदं वाक्यम् । हि शब्दः प्रसिद्धौ । योगो योग्यता । ज्ञप्ति र्ज्ञप्तिशक्तिः ।

३६सु०- उपासनायोग्यतासम्पत्तये खल्वत्र सर्वविज्ञानमुच्यते । न चाल्पवेदज्ञस्य सा भवति सर्वैश्च वेदैः परमो हि देवो जिज्ञास्योऽसौ नाल्पवेदैः प्रसिद्ध्येदि त्यादिश्रुतेः । अतः सर्वशब्दो मुख्यार्थ एव व्याख्यातव्यः । अत एव यद्यप्यस्मदादीनामस्मिञ्जन्मनि सर्ववेदज्ञानमसम्भवि । तथाऽपि तादृशं जन्म कल्पनीयं यत्रेदं सम्भवतीत्यत आह तावतेति ।

अनु०-तावतोपासने योग्यो भवेदेवाखिलः पुमान्

यथाशक्ति विज्ञानमात्रेण । अयमभिसन्धिः । ध्यानोपासने वेदज्ञानस्य कथमुपयोगः । ध्येयाज्ञाने ध्यानायोगादिति चेत् । तर्हि सर्वेषां सर्ववेदार्थध्यानाभावस्य वक्ष्यमाणत्वान्न सर्ववेदज्ञानमुपयुक्तम् । सत्यम् ।

तथाऽप्यधिगतैकशाखस्य शाखान्तरेऽन्यथोक्तिशङ्कया ध्यानासम्भवात् सर्व(वेद)परिज्ञानमावश्यकमिति चेन्न । गतिसामान्यानुमानेनैव शङ्कानिरासस्योक्तत्वात् । अन्यथा परस्परविरोधेन वेदाप्रामाण्यापत्तेः । ततः श्रुतिर्यथाशक्तत्येव व्याख्येयेति ।

३७सु०- यथाशक्ति वेदज्ञानं भगवदुपासनोपयुक्तं न सर्ववेदज्ञानावश्यम्भाव इत्यत्र पुराणवाक्यमपि पठति महत्त्वस्येति ।

अनु०-महत्त्वस्य परं पारं विदित्वैव जनार्दनः । स्तोष्यतामेति तुष्टत्वमिति नास्त्येव नारद । किन्तु निश्चलया भक्तया ह्यात्मज्ञानानुरूपतः । यः स्तोष्यति सदा भक्तस्तुष्टस्तस्य सदा हरिः । इत्यादिवाक्यसन्दर्भाद्यथायोग्याखिलज्ञता ।

महत्त्वस्य परं पारं विदित्वा इति सर्ववेदज्ञत्वमुच्यते । वेदेन विना भगवन्महत्त्वस्य ज्ञातुमशक्यत्वात् । स्तोष्यतामिति ध्यानस्याप्युपलक्षणम् । समानन्यायत्वात् । नास्त्येवेति नियमनिषेधः । यथायोग्याखिलज्ञता ध्यानोपयोगिनीति विज्ञायत इति शेषः ।

यथायोग्येति कथम् । अव्ययीभावस्य नपुंसकत्वेन यथायोग्यमिति भाव्यम् । सत्यम् । यथायोग्याखिलज्ञतेति समासोऽयमित्यदोषः । यद्वा यथा यादृशी योग्या तथैवेति भिन्ने एवैते पदे ।

३८सु०- नन्वत्रात्मज्ञानमेवोपासनोपयोगित्वेनोच्यते । न तु यथाशक्तिज्ञानम् । अतो न प्रकृतोपयोगीदं वाक्यमित्यत आह आत्मेति ।

अनु०-आत्मज्ञानानुरूपत्वं यथाशक्तिविचारणात्

अत्रोपासनस्यात्मज्ञानानुरूपत्वं नाम यथाशक्ति वेदविचारणाद्भावित्वमेव । अन्यथा वाक्यस्यासङ्गतत्वप्रसङ्गादिति भावः । सर्वज्ञाननियमे निराकृते किन्त्वि त्याशङ्कायां यथाशक्तिज्ञानं हि वक्तव्यम् । न त्वात्मज्ञानम् । न हि परज्ञानं प्राङ् निराकृतम् । तस्मादात्मज्ञानं नामात्मयोग्यं ज्ञानमित्येव व्याख्येयमिति ।

३९सु०- कुतः सर्ववेदज्ञानमित्यतश्चोदनाद्यविशेषादित्युक्तम् । तत्र शाखाभेदस्य सुप्रसिद्धत्वाच्चोदनादिकमपि विशेषनिष्ठं व्याख्यातव्यमित्यतो युक्तयन्तरमाह सूत्रकारः-

ब्र०सू०- ॐ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्चेति ॐ ।।

तत्र हीत्यन्तं व्याचष्टे वेद इति ।

अनु०-वेदः कृत्स्नोऽधिगन्तव्यः स्वाध्यायाध्ययनं भवेत् । इत्यादिवाक्यवैयर्थ्यमन्यथा न निवार्यते

अनेन वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मने ति स्मृतिमुपादत्ते । स्वाध्यायाध्ययनं कर्तव्यं भवेदित्यनेन स्वाध्यायोऽध्येतव्य इति श्रुतिम् । अन्यथा स्वस्वशाखामात्रज्ञानाङ्गीकारे ।

एतदुक्तं भवति । स्वाध्यायस्य स्वाध्यायविधेः तथात्वेन सामान्यतः सर्ववेदा

ध्ययनविधायकत्वेन हेतुना सर्वज्ञानमङ्गीकरणीयम् । अध्ययनस्यार्थज्ञानपर्यन्ततास्थितेः । स्वस्वशाखामात्रज्ञानाङ्गीकारे चास्य विधेर्वैयर्थ्यापत्तेः । न च वाच्यं शाखाभेदस्य प्रसिद्ध्या स्वाध्यायपदमपि तथैव व्याख्येयमिति । स्मृत्यनुरोधेनैव श्रुतिव्याख्यानस्य न्याय्यत्वात् । स्मृतौ च कृत्स्नपददर्शनात् । शाखाभेदस्याशक्तिनिमित्तत्वोपपत्तेरिति ।

४०सु०- ननु श्रुत्यनन्तरं हिशब्देन स्मृतिः सूत्रकृतोपात्ता तत्कथमत्र विपर्ययः । उच्यते । आकाङ्क्षाक्रमेण सूत्रम् । व्याख्यानं तूपोद्घातप्रक्रिययेति न विरोधः । श्रुतिस्मृतिबलादेव यथाशक्ति सर्वविज्ञानस्यैव निश्शङ्कताहेतुत्वं कल्प्यते । भूयोदर्शनं चानुमानाङ्गमिति सुप्रसिद्धम् ।

४१सु०- आह नाध्ययनविधिप्रयुक्तमध्ययनम् । किन्त्वध्यापनविधिप्रयुक्तमेव । अध्ययनविधेर्नियोज्यरहितत्वात् । न ह्यत्र स्वर्गकामो यजेतेतिवत् कश्चिन्नियोज्यः श्रूयते ।

नापि विश्वजिदादाविव कल्पयितुं शक्यते । अध्यापनविधिनैवाध्ययनसिद्धौ कल्पकाभावात् ।

न चाध्यापनविधिरपि नियोज्यरहित इति वाच्यम् । आचार्यकरणकामस्य तत्र नियोज्यत्वात् ।

अष्टवर्षं ब्राह्मणमुपनयीतेत्यात्मनेपदश्रवणात् । सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु निय इत्याचार्यकरणे नयतेरात्मनेपदविधानात् । तमध्यापयीतेत्युपनयनाध्यापनयोरेककर्तृकताप्रतीतेः । न ह्यध्यापनमध्ययनेन विना भवतीति स्वसिद्धये परा(पेक्ष क्षेप)लक्षणेनोपादानेन अध्यापनविधिरेवाध्ययनं प्रयुङ्क्ते ।

किञ्चाध्ययने सति विधिज्ञानं ततश्चाध्ययनमितीतरेतराश्रयत्वं स्यात् । अतो नैतद्वाक्योदाहरणमत्र सङ्गतमिति ।

उच्यते । स्यादेवं यद्यध्यापनविधिप्रयुक्तमध्ययनं स्यात् । न चैवम् । अध्यापनस्य जीविकार्थत्वात् । त्रीणि कर्माणि जीविकेति वचनात् । अध्ययनस्य च नित्यत्वात् । योऽनधीत्य द्विजो वेदानि त्यकरणे प्रत्यवायश्रवणात् ।

न च नित्यमनित्येन प्रयुज्यते । किञ्चैकस्य माणवकस्याध्यापनेन चरितार्थत्वे माणवकान्तरस्याध्ययनप्रसङ्गः । यो येनोपनीतः स तेनाध्यापनीय इति चेत् । तर्ह्युपनायके परेतेऽध्ययनाभावः स्यात् । यत्पुनरितरेतराश्रयत्वमुक्तं तत् प्रातःसन्ध्यामुपासीतेत्यादावपि समानम् । अयमप्याचार्यस्यैव विधिः । शौचाचारांश्च शिक्षयेदित्यादेरिति चेन्न । आचार्ये परेते तदभावापातात् । अतोऽध्ययनादिविधिं वृद्धाः कथञ्चिन्माणवकं बोधयन्तीत्यङ्गीकार्यमित्यलम् ।

४२सु०- समाचारेधिकाराच्च इत्येतद्व्याचष्टे अद्यापीति ।

ब्र०सू०- ॐ समाचारेऽधिकाराच्च ॐ ।।

अनु०-अद्यापि तेन देवाद्याः ृण्वते मन्वते सदा ।ध्यायन्ति च यथायोगं

यतः सर्वविज्ञानमावश्यकम्, तेनैव हि कारणेन देवाद्या अद्यापि श्रवणमनने कुर्वन्ति सदा ध्यायन्ति च । अन्यथा महामतीनां तेषामेकैकशाखाश्रवणादेरल्पीयसैव कालेन कर्तुं शक्यत्वेनाद्यापि तत्करणं न स्यादिति । यथोयोगं यथाशक्तति प्रत्येकं विशेषणम् । ृण्वत इत्यात्मनेपद उक्तम् । समाचाराच्चेत्येवोक्ते देवादीनां वेदाधिकारित्वाभावात् कथमेतदित्यतो देवताधिकरणन्यायं मा विस्मार्षीरिति सूचयितुं सूत्रकृता समाचारेऽधिकाराच्चेत्युक्तम् ।

४३सु०- यदि ब्रह्मसाक्षात्कारवन्तोऽपि देवाद्याः श्रवणाद्यनुतिष्ठन्ति तर्हि तस्य निरवधिकत्वं प्रसक्तमित्यत आह तथाऽपीति ।

अनु०-तथाऽप्यावस्तुनिर्णयात् । श्रवणं मननं चैव कर्तव्यं सर्वदैव हि

यद्यपि सूत्रकारेण देवाद्याचारः प्रमाणीकृतस्तथाऽपि, वस्तु परब्रह्मादिकम् । निर्णयो यथार्थः परोक्षो निश्चयः । प्रथमस्यैवशब्दस्यावस्तुनिर्णयादेवेति सम्बन्धः । वस्तुनिर्णयहेतुत्वाच्छ्रवणादेरिति हि शब्दार्थः ।

४४सु०-वस्तुनिर्णयपर्यन्तं श्रवणमनने कर्तव्ये इत्यसत् । निर्णीतेऽप्यर्थे पुनः कारणान्तरोपनिपातेन संशयाद्युत्पादस्य दर्शनेन वस्तुनिर्णयस्य अवधारयितुम् अशक्यत्वादित्यत आह मतीति ।

अनु०-मतिश्रुतिध्यानकालविशेषं गुरुरुत्तमः ।वेत्ति तस्योक्तमार्गेण कुर्वतः स्यादि्ध दर्शनम्

मतिः मननं श्रुतिः श्रवणम् । उत्तमः शिष्ययोग्यताभिज्ञः । कुर्वतः श्रवणादिकम् । दर्शनं ब्रह्मसाक्षात्कारः । एतदुक्तं भवति । ब्रह्मदर्शनार्थं हि श्रवणादिकम् । न च तद्यथाकथञ्चिदनुष्ठितं तत्साधनम् । किन्तु शिष्ययोग्यताभिज्ञगुरुप्रदानपूर्वकमेवेति वक्ष्यति । अतस्तादृशो गुरुरेव श्रवणादिकालविशेषमुपदेक्ष्यति । यतः परं कारणशतोपनिपातेऽपि न संशयाद्युत्पादः स्यादिति ।

४५सु०- देवाद्याः श्रवणादिकमद्यापि कुर्वन्तीति न युक्तम् । स्यादि्ध दर्शनमिति श्रवणादेस्तत्त्वदर्शनसाधनत्वस्योक्तत्वात् । देवादीनां च तत्त्वदर्शनस्यौत्पत्तिकत्वात् । यथोक्तं नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिताः इत्यादि । न च प्राप्तसाध्यः साधनमनुतिष्ठतीत्यत आह श्रवणमिति ।

अनु०-श्रवणं दृष्टतत्त्वस्य मननं ध्यानमेव च । विशेषानन्दसम्प्राप्त्या(प्त्यै)

दृष्टतत्त्वस्यापि पुंसः श्रवणं मननं ध्यानं च विशेषानन्दसम्प्राप्त्यै युज्यत एवेति योजना । एवं तर्हि श्रवणादेर्दर्शनसाधनत्वोक्तिर्व्याहन्यत इत्यत आह अन्यस्येति ।

अनु०-अन्यस्यैतानि दृष्टये

अदृष्टतत्त्वस्यैतानि श्रवणादीनि दृष्टये भवन्ति । यथा खलु समुच्चयवादिनां ज्ञानात्पूर्वाणि कर्माणि ज्ञानार्थानि । ततः पराणि तु मोक्षार्थानि । यथा च सकामानि कर्माणि संसारकारणानि निष्कामानि तु ज्ञानकारणानि । तथा श्रवणादीन्यदृष्टतत्त्वस्य ज्ञानार्थानीति न तदुक्तिव्याघातः । दृष्टतत्त्वस्य तु विशेषानन्दार्थानीति देवादीनां तदनुष्ठानं च युक्तम् । समाचारकथनं च यथाशक्ति वेदार्थश्रवणमननयोः कर्तव्यतामत्रोपोद्बलनाय कृतमिति नासङ्गतम् । विशेषानन्दं तु वक्ष्यामः ।

४६सु०- शिष्ययोग्यताभिज्ञगुरूपदेशानुसारेण श्रवणादिकं कर्तव्यमित्ययुक्तम् । तादृशस्य गुरोर्दुर्लभत्वेन श्रवणाद्यभावापत्तेः । लभ्यमानोऽप्यसावनुष्ठितश्रवणादिना आध्यात्मिकशक्तिसम्पन्नेनैव शिष्येण लभ्यते नान्येन । तथा चान्योन्याश्रय इत्यत आह यदीति ।

अनु०-यदि तादृग्गुरुर्नास्ति निर्णीतश्रवणादिकम् । तत्सिद्धान्तानुसारेण निर्णयज्ञात्समाचरेत्

द्विविधं शास्त्रं निर्णीतं निर्णेतव्यं च । तत्राद्यं ब्रह्मसूत्रादिकं, द्वितीयं वेदादिकम् । तत्र निर्णीतस्य श्रवणादिकं समाचरेत् । सर्वज्ञानां सिद्धान्तानुसारेण यो निर्णयं जानाति तस्मात् । इदमुक्तं भवति । मुख्यस्य गुरोः प्रथममलाभेऽपि न श्रवणाद्यभावापत्तिः । अमुख्यादपि गुरोस्तदुपपत्तेः । तत्र मुख्यवदमुख्यस्य अतिगहनवेदादिव्याख्यानसामर्थ्याभावेऽपि निर्णीतव्याख्यानमुपपद्यत एव ।

न च निर्णीतशास्त्रस्यापि व्याख्यानविप्रतिपत्त्याऽभिप्रायो दुरधिगम इति वाच्यम् । सर्वज्ञप्रणीतोपायग्रन्थानुसारेणामुख्यस्यापि गुरोस्तदवगमसम्भवात् । एवं च अमुख्ये श्रवणादावनुष्ठिते मुख्योऽपि गुरुर्लभ्यत इति ।

४७सु०- सर्वज्ञस्य गुरोः । श्रवणाद्यङ्गत्वे तदभावे श्रवणाद्यभाव एव कुतो नाङ्गीक्रियते किमनेन अमुख्येन श्रवणादिना । सर्वज्ञगुरुप्राप्तिस्तु पुण्योपचयेनापि भविष्यतीत्यत आह श्रवणादीति ।

अनु०-श्रवणादि विना नैव क्षणं तिष्ठेदपि क्वचित्

सन्ति तावत् सर्वदा श्रवणादिकं कर्तव्यं क्षणमपि न त्याज्यमित्येवमर्थाः श्रुतिस्मृतयः स्वाध्यायप्रवचने एवेति नाको मौद्गल्य इत्याद्याः । तत्र च सर्वज्ञो गुरुरङ्गम् । तदलाभे तु गुणे त्वन्याय्यकल्पनमिति न्यायेन यादृशतादृशमपि श्रवणादिकं कार्यमेवेतीति भावः ।

नन्वेताः श्रुतय एवानुपपन्नार्थाः । अपरिहार्यनिद्राद्युपद्रवप्राप्तौ श्रवणादेः कर्तुमशक्यत्वात् । न ह्याकाशरोमन्थनं शक्यविधानमित्यत आह अतीति ।

अनु०-अत्यशक्ये तु निद्रादौ पुनरेव समाचरेत्

परिहर्तुमशक्ये निद्रादौ प्राप्ते तु पुनरेव तदपगमनानन्तरमेव श्रवणादिकं समाचरेत् । अयमभिप्रायः । यथा सायम्प्रातरग्निहोत्रं जुहोतीत्यादिविधयः सन्निपाताद्युपप्लवसम्भवेऽपि नानुपपन्नास्तथा प्रकृतेऽपीति ।

४८सु०- निर्णयज्ञस्य गुरोरभावे किं श्रवणाद्यभाव एव, नेत्याह अभाव इति ।

अनु०-अभावे निर्णयज्ञस्य सच्छास्त्राण्येव सर्वदा । ृणुयात्

निर्णयज्ञस्य गुरोरभावेऽपि यादृशतादृशात् सर्वदा ृणुयात् । मन्वीत च । न हि गुणालाभे मुख्यपरित्यागो युक्त इति भावः । वेदादिश्रवणे सर्वज्ञो गुरुरपेक्षितः । तदितरश्रवणे तु निर्णयज्ञः सर्वज्ञकल्पः । द्वयोरभावेऽपि श्रवणादिकं चेदनुष्ठेयं तदाऽसच्छास्त्राणामिति प्रतीतिः स्यात् । अतः सच्छास्त्राण्येवेत्युक्तम् । यादृशतादृशात् ृणुयादित्यनेनातिप्रसक्तौ सत्यामाह यदीति ।

अनु०-यदि सज्ज्ञानप्राचुर्यमुपलभ्यते

यदि तस्मिन्पुरुषे स्वापेक्षया सम्यग्ज्ञानादिप्राचुर्यमुपलभ्यते तर्हि ततः ृणुयात् । न त्वधमात् । वैयर्थ्यात् । न ह्यदृष्टमात्रार्थं श्रवणादिकमिति भावः ।

४९सु०- स्वतोऽधिकस्य पुरुषस्य प्रबन्धेन व्याख्यानासम्भवे किं श्रवणाद्यभाव एवेत्याकाङ्क्षायामाह महद्भ््य इति ।

अनु०-महद्भ््यो विष्णुभक्तेभ्यो यथाशक्ति च संशयान् । छिन्द्यात्

स्वतो महद्भ््यो, महत्त्वं च न सज्ज्ञानमात्रेण किन्तु विष्णुभक्तयादिगुणैश्चेत्युक्तं विष्णुभक्तेभ्य इति । तादृश एव ह्यादरमुत्पादयन् व्याख्याति । सादरमेव च श्रवणादिकं फलायालम् । संशयान् अज्ञानविपर्ययांश्चेति श्रवणादिफलमुक्तम् । एकस्मात्प्रबन्धेन श्रवणाद्यसम्भवेऽपि बहुभ्यो महद्भ््यो यथाशक्ति यथासम्भवमेकैकदेशश्रवणादिकमपि कुर्यादेव । तेनापि संशयादिच्छेदस्य श्रवणादिफलस्य लाभादिति भावः ।

५०सु०- स्वतोऽधिकाभावे कथं श्रवणादीत्यत आह स्वत इति ।

अनु०- स्वतोऽधिकाभावे स्वयमेव समभ्यसेत् ।ब्रूयादपि च शिष्येभ्यः

अपिचा वितरेतरयोगे । श्रुताऽऽवृत्तिप्रवचनाभ्यामभिनवोत्प्रेक्षोदयात् तेऽपि श्रवणादिफलं प्रसुवाते ।

सम्यक् श्रवणादिरहितो व्याचक्षाणाः स्खलनेन प्रत्यवेयात् । तत्कथमुच्यते शिष्येभ्यो ब्रूयादिति तत्राह सदिति ।

अनु०-सत्सिद्धान्तमहापयन्

ब्रूयात् इति सम्बन्धः । प्राणाणिकतयाऽभिमतोऽर्थः सिद्धान्तः । न तु प्रामाणिक एवेति नियमः । तथात्वे शब्दनित्यत्वं केषाञ्चित्सिद्धान्तः । केषाञ्चित्तदनित्यत्वमिति न स्यात् । द्वयोः प्रामाणिकत्वायोगात् । अयं तु न तथा । अपि तु प्रामाणिक एवेत्यतः सदित्युक्तम् । स्वार्थिको णिच् । अजहदित्यर्थः ।

यद्वा शिष्यैरहापयन् । सत्सिद्धान्तहानिरेव महतः प्रत्यवायस्य हेतुरिति वक्ष्यामः । क्षुद्रस्खलितं त्वल्पीयस एव । न च तावता महाप्रयोजनव्याख्यानत्यागः । तथा सति मृगभयाद्बीजानावापप्रसङ्गादिति भावः ।

५१सु०- कोऽसौ सत्सिद्धान्तो यो न हातव्यः । द्विविधः सत्सिद्धान्तः परापरभेदात् । प्रत्येकं द्विविधो वाचनिक आनुषङ्गिकश्च । तत्र वाचनिकं परं सत्सिद्धान्तं तावदाह अशेषेति ।

अनु०-अशेषगुणपूर्णत्वं सर्वदोषसमुज्खितिः । विष्णोरन्यच्च तत्तन्त्रमिति सम्यग्विनिर्णयः

अन्यत् तत्तन्त्रमिति सकलजगज्जन्मादिकारणत्वमुच्यते । निर्णीयत इति निर्णयः । सम्यग्विनिर्णयो वाचनिकः परसिद्धान्तः । साक्षाद्ब्रह्मस्वरूपावधारणपरे जन्मादिसूत्रे खल्वभिहितोऽयमर्थः ।। आनुषङ्गिकं परसिद्धान्तमाह स्वतन्त्रत्वमिति ।

अनु०-स्वतन्त्रत्वं सदा तस्य तस्य भेदश्च सर्वतः

स्वतन्त्रत्वं स्वाधीनसत्त्वादिमत्त्वम् । तस्य विष्णोः । द्वितीयस्तस्येतिशब्द उत्तरत्र सम्बध्यते । सर्वतो भेदश्चेति । प्रकृतिजीवजडेभ्योऽत्यन्तभिन्नत्वम् ।

नन्वेतदप्यसम्भवस्तु सतो नात्माऽश्रुतेः पृथगुपदेशादित्यादिनाऽभिहितमेव । तत्कथमानुषङ्गिकः सिद्धान्तः । सत्यम् । तथाऽपि प्रधानप्रमेयोपयोगितयोक्तत्वाददोषः । स्वगतभेदवर्जितत्वादेरुपलक्षणमेतत् । इति सम्यक् स्थितिरिति वक्ष्यमाणेनान्वयः ।

५२सु०- कथमस्यार्थस्यानुषङ्गिकत्वमित्यत आह अदोषत्वस्येति ।

अनु०-अदोषत्वस्य सिद्ध्यर्थं

विष्णोरदोषत्वस्य सिद्ध्यर्थमङ्गीकार्योऽयमर्थ इति शेषः । उपलक्षणमेतत् । अशेषगुणपूर्णत्वस्य सकलजगज्जन्मादिकारणत्वस्य चेत्यपि द्रष्टव्यम् । अनेन कथं तत्सिदि्धरित्यत आह यदिति ।

अनु०- यदभेदे तदन्वयः

यस्माज्जगताऽभेदे विष्णोर्दोषसम्बन्धः प्रसज्यते तस्मादिति पूर्वेण सम्बन्धः । अत्राप्यभेद इत्यस्वातन्त्र्यस्याप्युपलक्षणम् । तदन्वय इति च गुणपूर्त्याद्यभावस्यापि । अन्यत्तत्तन्त्रमित्यन्यशब्दोऽमुक्तविषय इति प्रतीतिः स्यात् तदर्थमाह तत्तन्त्रत्वं चेति ।

अनु०-तत्तन्त्रत्वं च मुक्तानामपि

च शब्दो वक्ष्यमाणेन भेदेन सह समुच्चयार्थः । अङ्गीकार्यमिति शेषः । किमर्थमिदमङ्गीकार्यं जन्मादिसूत्रस्यामुक्तविषयतयाऽप्युपपत्तेरित्यत आह तदिति ।

अनु०- तद्गुणपूर्तये

न हि मुक्तानां तत्तन्त्रत्वेन विना तस्य निरर्गलमैश्वर्यं सिद्ध्यति । न च तदन्तरेण गुणपूर्तिर्भवतीति । स्यादेतत् । यदि मुक्ताः परमात्मनो भिन्नाः स्युः । न च तथा । तत्किं तत्तन्त्रत्वेनेत्यत आह मुक्तानामपीति ।

अनु०-मुक्तानामपि भेदश्च

परमात्मनः अत्यन्तभेदश्च अङ्गीकार्यः । अनेन तस्य भेदश्च सर्वतः इत्येतदपि विवृतं भवति । किमर्थमित्यतः प्रयोजनं वक्तुं पीठमारचयति न हीति ।

अनु०- न हि भिन्नमभिन्नताम् । गच्छद्दृष्टं क्वचित्

मुक्तानां परमात्मनाऽभेदो भवत्, न तावत् प्राग्भिन्नानाम् । भिन्नस्याभेदावाप्तेः क्वाप्यदर्शनात् । न केवलमदर्शनं किं तर्हीत्यत आह तस्येति ।

अनु०- तस्याप्यभावोऽनुभवोपगः

भिन्नमभिन्नतां गच्छतीत्यस्यार्थस्याभावोऽनुभवसिद्धोऽपि । ततः संसारेऽप्यभिन्नानामेव मुक्तावभेदो व्यज्यत इत्येव वक्तव्यम् । तथैवास्त्वित्यत आह पूर्वेति ।

अनु०-पूर्वाभेदे दोषवत्त्वमीशस्येत्यतिभिन्नता । नारायणेन मुक्तानामपि सम्यगिति स्थितिः ।

समर्थितं तावद् दुःखादिरूपोऽयं संसारः सत्य इति । ततः संसारेऽपि जीवानां परमात्मना भेदे तस्य दोषवत्त्वं स्यात् । इतिशब्दो हेतौ । सम्यक् स्थितिः सत्सिद्धान्त आनुषङ्गिकः पर इति शेषः ।

५३सु०- नन्वतिभिन्नता किमर्था भेदाभेदोपपत्तेरित्यत आह भेदेति ।

अनु०-भेदाभेदेऽप्यभेदेन दोषाणामपि सम्भवः

भेदेन सहितोऽभेदो भेदाभेदः । विप्रतिषिद्धं चानधिकरणवाची ति द्वन्द्वैकवद्भावो वा । अत्रापि पूर्वन्यायेन संसारेऽपि भेदाभेदावङ्गीकार्यौ । ततश्चाभेदेन दोषाणामपि सम्भवः । भेदेन तत्परिहारो भविष्यतीति चेत् तर्हि किमजागलस्तनायितेनाभेदेनेति । इदानीमपरं सिद्धान्तमाह निर्दोषत्वमिति ।

अनु०-निर्दोषत्वं रमायाश्च

तथा परमेश्वरवद्रमायाश्च निर्दोषत्वम् । यथोक्तं कामादितरत्र तत्र चायतनादिभ्यः , समना चासृत्युपक्रमादमृतत्वं चानुपोष्ये ति ।। निर्दोषत्वमित्युक्तया पारतन्त्र्यमपि नास्तीति प्रतीतिनिरासार्थमाह तदिति ।

अनु०- तदनन्तरता तथा

परमेश्वरानन्तरता तदधीनतेति यावत् । यद्वाऽनेनापरसिद्धान्तान्तरमाह एकस्माद्भगवत एवावरत्वमिति । तदप्युक्तम् अस्यैव चोपपत्तेरूष्मे ति । सिद्धान्तान्तरमाह ब्रह्मेति ।

अनु०-ब्रह्मा सरस्वती वीन्द्रशेषरुद्राश्च तत्स्त्रियः । शक्रकामौ तदन्ये च क्रमान्मुक्तावपीति च । सत्सिद्धान्त इति ज्ञेयो

मुक्तौ संसारेऽपि । प्रोक्तात्क्रमात्तिष्ठन्तीत्यर्थः । अत्र द्वन्द्वनिर्दिष्टानां साम्यमन्येषां तारतम्यमिति ज्ञेयम् । एतच्चोक्तमियदामननादिति । उपलक्षणं चैतत् । प्रपञ्चसत्यत्वादिकमपि ग्राह्यम् । कुतोऽयमशेषगुणेत्यादिसत्सिद्धान्त इत्यत आह निर्णीत इति ।

अनु०-निर्णीतो हरिणा स्वयम्

हरिणा सूत्रकारेण स्वयं साक्षा न्निर्णीतो न तु बलात् सूत्रार्थतया कल्पितः । तच्च तत्र तत्र दर्शितमेव ।

५४सु०- सत्सिद्धान्तमहापयन्नित्युक्तम् । तद्धानौ को दोष इत्यत आह एतदिति ।

अनु०-एतद्विरोधि यत्सर्वं तमसेऽन्धाय केवलम्

ज्ञानं सदित्यर्थः । विरोधि ज्ञानमेव हि । अस्य त्यागः । अन्धाय भवतीति शेषः । केवलमिति न कदाऽपि न सुखायेत्यर्थः । कुत एतदित्यत आह अन्धमिति ।

अन्धन्तमो विशन्तीति प्राह श्रुतिरतिस्फुटम्

अनेन अन्धन्तमः प्रविशन्ति योऽविद्यामुपासत इति श्रुतिमुपादत्ते । उक्तार्थस्य प्रामाणिकत्वं वक्ष्यते । अतस्तद्विरुद्धप्रतीतिरविद्या भवत्येव । अतिस्फुटमित्यनेन परेषां व्याख्यानं पराचष्टे । तथा च वक्ष्यामः ।

५५सु०- ननु च वस्तुतः प्रामाणिकः सत्सिद्धान्तः । प्रकृतस्य कथं प्रामाणिकत्वमित्यत आह इत्येवेत्यादिना सादरमित्यन्तेन ।

अनु०-इत्येव श्रुतयोऽशेषाः पञ्चरात्रमथाखिलम् । मूलरामायणं चैव भारतं स्मृतयोऽखिलाः । वैष्णवानि पुराणानि साङ्ख्ययोगौ परावपि । ब्रह्मतर्कश्च मीमांसेत्यनन्तः शब्दसागरः । अनन्ता युक्तयश्चैव प्रत्यक्षागममूलकाः । प्रत्यक्षमैश्वरं चैव रमादीनामशेषतः । मुक्तानामप्यमुक्तानामेतमेवार्थमुत्तमम्

इत्येवेत्युक्त प्रकारावधारणम् । एतमेवार्थमिति प्रकृतधर्म्यवधारणम् । तेन व्यत्यासमपि वारयति । अशेषा इति श्रुतिभागस्य कर्मादिपर्यवसायित्वनिरासार्थम् ।

अथ शब्दः समुच्चये । अखिलमिति जीवजननादिवाक्यानामप्युपादानार्थम् । मूलरामायणमेवे त्यवान्तररामायणानां व्युदासः ।

अखिला इति बहुवचनविषयविवरणार्थम् ।

इतरपुराणानां पाशुपतादिमूलत्वेन अप्रामाण्यात् वैष्णवानी त्युक्तम् ।

पराविति अर्वाचीनसाङ्ख्ययोगव्यावृत्तये । तयोरप्रमाणत्वात् । मीमांसा त्रिविधा ।

शब्दसागरः प्रकाशयतीति सम्बन्धः ।

युक्तयश्च प्रकाशयन्ति प्रत्यक्षागममूलका एव । न त्वाभासाः । प्रत्यक्षं च प्रकाशयति । एवशब्देनेश्वरप्रत्यक्षस्य प्राबल्यं सूचयति ।

कर्मकाण्डादीनामेतदर्थप्रकाशकत्वं कथमित्यत उक्तम् उत्तममिति । कर्मादेरुत्तानार्थत्वेऽप्युत्तमोऽर्थोऽयमिति भावः ।

वेदादीनामन्यथाव्याख्यानं वारयति अन्यावकाशरहितमिति ।

अनु०-अन्यावकाशरहितं प्रकाशयति सादरम्

क्रियाविशेषणमेतत् । सादरमिति तत्र तात्पर्यसद्भावमाचष्टे । एतदर्थं(र्थे) च श्रुत्यादिकमन्यत्र पठितमेव द्रष्टव्यम् ।

५६सु०- सत्सिद्धान्तमहापयन् सच्छास्त्राण्येव सर्वदा ृणुयात् इत्युक्तम् । तत्र स(त)त्सिद्धान्तस्वरूपं निरूप्य सच्छास्त्राण्येव सर्वदा षृणुयादित्येतद्विवृणोति एतदेव चेति ।

अनु०-एतदेव च सच्छास्त्रं दुश्शास्त्रं तु ततःपरम् ।सच्छास्त्रमभ्यसेन्नित्यं दुश्शास्त्रं तु परित्यजेत्

एतत् वेदादिकम् । ततःपरं तद्विरुद्धं तदुदासीनं च । ऋगाद्या भारतं चैवेत्याद्यागमोऽत्र स्फुट एव । दुश्शास्त्रं नाभ्यसेदिति वक्तव्ये परित्यजेत् इति वचनं न केवलं तत्रोदासीनत्वं किन्तु हेयतया ज्ञानमपि भाव्यमिति ज्ञापयितुम् । अत्र चासच्छास्त्राधिगमनमिति पातकेषु परिगणनं प्रमाणम् । स्फुटानि च आचार्येण अन्यत्र अत्रार्थे वाक्यान्युदाहृतानि ।

५७सु०- सच्छास्त्रमभ्यसेदिति श्रवणमननयोः कर्तव्यत्वमुक्तं तदयुक्तम् । निदिध्यासनेनैव ब्रह्मदर्शनोपपत्तेः । अन्यथा तद्वैयर्थ्यादित्यत आह असंशयेनेति ।

अनु०-असंशयेन तत्त्वस्य निर्णये ब्रह्मदर्शनम्

संशय शब्देन विपर्ययोऽपि लक्ष्यते । निर्णये सति निदिध्यासनेन ब्रह्मदर्शनं भवतीति योज्यम् । एतदुक्तं भवति । सत्यं निदिध्यासनं ब्रह्मदर्शनसाधनमिति । किं तु तत्सिद्धये श्रवणमनने अपि कर्तव्ये । अवितथं ब्रह्मानुचिन्तनं हि निदिध्यासनम् । वितथानुचिन्तनस्य चतुर्थे निराकरिष्यमाणत्वात् । न चाविदितस्यानुचिन्तनं सम्भवतीति । तद्वेदनार्थं श्रवणमभ्यर्थनीयम् । श्रुते चार्थे लिङ्गाभासप्रतिभासेन संशयविपर्ययोदयेन वितथं तद्भवतीति तद्व्युदासहेतुर्मननमप्येष्टव्यमिति ।

५७असु०- अन्ये पुनर्मन्यन्ते । श्रवणमेव ब्रह्मापरोक्षज्ञानसाधनम् । मनननिदिध्यासने श्रवणं प्रति फलोपकार्यङ्गभूते । असम्भावनाविपरीतभावनाख्यचित्तविप्रतिबद्धं हि ब्रह्मापरोक्षज्ञानं नाविद्यानिर्मूलनस्येष्टम् । मननादिकं च प्रतिबन्धं निवर्तयतीति । तदसत् । शब्दस्य साक्षात्कारकारणतायाः क्वाप्यदर्शनात् । ब्रह्मविषयशब्दवद्धर्मादिविषयस्यापि तथात्वापत्तेश्च । न च विशेषहेतुरस्ति । येन ब्रह्मविषयस्यैव तद्भावो न धर्मादिविषयस्येति प्रतीमः । प्रत्यक्षलक्षणाक्रान्ततया शब्दस्य तत्रान्तर्भावश्चापद्येत ।

अथ मतम् । दृश्यते तावद्दशमस्त्वमसीत्यादिवाक्यस्य साक्षात्कारकरणत्वम् । न च तत्रापीन्द्रियमेव करणं न शब्द इति साम्प्रतम् । शब्दस्याप्यन्वयव्यतिरेकसिद्धत्वात् ।

अस्तु तर्हीन्द्रियमेव करणं शब्दस्तु सहकारीति चेन्न । वैपरीत्यस्यापि सुवचत्वात् । तथाऽपि कुतो विनिगमनमिति चेत् । क्वचिद्बहुलतमे तमसि क्वचिच्च लोचनविरहिणोऽपि वाक्याद्दशमोऽस्मीत्यपरोक्षप्रतीतिदर्शनादिति वदामः । धर्मादिविषयस्यापि शब्दस्यापरोक्षज्ञानसाधनत्वापादनं चासत् । वैषम्यात् । प्रकृतो हि शब्दोऽपरोक्षब्रह्मात्मविषयः । न तथाऽन्यः ।।

अस्ति चास्यापरोक्षज्ञानसाधनत्वे प्रमाणम् । नान्यस्य । तथा हि विमतं श(शा)ब्दज्ञानमपरोक्षम्, अपरोक्षविषयत्वात्, सुखादिज्ञानवत् । अपरोक्षत्वं वेदान्तवाक्याजन्यज्ञानवृत्ति, अपरोक्षज्ञाननिष्ठात्यन्ताभावाप्रतियोगित्वात्, ज्ञानत्ववत् इति ।

न च विवादाध्यासितः शब्दोऽपरोक्षज्ञानजनको न भवति, शब्दत्वात्, ज्योतिष्टोमादिवाक्यवदिति युक्तम् । दशमस्त्वमसीत्यादौ व्यभिचारात् । श्रूयते च तद्धास्य विजिज्ञौ तमसः पारं दर्शयती त्युपदेशमात्रादेवापरोक्षप्रमितिजन्म । अत एव ब्रह्मात्मविषयवाक्यान्यत्वेन प्रत्यक्षलक्षणं विशेषणीयमिति ।

५८सु०- अत्रोच्यते । यत्तावदुक्तं दशमस्त्वमसीत्यादिवाक्यादपरोक्षज्ञानजन्मोपलब्धमिति तदसङ्गतम् । दशत्वसङ्ख्या खल्वपेक्षाबुदि्धजन्या तद्व्यङ्ग्या वेत्यतो नापाततो रूपादिकमिव प्रत्यक्षेणोपलभ्यते । ततो दशानां पूरणो दशमोऽपि तथा । अतः प्रथमं शब्देन परोक्षज्ञाने जातेऽनन्तरं लब्धसहायेन प्रत्यक्षेणापरोक्षज्ञानं जायते । आशुभावादेकमेवापरोक्षं ज्ञानमित्यभिमानः । अन्धकारादौ तु वाक्यादुत्पन्नस्य ज्ञानस्यापरोक्षत्वं नास्त्येव । प्रतीतिकलहोऽयं निरवधिक इति चेत् ।

अत्रेदं वक्तव्यम् । शब्दस्यापरोक्षज्ञानसाधनत्वं किं स्वभावः किं वा अपरोक्षज्ञानसाधनत्वमस्याप्यागन्तुकम् । आद्ये सर्वेषामपि शब्दानां तथाभावः स्यात् । द्वितीये निमित्तं वक्तव्यम् ।

ब्रह्मात्मविषयत्वमिति चेत् । तर्हि दशमस्त्वमसीत्यादेरतथाभूतस्य नापरोक्षज्ञानसाधनत्वं स्यात् ।

अपरोक्षविषयत्वमिति चेन्न । अपरोक्षज्ञानविषयत्वातिरिक्तस्यार्थे अपरोक्षत्वस्याभावात् । तत्रैतज्ज्ञानविषयत्वेन तदुक्तावितरेतराश्रयत्वम् । ज्ञानान्तराभिप्राये तु स्वर्गादयोऽपि केषाञ्चिदपरोक्षज्ञानविषया इत्यस्माकं तद्विषयः शब्दोऽपरोक्षज्ञानं जनयेत् । एकपुरुषाभिप्रायेऽपि प्रत्यक्षावगतेऽग्नौ धूमदर्शनेनापरोक्षज्ञानजन्मप्रसङ्गः ।

शब्दस्यैवम्भाव इति चेत् । तथाऽप्यग्नौ शब्देनापरोक्षज्ञानोत्पत्तिः स्यात् । अपरोक्षतया ज्ञायमाने तथेति चेन्न । धर्मिमात्राभिप्राये प्रत्यक्षेणावगम्यमाने घटे शतपलपरिमितोऽयमिति शब्दस्य अपरोक्षज्ञानकारणतापत्तेः । प्रकाराभिप्राये तु प्रकृतेऽभावात् । न हि तत्त्वमसीत्यादिवाक्यप्रतिपाद्यं ब्रह्मात्मैक्यमपरोक्षतयाऽवभासते । तथा सति शब्दवैयर्थ्यापत्तेरिति ।

५९सु०- एतेनापरोक्षविषयत्वानुमानमपि परास्तम् ।

यच्चापरोक्षत्वमित्यादि । तज्ज्योतिष्टोमादिवाक्येऽपि तथा प्रयोगसम्भवादाभाससमानयोगक्षेमम् । ज्योतिष्टोमादिवाक्यस्यापरोक्षज्ञानसाधनत्वाभावे न किञ्चिद्बाधकमिति चेत् । सममेतद्वेदान्तवाक्येष्वपि । संसारस्याविद्यामयत्वादविद्यायाश्चापरोक्षज्ञानेन विना निबर्हणायोगात् वेदान्तवाक्यस्यापरोक्षज्ञानसाधनत्वाभावे मोक्षाभावप्रसङ्ग इति चेन्न । ज्ञाननिवर्त्यताया निरस्तत्वात् ।

चित्तैकाग्रयरूपनिदिध्यासनस्यापरोक्षज्ञानसाधनत्वोपपत्तेश्च । मनसोऽपरोक्षज्ञानसाधनत्वं क्वापि नोपलब्धमिति चेत् । तत्किं शब्दस्योपलब्धम् । यन्मनसा न मनुत इति श्रुतिविरुद्धं तदिति चेन्न । श्रुतेर्मनसैवेदमाप्तव्यमिति श्रुत्या सत्प्रतिपक्षत्वात् । चित्तैकाग्रयस्य अन्तरङ्गतापरेयं श्रुतिरिति चेत् । साऽप्यपक्वमनोविषयेति स्यात् ।

६०सु०- किञ्च शब्दस्यापि ब्रह्मज्ञानसाधनत्वं यतो वाचो निवर्तन्त इति श्रुतिविरुद्धं कथमङ्गीकार्यम् । तद्धास्य विजिज्ञावि त्यादिश्रुतयस्तु परोक्षज्ञानेनापि सार्थकाः । परम्परया अपरोक्षज्ञानसाधनत्ववादिन्यो वा । स्पष्टं हि स्मृतयो वदन्ति श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ । संशयं च पराणुद्य लभते ब्रह्मदर्शनमि ति, ृणुयाद्यावदज्ञानं मतिर्यावदयुक्तता । ध्यानं च यावदीक्षा स्यान्नेक्षा क्व च न बाध्यते इति च ।

एतेन धर्मादिवाक्येऽतिप्रसङ्गः शब्दत्वानुमानं च समाहितं वेदितव्यम् । अत एव प्रत्यक्षलक्षणे विशेषणप्रक्षेपोऽपि निरस्तः । निर्निबन्धनत्वात् ।

६१सु०- ये तु शब्द एवापरोक्षज्ञानजननाय प्रवृत्तोऽसम्भावनादिप्रतिबद्धो मनननिदिध्यासनाभ्यां प्रतिबन्धापगमे तज्जनयतीति मन्यन्ते ते प्रष्टव्याः । प्राङ्मनननिदिध्यासनाभ्यां किमसौ किमप्यकृत्वा परस्तादपरोक्षज्ञानं जनयत्युत परोक्षज्ञानं कृत्वा । नाद्यः । गृहीतसङ्गतेः शब्दाद्बोधोदयाभावस्य प्रमाणविरुद्धत्वात् । द्वितीयेऽपि विरम्यव्यापारापत्तिः । ततो वरं शब्दस्य तावतैव चरितार्थत्वकल्पनमित्येषा दिक् ।

६२सु०- यदुक्तं यथाशक्ति श्रवणमनने कर्तव्ये इति तदयुक्तम् । पुरुषशक्तनां तारतम्यवत्त्वेन श्रवणादेरपि तारतम्यापत्तेः । न च तथाऽस्त्विति वाच्यम् । तत्साध्यस्य ज्ञानस्यैकविध्यत्वेन वैयर्थ्यप्रसङ्गात् । न च वाच्यं ज्ञातव्यस्य ब्रह्मणोऽपरिमितत्वात् तत्तज्ज्ञानान्यपि तारतम्यवन्तीति । तत्फलस्य मोक्षस्य तारतम्यरहितत्वेन वैयर्थ्यापरिहारात् । न खलु बन्धविध्वंसस्य तारतम्यमुपपद्यत इत्यत आह सम्यगिति ।

अनु०-साम्यग्विषमविज्ञानतारतम्यानुसारतः । फलं भवेत् तारतम्यात् सुखदुःखात्मकं नृणाम्

विषमं विपरीतम् । ज्ञानमेव विज्ञानम् । ततो न पुनरुक्तिर्विरोधश्च । तारतम्यादिति तारतम्येनोपेतमित्यर्थः । सम्यग्विपरीतज्ञानयोस्तारतम्यमित्युक्ते परस्परमिति प्रतीतिः स्यात् । तन्निरासार्थमुक्तं विवृणोति सम्यक् चेति ।

सम्यक् चाधिकविज्ञानात् सुखाधिक्यं भवेन्नृणाम्

सम्यग् इत्यव्ययं समीचीनादित्यर्थः । च शब्दोऽनुक्तसमुच्चयार्थः । मध्यमात् सम्यग्ज्ञानात् तथाविधं सुखं भवेत् । अल्पाच्च सम्यग्ज्ञानादल्पम् । एवमधिकान्मिथ्याज्ञानात् अधिकं दुःखमित्यादि । अत्र मिथ्याज्ञानतारतम्येन दुःखतारतम्यस्याभिधानं दृष्टान्तत्वेनोपयुज्यते । यद्वा दुश्शास्त्रं तु परित्यजेदित्युक्तम् । तत्रात्यन्तपरित्यागार्थोऽर्थवादोऽयम् । न बन्धप्रध्वंसमात्रं मोक्षं किन्तु सुखमपि । तस्य च तारतम्यमुपपद्यत इति भावः ।

६२असु०- अधिकरणार्थमुपसंहरति अत इति ।

अनु०-अतो यथात्मशक्तयैव श्रवणं मननं तथा ।

नन्वत्रात्मशक्तिमनतिक्रम्य यथात्मशक्तत्यव्ययीभावे सति, तस्याव्ययीभावश्चेति अव्ययत्वादव्ययादाप्सुप इति तृतीयाया लुका भवितव्यम् । यथाऽऽत्मशक्तयैवेति कथम् ।

उच्यते । यथेति भिन्नं पदं सम्यग्वाचि । निवृत्तिमार्गः कथित आदौ भगवता यथेति, यथा श्रवणमित्यादिना च सम्बध्यते । सादृश्यार्थं वा । आत्मशक्तयैव श्रवणं मननं चाचरेत् । न तु सर्वशाखाविषयम् । नापि स्वस्वशाखामात्रविषयम् । यथा च श्रवणं मननं चात्मशक्तयैव । निदिध्यासनमपि तथाऽऽचरेत् । तच्च श्रवणं मननं च कृत्वा कुर्वन् वेति । यद्वा यथाऽऽत्मशक्तत्यव्ययीभावात्पर आशब्दः सम्यग्वाची । श्रवणमित्यादिना सम्बध्यते ।

अथवा यथाशब्दस्यात्मशब्देनाव्ययीभावः । ततः शक्तिशब्देन कर्मधारयः । योग्यतानुसारिण्या शक्तयेत्यर्थः । अत्र यथाऽऽत्मशक्तयैव श्रवणं मननं तथाऽऽचरेदित्येतावतैवोपसंहारे कर्तव्येऽधिकमुच्यते यत्तच्छ्रवणमननयोरुक्तस्य निदिध्यासनाङ्गत्वस्यापि उपसंहारार्थम् । कृत्वा अथवा कुर्वन्नपीति विशेषज्ञापनार्थं च । अयं च विकल्पो गुरूपदेशानुरोधेन व्यवतिष्ठते । अथवा पूर्वार्ध एवाधिकरणार्थोपसंहारः । तत्राचरेदिति वक्ष्यमाणं सिंहावलोकनेन सम्बध्यते । इति सिद्धमिति शेषः ।। ।

।। इति सर्वदा(न्तप्रत्यया)धिकरणम् ।।

न्यायसुधा

।। अथ उपसंहाराधिकरणम् ।।

ब्र०सू०- ॐ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॐ ।।

६३सु०- अत्र सर्ववेदोक्तान् गुणान् दोषाभावांश्चोपसंहृत्यैव परमात्मा उपास्य इत्युक्तम् । इहापि सर्वशब्दो नासङ्कुचितवृत्तिरुक्तन्यायादित्याशयवांस्तात्पर्यमाह कृत्वेति ।

अनु०-कृत्वाऽथ कुर्वन्नपि वा निदिध्यासनमाचरेत् ।

श्रवणं मननं तथेति वर्तते । यथाऽऽत्मशक्तयैवेति च । अनेन प्राप्तेश्च समञ्जसमि त्यादीनां सूत्राणामपि तात्पर्यमुक्तं वेदितव्यम् । तथा तन्निर्धारणार्थनियम इत्यादीनां, प्रथमाधिकरणव्याख्यानेनेति ।।

।। इति उपसंहाराधिकरणम् ।।

न्यायसुधा

।। अथ अनुबन्धाद्यधिकरणम् ।।

ब्र०सू०- ।। ॐ अनुबन्धादिभ्यश्च ॐ ।।

६४सु०- योगशास्त्रे यमादिकमुपासनाङ्गतयोपदिश्यते । तत्र पूर्वपक्षवादी मन्यते । यमानुष्ठानं तावदसत् । विष्णुभक्तयादिगुणसम्पत्तिर्विषयसंसर्गादिदोषवर्जनं च यमशब्दाभिधेयम् । देशकालावस्थाव्यवस्थया विनाऽनुष्ठेयस्य तथात्वात् । अहिंसादिपरिगणनं तु तत्प्रदर्शनार्थमिति हि योगानुशासनानि । तत्र यमानां किमुपासनोत्पत्तावुपयोगः । किंवा तत्फलज्ञानोत्पत्तौ । नाद्यः । विद्वेषिणामपि सततानुचिन्तनदर्शनात् । तन्मात्रत्वाच्चोपासनायाः । न द्वितीयः । भक्तयादिसहितमेवोपासनं ब्रह्मसाक्षात्कारं जनयति नान्यथेत्यत्र प्रमाणाभावात् । किञ्च द्वेषाच्चैद्यादयो नृपाः , वैरेण यन्नृपतय इत्यादौ द्वेषस्य तावन्मोक्षसाधनत्वं प्रतीयते । दृष्ट्वैव तं मुच्यते नापरेण इति मोक्षस्य दर्शनैकसाध्यत्वं च । तदुभयपर्यालोचनया द्वेषस्य दर्शनसाधनत्वमवगम्यते । एवं नियमासनप्राणायामप्रत्याहाराणामप्यङ्गता निरसनीयेति । तत्र समाधानमनुबन्धादिभ्य इति । तस्यार्थो भक्तयादिभ्य इति । तत्र न ज्ञायते कः पक्षोऽङ्गीकृतः कथं च तत्रोक्तदोषः परिहृत इति । अतो व्याचष्टे विषयेष्वित्यादिना ।

अनु०-विषयेषु च संसर्गाच्छाश्वतस्य च संशयात् । मनसा चान्यदाकाङ्क्षात्परं न प्रतिपद्यते । इति भारतवाक्यं हि तेनैतद्दोषवर्जितः । सदोपासनया युक्तो वासुदेवं प्रपश्यति

विषयसेवनात् । शाश्वतस्य ब्रह्मणः मोक्षादन्यद्विषयजातं प्रति । आकाङ्क्षादिति घञन्तः परं ब्रह्म न प्रतिपद्यते न पश्यति । मिथः समुच्चये च शब्दः । हि शब्दो यस्मादित्यर्थे । विषयसंसर्गादिदोषाणां ज्ञानविरोधित्वमाहेति शेषः । एतद्दोषवर्जित एव सदोपासनया युक्तो भवति । तथाविध एव सदोपासनया युक्तो वासुदेवं प्रपश्यतीति योज्यम् ।

एतदुक्तं भवति । उपासनोत्पत्तौ तावद्यमानामङ्गत्वं ब्रूमः । विषयसंर्गादिमतो भक्तिरहितस्य सदोपासनानुपपत्तेः । न ह्यन्यत्र (व्या)आसक्तमनास्तत्र स्नेहविधुरश्च तत्सन्ततं चिन्तयतीति युज्यते ।

यदत्रोक्तं स्निग्धवत्क्रुद्धानामपि सन्ततानुचिन्तनं दृष्टमिति । तत्सत्यम् । तथाऽपि तदितरसंसर्गवर्जनादिकमङ्गीकार्यमेव । न च भगवति विद्वेषस्य कारणमस्ति । केषाञ्चिदाशयदोषवशाद्द्वेषसम्भवेऽपि न तथाविधमनुचिन्तनं ज्ञानसाधनं भवति । किन्तूक्तयमादिसहितमेवेति द्वितीयपक्षमपि स्वीकुर्मः । न च तत्र प्रमाणाभावः । भारतवाक्यस्य विद्यमानत्वात् । तत्र (च) विषयसंसर्गादिपदानां यममात्राभावोपलक्षणत्वादिति । भक्तयाद्यभावस्यापि दोषत्वेनैतद्दोषवर्जित इत्युक्तम् ।

६५सु०- यमानामवश्यानुष्ठेयत्वे युक्तिमप्याह दोषा इति ।

अनु०-दोषा अनादिसम्बद्धास्ते मुक्तिपरिपन्थिनः ।सन्त्येव प्रायशः पुंस्सु तेन मोक्षो न जायते

ते विष्णुभक्तयभावाद्या विषयसंसर्गाद्याश्च दोषा मुक्तिपरिपन्थिनः प्राचुर्येण पुरुषेषु अनादिसम्बन्धाः सन्त्येव । तेन कारणेन तेषां मोक्षो न जायते ।

एतदुक्तं भवति । मोक्षयोग्यानां मुमुक्षूणामपीदानीं तावन्मोक्षो न जायते । तत्कुत इति चिन्त्यम् । भगवत्प्रसादाभावादिति चेत्सोऽपि कुतः । ज्ञानाभावादिति चेदसावपि कुतः । ध्यानाभ्यासासत्त्वादिति चेन्न । विद्वेषिणां तत्सत्त्वेऽप्यसत्त्वस्य वक्ष्यमाणत्वात् । अपि च ध्यानाभ्यासोऽपि कुतो नेति वाच्यम् ।

श्रवणाद्यभावादिति चेत् । तद्भावोऽपि न कुतः । अतो दोषा एव तत्तदुत्पत्तिं प्रतिबध्नन्तो मोक्षपरिपन्थिन इति ज्ञायते । न च दोषाणामागन्तुकानामनादिमोक्षाभावहेतुत्वं न सम्भवतीति साम्प्रतम् । प्रवाहतोऽनादित्वादिति । तथा चोक्तम् । दोषगृहीतगुणामिति ।

६६सु०- स्यादेतत् । सन्ति केचित् संसारिणोऽपि रागादिदोषरहिता जीवा बालमुग्धादयः । तत्कथं दोषाणां मोक्षाभावहेतुत्वमित्यत आह सर्व इति ।

अनु०-सर्वे त एते जीवेषु दृश्यन्ते तारतम्यतः

उदाहृतेष्वपि बालमुग्धादिजीवेषु त एते भगवद्भक्तयभावाद्या दोषास्तावत्प्रत्यक्षानुमानाभ्यां दृश्यन्त एव । रागद्वेषादयोऽपि पुरुषेषु तारतम्यतः सन्ति । चतुर्विधा हि ते प्रसुप्ततनुविच्छिन्नोदारभेदेन । अतो बालादिषूदाराणां तेषामभावादभावाभिमानः । स्तन्यादिकामादेष्वपि दर्शनात् । तथा चागमः । गर्भे बाल्येऽप्यपौष्कल्यादित्यादिः । तदेवं सर्वेऽपि दोषाः सर्वेष्वपि प्रमिता इति युक्तमुक्तम् ।

६७सु०- अथापि स्यात् । ऋजवो नाम हिरण्यगर्भपदप्राप्तियोग्याः सन्ति संसारिणः पुरुषाः । न च ते दोषिण इति युक्तम् । ऋजुत्वविरोधात् । ऋजवः समीचीना निर्दोषा इत्यनर्थान्तरम् । तत्कथमित्यत आह ऋजूनामिति ।

अनु०-ऋजूनामेक एवास्ति परमोत्साहवर्जनम्

ऋजूनाम् अपि मोक्षार्थं महोद्योगवर्जनं नाम दोषोऽस्तीत्यतो नोक्तमयुक्तम् । अन्यथा मोक्षविलम्बासम्भवात् । न चैवमृजुत्वविरोधः । यतोऽसावेक एव । दोषबाहुल्याभावाभिप्रायमृजुत्ववचनम् । अल्पस्वे निःस्वप्रयोगदर्शनादिति भावः ।

६८सु०- प्रकारान्तरेण विरोधं परिहरति स इति ।

अनु०-स गुणाल्पत्वमात्रत्वान्नर्जुत्वेन विरुध्यते

स परमोत्साहवर्जनं नाम दोषः । यद्यपि महोद्यमाभावो दोष एव हेयत्वात् । तथाऽपि

न रागादिरिव भावरूपः । नापि गुणाभावरूपः । किन्नामोत्साहलक्षणगुणाल्पतामात्रमित्यदोषोऽप्युच्यत इति नर्जुत्वेन विरुध्यते ।

६९सु०- किमतो यद्येवं दोषाः संसारहेतवो मुक्तिपरिपन्थिन इत्यत आह अत इति ।

अनु०-अतो विष्णौ परा भक्तिस्तद्भक्तेषु रमादिषु ।तारतम्येन कर्तव्या पुरुषार्थमभीप्सता

इदं च सर्वयमोपलक्षणाम् । पुरुषार्थं मोक्षम् । अयमत्र सङ्क्षेेपः । विष्णुभक्तयभावाद्या विषयसंर्गाद्याश्च दोषा मुमुक्षादिमता त्याज्याः । मोक्षादिविरोधित्वात् । यद्यद्विरोधि तत्तदर्थिना त्याज्यं दृष्टम् । यथाऽऽरोग्यविरोध्यपथ्यं तदर्थिना । तथा च विष्णुभक्तयादिकं कार्यमिति सिद्ध्यति । भावानुष्ठानेन विनाऽभावपरित्यागायोगादिति ।

७०सु०- विष्णौ पराऽन्यत्र तारतम्येनेत्युक्तं विवृणोति स्वादर इति ।

अनु०-स्वादरः सर्वजन्तूनां संसिद्धो हि स्वभावतः ।ततोऽधिकः स्वोत्तमेषु तदाधिक्यानुसारतः ।कर्तव्यो वासुदेवान्तं सर्वथा शुभमिच्छता

आदरः स्नेहः । स्वभावतः संसिद्ध इत्युपकारादिकरणमनपेक्ष्यानादिसिद्ध इत्यर्थः । अन्यथा सुखिनैव मया भाव्यं न जातु दुःखिनेत्याशीर्न स्यादिति हिशब्दार्थः । ततः स्वविषयादादरादधिक आदरः साक्षात्स्वोत्तमेषु कर्तव्यः । एवं तेषाम् आधिक्यानुसारतोऽधिकः कर्तव्यो वासुदेवान्तम् । वासुदेवे तु निरतिशयः । शुभं ध्यानादिकम् । एतच्चोपपादयिष्यते ।

७१सु०- सकृदनुष्ठेयासकृदनुष्ठेयसदानुष्ठेयभेदादङ्गमनेकविधम् । अयं तु कथमित्यपेक्षायामाह नेति ।

अनु०-न कदाचित्त्यजेत्तं च क्रमेणैनं विवर्धयेत्

तं विष्ण्वाद्यादरम् । न केवलं न त्यजेत्किन्तु कालक्रमेणैनं विवर्धयेच्च । स्वसमेषु स्वतोऽधमेषु च कथमित्यपेक्षायामाह समेष्विति ।

समेषु स्वात्मवत्स्नेहः सत्स्वन्यत्र ततो दया ।

कार्यैवमापरोक्ष्येण दृश्यते क्षिप्रमीश्वरः

कर्तव्य इति वर्तते । तत उत्तमसमेभ्योऽन्यत्राधमेषु सत्सु दया कार्या । यदि सत्स्वित्येवोच्येत तदोत्तमसमेष्वपि प्रसङ्गः । ततोऽन्यत्रेत्येवोक्तावसत्स्वपि प्रसक्तिः । ततो वर्गत्रयादन्यत्राज्ञेष्वोदासीन्यम् । विपरीतेषु वैपरीत्यं चेत्यपि योज्यम् । एवं क्रियमाणे यमानामुपासनोत्पत्तौ ज्ञानोत्पादे मोक्षातिशये चाङ्गत्वमिति सूचनाय पुरुषार्थमभीप्सता शुभमिच्छता दृश्यते क्षिप्रमीश्वर इति विचित्रोक्तिः । अत एवोपसंहारे त्रयस्यापि सङ्कीर्तनम् ।

७२सु०- दोषपरित्यागेऽप्यस्ति विशेषः । रागादयो हि संसारमातन्वते । विपरीतज्ञानादयस्तु नित्यं नरकं प्रापयन्तीत्यतो रागादितोऽतिशयेन त्याज्या इत्याशयवांस्तत्र श्रुतिमाह तदिति ।

अनु०-तत्तमोऽन्धं व्रजेद्विष्णुसमत्वं योऽनुपश्यति ।रमाब्रह्मशिवादीनामपि मुक्तौ कथञ्चन ।किमुताधिक्यदृष्टेस्तद्गुणाभावमतेरपि ।दोषवेत्तुरभेदस्य द्रष्टुर्द्रष्टुस्तथोभयोः ।इत्याह सच्छ्रुतिः

तत् प्रसिद्धम् । न केवलं संसारे किन्तु मुक्तावपि कथञ्चन केनापि धर्मेण समत्वम् । रमाब्रह्मशिवादीनां विष्णोराधिक्यदृष्टेः पुरुषस्यान्धतमसावाप्तिर्भवतीति किमुतेति योज्यम् । विष्णोर्गुणाभावमतेर्विष्णोर्जीवैर्जडैश्चाभेदस्य द्रष्टुः । उभयोः भेदाभेदयोः ।

७३सु०- स्वपक्षसाधनमुपसंहरति तेनेति ।

अनु०-तेन सम्प्रोक्तगुणसंयुतः ।उपासीत हरिं दृष्ट्वा मुक्तिस्तैनेव जायते

प्राक् सम्प्रोक्तैर्विषयसंसर्गवर्जनादिभिर्गुणैः संयुतः । यद्वा योगशास्त्रे सम्प्रोक्तैर्यमादिभिः गुणैः औः संयुतः । तेनैव तथाविधेनैवोपासनेन हरिं दृष्ट्वा कर्माणि क्षपयतो मुक्तिः जायते ।

७४सु०- इदानीं यत्पूर्वपक्षिणोक्तं भगवद्द्वेषिणामपि पुराणे मुक्तिः कथ्यत इति तन्निराकरोति द्वेषादिति ।

अनु०-द्वेषाद्यन्मुक्तिकथनं श्रुतिवाक्यविरोधि तत्

तस्मादन्यथा व्याख्यातव्यमिति भावः । तत्प्रकारं च वक्ष्यति । किं तच्छतिवाक्यमित्यतो मा नस्तेनेभ्यो ये अभिद्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुरि त्येतदर्थतः पठति रिपव इति ।

अनु०-रिपवो ये तु रामस्य विमुखत्वान्निरामिणः ।अभिद्रोहपदे नित्यमन्धे तमसि ते स्थिताः ।हरिद्विषस्तमो यान्ति ये चैव तदभेदिनः ।तन्निर्गुणत्ववेत्तारस्तस्य दोषविदोऽपि च

रामो रमणं तदस्यास्तीति रामी भगवान् रामस्तस्मान्निष्क्रान्तः तस्य विमुखा निरामिण इत्यर्थः । अत एव तस्य रिपवः । अभिद्रोहपद इत्यस्यैव व्याख्यानम् अन्धेतमसीति ।

नित्यं स्थिता भवन्तीति शेषोक्तिः । अनेन ये निरामिणो रिपवोऽन्नेषु भोगेषु जागृधुरभिकाङ्क्षावन्तः तेऽभिद्रुहोऽभितो द्रोहस्य पदे स्थाने स्थातुं योग्या यतोऽतस्तेभ्यः स्तेनेभ्योऽस्मान्मावोचः । न ह्यस्मच्छ्रवणवान् दुःखमर्हतीति योजना सूचिता भवति । इदं च वायुं प्रति विद्यादेवताया वचनम् । तदभेदिनस्तस्य हरेर्जीवाद्यभेदवादिनः ।

७५सु०- कथमेतच्छतिविरोध इत्यत आह इत्यादीति ।

अनु०-इत्यादिश्रुतिसन्दर्भाद् द्वेषिणस्तम ईयते

स्मृतिविरुद्धं च द्वेषिणां मोक्षकथनमित्याशयवांस्ताः पठति हिरण्यकशिपुश्चेति ।

अनु०-हिरण्यकशिपुश्चापि भगवन्निन्दया तमः । विविक्षुरत्यगात्सूनोः प्रह्लादस्यानुभावतः ।यदनिन्दत्पिता मह्यं त्वद्भक्ते मयि चाघवान् ।तस्मात्पिता मे पूयेत दुरन्ताद् दुस्तरादघात् ।निन्दां भगवतः ृण्वंस्तत्परस्य जनस्य वा । ततो नापैति यः सोऽपि यात्यधः सुकृताच्च्युतः ।अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।परम्भावमजानन्तो मम भूतमहेश्वरम् ।मोघाशा मोघकर्मणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ।मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः । तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु । आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् । यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।कथं स न भवेद् द्वेष्य आलोकान्तस्य कस्यचित् । यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः

विविक्षुर्वेशनसम्भावनाविषयः । आशङ्कायामचेतनेषूपसङ्ख्यानमिति वचनात् । श्वा मुमूर्षतीति यथा । अत्यगात्तमः । मम पिता मह्यं मन्निमित्तं त्वामनिन्दत् । मयि मद्विषये च अघवान् अपराधवान् । तस्माद्विष्णुवैष्णवनिन्दापराधजादघान्नित्यनिरयात् । निन्दादिकं च द्वेषमूलमिति प्रसिद्धमेव । नरहरिं प्रति प्रह्लादस्य वाक्यमिदम् ।

ततः स्थानात् । निन्दां ृण्वतो यदाधःपातस्तदा निन्दकस्य किमु ।

मानुषीं मनुष्यसदृशीम् ।

ये मां अवजानन्ति ते मोघाशादिमन्तो भवन्ति । तेषां सुखलेशोऽपि न भवति । आत्मपरदेहेषु प्रेरकत्वेन स्थितम् । संसरन्त्यत्रेति संसारा देहाः । तस्य विवरणमासुरीष्वेवेत्यादि । लोको जनः तस्यान्तश्चण्डालादिः तत्पर्यन्तस्य ।

कथमेतत्स्मृतिविरोध इत्यत आह इत्यादीति ।

अनु०-इत्यादिवाक्यसन्दोहाद् द्वेषिणस्तम एव तु ।

ज्ञायत इति शेषः । तमोऽपि निरुत्थानमिति तु शब्दः ।

अतो यमाद्यङ्गमवश्यानुष्ठेयमिति सिद्धम् ।।

।। इति अनुबन्धाद्यधिकरणम् ।।

न्यायसुधा

।। अथ विद्याधिकरणम् ।।

ब्र०सू०- ।। ॐ विद्यैव तु निर्धारणात् ॐ ।।

७६सु०- यद्यपीदमधिकरणमनुबन्धादिभ्य इत्यतः पूर्वं तथाऽप्युपासनस्वरूपावगमे सत्येव तत्सार्थक्यसमर्थनस्यावसरो नान्यथेति व्युत्क्रमेण व्याख्यातम् । तथा हि । न भगवदुपासनं कर्तव्यम् वैयर्थ्यात् । न च साक्षात्कारार्थम् । तस्यापि व्यर्थत्वात् । न च मोक्षप्रयोजनोऽसाविति वाच्यम् । चार्वाकदिशा मोक्षस्यैवाभावात् । भावे वा जैनादिमतानुसारेण साधनान्तरसाध्यत्वादिति प्राप्ते मोक्षसद्भावं तस्यापि भगवद्दर्शनसाध्यत्वं च साधयितुमिदमारभ्यते । यद्यपि समयपादे चार्वाकादिमतानि निराकृतानि । तथाऽपि मोक्षतत्साधनविषयदूषणविशेषव्युत्पादनार्थोऽयं प्रयत्नः । तत्र चार्वाकमतं तावदनुवदति नैवेति ।

अनु०-नैव मोक्ष इति प्राहुर्लोकायतमते स्थिताः ।

एव शब्दः स्वरूपनिषेधद्योतनार्थः । अन्यथा पुरुषविशेषादिसम्बन्धेन निषेधोऽपि

ज्ञायेत । तस्मादुपासनं व्यर्थमिति शेषः ।

७७सु०- तर्हि कः पुरुषार्थोऽस्तीत्यत आह भोग इति ।

अनु०-भोगः

स्रक्चन्दनादिविषयसुखानुभवो भोगः स पुरुषार्थोऽस्तीति प्राहुरिति सम्बन्धः । भोगश्चैहिक एव न तु स्वर्गादिगत इत्याह शरीरेति ।

अनु०- शरीरपर्यन्तं

शरीरपातपर्यन्तमित्यर्थः । कुतः स्वर्गापवर्गयोरसत्त्वमित्यत आह भस्मीभाव इति ।

अनु०-भस्मीभावस्ततो भवेत् । इति

ततः पातानन्तरं शरीरस्य भस्मीभावो भवेत् ।

इदमुक्तं भवति । शरीरपातोत्तरकालमात्मनः स्वर्गापवर्गौ वक्तव्यौ । आत्मा च न शरीरातिरिक्तोऽस्ति । शरीरं च पातोत्तरकालं नश्यत्येव । ततः कस्य तौ स्यातामिति । इति प्राहुरिति सम्बन्धः । शङ्कासमाप्तौ वेतिशब्दः ।

७७असु०- तदेतत्प्रमाणाभावेन दूषयंस्तावत्पृच्छति तदिति ।

अनु०-तत्केन मानेन दृष्टं

मोक्षो नैवास्तीति वाक्यार्थं परामृशति केन मानेनेति । प्रत्यक्षेण वा तदितरेण वेत्यर्थः । दृष्टमवगतम् । द्वितीयस्तावच्चार्वाकेण नाङ्गीकर्तुं शक्यत इत्याशयवानाह प्रत्यक्षेति ।

अनु०-प्रत्यक्षवादिना

प्रत्यक्षमेकमेव प्रमाणं नान्यदित्यभ्युपगच्छता । पूर्वेण सम्बन्धः ।

आद्यं निराकरोति न हीति ।

अनु०-न हि प्रत्यक्षमानेन मोक्षाभावोऽवसीयते

अनुमानादिकं तावत्परस्य मानं न भवति । यच्च मानत्वेनाङ्गीकृतं प्रत्यक्षं तेनेति यावत् । मोक्षो हि नाम परमानन्दावाप्तिविशिष्टात्यन्तिक दुःखनिवृत्तिः । तदभावश्चैवमवगन्तव्यः । नास्ति कोऽपि पुरुषः परमानन्दानुभवी सर्वोऽपि दुःखी चेति । न च पुरुषान्तरवर्तिनी सुखदुःखे तदभावौ वा पुरुषान्तरप्रत्यक्षविषयाविति कथं मोक्षाभावः प्रत्यक्षेणावसीयेतेति हि शब्दार्थः ।

७८सु०- मा भूत् प्रमाणाभावेन मोक्षाभावनिश्चयः । तत्सद्भावनिश्चयोऽपि दुर्घट एव । प्रमाणाभावात् । तावत् तत्र प्रत्यक्षं प्रमाणम् । परपुरुषवर्तिनोः परमानन्ददुःखाभावयोः परप्रत्यक्षस्य सामर्थ्याभावात् । स्वनिष्ठस्तु तदभाव एव प्रत्यक्षेणेक्ष्यते ।

नापि प्रत्यक्षादन्यत् । तत्प्रामाण्यासिद्धेः । ततश्च साधकबाधकप्रमाणाभावादप्रतिपत्तिर्नित्यसंशयो वा मोक्षे स्यादिति नोपासनानुष्ठानं सम्भवतीति । मैवम् । प्रत्यक्षेण तावन्मोक्षनिश्चयोपपत्तेः ।

७९सु०- ननूक्तमत्र प्रत्यक्षस्य तत्र सामर्थ्यं नास्तीति तत्राह घटत इति ।

अनु०-घटते मुक्तिदृष्टिस्तु पुरुषेण महीयसा

यद्यपि प्राकृतानां प्रत्यक्षं न मोक्षं गोचरयितुं क्षमते । तथाऽपि महत्तमपुरुषप्रत्यक्षेण मोक्षनिश्चयो युज्यत एव । तदीयप्रत्यक्षावगमश्च परेषां तद्वाक्येन भविष्यतीति भावः । ननु कर्तृकर्मणोः कृतीत्यत्र षष्ठ्या भवितव्यं कथं तृतीया । शेषविवक्षायां षष्ठी विहिता । न चात्र शेषविवक्षेति चेन्न । अस्मिन्योगे शेषग्रहणस्य निवृत्तत्वात् । उच्यते । हेतावेषा तृतीया । न कर्तरि करणे वा । महीयसा पुरुषेण हेतुना करणेन वा तदीयप्रत्यक्षेणेति यावत् । इतरेषां मुक्तिदृष्टिर्मुक्तिसद्भावनिश्चयो घटत इति । यद्वा मुक्तिविषया प्रत्यक्षदृष्टिर्घटते । कथम् । यतो महीयसा पुरुषेणेक्ष्यते मोक्ष इति वदाम इति योजना । अथवा क्रियमाणेति पदाध्याहारे न दोषः ।

८०सु०- एवं तर्हि मयाऽपि वक्तुं शक्यत एव । यद्यपि परपुरुषवर्ती मोक्षाभावोऽस्मदादीनां न प्रत्यक्षः । तथाऽपि महीयसः पुरुषस्य लोकायताचार्यस्य प्रत्यक्ष एव । तदवगमश्च अस्माकं तद्वाक्येन भविष्यतीति । तथा च सत्प्रतिपक्षतया पुनरनिश्चय एवेत्यत आह नेतीति ।

अनु०-नेति वक्तुर्महत्त्वं तु कथञ्चन न विद्यते

कस्मिन्नपि पुरुषे वर्तमानोऽनागतो वा मोक्षो नास्त्येवेत्यहं प्रत्यक्षेणेक्ष इति वक्तुस्त्विति सम्बन्धः । महत्त्वमेव न विद्यते कुतो महीयस्त्वमित्येवशब्दार्थो वा तुशब्दः । महत्त्वमिह बहुप्रकारमपेक्षितम् । इतरपुरुषाप्रत्यक्षार्थसाक्षात्कारित्वं तदुपयुक्तासाधारणधर्मवत्त्वं यथार्थवादित्वं चेति । तत्रैकप्रकारमपि न लोकायताचार्यस्य विद्यते । कुतस्तेन सत्प्रतिपक्षताशङ्का मोक्षवादिनां महापुरुषाणाम् ।

८१सु०- कुत इत्यत आह साधयन्निति ।

अनु०-साधयन् सर्वसामान्यं कथमेव विशेषवान्

धर्माद्यभावप्रतिपादनेन सर्वेषां पुंसां समानत्वं साधयल्लोकायताचार्यः कथमेवेतरेभ्योऽतिशयवान् भवति । न कथञ्चित् । एतदुक्तं भवति । पुरुषान्तराप्रत्यक्षस्य परपुरुषगतस्य मोक्षाभावस्य साक्षात्करणे लोकायताचार्यस्येतरेभ्यो विशेषेण भाव्यम् । अन्यथेतरेषामपि तत्प्रसङ्गात् । न चासावस्ति । तपसा योगेन वा जनितो धर्मविशेषस्तथा । स चेतरेषामिव स्वात्मनोऽपि नास्तीति तेनैव साधितम् । अतः कारणाभावादितरवत् तस्यापि परपुरुषवर्तिमोक्षाभावसाक्षात्करणं नास्त्येवेति निश्चीयते । तत एवाहं मोक्षाभावं साक्षात्करोमीति तदीयवचनमयथार्थमेव । भूतपरिणामविशेष एवातिशयोऽस्त्विति चेत् । स किं प्रत्यक्षोऽप्रत्यक्षो वा । नाद्यः । अनुपलम्भात् । यादृशतादृशस्य प्रकृतफलहेतुत्वे मानाभावात् । अन्यथाऽतिप्रसक्तेः । न द्वितीयः । अतीन्द्रियार्थं निराकुर्वता तेनैवेतरवदात्मन्यपि तदभावस्य साधितत्वादिति ।

८२सु०- यथा युष्माभिरभिधीयते नास्त्येव मोक्षाभावसाक्षात्कारी महापुरुष इति तथा अहमपि वदामि । नास्त्येवासौ महीयान् पुरुषो यः प्रत्यक्षेण मोक्षमीक्षेत । प्रमाणाभावादिति । तथा च पुनरनिश्चय एवेत्यत आह दृश्यन्त इति ।

अनु०-दृश्यन्ते पुरुषा लोके परापरविदोऽपि च । अपरोक्षदृशो योगनिष्ठाश्चामलचक्षुषः । प्रत्यक्षं देवतां दृष्ट्वा तत्प्रसादाप्तभूतयः । ज्ञानविज्ञानपारज्ञा

न केवलमेक इति भावः । लोके अस्मिन्नेव भूमण्डले । ते च वसिष्ठादयः । तेषां महीयस्त्वमाह ज्ञानविज्ञानपारज्ञा इति । अत्र विषयिभ्यां विषयावुपलक्ष्येते । सामान्यविशेषाकारपारज्ञाः । न केवलं वर्तमानाशेषविदः किन्नाम परावरविदोऽपि । तत्किमनुमानादिना नेत्याह अपरोक्षदृशश्चेति ।

अस्मदादिभ्यः को विशेषस्तेषामित्यत उक्तं योगनिष्ठाश्चामलचक्षुष इति । योगनिष्ठाजनितविशिष्टादृष्टेन दिव्यदृष्टयः । किं तेनैव नेत्याह प्रत्यक्षमिति ।

योगसामर्थ्येन परदेवतां साक्षादुपलभ्य तत्प्रसादासादितप्रकाशाद्यैश्वर्यवन्तः । वसिष्ठादयो योगर्धिसम्पन्नया दिव्यया दृष्ट्या परपुरुषवर्तिनं मोक्षं साक्षात्कुर्वाणाः प्रत्यक्षेणैव दृश्यन्तेऽतो न मोक्षानिश्चय इति । अस्मदादिभिरनुपलब्धत्वात् ते सन्तीत्यत आह निषिध्यन्त इति ।

अनु०-निषिध्यन्ते कथं नृभिः

नृभिरित्यनेन मन्दभाग्यैः परिमिता विविक्तदेशपरिचयवदि्भरिति सूचयति । न हि ते वणिग्वीथ्यां वर्तन्ते । येन युष्माभिरुपलभ्येरन् । अतो विप्रकर्षादनुपलभ्यमाना न निषेद्धुं शक्यन्त इति भावः ।

८३सु०- ननु पुरुषस्वरूपमात्रे न विप्रतिपत्तिः । तेषां महीयस्त्वं तु कुत इत्यत आह दृश्यते चेति ।

अनु०-दृश्यते चातिमाहात्म्यं तेषामतिमहौजसाम्

न केवलं पुरुषाः किन्तु तेषामतिमाहात्म्यं महीयस्त्वं च दृश्यते । कथम् । अतिमहौजसाम् । एतदुक्तं भवति । दृश्यन्ते तावद्विन्ध्यस्थगनसमुद्रपानादीनि तेषामतिमहान्त्योजांसि । तानि च महैश्वर्यकार्याणि । न च कार्याणि विना कारणैर्भवितुमर्हन्ति । महैश्वर्येषु च सार्वज्ञापरनामकं प्राकाश्यमिति तेषां महीयस्त्वसिदि्धरिति ।

८४सु०- ननु तदीयं मोक्षविषयं प्रत्यक्षं परेषां कुतः सिद्धम् । तद्वाक्यादिति चेन्न । तेषां विप्रलम्भकत्वोपपत्तेरित्यत आह यदीति ।

अनु०-यदि तेऽपि निषिध्यन्ते किं नोक्तिस्ते निषिध्यते

विप्रलम्भो हि प्रयोजनमूलो भवति । न च तेषां प्रयोजनानुसन्धानं सम्भवति । आप्तसमस्तैश्वर्यत्वात् । प्रयोजनान्तरस्य चाप्रमितत्वात् । एवम्भूता अपि ते योगिनो यदि विप्रलम्भका इति निषिध्यन्ते । तदीयं वाक्यं विप्रलम्भमूलत्वेन निराक्रियत इति यावत् । तदा ते त्वदभ्युपगता लोकायताचार्योक्तिः किं तथैव न निषिध्यते । साऽपि विप्रलम्भमूलेति कल्पयित्वा अनादरणीया स्यात् । अविशेषादिति यावत् ।

एतेनैतदपि निरस्तम् । विप्रकर्षवशादस्माभिरनुपलभ्यमाना अपि योगिनस्तन्माहाम्त्यं तदीयं स्वप्रत्यक्षविषयं वाक्यं चास्माभिः कुतोऽवगन्तव्यम् । इतिहासपुराणेभ्य इति चेन्न । तेषामप्रमाणत्वादिति । दोषदर्शनेन हि तेषामप्रामाण्यं कल्प्यम् । न च तत्र प्रमाणमस्ति । वाक्यत्वेनैव प्रामाण्यप्रतिषेधे लोकायताचार्योक्तेरपि तत्प्रतिषेधप्रसङ्गादिति ।

८५सु०- न लोकायताचार्योक्तिर्विप्रलम्भशङ्कया निराक्रियते । प्रत्यक्षसंवादेन प्रामाण्यनिश्चयादिति चेत् समं प्रकृतेऽपीत्याह यदुक्तेति ।

अनु०-यदुक्तवाक्यप्रामाण्यं प्रत्यक्षेणोपलभ्यते

यैः योगिभिः उक्तानां वाक्यानां प्रामाण्यं प्रत्यक्षेण प्रत्यक्षसंवादेन उपलभ्यते तेऽपीति पूर्वेणान्वयः । कथमित्यत आह वरादयोऽपीति ।

अनु०-वरादयोऽपि तद्दत्ताः सदा सत्या भवन्ति हि

तैर्योगिभिर्दत्ता वराः शापाश्च सदा अव्यभिचारेण सत्या भवन्ति । हि यस्मात् तस्मादिति पूर्वेणैव सम्बन्धः । ते प्रसन्नाः सन्तस्तवेदं भद्रं भविष्यतीति वा कुपिताः सन्तस्तवेदमभद्रं भविष्यतीति वा यदाहुस्तत्तथैव भवत्प्रत्यक्षेणोपलभ्यत इति ।

स्यादेतत् । प्रत्यक्षयोग्यार्थे भवतु तत्संवादेन तदीयं वाक्यं प्रमाणम् । अतीन्द्रिये तु मोक्षादौ कथमिति । एवं तर्हि लोकायताचार्यवचनमपि प्रत्यक्षयोग्यार्थे तत्संवादेन प्रमाणमस्तु । अतीन्द्रिये तु मोक्षाभावादौ कथमिति समानम् ।

अथ मन्यसे प्रत्यक्षयोग्यार्थे तावत् तदीयं वचनं प्रत्यक्षसंवाद्येवोपलब्धम् । तेनातीन्द्रियार्थविषयेऽपि तत्र विश्वसिमः । लोके तथोपलम्भादिति । तदिदं प्रकृतेऽपि समानम् । तदिदमुक्तमनुक्तसमुच्चयार्थेनापिपदेन ।

८६सु०- एवं सत्प्रतिपक्षतानिरासाय योगिनां मोक्षप्रत्यक्षवादस्य प्रामाण्यम्, अप्रामाण्यं च लोकायताचार्यस्य मोक्षाभावप्रत्यक्षोक्तेरुपपादितम् । हेत्वन्तरेणापि तदप्रामाण्यमुपपादयति अप्रामाण्यमिति ।

अनु०-अप्रामाण्यं तदुक्तेश्च वृथावाचाऽवसीयते

हेतुसमुच्चये चशब्दः । वृथावाचेति भावप्रधानो निर्देशः । वृथात्वादित्येवोक्ते तृणादिदर्शने व्यभिचारः स्यात् । तदर्थं वाग्ग्रहणम् । कथं लोकायताचार्योक्तेर्वृथात्वमित्यत आह न हीति ।

अनु०-न हि प्रयोजनं किञ्चित्परलोकनिवारणात्

परलोकस्य मोक्षादेर्निवारणात् । नास्तित्वप्रतिपादनाल-लभ्यं किञ्चित्प्रयोजनं नास्तीत्येतत्प्रसिद्धमेव । तथा हि । तदुक्तेरदृष्टं वा प्रयोजनं स्याद् दृष्टं वा । न तावददृष्टम् । परलोकनिवारणात् । अदृष्टं हि स्वर्गादावुपभोग्यं वा स्याद्देहान्तरेणेहैव वा । नाद्यः । स्वर्गादेः परलोकस्य परेण प्रतिषिद्धत्वात् । न द्वितीयः । देहात्मवादिनाऽस्यात्मनः परलोकस्य देहान्तरस्य निवारणात् । नापि दृष्टम् । प्रतिपादकप्रतिपाद्ययोरर्थकामलाभानुपलम्भादिति ।

८७सु०- वैदिकानां धर्माधर्मव्यवस्थापकैर्वचनैरुपरुद्धकामभोगानां प्राणिनां धर्माद्यभावप्रतिपादनेन कामोपभोगोपरोधनिवृत्तिरूपपरोपकारस्तावदाचार्यस्य प्रयोजनमस्ति । यद्यप्युपकारो न स्वरूपेण प्रयोजनम् । नाप्यदृष्टहेतुत्वेन । तथाऽप्युपकर्तारं प्रत्युपकुर्वन्त्येव । विनेयानां च कामोपभोगोपरोधनिवृत्तिरेवास्ति प्रयोजनम् । तत्कथं वृथात्वमित्यत आह वृथा वाचमिति ।

अनु०-वृथावाचं वृथा हन्याद्यदि तस्य किमुत्तरम्

अत्र वृथावाचमिति साध्यनिर्देशः । एवमपि वृथावाक्तवं न परिहार्यमिति । अदृष्टप्रयोजनरहितवाचमिति वा । यदि कश्चित्तमाचार्यं विनेयं वा वृथैव हन्यात् तदा तं प्रति तस्य किम् उत्तरम् । न किञ्चित् ।

एतदुक्तं भवति । न स्त एव धर्माधर्मौ, अतस्त्वया निरङ्कुशेन कामोपभोगः करणीय इत्याचार्येण बोधितोऽन्तेवासी तदीयकमनीयकान्ताद्यपहारार्थं तं हन्यादेव, तदाऽस्य का प्रतिक्रिया । उपकर्तुरपकारो महाप्रत्यवायहेतुरिति छान्दसोक्तेस्तेनैव त्याजितत्वात् । उपकर्तारं प्रत्युपकुर्वन्तीत्येतदपि धर्मादिवासनायां सत्यामेव । सा तु तेनैव निश्शेषिता । अतो नास्त्येव आचार्यस्य प्रयोजनम् । प्रत्युत स्वजीवनहानिलक्षणोऽनर्थ एव एवं विनेयानामप्यन्योन्यधनवनिताद्यपहाराय परस्परवधादावेव प्रवृत्तिः न तु कामोपभोगावसरः । महताऽनर्थेनाक्रान्तोऽल्पीयान्कामोपभोगोऽनर्थ एवेति ।

८८सु०- अस्त्वेवं लोकायताचार्योक्तेर्वृथात्वमनर्थहेतुत्वं च । तथाऽप्यप्रामाण्यं कुत इत्यत आह स्वेति ।

अनु०-स्वजीवनविरोधाय वदन् किन्नाम बुदि्धमान्

स्वशब्दः परेषामप्युपलक्षकः । व्यर्थं चेति शेषः । व्यर्थानर्थहेतुवाक्तवेन लोकायताचार्यस्याप्रेक्षावत्त्वमनुमीयते । ततस्तद्वचनस्याप्रामाण्यमिति शेषः । उक्तश्चायमर्थः प्रयोजनाधिकरणे ।

८९सु०- उक्तमर्थं बुद्ध्यारोहाय सङ्क्षिप्याह प्रामाण्य इति ।

अनु०-प्रामाण्ये संशयः किं स्यात् तयोः पुरुषयोरपि । स्वजीवनविरुद्धोक्तिरज्ञो दृष्टस्य चापि यः । यश्चातीन्द्रियदेवोक्तिश्रोता दृष्टपरावरः । अतीतानागतं सर्वं लोकानुभवमापयन्

(अत्र) प्रामाण्य शब्देनाप्तत्वमुच्यते । किं इत्याक्षेपे । अपि शब्दो गर्हायाम् । स्वे त्युपलक्षणम् । दृष्टस्य दर्शनयोग्यस्यापि बहोरर्थस्य । च शब्दो विशेषणसमुच्चये । देवोक्ती त्यतीन्द्रियान्तरस्याप्युपलक्षणम् । स्वोक्तं सर्वं प्रत्यक्षसंवादेन लोकानुभवं लोकाश्वासं प्रापयन् ।

यः स्वजीवनविरुद्धोक्तित्वादिविशेषणो लोकायताचार्यो यश्च अतीन्द्रियदेवोक्तिश्रोतृत्वादिविशेषणो योगी तयोरपि पुरुषयोः प्रामाण्ये संशयः स्यात् किं, न स्यादेव । किन्त्वाद्यस्याप्रामाण्यमेव द्वितीयस्य प्रामाण्यमेव निश्चीयत इति योजना ।

९०सु०- एवं निमित्ताभावेनासम्भावितातीन्द्रियज्ञानस्य कामुकत्वादिना सम्भावितविप्रलम्भस्य लोकायताचार्यस्य योगर्धिसम्पदा सम्भावितसार्वज्ञावाप्तसमस्तैश्वर्यवत्त्वादिना अत्यन्तासम्भावितवञ्चकत्वात् प्रत्यक्षसंवादिवचसो योगिनः प्रति, प्रतिपक्षत्वासम्भवे (न) तद्वचनावगतेन तत्प्रत्यक्षेण मोक्षः सिद्ध्यतीत्युक्तम् ।

इदानीं वेदेनापि तं सिषाधयिषुः तत्प्रामाण्ये विप्रतिपन्नं प्रति किं संवादरहितत्वात् वेदस्य अप्रामाण्यमुच्यते । उत वाक्यत्वात् उन्मत्तवाक्यवत् ।

अथवोन्मत्तवाक्यादनिश्चितविशेषत्वादथ (वा) बाधितत्वादिति विकल्प्य आद्येऽपि किं सर्वस्य संवादो नास्ति उतैकदेशस्येति विकल्प्याद्यं निराचष्टे अत इति ।

अनु०-अतः प्रत्यक्षगम्यत्वाद्वेदमात्रस्य च स्फुटम्

वैदिकानुष्ठानवतां तत्फलसिद्धेर्दृष्टत्वादित्यर्थः । प्रत्यक्षगम्यत्वात् प्रत्यक्षसंवादेन सिद्धत्वात् । प्रमाणसमुच्चये च शब्दः । वेदेन च मोक्षसिदि्धरिति । अनेन सर्वस्यापि वेदस्य प्रमाणान्तरसंवादो नास्तीत्येतदसिद्धम् । ऐश्वर्यादिसाधनतया योगादिकमुपदिशतो वेदभागस्य संवाददर्शनादित्युक्तं भवति । मोक्षप्रतिपादकानि च वेदवाक्यानि तत्र तत्रोदाहृतान्येव द्रष्टव्यानि । फलविसंवादोऽपि वेदस्य दृश्यत इति चेन्न । तस्य कर्तृकर्मादिवैगुण्यहेतुतायाः प्रागुक्तत्वात् । तदिदमुक्तं स्फुटमिति ।

आद्ये द्वितीयं दूषयति यदीति ।

अनु०-यद्यागमस्य नो मात्वमक्षजस्य तथा भवेत्

यदि भागविशेषस्य संवादाभावेन कृत्स्नस्यापि आगमस्य नो मानत्वम्, अप्रमाणत्वमित्युच्यते तर्हि अक्षजस्य प्रत्यक्षमात्रस्य तथा अप्रमाणत्वं भवेत् । अस्थात्सुखादिविषयस्य प्रत्यक्षस्य संवादाभावात् । यदि च संवादरहितस्यैव वेदभागस्य नो मानत्वमित्युच्यते तदा अस्मत्सुखादिविषयस्य प्रत्यक्षस्य अप्रामाण्यं भवेदेवेति । यद्यपि योगिप्रत्यक्षसंवा(दोऽस्ति तथा)दः प्रागुक्तस्तथाऽपि तदितरप्रमाणापेक्षयेदमुदितं वेदितव्यम् । स्यादेतत् । प्रत्यक्षं स्वत एव प्रमाणं तत्र किं संवादेनेत्यत आह यद्यक्षजस्येति ।

अनु०-यद्यक्षजस्य मात्वं स्यादागमस्य कथं न तत्

यदि संवादेन विना अक्षजस्य स्वत एव प्रमाणत्वं स्यात् तर्हि आगमस्य तत् स्वत एव प्रामाण्यं कथं न भवेत् । अविशेषाद्भवेदेव ।

९१सु०- द्वितीयं निराकरोति यद्यागमस्येति । यदि वाक्यत्वमात्रेणोेन्मत्तवाक्यवत् आगमस्य न मानत्वमित्युच्यते । तर्ह्यक्षजत्वेन शुक्तिरजतादिविषयाक्षजवत् स्तम्भाद्यक्षजस्याप्यप्रामाण्यं स्यादविशेषात् । निर्दोषत्वात् स्तम्भादिविषयमक्षजं प्रमाणमित्यत आह यद्यक्षजस्येति । यदि निर्दोषत्वात् स्तम्भादिविषयस्याक्षजस्य प्रमाणत्वं स्यात् तर्ह्यागमस्यापि तत एव कथं न भवेत् । न ह्यपौरुषेयस्य सदोषता सम्भवति । वेद इत्युपक्रमात् तथैव वक्तव्ये यदागमस्येति वदति तदनेनैव न्यायेन पौरुषेयागमस्यापि प्रामाण्यं साधनीयमिति सूचयितुम् ।

९२सु०- तृतीयं निराकरोति लोकेति ।

अनु०-लोकवाक्याद्विशेषश्चाव्यभिचारेण सिद्ध्यति

उन्मत्तादिवाक्यात् । विशेषो वेदस्य । अव्यभिचारेण बाधराहित्येन । न हि वैदिकोऽर्थः प्रत्यक्षसिद्धो येन तत्तत्र बाधकतयाऽवकाशं लभेत ।

एतेन चतुर्थोऽपि निरस्तः ।

९३सु०- तदेवं प्रत्यक्षागमाभ्यां मोक्षं साधयतेहामुत्र फलभोगवैराग्यवता योगिनां प्रवृत्तिः सफला प्रेक्षावत्प्रवृत्तित्वात् सम्मतवदित्यनुमानमपि सूचितम् । अनुमानप्रामाण्यं च प्रागेव समर्थितम् ।

९४सु०- अपरे पुनरनुमिमते । दुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वाद्दीपज्वालासन्ततिवदिति । तदसत् । सकलजीवगतदुःखसन्ततिपक्षीकारेंऽशे बाधितत्वात् । नित्यसंसारिणां केषाञ्चित्सत्त्वस्य तैरप्यङ्गीकृतत्वात् समर्थयिष्यमाणत्वाच्च । तद्व्यतिरिक्तजीवगतदुःखसन्ततिपक्षीकारे तु तत्रैव व्यभिचारात् । पार्थिवपरमाणुरूपादिसन्ताने व्यभिचाराच्च । सर्वमुक्तिपक्षे फलमूलयोरभावेन सोऽप्यत्यन्तमुच्छिद्यत एवेति चेन्न । सर्वमुक्तिपक्षस्यैव निराकरिष्यमाणत्वात् । कालक्षणसन्ताने व्यभिचाराच्च ।

किञ्च दुःखसन्ततिशब्देन दुःखान्येवोच्यन्ते उत तद्धर्मः कश्चित् । आद्ये सिद्धसाधनता । मोक्षमनङ्गीकुर्वताऽपि दुःखानां विनाशिताऽभ्युपगमात् । अत एवात्यन्तमित्युक्तमिति चेत् । कोऽस्यार्थः । किं सर्वाण्यपि दुःखान्युच्छिद्यन्त इति । उत निःशेषतयोच्छिद्यन्त इति ।

अथवा तत्र दुःखान्तरानुत्पादेनेति । न प्रथमः । सिद्धसाधनताऽनिस्तारात् । सर्वेषामपि दुःखानां परेण अनित्यतायाः स्वीकृतत्वात् । अत एव न द्वितीयः । न हि दुःखं सावयवद्रव्यम् । येन सशेषमुच्छिद्यत इति शङ्क्येत । न तृतीयः । दृष्टान्तस्य साध्यविकलत्वात् । न हि दीपज्वालासन्ततिरेवमुच्छिद्यते । तत्रैव पुनर्ज्वालान्तरोदयसम्भवात् । न द्वितीयः । दुःखधर्मो हि जातिर्वा तदन्यो वा । आद्येऽपसिद्धान्तः । जातेर्नित्यत्वाङ्गीकारात् । न द्वितीयः । आश्रयासिद्धेः । गुणेषु जातिव्यतिरिक्तधर्मानङ्गीकारात् । अङ्गीकारेऽप्यर्थान्तरता स्यात् । न हि दुःखधर्मस्य कस्यचिद्विनाशसिद्धौ मोक्षसिदि्धरिति ।

९५सु०- आत्मा कदाचिद्ध्वस्ताशेषविशेषगुणो विभुत्वे सति कार्यविशेषगुणवत्त्वात् महाप्रलयावस्थायामाकाशवदिति चासत् । सर्वात्मपक्षीकारे परमेश्वरात्मनि बाधात् । असिद्धेश्च । जीवात्मपक्षीकारेऽपि संसार्येकस्वभावानां जीवानां स्वयमेवोररीकृतत्वेन तत्र बाधात् । तदतिरिक्तजीवपक्षीकारे तत्रैवानैकान्त्यात् । जीवात्मनां विभुत्वाभावेनासिद्धेश्च ।

आत्मत्वं कदाचिद्ध्वस्ताशेषविशेषगुणद्रव्यनिष्ठमिति प्रतिज्ञार्थ इति चेन्न । तथा सति हेतोरसिदि्धप्रसङ्गात् । जातित्वं हेतुरिति चेन्न । पूर्वानुमानदोषापरिहारात् । घटत्वादावनैकान्तिकत्वाच्च ।

अशेषविशेषगुणशून्यद्रव्यनिष्ठमिति प्रतिज्ञार्थ इति चेन्न । सगुणानामेव द्रव्याणामुत्पादस्य समर्थितत्वात् । विभुकार्यविशेषगुणवद्वृत्तिजातित्वस्य हेतुत्वान्न दोष इति चेन्न । कार्यविशेषगुणवत्पदस्य वैयर्थ्यात् । तत्त्यागेऽप्यर्थान्तरत्वात् । अशेषविशेषगुणध्वंसो न मोक्ष इति वक्ष्यमाणत्वात् ।

९६सु०- एतेन देवदत्तो देवदत्ताधर्मसमानकालीनदेवदत्तगतत्वानधिकरणदुःखध्वंसाधिकरणं दुःखित्वाद्यज्ञदत्तवदिति विशिष्टव्यतिरेक्यनुमानपि निरस्तम् । अर्थान्तरतापरिहारादित्यास्तां प्रपञ्चः ।

९७सु०- इदानीं जैनोक्तमोक्षसाधनं दूषयितुमनुवदति अस्तीति ।

अनु०-अस्ति मोक्षोऽपि धर्मेण यथार्थज्ञानतोऽपि च

यदिदं मोक्षास्तित्वं समर्थितं तत्साध्विति जैनाः प्राहुरिति सम्बन्धः । अङ्गीकृतश्चेत् मोक्षसद्भावः तदा तत्साधनमपि किञ्चिदङ्गीकार्यमेव । तथा च का विप्रतिपत्तिरित्याशयवान् पृच्छति अपीति । किं तर्हीत्यर्थः । उत्तरमाह धर्मेणेति । लभ्यत इत्याहुः ।

अपिचा वितरेतरसमुच्चये । यद्यपि मोक्षं तत्साधनं चाभ्युपयन्ति जैनाः तथापि तद्विशेषे विप्रतिपद्यन्ते । यतः सम्यग्ज्ञानसम्यक्चारित्र्यसमुच्चयसाध्यं मोक्षमाहुरित्याशयः । सम्यग्दर्शनं यद्यपरोक्षज्ञानं तदा यथार्थग्रहणेनैव गृहीतम् । यदि च स्वसमयपरिपालनं तदा धर्मग्रहणेनेति पृथग्ग्रहणं व्यर्थमिति सूचयितुं द्वयोरेव ग्रहणम् ।

धर्मज्ञानसमुच्चयसाध्यत्वं मोक्षस्य कथञ्चिदस्माभिरप्यङ्गीक्रियते । अतो विप्रतिपत्त्यनन्तरं दर्शयति प्रामाण्यमिति ।

अनु०-प्रामाण्यमनुमायाश्च जिनस्याप्तत्वसाधने । तद्वाक्यात् धर्मसज्ज्ञानविज्ञप्तिर्भवतीति च

जिन आप्तोऽस्खलितवाक्त्वादित्याद्यनुमायाः । चशब्दाज्जिनदर्शिनां वाक्यस्य च । तद्वाक्यात् । जिनवाक्यात् । इति च जैनाः प्राहुः । अनुमा(ना)द्यवगताप्तभावजिनवाक्यान्मोक्षसाधनसिदि्धमाहुः । न तु स्वतःप्रमाणाद्वेदादित्याशयः । मोक्षसाधनविषयां विप्रतिपत्तिं दर्शयितुमुपक्रम्य प्रमाणविप्रतिपत्तिप्रदर्शनमसङ्गतमिति चेन्न । साधनज्ञापकस्यापि साधनत्वात् ।

धर्मज्ञानस्वरूपेऽपि विप्रतिपत्तिं दर्शयति धर्म इति ।

अनु०-धर्मोऽहिंसापरो नान्यो ज्ञानं पुद्गलदर्शनम् । इति जैनाः

अहिंसा परा प्रधानभूता यस्मिन् स तथोक्तः । एतदस्माकमपि सम्मतमित्यत उक्तम् अन्यो हिंसासहितो यज्ञादिः न धर्म इति । आत्मविविक्तत्वादिरूपेण पुद्गलस्य देहस्य दर्शनम् । यद्वा पुद्गलस्यात्मनो देहादिविविक्ततया दर्शनम् । अत्रापि नान्यद्यत्सिद्धान्तिना विवक्षितमित्यनुवर्तते ।

९८सु०- दूषयति कथमिति ।

अनु०- कथं तत्स्यात्प्रमाणमनुमानतः

तज्जिनवाक्यमनुमानेन प्रमाणमिति प्रतिपत्तव्यं कथं स्यात् । अनुमानेन वाक्येन च जिनस्याप्तत्वमवधार्याप्तवाक्यत्वानुमानेन मोक्षसाधनं धर्मं ज्ञानं च प्रतिपादयतो जिनवाक्यस्य प्रामाण्यावधारणं यदुक्तं तन्नोपपद्यत इत्यर्थः ।

कुतो नोपपद्यत इत्यतो हेतुं वक्तुमुपोद्घातत्वेन प्रत्यक्षानुमानागमस्वरूपं क्रमेण तावदाह विषयानिति ।

अनु०-विषयान्प्रति स्थितं ह्यक्षं प्रत्यक्षमिति गीयते ।प्रत्यक्षशब्दानुसारादनुमेति प्रकर्तिता । आसमन्ताद्गमयति धर्माधर्मौ परं पदम् ।यच्चाप्यतीन्द्रियं त्वन्यत्तेनासावागमः स्मृतः

विषयान् निर्दोषान् प्रति स्थितं तैः सन्निकृष्टमक्षमदुष्टमिन्द्रियम् । जातावेकवचनम् । यस्येन्द्रियस्य यो विषयोऽन्वयव्यतिरेकाभ्यामवगतः तेन अदोषेण सन्निकृष्टमदुष्टं तत्प्रत्यक्षमित्यर्थः ।

अनेन प्रादिसमासोऽयं नाव्ययीभाव इति सूचितम् । तथा सति प्रत्यक्षस्येति षष्ठी न श्रूयेत ।

यद्यपि प्रतिस्थितमक्षं प्रत्यक्षम् । तथाऽपि योग्यतया विषयाणां सम्बन्ध इति हिशब्देन आचष्टे ।

प्रत्यक्षशब्दानुसारात् प्रत्यक्षागमानुसारेणैव मानत्वात् । अनुसरणं च तद्गृहीतधर्म्यादिमत्त्वं तदबाधिताप्रतिबद्धविषयत्वं च । प्रकर्तिताऽनुमेति शेषः । याऽनुमा प्रसिद्धा साऽस्मान्निमित्तादनुमेति प्रकर्तिता । यद्यप्यनुसृता माऽनुमा तथाऽपि सामर्थ्यात् प्रत्यक्षादिसम्बन्धः । अनुमानमूलाऽनुमाऽप्यन्ततः प्रत्यक्षादिमूलैवेत्युक्तं प्राक् ।

आ इत्यनुवादेन समन्तादिति व्याख्यानम् । सम्यक् चेत्यपि ग्राह्यम् । गमयति ज्ञापयति । करणे कर्तृत्वोपचारः । ग्रहवृदृनिश्चिगमश्चेत्यकर्तरि भावे वा अपो विधानात् अनुप्रमाणविषयं चेदं व्याख्यानं ज्ञातव्यम् । यच्च धर्मादिभ्योऽन्यदतीन्द्रियमपिशब्दादननुमितं च । तु शब्दोऽवधारणे । तेनैवेति सम्बध्यते ।

यद्यप्या सम्यक् समन्तात् सर्वं गम्यते अनेनेत्यागमः । तथाऽपि प्रत्यक्षानुमानावगतेऽर्थे तस्य वैयर्थ्यादतीन्द्रियमपीत्युक्तम् । तस्य विवरणं धर्मेत्यादि । य आगमः प्रसिद्धोऽसौ ।

९९सु०- निर्वचनमात्रमेवैतत्प्रत्यक्षादिशब्दानाम् । न च निर्वचनलभ्योऽर्थोऽतिव्याप्तिपरिहारेणावश्यम्भावीत्यस्ति नियमः । व्याघ्रपर्ण्यादिष्वभावादिति न मन्तव्यमित्याशयवानाह एतेनेति ।

अनु०-एतेन कारणेनैव तत्तन्मानत्वमिष्यते

तत्तन्मानत्वं प्रत्यक्षादीनां प्रत्यक्षादित्वं प्रत्यक्षादिशब्दवाच्यत्वमिष्यते प्रामाणिकैः । प्रत्यक्षादिषु प्रत्यक्षादिशब्दप्रवृत्तौ निमित्तमेवैतत् । न तु निर्वचनमात्रलभ्योऽर्थ इत्यर्थः । कुत इत्यत आह स्वरूपं हीति ।

अनु०-स्वरूपं हि तदेतेषाम्

तत् निर्दोषविषयसन्निकृष्टनिर्दोषेन्द्रियत्वादिकम् एतेषां प्रत्यक्षादीनां स्वरूपं लक्षणं हि इत्यर्थः । लक्षणं हि शब्दप्रवृत्तिनिमित्तं भवति । एतदपि कुत इत्यत आह अन्यथेति ।

अनु०- अन्यथाऽसिदि्धमानतः

अन्यथाऽसिदि्धश्च तन्मानं च । प्रकारान्तरेण प्रत्यक्षादिलक्षणानां निरूपयितुमशक्यत्वादित्यर्थः । तथा चोक्तम् ।

१००सु०- ततः किं यद्येवं प्रत्यक्षादिस्वरूपमित्यत आह अत इति ।

अनु०-अतोऽनुमा कथं धर्मं पुद्गलं चापि दर्शयेत्

अनुमे त्यनुमानावगतप्रामाण्यं जिनवाक्यमुच्यते । चापि शब्दावितरेतरसमुच्चये । दर्शयेत् प्रतिपादयेत् ।

इदमुक्तं भवति । जिनवाक्याद्धर्मादिसिदि्धरिति वदता किं प्रमाणमुक्तं भवति । आगम इति चेन्न । सम्यक् प्रत्यक्षाद्यन(वग)धिगतार्थप्रतिपादकस्यैवागमत्वात् । जिनवाक्यस्य च तदसिद्धेः । जिनो हि प्रमाणेनार्थमुपलभ्य वाक्यं प्रणीतवानन्यथा वा । द्वितीये पौरुषेयस्य निर्मूलस्योन्मत्तवाक्यवत् सम्यक्तवं दुर्लभम् । आद्ये प्रत्यक्षेणानुमानेन वाऽवगतौ तदनधिगतार्थतासम्भवः । वाक्यान्तरेण चेदन्धपरम्परापत्त्या पुनरसम्यक्तवमेव ।

१०१सु०- एतेन विमतं प्रमाणमाप्तवाक्यत्वात्, जिन आप्तोऽस्खलितवाक्तवादित्यनुमानं जिनदर्शिनां वाक्यं च प्रत्युक्तम् । तथा हि । आप्तत्वविषयं वाक्यं तावन्निर्मूलं चेदसम्यगेव । वाक्यान्तरमूलत्वेऽपि तथा । न च प्रत्यक्षं मूलम् । विषयान्प्रति स्थितस्याक्षस्य प्रत्यक्षत्वात् । न चाप्तत्वरूपापरचित्तवृत्तिरपरोक्षविषयतामश्नुते । अतोऽस्खलितवाक्तवाद्यनुमानमूलमित्येव वक्तव्यम् ।

न चैतदनुमानम् । प्रत्यक्षाद्यनुसरणेनार्थगमकस्यानुमानत्वात् । न चैतत् प्रकृते अस्ति । आप्तवाक्यत्वादित्यस्य हि यथाश्रुतार्थत्वे क्वचिदाप्तस्य विप्रलम्भकस्याज्ञस्य वाक्ये व्यभिचारः । आप्तिमूलवाक्यत्वादित्यभिप्राये विशेषणासिदि्धः । तत्त्वज्ञानादिलक्षणा खलु आप्तिः । तत्र धर्मादिविषयं तत्त्वज्ञानं तावन्न जिनस्य प्रत्यक्षजन्यम् । विषयान्प्रति स्थितस्य अक्षस्य प्रत्यक्षत्वात् । धर्मादेश्चाक्षाविषयत्वात् । तथात्वे वाऽन्येषामपि तदधिगतिप्राप्तेः । अत एव नानुमानजन्यम् । वाक्यान्तराभ्युपगमे त्वन्धपरम्परैव । एवमविप्रलिप्साऽपि दुरधिगमा ।

अत एवाप्तत्वसाधकमनुमानं कालात्ययापदिष्टम् । आप्तेरुक्तविधया बाधितत्वात् । अन्येषामप्रत्यक्षेऽर्थेऽस्य प्रत्यक्षं प्रवर्तत इत्यतो न विरोध इति चेन्न । पुरुषत्वादिना सत्प्रतिपक्षत्वात् । अस्खलितवाक्तवं च क्वचिद्वा प्रकृते वा सर्वत्र वा । नाद्यः । यः क्वचिदस्खलितवागसौ विषयविशेष आप्त इति व्याप्त्यभावात् । न द्वितीयः । निर्धारणोपायाभावात् । फलप्राप्त्यनुमेयं खल्वेतत् । अत एव न तृतीयोऽपि ।

यत्तु निःस्वेदत्वादिकं लिङ्गमुच्यते तत्तावत्सन्दिग्धासिद्धम् । औषधादिना सम्भवदन्यथासिद्धं च । न चायं मन्वादिवाक्येष्वपि प्रसङ्गः । अपौरुषेयतया मूलानपेक्षवेदमूलत्वात् । यद्वै किञ्चन मनुरवदत्तद्भेषजमि त्यादिवेदेनैवाप्तत्वादिनिश्चयाच्च । अतः प्रत्यक्षादीनामुक्तलक्षणत्वाज्जिनतद्दर्शितप्रत्यक्षे परोपन्यस्तानुमाने जिनादिवाक्ये च तदभावादनुमानादिसिद्धाप्तभावजिनवाक्याद्धर्मादिसिदि्धरित्यसदिति ।

१०२सु०- न केवलं जिनस्यास्खलितवाक्तवं निश्चायकाभावादसिद्धम् । किन्तु स्खलनदर्शनादपीत्याशयेनाह स्वरूप इति ।

अनु०-स्वरूपे पुद्गलस्योक्ता दोषाः

विषयसप्तमीयम् । अपुद्गलशब्देन नञिवयुक्तन्यायेन पुद्गलाद्देहादन्यस्तत्सदृशश्चात्मोच्यते पुद्गलशब्देनैव वा । उक्ताः एवं चात्मा कार्त्स्न्यम् इत्यादिना । अयमर्थः । जिनेनात्मस्वरूपं शरीरपरिमाणं रूपवच्चोक्तम् । तत्प्राग्दूषितमिति स्खलितवागसाविति । यद्यपि सप्तभङ्गिनयोऽपि तदुक्तो दूषितस्तथाऽपि मोक्षसाधनं यात्पुद्गलदर्शनमुक्तं तत्रैव स्खलनप्रदर्शनायेयमुक्तिः । ननु एतदपि पूर्ववाक्येन सिद्धम् । सत्यम् । प्रपञ्चार्थ उत्तरबन्ध इत्यदोषः ।

१०३सु०- प्रकारान्तरेणात्मस्वरूपे जिनवचनस्खलनं दर्शयति आनन्दमेवेति ।

अनु०- आनन्दमेव च ।न मन्यते पुद्गलं स

अत्रापि अपुद्गलपुद्गलशब्दाभ्यामात्मोच्यते । तत्त्वविद आत्मानम् आनन्दमेव आनन्देन अत्यन्ताभिन्नं मन्यन्ते । स जिनस्तमानन्दमेव न मन्यते । भिन्नत्वादिना सप्तप्रकारं ब्रवीति । तत्सप्तभङ्गीनयनिरासेन पुंस्त्वादिवदित्यात्मनः सुखाद्यत्यन्ताभेदसाधनेन च निरस्तम् । अतश्च स्खलितवागसाविति भावः ।

१०४सु०- इतश्च तथेत्याह दुःखेति ।

अनु०- दुःखाभावः सुखं त्विति

तु शब्द आत्मव्यावृत्त्यर्थः । इति शब्दो हेतौ । पूर्वेणैव सम्बन्धः । यस्मादात्मा भावः । सुखं तु दुःखाभावः । न च विरुद्धस्वभावयोरत्यन्ताभेदो दृष्टः । तस्मादात्मा न सुखात्यन्ताभिन्न इति जिनो ब्रूते । तच्चायुक्तमित्यतः स्खलितवागसौ । कुतस्तदयुक्तमित्यत आह मात्रेति ।

अनु०-मात्राभोगातिरेकेण सुखाधिक्यस्य दर्शनात्

मीयन्त इति मात्राः शब्दाद्या विषयाः । भोगोऽनुभवः । उपलक्षणं चैतत् । विषयभोगाल्पत्वेन सुखाल्पत्वदर्शनत्वादित्यपि ग्राह्यम् । सुखं भावस्तारतम्योपेतत्वाद्दुःखादिवदिति प्रमाणविरुद्धत्वात् सुखस्य दुःखाभावत्ववचनमयुक्तमित्यर्थः । सुखस्य तारतम्योपेतत्वसमर्थनाय दर्शनादिति साक्षी तत्र प्रमाणत्वेन दर्शितः ।

यस्तु तत्रापि विप्रतिपन्नस्तं प्रत्यनिष्टप्रसङ्गं सूचयितुं मात्राभोगातिरेकेणेत्युक्तम् । यदि सुखं निरतिशयं स्यात् तदा प्रेक्षावतां विषयभोगातिरेकोपादानं व्यर्थं स्यात् । दृश्यते च तदिति ।

१०५सु०- ननु न सुखं तारतम्योपेतं किन्तु दुःखं भावभूतं तारतम्योपेतं तदभावश्च सुखम् । तद् यावद्यावन्निवर्तते तावत्तावत्सुखमिति प्रतीयते । न च प्रतियोगरूपोपाधिनिमित्ता तारतम्योपलब्धिस्तात्त्विकं तदुपपादयितुमीष्टे । विषयभोगातिरेकोपादानं च दुःखातिरेकव्यावृत्त्यर्थम् । विषयभोगसाध्यत्वाद् दुःखाभावस्येत्यत आह सुखस्येति ।

अनु०-सुखस्याभावता केन

भवेदेतत्प्रतीत्यादेरौपाधिकत्ववर्णनम् । यदि सुखस्याभावता प्रमाणेन सिद्धा स्यात् । सुखस्याभावता केन न केनापि प्रमाणेन सिद्धेत्यर्थः । एवमेव प्रतीत्यादेरौपाधिकत्ववर्णने बाधकमाह न चेति ।

अनु०-न च स्यात्किं विपर्ययः

यदि निर्निबन्धनमेव सुखतारतम्यदर्शनादेरौपाधिकत्वं कल्प्यते । तदा सुखं भावरूपं दुःखं तदभावः । तत्र तारतम्यदर्शनं प्रतियोगिसुखोपाधिनिमित्तम् । सुखनिवृत्त्यर्थानि चाहिकण्टकादीनीति परोक्तविपर्ययश्च किन्न स्यात् । स्यादेव । अतो द्वयोरप्यनुपलभ्यमानविशेषत्वात् स्वाभाविकतारतम्ययोर्भावत्वमङ्गीकर्तव्यमिति ।

१०६सु०- सुखमभावो वस्तुत्वात्सम्मताभाववदिति प्रमाणासद्भावात् कथं सुखस्याभावता केनेत्युक्तमिति चेत् । किमेवंवादिनो मते कश्चिद्भावो विद्यते । उत सर्वेऽप्यभावाः । आद्ये दोषमाह यदीति ।

अनु०-यदि भावोऽपि कश्चित्स्यात्तस्यैवाभावता कुतः

वस्तुत्वेन सुखस्याभावतामनुमिमानस्य मते यदि कश्चित्पदार्थो भावोऽपि स्यात् ।

तर्हि तस्य सुखस्यैवाभावता कुतः । अपि तु भावत्वेनाङ्गीकृतस्यापि पदार्थस्याभावता स्यात् । अन्यथा वस्तुत्वस्य तत्र व्यभिचारापत्तेः ।

ननु सर्वेऽपि पदार्था अभावा भवन्त्येवेति नोक्तो दोषः । यद्यपि घटादीनामनादित्वाद्यापत्त्या प्राक्प्रध्वंसात्यन्ताभावत्वमनुपपन्नम् । तथाऽप्यन्योन्याभावत्वं युज्यत एव । घटे हि पटाद्यन्योन्याभावः प्रमाणसिद्धः । न चान्योन्याभावो धर्मिणोऽन्योऽस्ति । अतो घट एव पटाद्यन्योन्याभावः । एवं पटादयोऽपीति द्वितीयं शङ्कते यदि सर्वेऽपीति ।

अनु०-यदि सर्वेऽप्यभावाः स्युरन्योन्यमिति

सर्वेऽपि पदार्था अन्योन्याभावाः स्युरिति यदि मन्यस इत्यर्थः ।

उत्तरमाह भावतेति ।

अनु०- भावता ।अभावाभावतैव स्यात्किन्नश्छिन्नं तदा भवेत्

तदैवं सर्वपदार्थानामन्योन्याभावत्वव्युत्पादनेन नः अस्माकं किं छिन्नं भवेत् । न

किमपि । कथम् । यतः अभावाभावता भावता एव स्यात् । इदमुक्तं भवति । सुखस्य वस्तुत्वेन साध्यमानमभावत्वं किं प्रागभावादित्रयान्यतमत्वम् । अथवाऽन्योन्याभावत्वम् । उत सामान्यम् । आद्ये प्रागुक्तदोषापरिहारः । द्वितीयतृतीययोः सिद्धसाधनम् । अस्माभिरपि सुखादीनां सर्वपदार्थानामन्योन्याभावतास्वीकारात् । न च भावत्वाङ्गीकारविरोधः । सुखं हि स्वान्योन्याभावदुःखा(द्य)न्योन्याभावः । अभावाभावश्च भाव एव । एवम्भूतं चाभावत्वं सुखस्य नात्मस्वरूपतां विरुणादि्ध । आत्मनोऽपि तथात्वादिति ।

१०७सु०- अभावाभावता भावतैव स्यादित्युक्तम् । तदुपपादयितुं भावाभावस्वरूपं तावदाह भावत्वमिति ।

अनु०-भावत्वं विधिरूपत्वं निषेधत्वमभावता

भावत्वं नाम विधिरूपत्वम् अभावत्वं नाम निषेधत्वमिति योजना । शब्दप्रवृत्तिनिमित्तनिष्कर्षार्थं भावप्रत्ययः । अन्यथेन्द्रः पुरन्दर इतिवत्स्यात् । ततः किमित्यत आह निषेधस्येति ।

अनु०-निषेधस्य निषेधोऽपि भाव एव बलाद्भवेत्

यस्मादभावो नाम निषेधस्तस्मादभावस्याभाव इति निषेधस्यापि निषेध इत्युक्तं स्यात् । स च विधिरेव भवेत् । दर्शनबलात् । दृष्टो हि नेयङुवङ्स्थानावि ति निषेधस्यास्त्रीति निषेधो विधिः । वक्ष्यते चैतत् । विधिश्च भाव एवेत्युक्तम् । तस्मादभावाभावता भावतैवेति युक्तम् ।

१०८सु०- एवं तर्हि द्रव्यादयो भावाः प्रागभावादयोऽभावा इत्यन्यत्रोक्तनियमो न स्यात् । घटस्यापि न पट इति निषेधरूपतायाः प्रागभावस्यापि प्रमेय इति विधिरूपताया दर्शनादित्यतः प्रागुक्तं स्मारयति प्रथमेति ।

अनु०-प्रथमप्रतिपत्तिस्तु भावाभावनियामिका

कृतव्याख्यानमेतत् ।

१०९सु०- एवं जिनस्य स्खलितवाक्तवप्रदर्शनेन तदुक्तस्य मोक्षसाधनस्याप्रामाणिकत्वमुक्तम् । युक्तिविरुद्धत्वं च दर्शयन्नात्मज्ञानस्य यन्मोक्षसाधनत्वमुक्तं तत्किं साक्षादुतात्मप्रसादद्वारेति विकल्प्याद्यं तावन्निराकरोति न चेति ।

अनु०-न च पुद्गलविज्ञानं मोक्षदं भवति क्वचित्

आत्मविज्ञानं मोक्षदं न भवति अचेतनत्वात् पटवदिति शेषः । अस्य व्याप्तिमुपपादयति क्वचिदिति । नेति वर्तते । मोक्षदमिति च । तच्च भावप्रधानम् । न हि क्वचिदप्यचेतने मोक्षदत्वं दृष्टम् । येन व्याप्तिर्न स्यात् । कर्मणस्तथात्वं निराकरिष्यते । ज्ञानं तु चैतन्यमेव न चेतनमिति प्रसिद्धमेव ।

आत्मा ज्ञातः प्रसन्नो मोक्षं ददातीति द्वितीयं दूषयति अस्वातन्त्र्यादिति ।

अनु०-अस्वातन्त्र्यात्पुद्गलस्य ज्ञातोऽपि सुखदो न हि

ज्ञात आत्माऽपि सुखदो मोक्षदो न भवति । कुतः पुद्गलस्यात्मनोऽस्वातन्त्र्यात् । हिशब्देन पटादौ व्याप्तिः स्फुटेति सूचयति । अस्वातन्त्र्यं चानुपदमेव ज्ञास्यते । आत्मनः सुखमात्रदानं नोपपद्यते । किमुतानन्तसुखमोक्षदानमिति सूचयितुं सुखद इत्युक्तम् ।

११०सु०- पक्षद्वयं हेत्वन्तरेण निराकरोति न हीति ।

अनु०-न हि दुःखिपरिज्ञानाद् दुःखित्वं विनिवर्तते

आत्मज्ञानमात्यन्तिकदुःखनिवृत्तिहेतुर्न भवति दुःखिज्ञानत्वाद्देवदत्तज्ञानवत् । जैनेनापि स्वात्मज्ञानमेव मोक्षसाधनमुच्यते नात्मज्ञानमात्रम् । ईश्वरज्ञाने व्यभिचारनिरासाय दुःखीत्युक्तम् । तस्यापि साक्षान्मोक्षसाधनत्वाभावविवक्षायां ज्ञानत्वादित्येव वक्तव्यम् । यद्वाऽऽत्मा दुःखं निवर्तयितुमशक्तः । दुःखित्वाद्यो यदनर्थवान्नासौ तन्निवर्तने शक्तो यथा दरिद्रो दारिद्र्यनिवर्तने इति तात्पर्यार्थः । दुःखित्वोक्तयाऽस्वातन्त्र्यं समर्थितं स्वातन्त्र्ये हि जातु न दुःखी भवेदिति ।

१११सु०- स्यादेतत् । नात्मज्ञानं देवदत्तो गामिव मोक्षं ददाति । किन्तु प्रकाशोऽन्धकारमिव विरोधाद् दुःखं निवर्तयति । तत्र किमचैतन्यं करिष्यति । स्वात्मज्ञानमेव च स्वदुःखविरोधि नात्मज्ञानमात्रमिति द्वितीयहेतुरप्यप्रयोजक इत्याशङ्क्याह यदीति ।

अनु०-यदि पुद्गलविज्ञानाद् अदुःखी स्यात् कथञ्चन । देहवानपि नादुःखी किं ज्ञानादुत्तरं सदा

कथञ्चन दुःखात्मज्ञानयोर्विरुद्धत्वेन । तर्हि ज्ञानादुत्तरकालं देहवानपि सदा निरन्तरमदुःखी किन्न स्यात्, स्यादेव । एतदुक्तं भवति । प्रकाशः खल्वन्धकारविरोधित्वात् तन्निवर्तयन् उत्पत्त्यनन्तरमेव निवर्तयति न तु विलम्बेन । विलम्बे विरोधस्यैवानिर्वाहात् । तथाऽत्मतत्त्वज्ञानं यदि दुःखाद्यनर्थविरोधित्वात् तन्निवर्त्य आत्मानं मुक्तं कुर्यात् । तर्हि जिनादयः तत्त्वज्ञानसम्पन्ना ज्ञानोत्पत्त्यनन्तरमेव मुक्ताः स्युः । न चैवम् । देहादिमत्त्वेनोपलम्भात् । तथाविधानां च दुःखादेरवर्जनादिति । इष्टापत्तिनिरासाय सदेत्याद्युक्तम् ।

अयमत्र प्रयोगः । दुःखादिकमात्मतत्त्वज्ञानविरोधि न भवति बहुलं कालं तेन सह स्थितत्वात् सम्मतवदिति ।

किञ्चात्मतत्त्वज्ञानं न तावदामोक्षादेकम् । ज्ञानानां क्षणिकत्वदर्शनात् । तथा च यदनन्तरं मोक्षोऽभिलष्यते तज्जिनस्य चरमज्ञानं न मोक्षसाधनमात्मज्ञानत्वात् प्रथमादिज्ञानवत् । अन्यथा प्रथममेव मोक्षं साधयेदविशेषादिति ।

११२सु०- ननु भवदि्भरीश्वरज्ञानं मोक्षसाधनमभ्युपेयते । तत्रापि समानमिदं दूषणमित्यत आह ईशेति ।

अनु०-ईशक्ऌप्त्यनुसारेण स्यात्कालादीशवादिनः

ईशवादिनः मम मते तदिच्छाविशेषानुसारेण कालात्कञ्चन कालमतिवाह्य मुक्तिः

स्यात् ।

अयमभिसन्धिः । न वयमीश्वरज्ञानं मोक्षसाधनमाचक्ष्महे । किन्नाम प्रसन्नः परमेश्वर एव । ज्ञानं तु प्रसादत्वान्मोक्षसाधनमिति गीयते । स च चेतनः कामपि कालकल्पनां करोति । अस्मिन्समयेऽमुं मुक्तं करिष्यामीति । तत्कल्पनानुसारेण भवत्येवासौ मुक्त इति न कश्चिद्दोषः । यथा ब्राह्मणस्य विद्याचरणादिना प्रसन्नोऽपि प्रभुश्चेतसा कल्पयति । आगामिनि सूर्योपरागेऽस्मै गां दास्यामीति । स तदनुसारेण तस्माद्गां लभते तथैवेति ।

११३सु०- एवमात्मज्ञानस्य मोक्षसाधनत्वं निराकृत्य धर्मस्यापि तं निराचष्टे कर्मेति ।

अनु०-कर्महेतुत्वमपि तु निश्चैतन्यान्न हि क्वचित्

कर्मणो हेतुत्वं कर्महेतुत्वं मोक्षं प्रति । यद्वा कर्महेतुत्वमिति बहुव्रीहिः । मोक्षस्येति

शेषः । तुशब्दोऽवधारणे । नैवेति सम्बन्धः । निश्चैतन्यात् कर्मणः । विमतं कर्म न मोक्षसाधनं भवति अचेतनत्वात् पटवदित्यर्थः । व्याप्तिमुपपादयति न हीति । नेत्युभयत्र सम्बध्यते । न हि क्वचिदचेतने मोक्षसाधनत्वमावयोः सम्मतम् । येनात्र व्याप्तिर्न स्यादित्यर्थः ।

११४सु०- नन्वचेतनत्वेऽपि विशिष्टं कर्मेदं मोक्षसाधनं किन्न स्यादिति चेत् । किम् आमोक्षप्राप्तेः क्रियमाणमेकमेव कर्मोतानेकानि । नाद्यः । क्रियाणामनेकत्वदर्शनात् । प्रतिक्रियं कर्मोत्पत्तेः । एकत्वे च जातस्यैव जन्म वा क्रियाणां वैयर्थ्यं वा विरम्यव्यापारो वाऽऽपद्येत । अभ्युपगम्यैकत्वं बाधकमाह अशेषेति ।

अनु०-अशेषदुःखविलये नेदानीं कारणं यथा । तथोत्तरं न चैव स्यात्

यथेदानीं प्रथमक्रियोत्तरकालं जातं कर्म अशेषदुःखविलये मोक्षस्य कारणं न भवति । तथोत्तरकालं विवक्षितकालेऽपि मोक्षकारणं न स्यात् । कर्मत्वादिति शेषः । एकस्यापि कर्मणः कालभेदेन भेदात् पक्षसपक्षत्वं युज्यते । विपक्षे तूत्पत्त्यनन्तरमेव मोक्षं साधयेदविशेषादिति ।

द्वितायेऽपि बाधकं प्रमाणमाह अशेषेति । अत्रेदानीमितीदानीन्तनी कर्मव्यक्तिरुच्यते । उत्तरमित्यन्तिमा । अन्यत् समानम् । न चान्तिमकर्मव्यतिरिक्तानां कर्मणां मोक्षसाधनत्वमस्ति । तथा सति तदनन्तरमेव मोक्षप्रसङ्गात् । न च पूर्वसहकृतस्यान्तिमस्य कर्मणो मोक्षसाधनत्वं वाच्यम् । इयत्ताभावेनानियतकारणकत्वापत्तेः । न हि ज्ञानोदयानन्तरमियतैव कालेनेयन्त्येव कर्माणि कृत्वाऽपव्रज्यत इति नियमः प्रमाणवान् । न च जैनैरिष्यते । जिनानां विषमकालत्वाभ्युपगमात् ।

११५सु०- आभासोद्धारं करोति दृष्टीति ।

अनु०- दृष्टिपूर्वाऽनुमा यतः

यस्मादियं दृष्टिपूर्वा प्रमाणगृहीतव्याप्त्यादिमती । ततः अनुमा न त्वाभास इत्यर्थः ।

यदुक्तमीशक्ऌप्त्यनुसारेणेति तदसत् । ज्ञानादीश्वरप्रसादः ततो मुक्तिरित्यत्र प्रमाणाभावादिति चेन्न । श्रुतेः सद्भावात् । तत्प्रामाण्यस्य साधितत्वात् ।

आभासानुद्धरन्नेव (वा)चानुमानमप्याह दृष्टीति ।

अनु०-शक्तस्यान्यस्य विज्ञानं तत्प्रीतिजनकं यदि ।तयैव बन्धहानिः स्यादिति किन्नाम दूषणम्

शक्तस्यान्यस्य विज्ञानं विशिष्टज्ञानं गुणोत्कर्षादिज्ञानमिति यावत् । तत्प्रीतिजनकं इति यदि अनुमीयते । यदि च तया तत्प्रीत्या एव बन्धहानिः स्यादिति अनुमीयते । तदा किन्नाम दूषणम् । न किमपि । कुतः । यतो दृष्टिपूर्वा प्रमाणगृहीतव्याप्त्यादिमतीयमनुमेत्यर्थः । अर्थमात्रमिदमुक्तम् ।

एषा तु प्रयोगप्रक्रिया । संसारबन्धहानिः समर्थपुरुषान्तरप्रीतिनिबन्धना बन्धहानित्वात् राजप्रसादाधीनभृत्यनिगडबन्धहानिवत् । यश्चासौ पुरुषः स एवेश्वरः । विप्रतिपन्ना प्रीतिर्गुणोत्कर्षादिज्ञानजा अनिजप्रीतित्वाद्राजप्रीतिवत् । कर्मादिना भवन्नीश्वरप्रसादोऽपि गुणोत्कर्षादिज्ञाने सत्येवेति न दोषः ।

यद्वेश्वरविषयं गुणोत्कर्षादिज्ञानं तत्प्रीतिजनकं गुणोत्कर्षादिज्ञानत्वात् सम्मतवत् । न चेश्वरासिद्ध्या दोषः । प्रथमानुमानेन तस्य सिद्धत्वात् । तदिदमुक्तं शक्तस्यान्यस्येति ।

११६सु०- नन्तेतद्विपरीतमपि मयाऽनुमीयते । ततः सात्प्रतिपक्षतेति चेत् । किं विमता बन्धहानिः स्वज्ञाननिबन्धनेत्यनुमीयते उत परप्रसादनिबन्धना न भवतीति । आद्ये दोषमाह स्वज्ञानादिति ।

अनु०-स्वज्ञानाद्बन्धहानिस्तु दृश्यते कस्य कुत्रचित्

दृश्यत इत्येतत्काक्वा न दृश्यत इति व्याख्येयम् । तथा च व्याप्त्यभाव इति भावः । द्वितीये तु बन्धहानित्वादे राजप्रसादाधीननिगडबन्धहान्यादौ व्यभिचारः । परप्रसादनिरपेक्षैव काचिद् बन्धहानिः दृश्यते । तत्र भवतामपि व्यभिचार इति चेन्न । पक्षतुल्यत्वात् सर्वाऽप्यनिष्टनिवृत्तिरीश्वरप्रसादाधीनेति हि तत्त्वविदां पन्थाः ।

११७सु०- यदुक्तं धर्मज्ञानयोर्मोक्षसाधनत्वे तदैव मोक्षः स्यादिति तदसत् । कर्मणः प्रतिबन्धकस्य सद्भावात् । न हि प्रतिबन्धकवशात् कार्यमकुर्वाणो हेतुरहेतुर्भवति । अतिप्रसङ्गात् । अनेकविधं खलु कर्म । तत्र यद्यपि ज्ञानावरणा(णीया)दिकं ज्ञानादेव निवृत्तम् । तथाप्यायुरादिकारणमस्त्येवेति चेत् ।

स्यादिदं प्रतिबन्धकसद्भावकल्पनं यदि अहिंसादिरूपो धर्मः, शरीरपरिमाणत्वादिनाऽऽत्मज्ञानं च तत्त्वज्ञानम्, एते च धर्मज्ञाने मोक्षसाक्षने इत्येषोऽर्थः प्रमितो भवेत् । न चैवम् । एवमेव कल्पनेऽतिप्रसङ्ग इत्याशयवान् धर्मादिस्वरूपे तावत्

प्रमाणं नास्तीत्याह अहिंसायाश्चेति ।

अनु०-अहिंसायाश्च धर्मत्वं केन मानेन गम्यते

च शब्दो ज्ञानसङ्ग्रहार्थः । यद्वा सप्तघटिकाभोजनादिसमुच्चयार्थः । ज्ञानविशेषस्य चोपलक्षणम् । जिनवाक्येेनावगम्यत इति चेन्न । तत्प्रामाण्यसाधकाभावस्योक्तत्वात् ।

११८सु०- सत्प्रतिपक्षं च जिनवाक्यमित्याह हिंसाया एवेति ।

अनु०-हिंसाया एव धर्मत्वमित्युक्ते स्यात्किमुत्तरम्

अत्रापि पूर्ववदुपलक्षणं ज्ञातव्यम् । जिनवाक्यादहिंसाया धर्मत्वं प्रतिपन्नस्य भिन्नकाचार्येण हिंसाया एव धर्मत्वमित्युक्ते किमुत्तरं स्यान्न किमपि । तथा च न धर्मनिश्चयः स्यात् । भिन्नकाचार्यो नाप्त इति चेत् । जिनोऽपि कथमाप्तः । (सार्वज्ञगु)सर्वगुणोपेतत्वादिति चेत् । भिन्नकाचार्येऽपि तुल्यमेतत् । अप्रामाणिकास्तत्र ते गुणा इति चेत् । जिनेऽपि किं प्रमाणसिद्धाः । जिनदर्शिनां वचनेन तेषां तत्र सिदि्धरिति चेन्न । समानमन्यत्रापि । भिन्नकाचार्यदर्शिनो भ्रान्ताः प्रतारका वेति चेत् । जिनदर्शिनोऽपि कुतो न तथेति ।

११८असु०- इदानीं धर्मादेर्मोक्षसाधनत्वमप्यप्रामाणिकमित्याह धर्मस्येति ।

अनु०-धर्मस्य सुखहेतुत्वमपि केनावगम्यते

सुखं मोक्षः । जिनवाक्येनावसीयत इति वदतः पूर्ववत् सत्प्रतिपक्षतेत्याह हत्याया इति ।

अनु०-हत्याया मोक्षहेतुत्वं कुतो मानान्निवार्यते

मोक्षहेतुत्वं केनचिदाचार्येणोक्तमिति शेषः । हनस्त चेत्यत्र सुपीति नानुवर्तते । ब्रह्महत्यादयस्तु षष्ठीसमासाः । अतो हत्येति साधुः । सन्ति खल्वक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवती त्यादिश्रुतिमनुसृत्य हिंसात्मकस्य यागस्य मोक्षहेतुत्वं वदन्त इत्ययुक्तमेव जैनानां मोक्षसाधनमिति ।

११९सु०- अधुना बौद्धाभिमतं मोक्षसाधनं निराकुर्वाणः शून्यवाद्युक्तं तावदपाकरोति न चेति ।

अनु०-न च शून्यपरिज्ञानाच्छून्यभावनयाऽपि च ।मोक्षः कथं च न भवेत्

शून्यमेव तत्त्वं समस्तं तत्राध्यस्तमिति परिज्ञानात् । तथैव शून्यभावया शून्यध्यानेन । अपिचावन्योन्यसमुच्चये । मोक्षो न भवेदिति सम्बन्धः । कथं च नेत्यनेनेदमाचष्टे । शून्यपरिज्ञानादिकं मोक्षसाधनमित्यत्र प्रमाणाभावात् तयैव बन्धहानिः स्यादित्युक्तप्रमाणविरोधाच्चेति । यद्वा शून्यपरिज्ञानादिकं किं स्वयमेव मोक्षं साधयति किंवा शून्यप्रसादजननेन । नाद्यः । अचेतनत्वात् पटवत् । न द्वितीयः । शून्यस्य प्रसादगुणानङ्गीकारात् । अन्यथा शून्यत्वव्याघातादिति ।

१२०सु०- स्यादेतत् । बन्धस्तावत्संवृतिनामकाज्ञाननिमित्तोऽध्यासः । संवृतिश्च विरोधिना शून्यज्ञानेन निवर्त्यते । ततस्तन्मूलो बन्धाध्यासोऽपीति किमचेतनत्वादिकं करिष्यति । न च एवम्भावनावैयर्थ्यम् । असम्भावनाविपरीतभावनानिवृत्त्यर्थत्वादिति । मैवम् । बन्धस्याध्यस्तताया निरस्तत्वात् । अङ्गीकृत्य दोषमाह यदीति ।

अनु०- यदीदानीं कथं न सः ।

शून्यपरिज्ञानादित्यादिकं सर्वमनुवर्तते । शून्यज्ञानेन कथञ्चनेति शङ्कितरीत्या मोक्षो भवेदिति यद्युच्यते तर्हि स मोक्षः कथमिदानीं ज्ञानोदयानन्तरक्षणे न भवेत् । तदैव भवितव्यमित्याशयः । न हि प्रदीपस्य विरोध्यन्धकारनिवर्तने विलम्बोऽस्ति ।

अङ्गीक्रियन्ते च शून्यज्ञानसमनन्तरमपि संसरन्तः पुरुषाः परेण । असम्भावनाविपरीतभावनासद्भावाद्विलम्ब इति चेत् । ते किं संवृतिकार्ये न वा । द्वितीये शून्यवदनिवृत्तिरेव । आद्ये संवृतौ निवृत्तायां कथं तदनिवृत्तिः । अन्यथा संवृत्यनिवृत्तिर्वा तदकार्यत्वमेतयोर्वा स्यात् । संवृतेरनिवृत्तौ च कथं ज्ञानविरोधित्वम् । पश्चादपि कथं निवृत्तिः ।

१२१सु०- ननु यथा भवन्मते ज्ञानोदयानन्तरमपि संसारावस्थानं तथाऽस्मन्मतेऽपि किं

न स्यादित्यतो वैषम्यमाह परेति ।

अनु०-परप्रसादनेच्छोस्तु विलम्बो नाम युज्यते । पुमिच्छाधीनता नो चेद्विलम्बः किं कृतो भवेत्

अनुष्ठितस्वकृत्यस्यापि तेन परप्रसादनेच्छोस्तु फलावाप्तौ विलम्बो नाम युज्यते । लोके तथा दर्शनात् । मोक्षस्य पुरुषान्तरप्रसादाधीनता नो चेदास्थीयते केवलं शून्यज्ञानं बन्धविरोधित्वात् बन्धं निवर्तयतीत्यङ्गीक्रियते तदा ज्ञानोदयानन्तरं मोक्षस्य विलम्बः किं निबन्धनो भवेत् । प्रतिबन्धकत्वेन कल्प्यमानस्य संवृतिकार्यत्वेन ज्ञानविरोधित्वात् । न हि प्रबोधानन्तरं स्वाप्नबन्धनिवृत्तेर्विलम्बोऽस्ति ।

१२२सु०- परप्रसादानपेक्षेष्वपि कार्येषु विलम्बोऽस्ति । त्रिवृन्मूलाभ्यवहरणादौ कृतेऽपि विरेचनादेर्विलम्बदर्शनात् । तत्कथमुच्यते पुमिच्छाधीनताभावे विलम्बो न भवेदिति । तत्राह अन्यत्रापीति ।

अनु०-अन्यत्रापि विलम्बास्तु स्युरीशेच्छानिमित्ततः

मोक्षादन्यत्र । एतावता कालेनेदं भवत्वितीशेच्छैव निमित्तं ततः । कुतोऽत्रेश्वरेच्छानिमित्तं कल्प्यत इत्यत आह अन्यथेति ।

अनु०-अन्यथा कारणं चेत्स्यात्किं कार्यं नोपजायते

ईश्वरेच्छाया अकल्पने कारणं स्याच्चेत्त्रिवृन्मूलादनादिमात्रं विरेकादेः कारणं यदि भवेत् तदा तस्य सद्भावात् कार्यं विरेकादिकं कस्मान्नोपजायते । उपजायेतैव । कार्यानुदयेनैव सामग्रीवैकल्यं कल्प्यते । न (चादृष्टवै) च दृष्टस्य वैकल्यमत्रास्तीति परमेश्वरेच्छैव कल्प्या ।

न च धर्मवैकल्यं कल्पयितुं युक्तम् । उत्तरकालमपि कार्यानुदयप्रसङ्गात् । न हि तन्मध्ये कश्चिद्धर्मोऽनुष्ठीयते । विद्यमान एव प्रागलब्धवृत्तिर्धर्म इति चेत् । केयं वृत्तिर्नाम । किं कार्यकरणमुत सहकारिसाहित्यम् । नाद्यः । करणमेव कुतो नास्तीति विचार्यमाणत्वात् । द्वितीये तदेव सहकारीश्वरेच्छैवोच्यते । औषधस्य शरीराशयव्याप्त्यभावात् कार्यानुदय इति चेन्न । तस्यापीश्वरेच्छामन्तरेणानुपपत्तेरिति ।

१२३सु०- किञ्च प्राप्तसाधनाभिमतानामपि मोक्षविलम्बे सामग्रीवैकल्यं वा प्रतिबन्धकसद्भावो वाऽन्यैर्वादिभिः कथञ्चिच्छक्यते वक्तुम् । न तु बौद्धेनेत्याशयवानाह कारणे सतीति ।

अनु०-कारणे सति कार्यस्य भावः सुनियतोऽस्य हि

अस्य बौद्धस्य मते कारणे सति कार्यस्य उत्पादः सुनियतः न त्वन्येषामिवाप्रतिबद्धकारणसामग्रयां सत्याम् । समर्थस्य क्षेपायोगादिति तद्वचनादिति हिशब्दार्थः । अतः शून्यविज्ञानादिकं न मोक्षसाधनमिति सिद्धम् ।

१२४सु०- विज्ञानवाद्युक्तं मोक्षसाधनं दूषयति विज्ञानेति ।

अनु०-विज्ञानवादिनश्चैव विज्ञानाद्वैतवेदनात् । विज्ञानभावनाच्चैव मोक्षो न घटते क्वचित्

द्वितैव द्वैतम् । स्वार्थिकोऽण् । न द्वैतमद्वैतम् । विज्ञानस्याद्वैतं विज्ञानाद्वैतम् । विज्ञानमेकमेव तत्त्वं न ततोऽन्यदस्तीति वेदनात् । विज्ञानभावनात् विज्ञानाद्वैतध्यानात् । आद्यश्चशब्दो वादिसमुच्चये । द्वितीयः साधनसमुच्चये । एव शब्दो नैव घटत इत्याद्यः सम्बध्यते । द्वितीयस्तु साधननियमार्थः । विज्ञानवादिन इति तेनै(ताभ्या)व ताभ्यां साधनाभ्यां भवतीति प्रतिपादितः । सामर्थ्याद्विज्ञानाद्वैतवेदनादिकं विज्ञानवादिनोक्तं मोक्षसाधनं नैवोपपद्यत इत्यर्थः ।

यद्वा विज्ञानवादिन इति तेन प्रतिपादिताद्विज्ञानाद्वैतवेदनादिकान्मोक्षो नैव घटते नैव सम्पद्यत इति योजना । कुत इत्यतः पूर्वोक्तं सर्वं स्मारयितुं क्वचित्काले ह्यसौ, न तु ज्ञानोदयोत्तरकाल एव भवतीत्युक्तम् ।

१२५सु०- वैभाषिकसौत्रान्तिकाभिमतं मोक्षसाधनं पराचष्टे अन्तरिति ।

अनु०-अन्तर्ज्ञानस्य बाह्ये च क्षणिकत्वस्य वेदनात् । भावनाच्चोक्तमार्गेण मानाभावान्न मुच्यते

शरीरान्तःस्थितस्य ज्ञानस्य । उपलक्षणमेतत् । विज्ञानवेदनासंज्ञासंस्काराणां बाह्ये स्थितस्य रूपस्य च यत्क्षणिकत्वं तस्य वेदनात् । उक्तमार्गेण क्षणिकत्वेन ।

न मुच्यते पुरुषः । कुतोऽत्रार्थे मानाभावात् । अकृताभ्यागमकृतविप्रणाशादयो दोषाः स्फुटा एवेति नोक्ताः ।

१२६सु०- एवं वेदबाह्यमतानि निराकृत्य वैदिकानि निराकुर्वाणः साङ्ख्योक्तं मोक्षसाधनं तावदनुवदति प्रकृतेरिति ।

अनु०-प्रकृतेः पुरुषस्यापि विवेको मुक्तिसाधनम् । इति साङ्ख्याः

प्रकृतेरन्तःकरणादिरूपायाः पुरुषस्य स्वात्मनः विवेकः स्वरूपतो धर्मतश्च भेददर्शनं साङ्ख्याः प्राहुः । दूषयति न चेति ।

अनु०-न चैतस्मिन्मानम्

एतस्मिंश्चार्थे मानं नास्ति । कथं नास्ति । य एनं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते । क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परमि त्याद्यागमानां सत्त्वादित्यत उक्तम् ईशाप्रसादत इति ।

अनु०-ईशाप्रसादतः

ईशप्रसादेन विना केवलं प्रकृतिपुरुषविवेको मोक्षसाधनमित्यस्मिन्नर्थे मानं नास्तीत्यर्थः । अयमभिसन्धिः । भवत्येव प्रकृतिपुरुषविवेको मोक्षसाधनम् । किन्तु भगवत्प्रसादसाधनत्वेन । प्रकृतिपुरुषविवेके हि पुरुषस्य वैराग्यं सम्पद्यते । विरक्तस्य भक्तयादिद्वारा भगवत्प्रसाद इति । तदर्थानि चैतानि वाक्यानि । निरीश्वरेण तु साङ्ख्येन साक्षान्मोक्षसाधनत्वं प्रकृतिपुरुषविवेकस्योच्यते । न च तस्मिन्विशेषे प्रमाणमस्तीति ।

नन्वेतानि वाक्यानि प्रकृतिपुरुषविवेकस्य मोक्षसाधनत्वं तावत् प्रतिपादयन्ति । न च पारम्पर्यकल्पने कारणमस्ति । अत एतेषामेव साक्षात्साधनत्वे प्रामाण्यमित्यत आह श्रुतय इति ।

अनु०-श्रुतयः स्मृतयश्चैव यदेशस्य प्रसादतः ।वदन्ति नियमान्मुक्तिं तमृतेऽतः कुतो भवेत्

यस्य प्रसादादित्याद्याः श्रुतयः । अज्ञानां ज्ञानदो विष्णुरित्याद्याश्च स्मृतयः । एव शब्दस्य न प्राकृतपुरुषवाक्यानीत्यर्थः । यदा यस्मात् । नियमात् साधनान्तरव्यवच्छेदेन । नापरेण । स एवैक इति वचनात् । तं प्रसादम् । भवेत् मुक्तिः । बलवद्बाधकसद्भावात् लाङ्गलेन वयं जीवाम इतिवत् पारम्पर्यपरत्वमेव तेषां वाक्यानां युक्तमिति भावः ।

१२७सु०- वैशेषिकाद्युक्तं मोक्षसाधनं निराकरोति कणादेति ।

अनु०-कणादयोगाक्षपादा अपि

योगशब्देन योगानुशासनस्य प्रणेता पतञ्जलिरुपलक्ष्यते । अनुपपन्नभाषिण इति शेषः । न केवलं साङ्ख्याद्या इत्यपेरर्थः ।

१२८सु०- नन्वेते त्रयोऽपीश्वरप्रसादसाध्यां मुक्तिं ब्रुवते । तथा हि वैशेषिकेण यद्यपि द्रव्यादिपदार्थानां साधर्म्यवैधर्म्यतत्त्वज्ञानं निःश्रेयसहेतुरित्युक्तम् । तथाऽपि न साक्षात् । किन्तु धर्मद्वारैव । अन्यथा यतोऽभ्युदयनिःश्रेयससिदि्धः स धर्म इति सूत्रविरोधात् ।

न च धर्मोऽपि साक्षान्मोक्षहेतुः । अपि त्वीश्वरप्रसादसहकृत एव । यथोक्तम् । तच्चेश्वरचोदनाभिव्यक्ताद्धर्मादेवेति । स्पष्टं च तुष्टेर्मोचयतो बद्धानतुष्टेर्बध्नतः पुनः । कारागारमिदं विश्वं यस्य वन्दे तमीश्वरमि ति ।

१२९सु०- पतञ्जलिस्तु स्पष्टमाचष्टे तपःस्वाध्यायेश्वरप्रणिधानादिक्रियायोग इत्यादि ।

१३०सु०- अक्षपादो यद्यपि प्रमाणादिषोडशपदार्थतत्त्वज्ञानान्निःश्रेयसाधिगम इत्याह । तथाऽपि प्रमाणादिपञ्चदशपदार्थतत्त्वज्ञानस्यात्मादिद्वादशविधप्रमेयतत्त्वज्ञानहेतुत्वमेव । आत्मशरीरेन्द्रियार्थबुदि्धमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयमिति तुशब्दकरणात् । आत्मादिज्ञानमपि न साक्षान्मोक्षसाधनम् । किन्नाम परमेश्वरप्रसादोपेतमेव । स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः । यदुपास्तिमसावत्र परमात्मा निरूप्यते इति सम्प्रदायविद्वचनात् ।

अथ कथमनुपपन्नभाषिण इत्यत आह ईशस्येति ।

अनु०- ईशस्य प्रसादतः । मुक्तिं ब्रुवाणा अप्याहुः

ईश(स्य)प्रसादतो मुक्तिं ब्रुवाणा अप्येते किञ्चिदयुक्तमाहुर्यतोऽतोऽनुपपन्नभाषिण इत्यर्थः ।

१३१सु०- तथा हि । यद्यपि वैशेषिकैरीश्वरप्रसादोऽङ्गीकृतस्तथाऽपि धर्मसहकारित्वेनैव । ईश्वरचोदनाभिव्यक्तादिति वचनात् ।

एवं पतञ्जलिरपि तपःस्वाध्यायादिसमानकक्ष्यतामेवेश्वरप्रणिधानस्याह ।

नैय्यायिका अप्यात्मतत्त्वज्ञानमेव मोक्षसाधनमीश्वरप्रसादस्तु सहकारिमात्रमित्यास्थिताः । द्वितीयसूत्रे तथैव व्युत्पादितत्वात् ।

श्रुतिस्मृतयस्तु धर्मादिकं समस्तं साक्षात्परम्परया वा भगवत्प्रसादसाधनम् । भगवत्प्रसादस्त्वनन्यापेक्षः साक्षादेव मोक्षसाधनमित्याचक्षते । सर्वं तदन्तराधाय मुक्तये साधनं भवेत् । न किञ्चिदन्तराधाय विमोक्षायापरोक्षदृगि त्याद्याः । अतः कथं नानुपपन्नवादिन इति ।

१३२सु०- इतश्चानुपपन्नभाषिण इत्याह भोगादेव चेति ।

अनु०-भोगादेव च कर्मणाम् । क्षयं प्राहुः

वैशेषिकादयस्तत्त्वविद इव ज्ञानात्पूर्वेषां कर्मणां ज्ञानादेव विनाशं न मन्यन्ते । किन्तु समाधिमहिम्नाऽपरिमितदेहव्यूहनिर्माणोनानन्तान्यपि विषमविपाकसमयान्यपि कर्माणि पिण्डीकृत्य तत्फलसुखदुःखभोगेनैव ज्ञानिनो विनाशयन्तीति प्राहुरतोऽप्यनुपपन्नभाषिण इत्यर्थः ।

नन्वेतदसङ्गतम् । मोक्षसाधनविचारस्य प्रस्तुतत्वादिति । मैवम् । विद्याकामकर्मादिलक्षणो हि बन्धः । अतस्तन्निवृत्तिर्मोक्ष इति कथं कर्मक्षयो न मोक्षः । वक्ष्यति च । कर्मक्षयस्तथोत्क्रान्तिरित्यादि । अतो मोक्षसाधनविषयैवेयं चिन्तेति ।

१३४सु०- तथाब्रुवाणा अपि कथमनुपपन्नभाषिण इत्यतोऽस्यार्थस्याप्रामाणिकत्वादित्याह कुतश्चेति ।

अनु०-कुतश्चैतत्प्रसन्ने जगदीश्वरे

ज्ञानिनोऽपि कर्मणां फलभोगेनैव क्षय इत्येतत् कुत एव प्रमाणात् प्रतिपत्तव्यम् ।

न कुतश्चित् । अक्षीणकर्मणां मोक्षानुपपत्तेस्तत्क्षयहेतोश्चान्यस्याभावादत्यन्तसुखदुःखसंज्ञानमेव तत्क्षयकारणमिति कल्प्यत इत्यत आह प्रसन्न इति । कुत एतदिति वर्तते । ज्ञानेन प्रसन्नो भगवानेवाभुक्तफलान्येव कर्माणि विनाशयतीत्यन्यथैवोपपत्तेः कुत एतत्कल्प्यत इत्याशयः । भगवानपि कथमदत्तफलकर्मक्षयस्येष्ट इति न शङ्कनीयम् । तदैश्वर्यस्य क्वाप्यप्रतिहतत्वादिति भावेनोक्तं जगदीश्वर इति ।

१३५सु०- सम्भावितमेवैतन्न तु प्रमितम् । तत्कथमन्यथैवोपपत्तिरित्यत आह भिद्यत इति ।

अनु०-भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे । भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे । इति श्रुतिपुराणादिवचनेभ्योऽन्यथागतेः

हृदयग्रन्थिः अविद्या । परा अप्यवरा यस्मात् स परावरः । आत्मन्याततगुणे जगदी श्वरे । आद्यं कठश्रुतिवचनम् । द्वितीयं भागवतवचनम् । आदि पदेन वक्ष्यमाणानीतिहासवचनानि गृह्यन्ते । अन्यथा फलभोगेन विनेश्वरप्रसादेनैव कर्मणां गतेरपगतेर्विनाशनिश्चयादन्यथैवोपपत्तिरिति ।

१३६सु०- नन्वत्र परमेश्वरे दृष्टे कर्माणि क्षीयन्त इत्युच्यते न तु दर्शनेनेति । ततो भोगेनेति व्याख्यानेऽपि न विरोध इति चेन्न । तथा सति हृदयग्रन्थिभेदनसंशयच्छेदनयोरप्यन्यसाध्यतास्वीकारापातात् । दृष्ट एवेत्येवशब्दविरोधाच्च । भोगेन क्षयस्य सर्वसाधारण्याद्दर्शनविशेषणस्य वैयर्थ्याच्च ।

१३७सु०- अज्ञो न सर्वाणि कर्माणि भोगेन क्षेप्तुं क्षमते । बहुतरत्वाद्विषमविपाकसमयत्वाच्च । ज्ञानी तु समाधिसामर्थ्यात् कायव्यूहं निर्माय सर्वाणि समाहृत्य फलभोगेन विनाशयतीत्यतो विशेषणोपपत्तिरिति चेत् कुत एषा कल्पना । उक्तार्थापत्त्यैवेति चेन्न । अस्मदुदाहृतवचनानामन्यथाव्याख्यानस्थितावर्थापत्तिस्थितिः । तत्स्थितौ च वचनानाम् अन्यथाव्याख्यानस्थितिरिति परस्पराश्रयापत्तेः ।

वचनानामन्यथाव्याख्याननिरासे सत्यर्थापत्तिनिरासस्तन्निरासे (सत्यन्य)नान्यथाव्याख्याननिरास इति भवतामपि परस्पराश्रयापत्तिरिति चेन्न । अवधारणादिना निरवकाशस्योक्तत्वात् । भिनत्ति कर्मसङ्घातं प्रसन्नो भगवान् हरिरि त्यादीनामत्यन्तानवकाशानामन्यत्रोदाहृतत्वाच्च । अत एव नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपी त्यादिसामान्यवचनमज्ञानिविषयम् । ज्ञानिनामपि प्रारब्धकर्मविषयम् ।

आत्मनो वै शरीराणि बहूनि मनुजाधिप । प्राप्य योगबलं कुर्यात् तैश्च सर्वां महीं चरेत् । भुञ्जीत विषयान् कैश्चित् कैश्चिदुग्रं तपश्चरेत् । संहरेच्च पुनस्तानि सूर्यस्तेजोगणानिवे त्यादिकं ज्ञानिनां प्रारब्धकर्मविषयम् । विशेषवचनबलेन प्रारब्धकर्मविनाशस्य वक्ष्यमाणत्वात् ।

अत एव ज्ञानादेवाशेषकर्मक्षये तदैव मुक्तिः स्यात् । न चैवम् । जीवन्मुक्तानामुपलब्धेरि त्यनवकाशं चोद्यम् ।

१३८सु०- विमतं कर्म फलभोगविनाश्यं कर्मत्वात् सम्प्रतिपन्नकर्मवदित्यनुमानं तु कृतप्रायश्चित्तकर्मण्यनैकान्तिकम् । प्रायश्चित्तं न कर्मक्षयहेतुरित्येतदुत्तरत्र निराकरिष्यामः । कृतप्रायश्चित्तकर्मत्वं हेतुरिति चेत्किमिदं नाम । पापनिवृत्त्यर्थत्वेन विहितो व्रतविशेष इति चेत् । तर्हि महानुभावानामनुग्रहादिना विनष्टे कर्मणि व्यभिचारः ।

पापनिवृत्तिहेतुमात्रं प्रायश्चित्तं विवक्षितमिति चेत् । तथाऽपि महदवज्ञादिना विनष्टे पुण्ये व्यभिचारः । क्षयहेत्वन्तररहितकर्मत्वं हेतुरिति चेन्न । ज्ञानस्यैव क्षयहेतोः सत्त्वेनासिद्धेः । ज्ञानं न कर्मक्षयहेतुतया विहितमिति चेत् । तत्किं विधिरेव हेतुत्वं गमयति । तथा सति समाधेरपि कायव्यूहनिर्माणादौ हेतुत्वं न स्यात् । आर्थवादिकं फलमविरुद्धं स्वीक्रियत इति चेत् । समं प्रकृतेऽपि । न ह्यत्र कश्चिद्विरोधोऽस्तीत्युक्तम् । अलौकिकत्वं तूभयत्रापि समानम् ।

१३९सु०- किञ्चास्मिन्मते न कदाऽपि कर्मक्षयः । भोगकालेऽपि पुनः करणात् । न करोतीति चासम्भावितम् । न हि कश्चित्क्षणमपी त्युक्तत्वात् । क्रियमाणाऽपि प्रवृत्तिर्नादृष्टजननीति चेन्न । श्रुतिस्मृतिविरोधात् । ज्ञानिनां ज्ञानसामर्थ्यात् तथेत्यन्यविषयं श्रुत्यादिकम् । तद्यथा पुष्करपलाशे , ब्रह्मण्याधाय कर्माणी त्यादिश्रुतिस्मृतिबलादित्थं कल्प्यत इति चेत् । प्राक्तनकर्मस्वप्ययं प्रकारः कुतो नाभ्युपगम्यते । रागद्वेषयोरभावान्न प्रवृत्तिरदृष्टकारणम् । यथोक्तम् ।

न प्रवृत्तिः प्रतिबन्धाय हीनक्लेशस्ये ति । मैवम् । प्रामादिकब्रह्महननादीनामधर्महेतुत्वाभावप्रसङ्ग इत्यलम् ।

१४०सु०- पाशुपताद्युक्तं मोक्षसाधनं निराकरोति न चेति ।

अनु०-न च पाशुपताद्युक्तशिवादीनामनुग्रहात्

पाशुपत शब्देन चतुर्विधा अपि गृह्यन्ते । आदि पदेन स्कन्दसौरादयः । द्वितीयेनादिपदेन स्कन्दादयः । अनुग्रहात् मोक्षो भवतीति शेषः ।

ननु च पाशुपताद्युक्तेति तावन्नानुग्रहस्य विशेषणम् । असामर्थ्येन समासानुपपत्तेः । तथा सति पाशुपताद्युक्तादिति स्यात् । अत एव मोक्षस्य विशेषणम् । तथा सति पाशुपताद्युक्त इति भवेत् । शिवादिविशेषणत्वे तु वैयर्थ्यमिति ।

उच्यते । अस्तु तावदनुग्रहविशेषणम् । तत्र शिवादीनामनुग्रह इति समास एव । षष्ठ्या आक्रोश इति षष्ठ्या अलुक् । ज्ञात्वा शिवं शान्तिमत्यन्तमेती त्यादिश्रुतिविरोधपरिहारश्च तत्प्रयोजनम् । यः संसारधर्मैरीषदप्यस्पृष्टः परमशिवस्तत्प्रसादान्मुक्तिरिष्यत एव । यस्त्वज्ञानाद्युपेतस्तथा प्रमितस्तदनुग्रहान्मोक्षो नेत्युच्यत इति । मोक्षो ज्ञानं च क्रमशो मुक्तिगो भेद एव च ।

उत्तरेषां प्रसादेन नीचानां नान्यथा भवेदि त्यादिवाक्यविरोधपरिहाराय पाशुताद्युक्तेत्यनुग्रहो विशेषितः । अङ्गीक्रियत एव शिवाद्यनुग्रहो भगवत्प्रसादसाधनभूतो मोक्षहेतुः । न तु पाशुपताद्युक्तः स्वतन्त्रसाधनभूत इति ।

यद्वा पाशुपताद्युक्तेत्यपि भिन्नं पदम् । सुपां सुलुगिति पञ्चम्या लुक् ।

यद्वा प्रथमाया लुक् । मोक्षस्य चेदं विशेषणम् । तत्र वादिनिर्देशप्रयोजनं व्यक्तमेव । यद्वाऽस्तु यथाश्रुतं शिवादीनामेव । ये शिवादयः पाशुपतादिभिः स्वातन्त्र्येणोपास्या उक्तास्तेषां (य)तथोपासितानामनुग्रह एव नास्ति प्रत्युत कोष एव । अतोऽनुग्रहान्मोक्षो दूरनिरस्त इति भावः ।

१४१सु०- कुतः शिवादीनामनुग्रहान्मोक्षो नेत्यत आह नान्य इति ।

अनु०-नान्यः पन्था इति ह्युक्तं पुरुषज्ञानतः श्रुतौ

तमेवमि ति श्रुतौ सहस्रशीर्षा पुरुष इति प्रकृतपुरुषज्ञानतोऽन्यनिषेधेनामृतत्वमुक्तं हि यस्मात्तस्मात्पुरुषोत्तमानुग्रह एव ज्ञानेनेरितो मोक्षहेतुर्न शिवाद्यनुग्रह इति ।

१४२सु०- ननु पुरुषसूक्ते पशुपुरुष एव प्रतिपाद्यते न विष्णुः तत्कथं विष्णुज्ञानस्य मोक्षसाधनत्वे मन्त्रोऽयमुदाहृतः । पशुपुरुषज्ञानमपि पशुपतेरनुग्रहे परमोपयोगीति मोक्षसाधनमुच्यते । नान्य इति च न विरुद्धम् । साधनवत् साधनस्य परित्यागेऽपि फलानुदयादिति चेत् । किमेतत्पुरुषशब्दस्य विष्णौ शक्तयभावात् कल्प्यते । तात्पर्यज्ञापकाभावाद्वा बाधकसद्भावाद्वा ।

नाद्यः । नारायणानुवाके पुरुषशब्दस्य हरौ प्रयोगादित्याह सर्व इति ।

अनु०-सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि । एवं पुरुषशब्दश्च प्रयुक्तोऽब्धिशये हरौ

न केवलं पुरुषज्ञानतोऽमृतत्वमुक्तम् । किन्तु पुरुषशब्दश्च हरौ प्रयुक्तः । विद्युतः पुरुषादित्युक्तोऽपि पशुपुरुष एव किन्न स्यादित्यत उक्तम् अब्धिशय इति । अम्भस्य पारे, यमन्तःसमुद्रे इत्यस्मिन् पुरुषे अब्धिशयत्वस्य श्रवणात् । महोदधिशयोन्तक इत्यादिना तस्य विष्णुलिङ्गत्वागमात् ।

१४३सु०- इतश्चायं नारायणो न पशुरित्याह न तस्येति ।

अनु०-न तस्येशे कश्चन तस्य नाम महद्यशः । इति चाधिपतिस्तस्य प्रतिषिद्धः स्वयं श्रुतौ । विश्वतः परमां नित्यं विश्वं नारायणं हरिम् । इति सर्वाधिकत्वोक्तया समोऽपि विनिवारितः

तस्य पुरुषस्य । ईशे ईष्टे । व्यत्ययो बहुलमिति वचनात् । अधीगर्थदयेषां कर्मणीति षष्ठी । महदिति यशश्चेति तस्य पुरुषस्य नाम । श्रुतौ नारायणानुवाके न तस्येति वाक्येन तस्य पुरुषस्याधिपतिः स्वयं मुखत एव प्रतिषिद्धः । परमश्चासावश्चेति परमास्तं परमाम् । लिङ्गव्यत्ययेन परममिति वा । विश्वं पूर्णम् । नारायणानुवाक एव विश्वत इति श्रुतौ तस्य पुरुषस्य सर्वाधिकत्वोक्तया समोऽपि विनिवारितः । न हि सर्वाधिकस्य समो युज्यते ।

१४४सु०- ततः किमित्यत आह समेति ।

अनु०-समाधिकस्य राहित्यान्नोपचारपुमानसौ

समाधिकस्येति द्वन्द्वैक्यवद्भावः । असौ नारायणानुवाकोक्तः । उप समीपे चारो यस्यासौ प्रधानस्योपसर्जनभूत उपचारपुमान् पशुपुरुषो नेत्यर्थः । नारायणनामादिना हरिरेवायमिति शिष्यैरेव ज्ञातुं शक्यत इति नोक्तम् ।

१४५सु०- अधिपतिराहित्यसर्वाधिकत्वयोस्ततोऽवगतस्य समाधिकराहित्यस्य च पशावनुपपत्तेर्न तद्विषयोऽयं पुरुषशब्दः । किन्तु नारायणादिनाम्नाऽब्धिशयत्वादिलिङ्गेन च विष्णुविषय एवेत्यस्तु । न तावता पुरुषशब्दस्य विष्णौ वाचकत्वशक्तिः सिद्ध्यति । प्रयोगस्यामुख्यया वृत्त्याऽप्युपपत्तेरित्यत आह समेति । असौ विष्णुरुपचारेण पुरुषशब्दविषयो न भवति किन्तु मुख्यवृत्त्यैव । कुतः । मुख्यासम्भवे ह्युपचारः कल्प्यते । पुरुषशब्दस्य मुख्यार्थः पूर्णत्वम् । तच्च विष्णोरेव समाधिकराहित्याद्युज्यत इति ।

१४६सु०- अस्त्वेवं पुरुषशब्दस्य विष्णौ वाचकत्वशक्तिस्तथाऽपि पुरुषसूक्ते ज्ञापकाभावात् तत्परत्वं नास्तीति द्वितीयं निराकरोति पुरुष एवेति ।

अनु०-पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।उतामृतत्वस्येशानो यदन्नेनातिरोहति ।मुक्तामुक्तपरेशत्वमिति तस्याह सा श्रुतिः

यद्भूतं यञ्च भव्यं यच्च भवदमुक्तं विश्वमिदं सर्वं पुरुष एव । पुरुषाधीनमेव । यत एवमन्नेनान्नमदनीयममुक्तवर्गमतिरोहति अतिक्रामति । अमुक्ताधिपतिरिति यावत् । तस्मादमृतत्वस्योत भावभवित्रोरभेदान्मुक्तवर्गस्यापीशानः । संसारे स्वाधीनं जगद्यदि मुक्तौ स्वाधीनत्वं जह्यात् तदा प्रेक्षावान्न मोचयेत् । अतो मुक्तावपि तदधीनमेवेति सा श्रुतिः पुरुषसूक्तमन्त्रस्तस्य मुक्तामुक्तपरेशत्वमाह । तच्च मुक्तानां परमा गतिरित्यादिना विष्णोरेवावगतं पशोस्त्वसम्भावितमेवेत्यतः पुरुषसूक्तं विष्णुपरमेवेति ज्ञायते ।

१४७सु०- ननु च पुरुष एवेदं सर्वमिति पुरुषस्यात्र स(र्वत्व)र्वात्मकत्वमेवोदितम् । तत्कथं मुक्तामुक्तपरेशत्वमाह श्रुतिरिति तत्राह अमृतेति ।

अनु०-अमृतेशानवचनात् सर्वस्येशानतोदिता

ईशानेति भावप्रधानो निर्देशः । उत्तरार्धे मुक्तेशानत्वस्योक्तत्वात् पूर्वार्धेऽमुक्तस्य सर्वस्येशानतैवोदिता ज्ञातव्या । न तु सर्वत्वम् । न हि कोऽपि वादी मुक्तौ भेदममुक्तावभेदमङ्गीकरोति । नापि युज्यते । अभिन्नस्य पश्चाद्भेदादर्शनात् ।

१४८सु०- हेत्वन्तरमाह यदीति ।

अनु०-यदि सर्वत्वमुदितमुतेश इति तद्वृथा

पूर्वार्धे यदि पुरुषस्य सर्वत्वमुदितं स्यात् तत्तर्ह्युत्तरार्धेऽमृतत्वस्योतेशान इत्युतशब्दो वृथा स्यात् । तत्कथमित्यत आह उतशब्द इति ।

अनु०-उतशब्दो वदेदेष हीशत्वस्य समुच्चयम्

उत्तरार्धस्थ उतशब्दो यस्मादीशत्वस्य समुच्चयं वदेत् । अर्थान्तरस्यासम्भवात् । न च द्वयोरीशत्वयोरनुक्तौ तत्समुच्चयोक्तेरवकाशोऽस्ति । तस्मादुतशब्दो वृथैवेति ।

१४९सु०- युक्त्यन्तरमाह पुरुषेणैवेति ।

अनु०-पुरुषेणैवेदं व्याप्तमिति ब्राह्मणं चाह तं प्रति

पुरुष एवेदं सर्वमि ति पुरुषेणैवेदं सर्वं व्याप्तमातृणादाकरीषात् सर्वं भगवानिति मिथ्यादृष्टिरेषेति शाखान्तरब्राह्मणं च तं मन्त्रं प्रति प्रवृत्तं तस्य मन्त्रस्य व्याख्यानरूपमेवाह अतश्च न सर्वत्वमर्थः । व्याप्तं वशीकृतम् ।

एतेन धर्म(र्मि)समुच्चयार्थ उतशब्द इत्यपि परास्तम् ।

१५०सु०- इतश्च सर्वेशत्वमेव पूर्वार्धार्थो न तु सर्वत्वमित्याह एतावानिति ।

अनु०-एतावानस्य महिमेति महिम्नो वचो हि तत्

इति वचनादिति शेषः । अस्य पुरुषस्यैतावान् महिमा यः पूर्ववाक्योक्त इत्युत्तरवाक्यबलात् तत् पुरुष एवेदम् इत्येतत् पुरुषस्य महिम्नो वाचकं वच इति तावज्ज्ञायते । ततश्च महिमप्रतिपादकं यथा स्यात् तथा व्याख्येयम् । न च सर्वात्मत्वं महिमा । अपकर्षहेतुत्वात् । किन्तु सर्वाधिपत्यमेव । न च तदतिरिक्त(क्तं)महिम्नो वचनम् । सङ्कोचे कारणाभावात् ।

१५१सु०- इतोऽप्येतदेवमित्याह सोऽमृतस्येति ।

अनु०-सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् । इत्यमुक्ताधिपत्यं तु पूर्वार्धोक्तमनूद्य च । उतामृतस्येश इति विधत्ते मुक्तिगेशताम्

इति भागवतवचनादिति शेषः । अनूद्य यदन्नेनातिरोहतीति वचनेन हेतुतयेति शेषः । विधत्ते श्रुतिः । अयमर्थः । उत्तरार्धे तावदमुक्ताधिपत्यं हेतुत्वेनोपादाय मुक्ताधिपत्यं प्रतिजानीते श्रुतिरिति ज्ञायते । पुरुषसूक्तव्याख्यानप्रसङ्गे सोऽमृतस्येति भागवतवचनेनोत्तरार्धस्य तथैव व्याख्यातत्वात् । अत एव अन्नेन दिव्यभोगेन यदतिरोहत्यधिरोहत्येधते तस्यामृतत्वस्य देवत्वस्येशान इति व्याख्यानमयुक्तम् । भावभवित्रोरेकत्वाभिप्रायेणामृतत्वस्येत्येतदमृतस्येति हि व्याख्यातम् । देवव्यावृत्त्यर्थमेव चाभयस्येत्युक्तम् । अन्नेनेति तृतीया च द्वितीयार्थेत्यभिहितम् । अन्नं च न प्रसिद्धमिति मर्त्यमित्युदितम् । सोऽयमुत्तरार्धार्थः पूर्वार्धस्यास्मद्व्याख्यान एव युज्यते । पूर्वार्धेऽमुक्ताधिपत्यं विहितम् । उत्तरार्धे तत्पूर्वार्धोक्तममुक्ताधिपत्यं हेतुत्वेनानूद्य पुरुषस्य मुक्तिगेशतां विधत्ते श्रुतिरिति ।

परकयव्याख्याने तु परस्परव्याघातेनानुपपन्न एवेति ।

१५२सु०- एतेन पुरुषशब्दस्य विष्णुविषयत्वे सर्वात्मकत्वं बाधकम् । न हि विष्णोः सर्वात्मकत्वं भवदि्भरप्यभ्युपगम्यते । पशोस्तु देहायोगवशाद् भूतत्वादिकं युज्यत इति तृतीयपक्षोऽपि निरस्तः ।

१५३सु०- उपसंहरति अत इति ।

अनु०-अतो विष्णुपरिज्ञानादेव मुक्तिर्न चान्यतः

परिज्ञानात् परिज्ञानोदितात्प्रसादात् । अन्यतः शिवादीनामनुग्रहात् ।

१५४सु०- पाशुपता अपि ज्ञानिनो भोगेनैव कर्मक्षयमाचक्षते । तदप्यनुपपन्नमित्याह तद्यथेति ।

अनु०-तद्यथेति श्रुतेश्चैव ततः कर्मक्षयो भवेत्

तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हैवास्य सर्वे पाप्मानः प्रदूयन्त इति श्रुतेः । इष्टकेषीकामालानां चिततूलभारिष्वि ति ह्रस्वता श्रुतित्वान्न भवति । प्रोतं प्रविष्टम् । प्रदूयेत परितप्तं भवेद् भस्मीभवेत् । इति तन्निदर्शनं यथा । अस्य ज्ञानिनः । प्रदूयन्ते विनश्यन्तीत्यर्थः । चशब्दः पूर्वोदाहृतवाक्यसमुच्चयार्थः । तत एव विष्णुपरिज्ञानादेव ।

१५५सु०- नन्वस्यां श्रुतौ ज्ञानिनः कर्मणां परितापः श्रूयते न तु ज्ञानेन विनाश इति विवक्षितोऽर्थ इत्यतो भगवद्वाक्यसमाख्यामाह यथेति ।

अनु०-यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा

यद्यप्यत्र ज्ञानस्य कारणत्वं स्फुटं प्रतीयते, तथाऽपि कर्मणां भस्मसात्करणं नाम मुख्यासम्भवात् किं कल्पनीयमिति न ज्ञायते अतो वाक्यान्तरं पठति सर्वेति

अनु०-सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज।अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।इत्यादिभगवद्वाक्यैरुक्तार्थश्चावसीयते

धर्मानवैष्णवान्काम्यार्थांश्च । शरणप्राप्तिश्च सर्वोत्तमत्वविज्ञानपूर्वमि त्यादिनाऽन्यत्र भगवत्पादैरेव व्याख्याता । ततः प्रसन्नोऽहम् । मा शुचः । न शोचिष्यसि मुक्तो भविष्यसि । आदिपदेन गतसङ्गस्य मुक्तस्ये त्यादेः सङ्ग्रहः । भगवद्वाक्यैश्चेति सम्बन्धः । तद्यथेति श्रुतेरुक्तार्थः भगवद्वाक्यैरवसीयत इति वा ।

१५६सु०- भाट्टानां मोक्षसाधनमनुवदति नित्येति ।

अनु०-नित्यनैमित्तिकं कर्म कुर्वन्नन्यत्परित्यजन् ।मुच्यते संसृतेश्च

नित्यं नाम यदकरणे प्रत्यवायः, ब्राह्मण्यादिकमेव च निमित्तमुपादाय विहितं तदुच्यते । यथा सन्ध्यावन्दनादि । नैमित्तिकं नाम यदकरणे प्रत्यवायः पितृमरणाद्यागन्तुकं च निमित्तमुपादाय विहितं तदुच्यते । यथा पितृश्राद्धादि । अन्यत् काम्यं निषिद्धं च । तत्र यत्करणे फलकरणे न प्रत्यवायः । कामनानिमित्तं तत्काम्यम् । यथा ज्योतिष्टोमादि । प्रतिषिद्धं निषिद्धम् । यथा ब्रह्महत्यादि । उपात्तं च कर्म भोगेन क्षपयन्निति चशब्दार्थः ।

अयमाशयः । सुखदुःखतत्कारणरूपो हि संसारः । स च कर्मनिमित्त एव । नित्यनैमित्तिकयोरकरणे त्वधर्मप्रचयेन दुःखतत्साधनावाप्तिरस्य भवति । निषिद्धकरणेऽपि तथा । काम्यकरणे तु धर्मोत्पादनेन सुखतत्साधनावाप्तिर्जायते । मुमुक्षुस्तु नित्यं नैमित्तिकं च नियमेन करोति । परित्यजति च निषिद्धमिति न दुरितोपचयः । काम्यमपि परित्यजतीति न धर्मोपचयः ।

एवमनागतयोर्धर्माधर्मयोरनुत्पादे प्रागुपात्तौ च भोगेन क्षपयन्निर्बीजायाः संसृतेर्मुच्यत इति । यथोक्तम् । मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमित्तिके कुर्यात्प्रत्यवायजिघांसया इति । न च पञ्चमी कर्मविधाऽस्ति । यत्करणेऽकरणे वा धर्माधर्मोदयः स्यादिति ।

१५७सु०- निराकरोति एतदपीति ।

अनु०- एतदप्येतेन निराकृतम्

एतेन नान्यः पन्था इति श्रौतेन भगवज्ज्ञानव्यतिरिक्तमोक्षसाधननिषेधेन । अपि च नित्यनैमित्तिककर्मणां नियमेन सम्यगनुष्ठानं तावदशक्यमेव । चरन्ति देव विहितं समस्तमर्धमेव मुनयो दशांशतो मनुष्या इत्यादिश्रुतेः ।

नापि निषिद्धाकरणं सम्भावितम् । प्रामादिकानां मानसवाचिककायिकानामपरिहार्यत्वात् । प्रायश्चित्तात् तत्क्षय इति चेन्न । प्रायश्चित्तस्यापि सम्यगनुष्ठातुमशक्यत्वात् । पूर्वोपार्जितकर्मणां भोगेन क्षयस्त्वत्यन्तासम्भावित एव । अनन्तत्वादित्यलम् ।

१५८सु०- नन्वेतत्सर्वं सूत्रानुक्तं कस्माद्वर्ण्यत इत्यत आह विद्यैवेति ।

अनु०-विद्यैवेतीममेवार्थं स्वयमेवाह वेदराट्

विद्यैव तु निर्धारणादि ति सूत्रेण । स्वयमेव न त्वर्थतः । वाजसनेयिनोऽधीयते । षट्त्रिंशत्सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्मनोमयान्मनश्चित इत्यादि । तत्र संशयः । किमेतेऽग्नयः क्रियानुप्रवेशिनस्तच्छेषभूता उत स्वतन्त्राः केवलविद्यात्मका इति । क्रियामयस्याग्नेः प्रकरणात् तद्विषय एवायमुपदेश इति प्राप्तेऽभिधीयते । विद्यात्मका एवैतेऽग्नयो न क्रियाशेषभूताः । ते हैते विद्याचित एवेति निर्धारणात् इति परेषां व्याख्यानमसदेवेति भावेनोक्तमिममेवार्थमिति । विफलत्वादस्याश्चिन्तायाः । पक्षद्वयेऽप्यभ्युदय एव ह्यस्य प्रयोजनम् ।

यस्तु नित्यानित्यवस्तुविवेकाञ्छमदमादिसम्पन्नः सर्वभोगवैराग्योपेतो मुमुक्षुरथशब्देनोत्तरमीमांसायामधिकारी सूचितः स कथमेतासु फल्गुचिन्तासु प्रवर्तत इति ।

१५९सु०- एवं सूत्रकृता पूर्वपक्षितानि मतानि निराकृत्येदानीं ये सूत्राणां वृत्तिकारा अन्यथा भाषन्ते तेषां मतानि निराकुर्वाणः समुच्चयनियमवादिनां मतं तावदपाकरोति विनेति ।

अनु०-विना कर्म न मोक्षः स्याज्ज्ञानेनेत्यपि सा श्रुतिः । नान्यः पन्था इति ह्येव निवारयति सादरम्

संसारनिवृत्तिमात्रं केवलेन ज्ञानेन भवति । आनन्दवृदि्धस्तु कर्मसापेक्षेणैव ज्ञानेनेति भगवतः पन्थाः । यद्वक्ष्यति सहकारित्वेन चेति । अतो ज्ञानकर्मभ्यां मोक्ष इत्यनुक्तवा कर्म विना केवलज्ञानेन न मोक्षः किन्तु कर्मसहितेनेत्युक्तम् । इत्येतदपि मतं सैव सूत्रगृहीतैव नान्यः पन्था इति श्रुतिः स्पष्टं निवारयति । तमेवं विदित्वेति ज्ञानमात्रस्य मोक्षसाधनत्वमुक्तवा पुनर्नान्यः पन्था इति वचनादादरोऽवगम्यते । न च समुच्चयनियमे किमपि प्रमाणमस्ति । अन्धन्तमः प्रविशन्तीत्यादीनामन्यार्थत्वात् । यथाऽन्नं मधुसंयुक्तं मधु चान्नेन संयुक्तम् । एवं तपश्च विद्या च संयुक्ते भेषजं महदि त्यादीनां परोक्षज्ञानविषयत्वात् । अपरोक्षज्ञानविषयत्वेऽप्यानन्दवृद्ध्यर्थत्वात् ।

१६०सु०- मायावादिनो वदन्ति । द्विविधो मोक्षः परापरभेदात् । तत्रापरो वैकुण्ठसत्यलोकादिप्राप्तिलक्षणः । परस्त्वविद्याऽस्तमये सत्यद्वैतब्रह्मावस्थानरूपः । प्रतीकादिविषयमन्यथोपासनमपरस्य साधनम् । परस्य त्वेकत्वज्ञानमिति । तत्रान्यथोपासनस्य वैकुण्ठादिप्राप्तिसाधनत्वं तावदपाकरोति अन्यथेति ।

अनु०-अन्यथोपासनमपि तमेवमिति वादिनी ।निवारयत्यादरेण

एवं यथास्थितेनैव प्रकारेण न त्वन्यथेति वदन्ती श्रुतिरन्यथोपासनमपि पुरुषार्थसाधनं निवारयति । न केवलं परमपुरुषज्ञानव्यतिरिक्तपक्षान् । तमित्यनेन यथार्थज्ञानं लब्धमेव । सप्रकारस्य प्रकृतस्य परामर्शोपपत्तावेकदेशविषयत्वकल्पनानुपपत्तेः । तथाऽपि यदेवमिति वदति तदाऽऽदरसूचनार्थमिति । परममोक्षविषयेयं श्रुतिरस्तु । अपरस्तु पुरुषार्थोऽन्यथोपासनेन भविष्यतीत्यत आह नेति ।

अनु०-न प्रतीक इति प्रभुः

न प्रतीके न हि सः इति सूत्रकारोऽन्यथोपासनस्य सर्वथाऽप्यकर्तव्यत्वं वक्ष्यति । अतो न तत्पुरुषार्थलेशहेतुः ।

१६१सु०- सूत्रस्यार्थान्तरं वक्ष्यामीति वदन्तं प्रति श्रुतिविरोधमाह अन्धमिति ।

अनु०-अन्धन्तमः प्रविशन्ति ये त्वविद्यामुपासते । इति श्रुतिविरोधाच्च नान्यथोपासनं भवेत्

पुरुषार्थसाधनमिति शेषः । श्रुतिस्त्वन्यत्र स्मृतिसम्मतिप्रदर्शनेन व्याख्याता ।

१६१असु०- इदानीमेकत्वज्ञानस्य परमोक्षसाधनत्वं निराकरोति न चेति ।

अनु०-न चाप्येकत्वविज्ञानादुक्तन्यायेन मुच्यते

चोऽवधारणे । एकत्वविज्ञानादपि पुरुषः संसारान्न मुच्यते । कुतः । उक्तन्यायेन तमेवं विद्वानि ति सहस्रशिरस्त्वादिमहामहिमोपेतस्य भगवतो ज्ञानममृतत्वसाधनमभिधाय नान्यः पन्था इति साधनान्तराभावस्योक्तत्वात् । पुरुष एवेदं सर्वमि त्युक्तमेकत्वमेवंशब्देन परामृश्यत इति चेन्न । उक्तन्यायेन तस्य वाक्यस्यैकत्वविषयताया अभावात् । तद्यो यो देवानां प्रत्यबुध्यत इत्यादिश्रुतयस्तु तद्गुणसारत्वादि त्युक्तन्यायेन नैक्यज्ञानस्य मोक्षसाधनतां वदन्ति ।

१६२सु०- किञ्चैक्यज्ञानमन्यथाज्ञानमिति पृथगुपदेशादि त्युक्तन्यायेन सिद्धम् । मिथ्याज्ञानं चानर्थसाधनमित्युक्तम् ।

१६३सु०- अपि चाद्वैतज्ञानस्य न तावद्यागादिवद्राजसेवादिवद्वा मोक्षसाधनत्वम् । किन्तु अविद्याविरोधित्वेन । विरोधिनाऽद्वैतसाक्षात्कारेणाविद्यायां निवृत्तायां तदुपादानको बन्धः स्वयमेव निवर्तत इति । तथा च साक्षात्कृताद्वैतानामुत्तरक्षण एव देहादिद्वैतदर्शनाभावः प्राप्नोति ।

अङ्गीक्रियते च जीवन्मुक्तिः । ज्ञानेनाविद्यायां निवृत्तायामपि तत्संस्कारेण द्वैतदर्शनानुवृत्तिर्भवतीति चेन्न । संस्कारस्याविद्याकार्यत्वेऽवस्थानानुपपत्तेः । न ह्युपादाने निवृत्ते कार्यमवस्थितं दृष्टम् । अन्यथा सत्यत्वप्रसङ्गः । ज्ञानोदयेऽप्यनिवृत्तस्य तस्य निवर्तकान्तराभावात् सर्वदा(ऽनिवृ)नुवृत्तौ न कदाऽपि द्वैतदर्शननिवृत्तिः स्यात् । असङ्गस्यात्मनो विनैवाविद्यासम्बन्धेन संस्काराश्रयत्वं चायुक्तमेव ।

एतेन प्रारब्धकर्मवशाद् द्वैतदर्शना(ऽनिवृ)नुवृत्तिरित्यपि निरस्तम् ।

ज्ञानेन निवृत्ताऽप्यविद्या दग्धपटन्यायेन किञ्चित्कालमवतिष्ठते । तेन द्वैतदर्शनानुवृत्तिर्घटत इति चेन्न । आत्यन्तिकनिवृत्तौ कारणाभावेन द्वैतदर्शनानुपरमप्रसङ्गात् । एतेन अविद्यालेशावस्थानपक्षोऽपि प्रतिक्षिप्तः । लेशश्च पटस्य तन्तुरिवावयवो वा स्यात् प्रदेशो वा धर्मो वा । नाद्यः । अकार्यत्वादविद्यायाः । न द्वितीयः । प्रदेशानङ्गीकारात् । प्रदेशिनो निवृत्तौ प्रदेशावस्थानासम्भवाच्च । न तृतीयः । धर्मिणोऽपगमे धर्मानपगमानुपपत्तेः ।

१६४सु०- अथ मतम् । संसारमूलकारणभूताऽविद्या यद्यप्येकैव । तथाऽपि तस्याः सन्त्येव बहव आकाराः । तत्रैको बन्धस्य परमार्थसत्यत्वविभ्रमहेतुः । द्वितीयोऽर्थक्रियासमर्थवस्तुकल्पकः । तृतीयस्त्वपरोक्ष्यप्रतिभासविषयाकारकल्पकः । तत्राद्वैतस्य सत्यत्वाध्यवसायेन समस्तद्वैतसत्यत्वकल्पक आकारो निवर्तते । अर्थक्रियासमर्थप्रपञ्चोपादानं मायाकारस्तत्त्वसाक्षात्कारेण विलीयते । अपरोक्षप्रतिभासयोग्यार्थाभासजनकस्तु मायालेशो जीवन्मुक्तस्य निवृत्तः समाध्यवस्थायां तिरोहितोऽन्यदा देहाभासजनकाभासहेतुतयाऽनुवर्तते । प्रारब्धकर्मफलोपभोगावसाने तु निवर्तत इति । तदयुक्तम् । अस्याः कल्पनायाः निष्प्रमाणकत्वात् ।

इन्द्रो मायाभिः पुरुरूप ईयत इति श्रुतिरत्र प्रमाणमिति चेन्न । अत्र पारमेश्वरशक्तिप्रतिपादनात् । ज्ञानबाध्यानिर्वाच्यमायाकारप्रतिपादनाप्रतिभासनात् । तस्याभिध्यानाद्योजनात्तत्त्वभावाद् भूयश्चान्ते विश्वमायानिवृत्तिरि ति श्वेताश्वतरमन्त्रेऽपि भूयोभूयस्तस्मिन्मनसो योजनाद्यो जायते तत्त्वभावस्तत्त्वज्ञानं तस्मादुदितात्तस्य परमेश्वरस्याभिध्यानादनुग्रहात्कर्मक्षयान्ते विश्वबन्धकमायानिवृत्तिर्भवतीत्युच्यते न तु अनिर्वाच्यविद्याकाराणां क्रमेण निवृत्तिर्बाधलक्षणा ।

किञ्च योऽपि मायाकारोऽनुवर्तत इत्युच्यते तत्त्वज्ञानं तस्य विरोधि न वा । आद्ये कथं

न निवर्तते । द्वितीये ज्ञानेन न निवर्तेत । तथा च सत्यः स्यात् । कर्मक्षये सति निवर्तत इति वदता कर्मणां तत्कारणत्वमुक्तं स्यात् । अन्यथा तन्निवृत्तौ निवृत्तेरनुपपत्तेः ।

१६५सु०- अथ मन्यसे । ज्ञानमेवाविद्यालेशस्य निवर्तकम् । किन्तु प्रबलेन प्रारब्धकर्मणा प्रतिबद्धं न निवर्तयति । फलभोगेन तु प्रतिबन्धके क्षीणे निवर्तयतीति । तदप्ययुक्तम् । निरुपादानकर्मावस्थानानुपपत्तेः । स एवाविद्यालेशः कर्मोपादानमिति चेन्न । कर्मावस्थानेऽविद्यालेशावस्थानं तदवस्थाने च कर्मावस्थानमिति परस्पराश्रयत्वापत्तेः । उत्पत्त्यादाविवावस्थानेऽपि तस्य दोषत्वात् ।

किञ्चास्यार्थस्य न किञ्चित्स्फुटं ज्ञापकान्तरमस्ति । ततो मा नाम भूदवस्थितावितरेतराश्रयत्वम् । ज्ञप्तौ तु भवत्येव । जीवन्मुक्तयन्यथाऽनुपपत्त्यैवैषोऽर्थः कल्प्यत इति चेन्न । परमपुरुषानुग्रहेणैव मोक्ष इत्यस्य सकलश्रुतीतिहासपुराणादिसिद्धस्यार्थस्याङ्गीकारेणैव सर्वस्योपपत्तावस्याः कल्पनाया अनवकाशादिति ।

१६६सु०- अधिकरणार्थमुपसंहरति इति सर्वमिति ।

अनु०-इति सर्वं प्रतिज्ञाय सर्वैस्तर्कैः सदागमैः । उपासीत हरिं नित्यं गुणैरेव स्वयोग्यतः

नास्त्येव मोक्षः सत्त्वे वा साधनान्तरसाध्य इत्येतदनुपपन्नम् । किन्नाम निष्कामभगवदर्थश्रुत्यादिविहितकर्मानुष्ठानेन शुद्धान्तःकरणस्य रागादिदोषक्षये जातभगवद्भक्तेः श्रवणमनननिदिध्यासनाभ्यासवतः परमभागवतस्य भगवत्साक्षात्कारे जाते प्रसन्नो भगवान् अप्रारब्धानि कर्माणि विनाश्य भागवतधर्मप्रवृत्तये ज्ञानिनं कमपि कालं व्यवस्थापयंस्तदर्थं प्रारब्धानि कर्माण्यवशेष्य तत्फलोपभोगे सति तान्यपि विनाश्य प्रकृतिबन्धान्मोचयतीति सर्वं प्रतिज्ञाय गुणैरेव न तु सोऽरोदीदित्यादिना प्रतीतैरप्यगुणैरिति समाने चेति सूत्रखण्डस्यार्थमनुवदति । युक्तमिति शेषः । स्वयोग्यत एव न तु योग्यतातिक्रमेणेति प्राप्तेश्चे(त्यादिसू)ति सूत्रार्थानुवादः । प्रयोजनं चोत्तरेण सङ्गतिसूचनमिति ।

१६७सु०- स्वयोग्यत इत्युक्तम् । तामेव योग्यतां विवृणोति ब्रह्मेति ।

अनु०-ब्रह्मा सर्वगुणैश्चैव क्रियासामान्यतश्च गीः । गुणसामान्यतो रुद्रो द्रव्यसामान्यतः परे ।

ब्रह्मैवेति सम्बन्धः । सर्वैः वेदोदितैः । च शब्दः क्रियाद्रव्यसमुच्चयार्थः । हरिमुपासीतेति वर्तते । वेदोक्तसमस्तगुणक्रियोपेततयाऽनन्तरूपं हरिमुपासितुं ब्रह्मैव योग्य इत्यर्थः । चस्त्वर्थः । सरस्वती तु क्रियासामान्यतः क्रियासङ्कोचेनोपास्ते । सकलवेदोक्तगुणोपेततयाऽनन्तरूपं हरिमुपास्ते । त्रिविक्रमत्वादिक्रियास्तु नित्यविक्रान्त्यादिष्वन्तर्भावयतीत्यर्थः । गुणसामान्यतः समस्तरूपाण्युपास्ते । गुणान् क्रियांश्च सङ्कोचयतीत्यर्थः । परे शक्रादयः । द्रव्याणि रूपाणि गुणक्रियासङ्कोचस्तु सिद्ध एव ।

एतेन समान एवं चाभेदादि त्यधिकरणतात्पर्यमुक्तं भवति । विद्यैव तु निर्धारणात् इत्यतःपूर्वमेवेदमधिकरणम् । तत्कुतो व्यत्यासेन व्याख्यानम् ।

उच्यते । प्रकरणशुद्धौ प्रमेयं सुग्रहं भवतीत्यतः क्रमभङ्गः । तथा हि । उपासनस्वरूपानिश्चये न कोऽपि विचारोऽवकाशं लभत इति तत्स्वरूपमादौ दर्शितम् । ततस्तस्य कर्तव्यता समर्थिता । अनन्तरं तदितिकर्तव्यताजिज्ञासायां योग्यतादिविचार इति ।।

।। इति विद्याधिकरणम् ।।

न्यायसुधा

।। अथ यावदधिकाराधिकरणम् ।।

ब्र०सू०- ।। ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ ।।

१६८सु०- एतद्यथा यथेत्यादिना भाष्ये व्याख्यातम् । तदविस्पष्टम् । अधिकारविशेषस्य कारणत्वानभिधानात् । मुक्तावित्युक्तया संसारे नैवमिति प्रतीतेः । आनन्दमात्रग्रहणाद्गुणानन्तरव्यावृत्तिप्राप्तेः । धर्मिणामनिर्देशाच्च । अतः स्पष्टं व्याचष्टे अधिकारेति ।

अनु०-अधिकारविशेषेण भक्तिज्ञानसुखादिभिः ।विशेषो देवतादीनां

अधिकारो योग्यता । अत्र सामान्योक्तया मुक्तौ संसारे चेति गम्यते । तर्हि मुक्ताविति कस्मादुक्तमित्यत आह मोक्षे चेति ।

अनु०- मोक्षे चैव विशेषतः

च स्त्वर्थः । विशेषस्तु मोक्ष एवेत्यन्वयः । संसारे विक्षेपवशाद्योग्यतानुसारित्वं किञ्चिद्विहन्यते । मोक्षे तदभावाद्योग्यतानुसार्येव नियमेन भक्तयादिकं भवतीत्यतो मुक्तावित्युक्तमिति ।

१६९सु०- एवं तर्हि मुक्तानां परस्परं द्वेषेर्ष्यादिप्रसङ्गेन मुक्तत्वविरोधः स्यादित्याशङ्कापरिहारार्थं सूत्रम्-

ब्र०सू०- ॐ अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॐ ।। इति ।

एतदप्यविशदम् । दोषाभावसाम्यादित्यत्र साम्यपदप्रयोजनादर्शनात् । उत्तमेभ्योऽन्येषां भावादित्यस्योत्पत्तेरिति प्रतीतेः । शिष्यवदिति चायुक्तम् । क्वचिच्छिष्यस्यापि गुरौ द्वेषादिदर्शनात् । अतो व्याख्याति नेति ।

अनु०-न तावता विरोधोऽस्ति निर्दोषत्वात्समस्तशः ।आभासत्वात्परेषां तदवराणां च सर्वशः

तावता परस्परमसाम्येन द्वेषादिप्रसङ्गेन मुक्तत्वविरोधोऽस्ति । साम्यशब्दस्यार्थः समस्तश इति । उत्तमेभ्य इत्यस्य विवरणम् आभासत्वादिति । तदवराणां सर्वेषां पराभासत्वाच्चेति योजना । एतदेव विवृण्वन् दृष्टान्तं व्याख्याति यत इति ।

अनु०-यतोऽवराणां सर्वेऽपि गुणाः सर्वाः क्रिया अपि ।नियमेनैव पूर्वेषां सुप्रसादनिबन्धनाः ।अतः सच्छिष्यवत्तेषां नैवेर्ष्यादिः कथञ्चन

गुरौ सच्छिष्यस्येवेत्यर्थः । एतच्चोत्तरत्र स्फुटीकरिष्यत्याचार्यः ।

१७०सु०- चिरन्तनास्तु वृत्तिकाराः सूत्रद्वयमिदमन्यथा व्याचक्षते । विदुषां किं ज्ञानोदयानन्तरमेव मुक्तिः किंवा नेति संशये पूर्वस्मिन्पक्षे सतीदमुच्यते । आधिकारिणां परमेश्वरदत्ताधिकारे वर्तमानानां विदुषामपि देवादीनां यावदधिकारं संसारेऽवस्थितिः । न तदैव मुक्तिः । तथा श्रुत्यादिषु दर्शनात् । सत्यामपि साधनसम्पत्तौ यदि न मोक्षस्तदा न तेषां कदाऽपि मोक्षः स्यादित्याशङ्कापरिहाराय द्वितीयं सूत्रम् । ब्रह्मविदां न मोक्षाभावरूपो विरोधः । कुतः । सामान्यतद्भावाभ्यां सामान्यविशेषभावाभ्याम् । यद्यपि क्षीयन्ते चास्य कर्माणी ति सामान्यतः सर्वकर्मणां ज्ञानेन क्षयोऽभिहितस्तथाऽपि तस्य तावदेव चिरमिति विशेषवचनात् प्रारब्धकर्मणामवशेषो गम्यते । एतदुक्तं भवति । अप्रारब्धानि कर्माणि निवर्तन्ते । प्रारब्धस्य तु भोगेनैव क्षयः । अतस्तत्फलभूतेऽधिकारे स्थित्वा तत्क्षये प्रव्रज्यन्त इति ।

मायावादिनस्तु प्रथमसूत्रस्यैवायं समस्तोऽर्थ इति वर्णयन्तोऽक्षरधियामित्येतदधिकरणान्तरं व्याचक्षते ।

१७१सु०- तत्राद्यं मतं निराकरोति न चेति ।

अनु०-न च संसारिदेवानां कालेयत्तापरे इमे ।सूत्रे

संसारावस्थानस्य कालेयत्ता कालमर्यादा प्रारब्धकर्मफलभोगावसानरूपा सा परा उद्देश्या प्रतिपाद्या ययोस्ते तथोक्ते । कुतो नेत्यत आह हीति ।

अनु०-ह्यारब्धमात्रस्य भोगेनैव क्षयो ध्रुवः ।अनारब्धस्य भोगेन त्वितरे इति चोदितः

यस्मादनारब्धस्य ज्ञानेनैव क्षय आरब्धमात्रस्य भोगेनैव क्षयो ध्रुव इत्येषोऽथ अनारब्धकार्ये एव तु पूर्वे तदवधेरि ति सूत्रेण, भोगेन त्वितरे क्षपयित्वाऽथ सम्पत्स्यते इति च सूत्रेणोदितः । तस्मान्नेति सम्बन्धः । एवमुदितत्वेऽपि कुतो नेत्याशङ्कां परिहरन्नपव्याख्याननिरासस्य प्रयोजनमाह पौनरुक्त्येनेति ।

अनु०-पौनरुक्तयेन तेनैते उक्तार्थे इति निश्चयः ।

एतेन मायावादिनामपि (व्याख्यानं) मतं निरस्तम् । तात्पर्यभेदात् प्रपञ्च्यप्रपञ्चनभावाद्वा न पौनरुक्तयमिति चेत् । स्यादेवम् । यद्यसङ्कीर्णं व्याख्यानान्तरं न स्यात् । तदिदमुक्तम् इति निश्चय इति ।।

।। इति यावदधिकाराधिकरणम् ।।

न्यायसुधा

।। अथ इयदामननाधिकरणम् ।।

ब्र०सू०- ।। ॐ इयदामननात् ॐ ।।

१७२सु०- येषां ज्ञानयोग्यानामिदं मुक्तिसंसारयोस्तारतम्यं समर्थितम् । ते छन्दोगानामुपनिषदि नामवागादिक्रमेण प्राणान्ता उक्ताः । तत्र किं प्राण एवाधिकारितारतम्यस्यावधिः उताधिकोऽप्यस्तीति संशये सतीयदेव देवतातारतम्यमिति सिद्धान्तितम् । तत्र न ज्ञायते कास्ता नामाद्या देवता इति । कथं च पञ्चदशैव अधिकानामपि भावादित्याशङ्कानिरासार्थं बृहत्संहितावचनमेव पठति उषा इति ।

अनु०-उषास्स्वाहा च पर्जन्यो मित्रोऽग्निर्वरुणो विधुः ।प्रवहोऽनिरुद्ध इन्द्रोमे रुद्रो वाणी च मारुतः ।उत्तरोत्तरतस्त्वेते गुणैस्सर्वैश्च मुक्तिगाः

उषा अश्विनोर्भार्या । स्वाहा अग्नेर्भार्या । पर्जन्यो मित्रश्च आदित्यौ । प्रवहो मरुत् । अनिरुद्धः कामसुतः । एते मुक्तिगा संसारगाश्च सर्वैर्गुणैरुक्तक्रमेणोत्तरोत्तरत एव वर्तन्त इत्यर्थः ।

१७३सु०- अधिकसद्भावशङ्कानिरासायैतेषां समानान्तरावस्थितांश्चाह सूर्येत्यादिना ।

अनु०-सूर्यधर्मौ यथा सोमो मनुर्दक्षो बृहस्पतिः ।शची रतिश्चानिरुद्धसमास्तारा च मित्रवत् ।सोमवच्छतरूपा तु प्रसूतिर्वह्निवद्विराट् ।पर्जन्यवद्वारुणी च तथा संज्ञा च रोहिणी ।धार्मी च मित्रवत्त्वेव प्रावही परिकर्तिता ।मित्रपर्जन्यमध्यस्थावश्विनौ विघ्नवित्तपौ ।भृगुरग्निसमो मित्रतन्मध्ये ब्रह्मपुत्रकाः ।वरुणाग्न्यन्तरा तत्र नारदः प्राय इन्द्रवत् ।कामः सुपर्णी चोमावद्वीन्द्रो रुद्रवदीरितः ।निर्ऋतिर्मित्रसदृशो विश्वामित्रः कसूनुवत् ।वैवस्वतो मनुश्चाश्विपश्चादन्ये ततोऽवराः ।च्यवनोचथ्यवैन्याश्च शशिबिन्दुश्च हैहयः ।तद्वच्च विप्रराजन्यविशेषोऽत्रापि कश्चन ।तद्वत्प्रियव्रतश्चापि तदन्याः शतदेवताः ।पर्जन्यमित्रान्तराले तदन्ये तु ततोऽवराः

तथेति शेषः । सूर्यधर्मौ सोमसमानौ ।

मन्वादयः पञ्चानिरुद्धसमानाः ।

मनुरत्र स्वायम्भुवो विवक्षितः ।

तारा बृहस्पतिभार्या । चस्त्वर्थः ।

मित्रेण तुल्यं वर्तत इति मित्रवत् । शतरूपा स्वायम्भुवस्य पत्नी सोमवत् । सूर्यधर्मावित्यत्रैवेयं वक्तव्या । सत्यम् । पतीनामुक्तौ इदानीमासां प्रस्तुतत्वात् पृथगुक्तिः ।

प्रसूतिर्दक्षपत्नी वह्निवत् । विराडनिरुद्धभार्या पर्जन्यवत् ।

वरुणस्येयं वारुणी । पुंयोगे तु वरुणानीति स्यात् । इन्द्रवरुणेति स्मरणात् ।

संज्ञा सूर्यभार्या ।

रोहिणी सोमभार्या । धर्मस्येयं धार्मी ।

वारुणी संज्ञा रोहिणी धार्मी च तथैव पर्जन्यवदेव ।

प्रवहस्येयं प्रावही तु मित्रवदेव प्रकीर्तिता ।

अश्विनौ विघ्नपवित्तपौ मित्रपर्जन्यमध्यस्थाविति प्रत्येकं सम्बन्धः ।

एते चत्वारः परस्परं समा मित्रादधमाः । पर्जन्यादुत्तमा इत्यर्थः । भृगुरग्निसम इति वक्ष्यमाणस्यापवादः ।

ब्रह्मपुत्रा मरीच्याद्या मित्रतन्मध्ये मित्राग्न्योर्मध्ये । परस्परं समा मित्रादुत्तमा अग्नेरधमा इत्यर्थः । तत्र तेषु ब्रह्मपुत्रेषु नारदो वरुणाग्न्यन्तरा वरुणादधमोऽग्नेरुत्तम इत्यर्थः । तथा च दक्षभृगुनारदानां पृथगुक्तत्वाद्ब्रह्मपुत्रका मरीच्याद्याः सप्तैव । प्रायग्रहणेनेषन्न्यूनः ।

सुपर्णी गरुडभार्या ।

विश्वामित्रः कसूनुवत् ब्रह्मपुत्रैर्मरीच्याद्यैः समानः ।

वैवस्वतो वैवस्वतादवराः । तेऽश्विभ्यां पश्चात् पर्जन्यादुत्तमाः ।

च्यवनाद्याश्च तद्वत् । एकादशमनुसमानाः ।

अत्रैतेष्वपि विप्रराजन्यत्वनिमित्तः कश्चन विशेषोऽस्ति । मुक्तावपि विप्रत्वादेर्भावात् ।

अत्र च्यवनोचथ्यौ विप्रौ । अन्ये राजन्याः प्रियव्रतोऽपि तत् अवरमनुवदेव ।

तदन्या उक्तेभ्योऽन्याः शतदेवताः सोमार्हदेवताः शतान्तरगताः पर्जन्यमित्रान्तराले ।

पर्जन्यादुत्तमा मित्रादधमा अश्विनोः समाना इत्यर्थः ।

तदन्ये उक्तेभ्योऽन्ये तु देवाः ततः शतान्तर्गतदेवताभ्योऽवराः । अवरमनुसमाना इत्यर्थः ।

१७४सु०- ननु महालक्ष्मीः प्राणादप्युत्तमाऽस्ति । तत्कथं प्राणावसानत्वमधिकारिणामित्यत आह एतेभ्य इति ।

अनु०-एतेभ्योऽभ्यधिका श्रीस्तु सदा मुक्ता विशेषतः ।तत्समो नास्ति परमो हरिरेव न चापरः ।संहितायां बृहत्यां तु स्वयं भगवतोदितम् ।तदेतदखिलं

यद्यपि श्रीरेतेभ्यो विशेषतोऽभ्यधिका । तयाऽपि सदा मुक्ता बन्धरहितेति नाधिकारिवर्गे गृह्यते । तस्याः समो नास्तीति स्वरूपकथनम् ।

एतेन कामादितरत्र तत्र चायतनादिभ्य इत्यधिकरणस्य तात्पर्यमुक्तं भवति ।

परमो हरिरेव न चापर इत्यनेन व्यतिहारो विशिंषन्ति हीतरवत् सैव हि सत्यादयः इत्यधिकरणद्वयस्य तात्पर्यमुक्तं वेदितव्यम् ।

१७५सु०- ननूपनिषदि नामाद्याः प्राणान्ताः पञ्चदशोक्ताः । अत्र चोषाः स्वाहेत्यादिना चतुर्दशैव तत्कथं न विसंवाद इत्यतो बृहत्संहितावचनेनानुक्तमेकं स्वयमाह प्राण इति ।

अनु०- प्राण आहङ्कारिक एव च । इन्द्रादनन्तरो ..।

तैजसाहङ्कारादुत्पन्नः प्राणश्चापरोऽस्ति । स चेन्द्रादनन्तर एवानिरुद्धादुत्तमो ज्ञातव्यः । परप्राणव्यावृत्त्यर्थमाहङ्कारिक एवेत्युक्तम् ।

१७६सु०- अयमत्र सङ्ग्रहः ।

पुष्करो नाम सर्वावरो देवः । कलाभ्यश्चान्यादेवेभ्यः कर्म प्रत्यवरं यतः । कलाभ्यः पृथगुक्तं तत्पुष्करः कर्म चोच्यत इत्यन्यत्रोक्तत्वात् ।

ततश्शनैश्चरोऽधिकः । पृथिव्यात्मा शनिश्चे ति वचनात् ।

तत उषाः (उपा) । ततो बुधः । उदकात्मको बुधश्चेति वचनात् ।

ततः स्वाहा ।

ततः पर्जन्यो वारुणी संज्ञा रोहिणी धार्मी विराट् ।

तत एकादश मनश्च्यवनोचथ्यवैन्यशशबिन्दुहैहयप्रियव्रतगया अनुक्तदेवाश्च । प्रियव्रतो गयश्चैव कर्मदेवसमौ मतावि त्यन्यत्रोक्तत्वात् । ततोऽश्विनौ विघ्नेशवित्तपौ विष्वक्सेनश्च । विष्वक्सेनो वायुजः खेन तुल्य इति वचनात् ।

ततो मित्रो निर्ऋतिस्तारा प्रावहीति च ।

ततो मरीचिरत्र्यङ्गिराः पुलस्त्यः पुलहः क्रतुर्वसिष्ठो विश्वामित्रो वैवस्वतमनुश्च ।

ततोऽग्निर्भृगुः प्रसूतिश्च ।

ततो नारदः ।

ततो वरुणः ।

ततश्चन्द्रसूर्यधर्माः शतरूपा च ।

ततः प्रवहः ।

ततोऽनिरुद्धस्वायम्भुवबृहस्पतिदक्षाः शची रतिश्च ।

तत आहङ्कारिकः प्राणः ।

तत इन्द्रकामौ ।

तत उमा सुपर्णी उमात्मकत्वाच्छेषभार्या च ।

ततो जाम्बवत्याद्या भगवन्महिष्यष्षट् । अन्यत्रोक्तत्वात् ।

ततो रुद्रात्मकत्वाच्छेषश्च ।

ततो भारती तदात्मकत्वात्सरस्वती च ।

ततो मुख्यवायुस्तदात्मकत्वाद्ब्रह्मा च ।

ततो महालक्ष्मीः ।

ततो भगवानिति ।। ३३२१ ।।

।। इति इयदामननाधिकरणम् ।।

न्यायसुधा

।। अथ दर्शनभेदाधिकरणम् ।।

ब्र०सू०- ।। ॐ प्रज्ञान्तरपृथक्तववद्दृष्टिश्च तदुक्तम् ॐ ।।

१७७सु०- एतद्व्याख्यातं भाष्ये उपासनाभेदवद्दर्शनभेद इति । तदस्पष्टम् । दर्शनभेदे मूलकारणस्यानुक्तत्वात् । ततो व्याख्याति दृष्टिरपीति ।

अनु०-दृष्टिरपि योग्यानुसारतः

नानाविधेति शेषः ।।

।। इति दर्शनभेदाधिकरणम् ।।

न्यायसुधा

।। अथ प्रदानाधिकरणगुरुप्रसादाधिकरणौ ।।

ब्र०सू०- ।। ॐ प्रदानवदेव तदुक्तम् ॐ ।।

१७८सु०- अत्र प्रकृष्टं दानं प्रदानम् । प्रशब्दो न स्फुटं व्याख्यातो भाष्ये । अतः सूत्रार्थमाह सम्यगिति ।

अनु०-सम्यग्गुरुप्रसादश्च मुख्यतो दृष्टिकारणम्

न केवलं श्रवणादि किन्तु सम्यग्गुरुप्रसादश्च । सम्यक् प्रसादपूर्वकं गुरोर्यद्विद्यादानं तच्च भगवद्दृष्टेः कारणमित्यर्थः । ननु प्रज्ञान्तरपृथक्तववदि ति सूत्रं प्रदानवदेवेत्यतः पश्चात्तनं तत्कुतो व्युत्क्रमः । उच्यते । योग्यताचिन्तासङ्गतं तदिति प्रकरणशुद्धये पूर्वमेव व्याख्यातमिति न दोषः ।।

ब्र०सू०- ॐ लिङ्गभूयस्त्वात्तदि्ध बलीयस्तदपि ॐ ।।

अत्र गुरुप्र(साद)दानस्य बलवत्त्वमुक्तम् । तदयुक्तम् । श्रवणादितो हि बलवत्त्वम् ।

तच्च प्रदानशब्दार्थान्तर्गतमेव । न हि स्वस्मादेव स्वयं बलीय इति सम्भवतीत्यतो व्याचष्टे सम्यगिति । मुख्यतः श्रवणाद्यपेक्षयाऽतिशयेन ।

अयमभिसन्धिः । प्रदानशब्देन हि सम्यग्गुरुप्रसादपूर्वकं दानं प्रकृतम् । तत्र सम्यग्गुरुप्रसादमात्रं तदिति अत्र परामृश्यत इति ।

लिङ्गभूयस्त्वादित्युक्तम् । यास्वाख्यायिकासु लिङ्गानि दृश्यन्ते तत्र गुरुप्रसादेनैव ज्ञानप्राप्तिश्रवणात् श्रवणादिकं न करणीयमिति शङ्का स्यात् तां निवारयितुं तदपीत्युक्तम् । तद्व्याख्याति श्रवणादि चेति ।

अनु०-श्रवणादि च कर्तव्यं नान्यथा दर्शनं क्वचित् ।

कुत इत्यत आह नान्यथेति । अन्वयव्यतिरेकाभ्यां श्रुत्या च प्रमाणानामेव प्रमेयाधिगतिसाधनत्वनिश्चयादिति भावः । आख्यायिकास्वपि श्रवणादीनामनुक्तिमात्रम् । न पुनरभावोक्तिरस्ति ।। ३३२७ ।।

।। इति प्रदानाधिकरणगुरुप्रसादाधिकरणौ ।।

न्यायसुधा

।। अथ पूर्वविकल्पाधिकरणम् ।।

ब्र०सू०- ।। ॐ पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ॐ ।।

१७९सु०- किं प्रथमप्राप्त एव गुरुरुत तं परित्यज्यान्योऽपि स्वीकर्तुं शक्यत इति संशये गुरुमन्त्रपरित्यागी रौरवं नरकं व्रजेदि ति गुरुपरित्यागे दोषस्मरणात् प्रथमप्राप्त एवेति प्राप्ते विकल्प उच्यते । स हीनसमोत्तमेषु किं विषय इति न ज्ञायते । दोषस्मरणस्य का गतिरित्यतो व्यक्तं व्याख्याति गुणाधिकमिति ।

अनु०-गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात्क्वचित्

क्वचित्प्रयोजनविशेषेऽपि । दोषस्मरणं तद्विषयमिति भावः ।

एवं तर्हि सौत्रो विकल्पोऽधिकगुरुप्राप्तिविषयः किमिति नेत्याह विपर्ययस्त्विति ।

अनु०-विपर्ययस्तु कर्तव्यः सर्वथा शुभमिच्छता

अधमगुरुपरित्यागेनोत्तमगुरुस्वीकार इत्यर्थः । अन्यथा दैवादादावल्पं गुरुं प्राप्तस्य शिष्यस्य प्रज्ञोत्कर्षवतो जातयोः संशयविपर्यासयोरज्ञानस्य च निवृत्तिर्न स्यात् । तदिदमुक्तं शुभमिच्छतेति ।

१८०सु०- एवं तर्ह्यनुपदिशत उत्तमस्य त्यागेनोपदिशतोऽधमस्य स्वीकारोऽपि कर्तव्यः स्यात् । सत्यम् । प्रतिषेधवचनेन तत्रापोदितोऽयं न्यायः । तर्हि सौत्रस्य विकल्पस्य को विषय इत्यत आह सम इति ।

अनु०-समे विकल्प एव स्यात्

पूर्वस्वीकृतेन गुरुणा समे गुरौ स्वयमेव प्राप्ते सति स्वीकारस्य विकल्प एव स्यात् ।

न तु नियमः । सम एवेति वा सम्बन्धः ।

दोषस्मृतेर्विषयान्तरं च दर्शयितुमाह पूर्वेति ।

अनु०- पूर्वानुज्ञा च सर्वथा

समगुर्वन्तरस्वीकारे पूर्वस्यानुज्ञा च सर्वथा भाव्या । विनाऽनुज्ञया समानपूर्वपरित्यागविषयं दोषस्मरणमिति भावः ।

१८२सु०- पूर्वानुज्ञा च इत्येतद्गुर्वन्तरप्राप्तिमात्रविषयमिति मन्दप्रतीतिनिरासाय आह तदुत्तमेति ।

अनु०-तदुत्तमगुरुप्राप्त्यै पूर्वानुज्ञा न मृग्यते

तदिति पूर्वप्राप्तस्य परामर्शः । तस्मादुत्तमस्य गुरोः प्राप्त्यै पूर्वस्यानुज्ञा न मार्गणीया ।

१८३सु०- गुरुप्रसादः सर्वथा भाव्य इति सूत्रकृतोक्तम् । तद्विद्यादेवतयोरपि प्रसादस्योपलक्षणमिति विवक्षुर्गुरुविद्यादेवतास्वरूपं तावदाह गुरुरिति ।

अनु०-गुरुर्ब्रह्माऽखिलानां च विद्या चैव सरस्वती ।देवता भगवान्विष्णुः सर्वेषामविशेषतः

येषां तेषामिति विशेषं विहाय सर्वेषामेव । ततः किमित्यत आह तदिति ।

अनु०-तत्प्रसादेन मुक्तिः स्यान्नान्यथा तु कथञ्चन

न केवलं गुरुप्रसादेन किन्तु विद्यादेवतयोरपीत्यर्थः । मुक्तिः इति ज्ञानादेरुपलक्षणम् ।

१८४सु०- साधारणगुरुमुक्तवाऽसाधारणानाह स्वोत्तमास्त्विति ।

अनु०-स्वोत्तमास्तु क्रमेणैव सर्वेषां गुरवः स्मृताः

क्रमेणैवेति साक्षादुत्तमो गुरुस्ततोऽप्युत्तमो गुरुतर इत्यादि । एवं विद्याविशेषे तद्देवताविशेषोऽपि ज्ञातव्यः ।

१८५सु०- नन्वस्तु विद्यात्वं विद्याभिमानित्वात्सरस्वत्यादीनाम् । देवतात्वं च विद्याप्रतिपाद्यत्वाद्विष्णोः । ब्रह्मणो गुरुत्वं तु कुतः । विद्योपदेष्टृत्वं हि गुरुत्वम् । न च सर्वान्प्रति ब्रह्मणस्तदस्तीत्यत आह उपदेश इति ।

अनु०-उपदेशो ब्रह्मणस्तु सर्वेषामेव मुक्तये ।

इह जन्मान्तरे वा हिरण्यगर्भोपदेशेन विना न कस्यापि मुक्तिरित्यतस्तस्य गुरुत्वमुपपन्नम् । तदितरेषामप्युत्तमानां विद्यासम्प्रदायप्रवर्तकत्वात् गुरुत्वम् अप्रवर्तकानां तु अनुग्राहकत्वादिनेति ।। ३३२८ ।।

।। इति पूर्वविकल्पाधिकरणम् ।।

न्यायसुधा

।। अथ ताद्विद्याधिकरणम् ।।

ब्र०सू०- ।। ॐ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॐ ।।

१८६सु०- भक्तिरेवैनं नयतीत्यादिश्रुतेर्भक्तिरेव मोक्षादिसाधनं न परमात्मा । यथैकलव्यस्य गुरुभक्तिरेव विद्याप्राप्तिसाधनं न गुरुरित्येवं प्राप्ते इदमुक्तम् । तत्र भाष्यम् । प्रधानसाधनत्वाद्भक्तिः करणत्वेनोच्यत इति । तत्र प्रकृतत्वाद्भगवदपेक्षयैव भक्तेः प्राधान्यमिति प्रतीतिः स्यात् तां निवारयितुमाह साधनेभ्य इति ।

अनु०-साधनेभ्योऽधिका भक्तिः

मोक्षसाधनेभ्यो ज्ञानादिभ्यः । एतदपि तादृगेव भगवतोऽपि मोक्षसाधनत्वादित्यत आह नैवेति ।

अनु०-नैवान्यत्तादृशं क्वचित् ।

क्वचिन्मुक्तौ ज्ञानादौ वा भगवतोऽन्यत्साधनं भक्तिसदृशं नैवास्तीत्यर्थः ।

१८७सु०- भक्तिरिति सामान्येनोक्तं न ज्ञायते किंविषया कथं चेति । अत आह भक्तिश्चेति ।

अनु०-भक्तिश्चैव हरावेव मुख्याऽन्यत्र यथाक्रमम् ।

हरावेव मुख्या सर्वाधिका न तथाऽन्यत्र । अन्यत्रापि यथाक्रममेव न तु साम्येनाक्रमेण वेत्यर्थः । तदियत्तामाह स्वाधिकेति ।

अनु०-स्वाधिकत्वेन सर्वत्र स्वोत्तमेषु क्रमेण च

साक्षात्स्वोत्तमे स्वाधिकैव कर्तव्या । अन्यत्र स्वोत्तमेषु तदुत्तमत्वक्रमेणेत्यर्थः । यद्यप्येषोऽर्थः प्रागुक्तस्तथाऽपि तात्पर्यातिशयद्योतनाय पुनरुक्तः ।

१८८सु०- भक्तिः साधनं चेन्मुक्तिप्राप्त्यनन्तरं नास्तीति प्रतीतिः स्यात् । फलप्राप्तौ साधननिवृत्तिदर्शनात् । तन्निवृत्त्यर्थमाह अनुवर्तते चेति ।

अनु०-अनुवर्तते च सा भक्तिर्मुक्तावानन्दरूपिणी

प्रेमविशेषो हि भक्तिर्नाम । उपकारकत्वज्ञानाज्जाता हि प्रेमा कृतमहोपकारे नितरां वर्धत इत्येव खलु युक्तं न तु हीयत इति । तदेतत् अस्तीत्यनुक्तवाऽनुवर्तत इति वदता सूचितम् । तर्हि तस्याः फलमपि किञ्चित्स्यादित्यत आह आनन्दरूपिणीति । प्राक्कर्तव्यतया प्रकृता । अतः साधनरूपा । मुक्तौ तु स्वभावभूताविर्भूता फलरूपैव ।

पादार्थमुपसंहरति तदिति ।

अनु०-तत्पूर्विकोपासनैवं कर्तव्या मुक्तये गुणैः ।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने

तृतीयाध्यायस्य तृतीयः पादः ।।

भक्तिपूर्वा । एवमिति योग्यतादेः परामर्शः । गुणैरुपेतस्य हरेः ।। ३३३४ ।।

१८९सु०-

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना । कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयेऽत्रोपासाविषयचरणः पर्यवसितः ।।

।। इति श्रीमज्जयतीर्थविरचितायां श्रीमन्न्यायसुधायां तृतीयाध्यायस्य तृतीयः पादः समाप्तः ।।

अथ तृतीयाध्यायस्य चतुर्थः पादः

पादः 4

न्यायसुधा

सामान्यं भगवत्प्रोक्तं देवादीनां विशेषतः । बलवद्विरोधिसद्भावे जैमिन्याद्युक्तिरिष्यते ॥3॥

।। अथ पुरुषार्थाधिकरणम् ।।

१सु०- ज्ञानसामर्थ्यमस्मिन्पाद उच्यत इति पादप्रतिपाद्यं भाष्येऽभिहितम् । सङ्गतिस्तु प्रागुक्तैव । ननु च ज्ञानस्य स्वातन्त्र्येण मोक्षसाधनत्वं सामर्थ्यम् । तच्च विद्यैव इत्युक्तम् । किमपरमवशिष्यते । यदर्थं पादारम्भः ।

उच्यते । सिद्धे(द्धं) स्वतन्त्रस्यैव ज्ञानस्य मोक्षसाधनत्वे(त्वम्) । विषयान्तरे तु सामर्थ्यमत्र समर्थ्यते । यद्यपि साधकेन मोक्षार्थमेव इदं साधितं तथाऽपि स्वभावबलायातं तत्सामर्थ्यमुपपद्यते । यथा दहनार्थमुत्पादितोऽपि दहनः स्वभाववशात् प्रकाशयत्यपीति ।।

ब्र०सू०- ॐ पुरुषार्थोऽतः शब्दादिति बादरायणः ॐ ।।

किं कर्मानुप्रवेशेन ज्ञानं मोक्षसाधनं किं वा स्वतन्त्रमेवेति संशये स्वतन्त्रस्यैव ज्ञानस्य मोक्षसाधनत्वमनेन समर्थ्यत इति केचिद्व्याचक्षते । तदसत् । विद्यैवेत्यत्रैवास्यार्थस्य समर्थितत्वात् । किन्तु ज्ञानं किं मोक्षमेव साधयत्युतान्यमपि पुरुषार्थमिति संशये ज्ञानिनां पुरुषार्थान्तरे रागाभावान्मोक्षस्यैव साधकं ज्ञानमिति प्राप्ते सतीदमुच्यत इत्यायशवान् पुरुषार्थोऽत इत्येतावद्व्याचष्टे एवमिति ।

अनु०-एवमुत्पन्ननिर्दोषभगवद्दर्शनात् सदा ।अपेक्षितफलप्राप्तिः

अत इति ज्ञानपरामर्शो नोपपद्यते । पूर्वत्र प्राधान्येनोपासनस्यैव प्रकृतत्वादित्यत उक्तम् एवमुत्पन्नेति । न खलूपासनं स्वातन्त्र्येण प्रकृतं किन्नाम भगवद्दर्शनार्थत्वेन । अतः साध्यतया तदपि प्रकृतमेवेति भावः । एवमुक्तरूपोपासनोत्पन्नात् । भगवतो निर्दोषत्वसङ्कीर्तनं तदुपपादनाय पातनिकार्थं ज्ञातव्यम् ।

यद्वा भगवद्दर्शनादि त्येवोक्ते दैत्यादीनां यदवतारदर्शनं तस्यापि पुरुषार्थहेतुत्वं स्यात् । एवमुत्पन्नेत्यनेनैव तत्परिहृतमिति चेन्न । तस्य प्रकृतताप्रदर्शन एव चरितार्थत्वात् । तन्न तेषां बिम्बदर्शनमिति चेत् ।

मा भूत् । तस्य मोक्षार्थत्वात् । अत्र तु पुरुषार्थान्तरस्य प्रस्तुतत्वात् । अतो निर्दोषाद्भगवद्दर्शनादित्युक्तम् । भगव द्ग्रहणेनाद्वैतज्ञानमत्र गृह्यत इति निराचष्टे । सदा ज्ञानोदयक्षणादारभ्य स्वोदयात्फलदं ज्ञानमिति वचनात् । अपेक्षितफलप्राप्ति र्भवतीति मोक्षमात्रं व्यावर्तयति ।

२सु०- नन्वेतदसत् । ज्ञानिनामप्यभिप्रायस्य कदाचिन्मोघत्वदर्शनादित्यत आह आरब्धस्येति ।

अनु०-आरब्धस्यानतिक्रमात्

प्रारब्धकर्मणोऽतिक्रममविधायेति पूर्वेणैव सम्बन्धः । प्रारब्धप्रतिबद्धं हि ज्ञानं मोक्षमपि न करोति । अतस्तत्प्रतिबन्ध(क)वशाज्ज्ञानिनामप्यभिप्राया मोघाः स्युः । ज्ञानस्य पुरुषार्थहेतुत्वेऽपि विशेषोऽस्तीत्याह देवेति ।

अनु०-देवर्षिमानुषादीनां तत्तज्जात्यनुसारतः

जाति शब्देनात्र योग्यतोच्यते । अपेक्षितफलप्राप्तिर्भवतीति सम्बन्धः । एतेन नाविशेषादित्यस्यापि तात्पर्यमुक्तं भवति ।

३सु०- अत्र न ज्ञानं स्वतन्त्रमेव स्वर्गादिसाधनं किन्तु कर्मैव । ज्ञानं तु कर्मशेषत्वात् तत्साधनत्वेनोच्यते । शेषत्वं च कर्मणैव सिद्ध्यति पुरुषार्थेऽतिशयाधायकत्वमिति शेषत्वात् पुरुषार्थवादो यथाऽन्येष्विति जैमिनिरि त्यादिसूत्रैः पूर्वपक्षयित्वा अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनादि त्यादिना स्वतन्त्रस्यैव ज्ञानस्य स्वर्गादिसाधनत्वं पुनः सिद्धान्तितम् । तत्र पूर्वपक्ष्युपन्यस्तप्रमाणनिरासः स्फुटो भाष्ये । जैमिनिमतविरोधपरिहारस्तु कथमित्यत आह जैमिन्युक्तमिति ।

अनु०-जैमिन्युक्तं मानुषाणां तद्विशेषाश्च केचन

ज्ञानशेषस्य कर्मण एव स्वर्गादिसाधनत्वं मानुषज्ञानिविषयम् । न केवलं जैमिन्युक्तं किन्तु स्वर्गादयः कर्मणैव नान्येनेत्यपरे विदुः । अदृष्टमेव ज्ञानेन दृष्टं नैवोपलभ्यते । इति केचिद्विदः प्राहुरि त्यादिनोक्तास्तद्विशेषा जैमिनिमतैकदेशा ये केचन तेऽपि मानुषाणाम् । कथमेतेषां जैमिनिमतैकदेशत्वमिति चेत् । स्वतन्त्रस्य ज्ञानस्य न स्वर्गादिसाधनत्वमित्येतावत्यंशे साम्यादिति ब्रूमः । मानुषा अप्युत्तममध्यमाधमभेदभिन्ना यथायोग्यं विचित्रमतविषया भवन्त्येव ।

४सु०- एवं जैमिनिमतविषयमुक्तवा सूत्रकारमतविषयं दर्शयति सामान्यमिति ।

अनु०-सामान्यं भगवत्प्रोक्तं

ज्ञानं सकलपुरुषार्थसाधनं भवतीति सामान्यमेव भगवता प्रोक्तम् । न तु पुरुषविशेषनिष्ठं ज्ञानमिति । अतः सामान्यविशेषनियतत्वान्नैतयोर्मतयोर्विरोधः । ननु सामान्येनापि क्वचिद्विशेषेऽवस्थातव्यम् । तदिदमपि क्वावतिष्ठत इत्यत आह देवादीनामिति ।

अनु०- देवादीनां विशेषतः

भगवन्मतं विशेषतोऽपवादैरपोदितं देवादि विषयं व्यवतिष्ठते । यद्यप्ययमर्थो लोकत एव सिद्धः । यदपवादविषयं परित्यज्य सामान्यं व्यवतिष्ठत इति । तथाऽपि मन्दप्रबोधनायाचार्यैरभिहितः ।

५सु०- प्रकारान्तरेण मतयोर्विषयभेदं दर्शयति बलवदिति ।

अनु०-बलवद्विरोधिसद्भावे जैमिन्याद्युक्तिरिष्यते ।

अत्रापि सामान्यं भगवत्प्रोक्तमिति वर्तते । भगवता ज्ञानं सकलपुरुषार्थसाधनमिति सामान्येनोक्तम् । जैमिन्यादयस्तु बलवत्प्रतिबन्धककर्मसद्भावे ज्ञानस्य पुरुषार्थासाधनत्वमभिप्रेत्य न स्वतन्त्रज्ञानात् स्वर्गादिप्राप्तिर्भवतीत्युक्तवन्तः । ततश्च सामान्यविशेषविषयत्वान्न विरोधः । तथा च अप्रतिबद्धज्ञानविषयं भगवन्मतं व्यवतिष्ठते । यथोक्तम् । आरब्धस्यानतिक्रमादिति ।

ननु नायं जैमिन्यादिमतस्य विषयो वक्तुं शक्यते । बलवद्विरोधसद्भावे कर्मणोऽपि स्वर्गादिसाधनत्वानुपपत्तेः । मैवम् । न हि यज्ज्ञानस्य प्रतिबन्धकं कर्म तत्कर्मणोऽपीत्यस्ति नियमः । लोकेऽन्यथा दर्शनात् । फलप्रतिबन्धककर्मसद्भावे कथमिति चेत् । तदा स्वर्गादिसाधनं कर्मैव नोत्पद्यते । उत्पन्नं वा प्रतिबद्धं तिष्ठतीति को विरोधः । न हि बलवद्विरोधिसद्भावे सर्वत्रैव जैमिन्याद्युक्तिरिष्यत इत्युक्तम् । इयं च व्यवस्था पूर्वव्यवस्थयोपस्कर्तव्या । अन्यथा विरोधापत्तेरिति ।। ३४१ ।।

।। इति पुरुषार्थाधिकरणम् ।।

न्यायसुधा

।। अथ कामचाराधिकरणम् ।।

ब्र०सू०- ।। ॐ स्तुतयेऽनुमतिर्वा ॐ ।।

६सु०- अत्राधिकरणे ज्ञानिनः सदसत्प्रवृत्तिभ्यां विशेषसद्भावः समर्थ्यते । तथा च अज्ञानिसामान्यसमर्थनार्थस्यास्य न ज्ञानसामर्थ्यप्रतिपादनार्थेऽस्मिन्पादेऽन्तर्भावः सम्भवतीत्यतः अधिकरणस्य तात्पर्यमाह विकर्मेति ।

अनु०-विकर्मलेपो नैवास्ति सम्यग्दृष्टिमतां क्वचित्

यद्यप्यत्र मुखतो ज्ञानिनां सदसत्प्रवृत्तिभ्यां विशेषसद्भावः प्रतिपाद्यते । तथाऽपि सम्यग्दृष्टिमतां क्वचिदपि विकर्मलेपो वक्ष्यमाणरूपो नैवास्ती त्यस्यार्थस्य फलतो लाभाद्युक्तोऽस्यान्तर्भावः ।

न ह्यज्ञानिनां विकर्मलेपाभावोऽस्तीति भावः । यथोक्तम् कामकारेण चैके इति ।

विकर्मलेपाभावे कथमसत्प्रवृत्त्या विशेषसद्भावोऽङ्गीक्रियत इति चेत् । आनन्दादिगुणहानोर्विकर्मकर्तुर्विशेषस्य स्वीकारात् । ओपस्तु ततोऽस्तु इति वक्ष्यते ।

७सु०- किं सर्वेषामपि ज्ञानिनां विकर्मसम्भवो गुणहानिश्चास्तीत्यपेक्षायामाह गुणहानिश्चेति ।

अनु०-गुणहानिश्च नैवास्ति ब्रह्मणस्त्वविकर्मतः ।देवानामपि न प्रायः

ब्रह्मणस्तु सर्वथा विकर्म नास्ति । न भारती मेऽङ्ग मृषोपलक्ष्यत इत्यादिवचनात् । अविकर्मतो गुणहानिश्च नैवास्ति । हिरण्यगर्भेतरदेवानामपि प्रायो विकर्मगुणहानी न स्तः । ईषद्विकर्मतन्निमित्ता गुणहानिश्चास्तीत्यर्थः ।

यदि देवानां विकर्म सम्भवति तेन चानन्दादिगुणहानिः स्यात् तदा अयमस्मादेतावता न्यूनः अस्मादेतावता अधिकः अनेन समान इति शास्त्रीयनियमो भज्येत । तथा च शास्त्रस्याप्रामाण्यं स्यात् । न च तदैव प्रतियोगिपरम्परा विकृतिः प्रमाणवतीत्यत आह क्ऌप्तस्येति ।

अनु०- क्ऌप्तस्य तु कथञ्चन

हानिर्नेति वर्तते । यस्या देवस्य यावद् गुणत्वं क्ऌप्तं तस्य तु कथञ्चन केनापि विकर्मणा हानिर्न भवतीत्यर्थः ।

८सु०- तर्हि देवानां विकर्मणेषद्गुणहानिर्भवतीत्यस्य कोऽर्थ इत्यत आह प्राप्तेति ।

अनु०-प्राप्तह्रासो भवेत् क्वापि महता तु विकर्मणा

प्राप्त शब्देन प्रसक्तमुच्यते । देवानामल्पेन विकर्मणा न किञ्चिद्धीयते । क्वापि प्राप्तेन महता तु विकर्मणा प्राप्तस्यैव गुणस्य ह्रासो भवेत् । स्वयोग्यपरिपूर्तये यावत्साधनमनुष्ठेयं ततोऽतिरिक्तेन साधनेनानुष्ठितेन यदानन्दादिकं प्रसक्तं तस्याभावो भवेत् ।

यदि स्वयोग्यपरिपूर्त्यर्थं साधनातिरिक्तमपि साधनं देवैरनुष्ठीयते तदा तारतम्यनियमो भज्येत । यो हि देवोऽतिरिक्तसाधनमनुष्ठाय न महद्विकर्म करोति तस्योत्पत्तव्यमेव तेन गुणेन । ईश्वराराधनस्य वैफल्यानुपपत्तेः । न च तदैवान्येषां विक्रियायां प्रमाणमस्ति । ततश्च शास्त्रस्याप्रामाण्यमित्यत आह तथाऽपीति ।

अनु०-तथाऽपि तत्क्ऌप्तमेव

यद्यपि देवैः स्वयोग्यपरिपूर्त्यर्थं साधनातिरिक्तमपि साधनमनुष्ठीयते । तथाऽपि तेषां तद्विघातकं तद्विकर्म महत्क्ऌप्तं नियतमेव । स्वाधिकाराधिको यत्नः कथञ्चिन्नोपपद्यते । कथञ्चिदधिके यत्ने दोषः कश्चित्समापतेदिति वचनात् ।

क्ऌप्तस्य तु कथञ्चन , तथाऽपि तत्क्ऌप्तमेवे त्युक्तम् । द्वयस्यापि साध्यमाह तस्मादिति ।

अनु०- तस्मान्न नियमोज्खितिः

क्ऌप्तहान्यभावादधिकानुष्ठाने विकर्मापत्तिनियमात् च । श्रौततारतम्यनियमभङ्गो नास्तीत्यर्थः ।

उक्तार्थमुदाहरति चन्द्रेति ।

अनु०-चन्द्रसुग्रीवयोश्चैव स्वोच्चदारपरिग्रहात् ।प्राप्तहानिरभून्नैव क्ऌप्तहानिः कथञ्चन ।

च शब्दो यथेत्यर्थे । एव शब्दस्य प्राप्तहानिरेवेत्यन्वयः ।

९सु०- देवानां विकर्मणा प्रसक्तहानिरेव भवति न तु क्ऌप्तहानिरित्युक्तम् । तदतिरिक्तानां तु कथमित्यपेक्षायामाह ह्रासोऽपीति ।

अनु०-ह्रासोऽपि मानुषादीनामानन्दस्य विकर्मणा ।भवेन्मुक्तौ विशेषेण स्वोच्चानामपराधतः ।

क्ऌप्तस्यापीत्यपेरर्थः । आनन्दस्येत्युपलक्षणम् । ह्रासो नामानभिव्यक्तिः । सा चेश्वरेच्छाधीना । प्रकृत्याद्यावरणानामपास्तत्वात् । विकर्मस्वप्यधिकं निर्धारयन्नाह विशेषेणेति । स्वोत्तमविषयापराधाद्विशेषेणानन्दह्रासो भवति ।

ब्र०सू०- ।। ॐ कामकारेण चैके ॐ ।।

१०सु०- स्यादेतत् । अत्राधिकरणे कामकारेण चैक इति सूत्रेण ज्ञानोत्तरकालं कृतेन विकर्मणा ज्ञानिनो लेपाभावोऽभिधीयते । तथोपमर्दं चे ति सूत्रेण ज्ञानात्पूर्वेषां कर्मणां ज्ञानेन विनाशः । एतदुभयं चतुर्थेऽध्याये तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशावि ति सूत्रेणोच्यते । तत्कथं न पुनरुक्तिदोष इत्यतस्तावत्कामकारेण चैक इत्यस्य पुनरुक्तिदोषं परिहरति ज्ञानोत्तरस्येति ।

अनु०-ज्ञानोत्तरस्य पापस्य चतुर्थेऽलेप उच्यते

चतुर्थेऽध्याये उत्तराघस्याश्लेष इत्यनेन ज्ञानोत्तरस्य पापस्यालेपस्तत्फलनरकादिप्राप्त्यभाव उच्यते । विषयान्तरमाह अशुचित्वादिकं चेति ।

अनु०-अशुचित्वादिकं चास्य न भवेदिति तत्फलम्

अस्य ज्ञानिन स्तत्फलं ज्ञानोत्तरपापफलं अशुचित्वासम्भाष्यत्वादिकं न भवेदिति च उत्तराघस्याश्लेष इत्यनेनोच्यते । ततः किमित्यत आह अत्रेति ।

अनु०-अत्र ज्ञानफलस्यैव मुक्तेर्नियततोच्यते

अत्र तृतीयेऽध्याये कामकारेण चैके इत्यनेन ज्ञानफलस्य मुक्तेः नियतता । ज्ञानिना कृतानि पापानि ज्ञानफलं मोक्षं न विहन्तुमलमित्येषोऽर्थ उच्यते । अतो न पुनरुक्तिदोष इति ।

१२सु०-

ब्र०सू०-।। ॐ उपमर्दं च ॐ ।।

द्वितीयां पुनरुक्तिं परिहर्तुमुपमर्दं चेत्यस्य प्रतिपाद्यमाह प्रारब्धेति ।

अनु०-प्रारब्धकर्मजस्यैव विषभक्षान्मृतेरिव ।प्राप्तस्याप्यनिवर्त्यस्य किञ्चिद्भुक्तस्य संविदा ।उपमर्द इह प्रोक्तो

चतुर्थेऽध्याये पूर्वार्धस्य स्वरूपविनाशः कथ्यते । अनारब्धकार्ये एवे ति वचनात् । इह तृतीयेऽध्याये तु उपमर्दं चे ति सूत्रेण प्रारब्धकर्मजस्य फलस्यैव संविदोपमर्दः प्रोक्तः । न तु प्रारब्धस्याप्रारब्धस्य वा कर्मणो नाश इति न पुनरुक्तिदोषः । नन्वत्र प्रारब्धकर्मण इत्येव कस्मान्नोक्तं किं तज्जनितफलग्रहणेन ।

नैवं शङ्क्यम् । भोगेन त्वितरे इति प्रारब्धस्य कर्मणो भोगविनाश्यत्वोक्तेः । संविद्विनाश्यत्वाङ्गीकारे तद्विरोधात् । ईषद्विरोधात् । ईषद्विनाशस्तु फलद्वारेणैव । कर्मणां निर्भागत्वात् । ननु च फलोपमर्दे कर्मोपमर्द एवोक्तोऽर्थतः स्यात् । तथा च भोगेनेति सूत्रविरोधस्तदवस्थ इत्यत उक्तं किञ्चिद्भुक्तस्येति । न सर्वस्य प्रारब्धकर्मफलस्योपमर्दः संविदोच्यते । किन्नाम किञ्चिद्भक्तस्यातो न सूत्रविरोधः । कर्माणि ज्ञानिनं न तावत्स्वफलं भोजयन्ति यावदज्ञानिनमिति भावः । यथोक्तम् । न वै जनो जातु कथञ्चनाव्रजेन्मुकुन्दसेव्यन्यवदङ्गसंसृतिमि ति ।

ननु अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभमि ति प्रारब्धकर्मफलोपभोगस्यापरिहार्यत्वस्मरणात् कथमेतदित्यत उक्तम् अनिवर्त्यस्य प्राप्तस्यापीति । अपरिहार्यतया प्रसक्तस्यापीत्यर्थः । अनिवर्त्यतया प्रसक्तस्यापीत्यर्थः । अनिवर्त्यस्यापीत्येतावत्येव वक्तव्ये प्राप्तस्येत्यनेन विरोधपरिहारं सूचयति । अत्र दृष्टान्तमाह विषेति ।

यथा विषभक्षणान्मृतिरनिवर्त्यतया प्रसक्तैव न पुनरतिवर्त्यैव । विषहरमन्त्रौषधादिना निवृत्तेर्दर्शनात् । तथा प्रारब्धकर्मफलभोगोऽप्यनिवर्त्यतया प्रसक्त एव न त्वनिवर्त्य एव । ज्ञानादिना निवृत्तेरुपपादयिष्यमाणत्वात् । तथा च विषभक्षणान्मरणमवश्यं भावीति वचनवदवश्यमनुभोक्तव्यमिति वचनस्याप्यर्थोऽवगन्तव्यः । उत्सर्गतः प्रारब्धकर्मफलानि भोक्तव्यान्येव । अपवादेन तूपमृद्यन्त इति ।

किं सर्वेषां ज्ञानिनां प्रारब्धकर्मफलोपमर्द एकविध एव उत नानाविध इत्यपेक्षायामाह देवादीनामिति ।

अनु०- देवादीनां यथाक्रमम्

येषामधिकं ज्ञानं तेषामधिक इत्यादि । एतेन नाविशेषादि ति मध्ये पठितस्य सूत्रस्य पूर्वत्रोत्तरत्र चोपयोग इत्युक्तं भवति ।

प्रारब्धकर्मणां भोगेन विना न क्षयः । किन्तु ब्रह्मज्ञानेन फलह्रासो भवतीत्युक्तम् । तत्रैके मन्यन्ते । अचिन्त्यो हि ब्रह्मज्ञानस्य महिमा । अतः तत्सामर्थ्यादप्रारब्धानीव प्रारब्धान्यपि कर्माण्यभुक्तफलानि क्षीयन्ते । नाभुक्तं क्षीयते कर्मे त्यादिवाक्यानि त्वज्ञानिविषयाणि । ततश्च ज्ञानाग्निः सर्वकर्माणीति सर्वशब्दोऽप्यपीडितः स्यादिति । अन्ये तु परमेश्वरेच्छोपोद्बलितानि प्रारब्धानि भोजयन्त्येव सर्वं स्वफलम् । न कश्चिदपि फलह्रासोऽस्तीति ।

तत्राद्यं मतं तावदपाकरोति सर्वात्मनेति ।

अनु०-सर्वात्मना त्वभोगो हि प्रारब्धस्यैव कर्मणः । न ब्रह्मदर्शिनोऽपि स्यात्

ब्रह्मदर्शिनोऽपि प्रारब्धस्य कर्मणः सर्वात्मना त्वभोगो न स्यादेव । विना भोगेन ब्रह्मज्ञानादेव प्रारब्धान्यपि कर्माणि क्षीयन्त इति मतमनुपपन्नमित्यर्थः । तथा सति ब्रह्मविदां संसारावस्थानं न स्यात् । निर्बीजत्वात् । लोकानुग्रहार्थमेव विग्रहांस्ते बिभ्रतीति चेन्न । शापादिनिमित्तानामापदामपीतिहासपुराणेषु बहुलमुपलम्भात् । तस्य तावदेव चिरमित्यादिश्रुत्या चावगम्यते कर्मावस्थानमिति हिशब्दार्थः ।

द्वितीयं मतमपाकर्तुमाह फलेति ।

अनु०-फलह्रासस्तु विद्यते

प्रारब्धस्य कर्मण इति वर्तते । ॐ इत्युच्चार्य अन्तरिममात्मानमभिपश्योपमृद्य पुण्यं च पापं च काममाचरन्तो ब्रह्मानुव्रजन्ती त्यागमादिति भावः ।

यस्त्वागममप्रारब्धविषयं व्याख्याय प्रारब्धकर्मफलस्येषदपि ह्रासो नास्तीति ब्रूयात्

तं प्रत्याह सर्वात्मनेति ।

अनु०-सर्वात्मना फलह्रासो यदि नारब्धकर्मणः ।स्यात्काम्यविधिवैयर्थ्यम्

ईषदपि इत्यर्थः । ब्रह्महत्यादिकर्मविपाकक्षयरोगादिनिवृत्त्यर्थाः प्रायश्चित्तविधयोऽत्र काम्यविधयो विवक्षिताः ।

१३सु०- अयमत्रोत्तरक्रमः । ब्रह्महा क्षयरोगी स्यादि ति स्मरणात् क्षयादिकं तावत् ब्रह्महत्यादेः फलम् । तत उत्पादितक्षयादिकं ब्रह्महत्यादिप्रारब्धमेव । तस्य च प्रारब्धकर्मफलस्य क्षयादेः प्रायश्चित्तकरणे निवृत्तिर्दृश्यते । तत्कथं प्रारब्धकर्मकफलस्य सर्वथाऽप्यनुपमर्दः ।

अथ मन्येत । प्रायश्चित्तं न क्षयनिवृत्तिहेतुः किन्तु भोगनिमित्तकर्मक्षय एवेति । तदा प्रायश्चित्तविधयो व्यर्थाः स्युः । गृहदाहेष्ट्यादिवत् प्रायश्चित्तानां नैमित्तिकत्वं भविष्यतीति चेन्न । क्षयादिसंयोगेन विधीयमानानामेषां तद्विघातफलसम्भवे फलान्तरकल्पनानुपपत्तेः । किञ्चात्र नियतपश्चाद्भावित्वमसमाहितमेव । तदिदमुक्तं काम्येति । तथाऽपि ब्रह्मज्ञानं न तदर्थं विहितमिति चेन्न । फलश्रवणेनैव विधिकल्पनात् ।

अनेनैव न्यायेन प्रायश्चित्तानां कर्मक्षयहेतुत्वाभावोऽपि निरस्तः । तथा सति प्रायश्चित्तविधीनां वैयर्थ्यापत्तेः । नैमित्तिकत्वपक्षस्य च दृष्टादृष्टहानोपादानप्रसङ्गेन निरस्तत्वात् ।

अथ कर्मणो द्वयी शक्तिः । एका तावत्फलजननी अपरा त्वसंव्यवहार्यत्वहेतुः । तत्र प्रायश्चित्तैर्द्वितीयाऽपाक्रियत इति चेत् । एवं तर्हि कर्मविपाकप्रायश्चित्तानामपीयमेव गतिरिति कथं नोपमर्दः । किञ्च न सर्वे रोगः सर्वं च दुरितमसंव्यवहार्यताहेतुरिति तत्र प्रायश्चित्तवैयर्थ्यमेव स्यात् । अपि च क्षयकुष्ठाद्युपहतोऽपि न प्रायश्चित्ताचरणमात्रेण संव्यवहार्यः । किन्तु क्षयाद्यपगम एवेति तत्कारणत्वमेव प्रायश्चित्तानामङ्गीकार्यम् । मरणान्तिकप्रायश्चित्तानामानर्थक्यं च स्यात् । श्राद्धादिव्यवहारसिद्ध्यर्थं तदिति चेन्न । परिव्राजकानां तदभावापातादित्यलम् ।

उपसंहरति इत्युक्तेति ।

अनु०- इत्युक्तनियमो भवेत्

इति शब्दस्तस्मादित्यर्थे । प्रारब्धकर्मणां भोगादेव क्षयः तथाऽपि फलह्रासोऽपि विद्यत इत्युक्तनियमो भवेदुपपन्न इति शेषः ।

१४सु०- एवमुत्पन्ननिर्दोषे त्यादिनोक्तार्थे स्मृतिसम्मतिमाह एवमादीति ।

अनु०-एवमाद्यपि सम्प्रोक्तं तन्त्रभागवते स्फुटम्

आदि पदेनैतदुपयुक्तमन्यत् । भाष्यादावुदाहृतैर्वचनैरपीत्यपेरर्थः । यद्वा एवमादी त्येतदधिकरणप्रमेयं तदुपयुक्तं च गृह्यते । अपि पदेन प्रथमाधिकरणप्रमेयस्य समुच्चयः । अथवा अधिकरणप्रमेयस्य समुच्चयः । अथवाऽधिकरणद्वयार्थ एवमादीत्यनेन गृहीतः । द्वितीयाद्यधिकरणार्थग्रहणाय अपि शब्दः । पुरुषार्थाधिकरणे स्तुत्यधिकरणे च ज्ञानफलस्य तारतम्यमभिहितम् । तत्सांसारिकफलस्य न विप्रतिपन्नमिति मुक्तिगतस्य साधयितुमुत्तरो ग्रन्थः । ये मोक्षे भेदमेव नाङ्गीकुर्वते ये चाङ्गीकृत्यापि भेदमानन्दादिकं नाभ्युपयन्ति न तान्प्रति तारतम्यसाधनस्य अवकाशः । किन्तु भेदादिसाधनमेव कर्तव्यम् । करिष्यते च चतुर्थेऽध्याये । ये पुनर्भेदमानन्दादिकं चाङ्गीकृत्यापि तारतम्यं न मन्यन्ते तान्प्रत्ययं प्रयत्नः क्रियते । यावदधिकारमित्यधिकरणार्थस्यैवायं प्रपञ्च इति न दोषः ।

१५सु०- तत्र तावच्छत्या मुक्तावानन्दतारतम्यमुपपादयति तारतम्यमिति ।

अनु०-तारतम्यं फले नो चेद्ब्रह्मादीनां कथं श्रुतिः ।अवृजिनोऽकामहत इति मुक्तिं निगद्य च ।आनन्दतारतम्यं च तेषां ब्रूयात् पृथक् पृथक्

ब्रह्मादीनां ज्ञानफले मुक्तिगामिन्यानन्दे यदि तारतम्यं नो भवेत् तर्हि कथं स यो ह वै मनुष्याणां राद्ध इत्यादिका वाजसनेयिनां सैषाऽनन्दस्य मीमांसा भवती त्यादिका तैत्तिरीयाणां च श्रुतिः तेषां ब्रह्मादीनामानन्दस्य तारतम्यं ब्रूयात् । सर्वेऽप्युत्तरोत्तरं शतगुणानन्दा इत्यनभिधाय पृथक्पृथगेव ब्रवीति । तेन तत्र तात्पर्यसद्भावश्चावगम्यते । ब्रह्मादीनामानन्दस्य तारतम्यं श्रुतिर्ब्रवीति मुक्तानां तु तत्साध्यत इति किं केन सङ्गतमित्यत उक्तम् अवृजिन इति । यश्च श्रोत्रियोऽवृजिनोऽकामहत इत्याद्या । श्रोत्रियस्य चाकामहतस्येति द्वितीया ।

यद्यपि श्रोत्रियत्वमपि मुक्तिज्ञापकमित्यन्यत्रोक्तम् । तथाऽपि बहुसंविधानसाध्यं तदिति न सङ्कीर्तितम् । मुक्तिं च निगद्य तेषां मुक्तानामानन्दतारतम्यं च ब्रवीति । च शब्दौ मिथः समुच्चये । तैत्तिरीयश्रुतिरप्यत्रोपलक्षितेत्युत्तरत्र ज्ञास्यते ।

१५असु०- श्रुतिद्वयोक्तमानन्दतारतम्यं संसारविषयमेव न मुक्तिविषयमित्याशङ्क्य परिहरति संसार एवेति ।

अनु०-संसार एव चेदेतत्तारतम्यं न मुख्यतः । अकामहतशब्दार्थोऽवृजिनत्वं च नो भवेत्

एतच्छत्युक्तं तारतम्यं संसार इत्येवोक्ते सिद्धान्तिनो नानिष्टम् । मुक्तामुक्तविषयताया वक्ष्यमाणत्वात् । अत एव इत्युक्तम् । तस्यैव विवरणं न मुख्यत इति । सप्तम्यर्थे तसिः । एतत्तारतम्यं संसार एव न तु मुख्ये पुरुषार्थे मोक्षे इति चेदित्यर्थः ।

तर्ह्यकामहतशब्दार्थः अकामहतत्वमवृजिनत्वं च नो भवेत् । युक्तमिति शेषः । तथा हि । यश्च श्रोत्रियोऽवृजिनोऽकामहत इति श्रोत्रियस्य चाकामहतस्येति चोक्ताकामहतत्वादिकं किं प्रकृतानां संसारिणामेव विशेषमुत संसार्यन्तरसमुच्चयार्थम् । नाद्यः । यतः सम्भवे व्यभिचारे च विशेषणमर्थवत् ।

न च ब्रह्मादयः केचिदश्रोत्रियत्वादिगुणाः सन्ति । येन व्यभिचारनिवारणार्थमेतत् स्यात् । नापि संसारिष्वकामहतत्वादिकं सम्भवति । अत एव द्वितीयोऽपि परास्तः ।

१६सु०- ननु संसारिष्वप्यकामहतत्वादिकं कथञ्चित्सम्भवति । सत्यम् । मुख्यतो न सम्भवतीति ब्रूमः । न च विना बाधकेनामुख्याङ्गीकारो युक्तः । एतेनावृजिनोऽकामहत इति मुक्तिं निगद्येत्येतद्विवृतं भवति । कथमकामहतत्वादेः संसारिष्वसम्भव इत्यतोऽकामहतत्वस्य तावदुपपादयति कामस्येति ।

अनु०-कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि ।इति यल-लक्षणं मुक्तेः श्रुतिराह बलीयसी ।कामाहतिः कुतोऽन्यत्र

यत्र लोके कामस्ये च्छायाः कामा विषया आप्ताः पर्याप्ताः तत्र माममृतं मुक्तं कृधि कुर्विति वायुं प्रति प्रार्थनम् । यद्यस्मादिति श्रुतिरित्याप्तकामत्वं मुक्तेर्लक्षणत्वेनाह । विशेषणस्येतरव्यावृत्त्यर्थत्वात् । निरवकाशत्वादिना बलीयस्याः श्रुतेरन्यथयितुमशक्यत्वात् । तस्मात् कामाहतिः अकामहतत्वं मुक्तात् अन्यत्र कुतः सम्भवेत् । आप्तकामत्वस्य मुक्तलक्षणत्वेन श्रुत्युक्तत्वे तदेवं संसारिष्वसम्भवि स्यात् । अकामहतत्वं तु कथमसम्भवीत्यत आह प्राप्तेति ।

अनु०- प्राप्तकामस्य सा भवेत्

सा कामाहतिः । अकामहतत्वस्याप्तकामत्वं हेतुः । न च निमित्ताभावे नैमित्तकस्य सम्भवोऽस्ति । तत्र निमित्तं चाप्तकामत्वं संसारिषु न सम्भवतीत्युक्तम् । ततो नैमित्तिकमकामहतत्वमपि तत्रासम्भवीति ।

१७सु०- आप्तकामत्वस्याकामहतत्वं प्रति निमित्तत्वं विवृणोति अप्रयत्नेनेति ।

अनु०-अप्रयत्नेन कामानामवाप्तिः सा यदा भवेत् ।तदैवाकामहतता कुत एवान्यथा भवेत्

सा अकामहततेति सम्बन्धः । याऽकामहतशब्दात् प्रतीयते सेत्यर्थः । अन्यथाऽप्रयत्नेन कामानामवाप्त्यभावे कुत एव कारणात् साऽकामहतता भवेत् न कुतोऽपीत्यन्वयव्यतिरेकावुक्तौ । एतदुक्तं भवति । कामेनोपद्रवो हि कामहतता तदभावश्चाकामहतता । कामनिमित्तोपद्रवाभावश्चानायासेन तत्तद्विषयप्राप्तावेव भवति नान्यथेत्यनुभवसिद्धम् । अतः प्राप्तकामत्वाकामहतत्वयोर्निमित्तनैमित्तिकभावो युक्त एवेति ।

नायमस्ति नियमः, यदाप्तकामस्यैव, कामनिमित्तोपद्रवाभावो नान्यथेति । कामाभावेऽपि तन्निमित्तोपद्रवाभावसम्भवादिति चेत् । किमनेनोक्तस्य व्यभिचारमात्रं चोद्यते किंवा प्रकृतेषु संसारिष्वप्याप्तकामत्वाभावेऽप्यकामत्वेनाकामहतता सम्भवतीत्याशास्यते । नाद्यः । वक्ष्यमाणन्यायेन विशेषणप्रक्षेपात् । न द्वितीयः । ब्रह्मादयो न कामरहिता असुप्तामूढचेतनत्वाद्देवदत्तवदित्यनुमानविरोधादित्याशयवाननुमानस्य व्याप्तिमुपपादयति चेतनस्येति ।

अनु०-चेतनस्य त्वसुप्तस्य कुत्र दृष्टा ह्यकामता

घटादौ व्यभिचारपरिहाराय चेतनस्येत्युक्तम् । सुप्तमुग्धयोस्तत्परिहारायासुप्तस्येति । अमुग्धस्येत्यपि द्रष्टव्यम् । ननु सुप्तौ मोहे च न चेतयत एव । अतश्चेतनस्येत्यनेनैव तद्व्यवच्छेदसिद्धेर्व्यर्थं विशेषणमिति । मैवम् । चेतनशब्देनात्मत्वमात्रस्य विवक्षितत्वात् । चैतन्ययोगे हि विवक्षिते कामाभावाङ्गीकारसाहसादबिभ्यत्परश्चैतन्याभावमपि ब्रह्मादीनामङ्गीकुर्यादित्यसिदि्धः स्यात् । तदिदमुक्तं तु शब्देन । कुत्रे त्याक्षेपे ।

हिशब्दो यस्माद्व्याप्तिः सिद्धेति शेषः । नोपादेयमेव वा हेतावसुप्तत्वादिविशेषणम् । न च तथा सति व्यभिचारापातः । सुप्त्यादावपि आत्मनः कामसद्भावात् । न चैवं सति यत्र सुप्तो न कञ्चन कामं कामयत इत्यादिश्रुत्याऽनुपलम्भेन च विरोधः । विद्यमानानामपि कामानां तदानीमव्यक्तत्वेन श्रौताभावव्यवहारस्यानुपलम्भस्य चोपपत्तेः ।

१८सु०- व्यक्तकामाभिप्रायेण प्राग्विशेषणमुपात्तमित्याशयवानाह अव्यक्तिरेवेति ।

अनु०-अव्यक्तिरेव कामानां न नाशो मोहसुप्तयोः

नाशः अभावः । सुप्तं सुप्तिः । नपुंसके भावे क्तः ।

१९सु०- स्यादेतत् । सुप्त्यादौ कामसद्भावे सिद्धे युक्तमव्यक्तिकल्पनम् । स एव तु कुतः सिद्ध इत्यत आह यत्काम इति ।

अनु०-यत्कामः स्वापमाप्नोति तदेवोत्थापितः पुनः ।अवशोऽपि व्याहरति कुतः सुप्तावकामता

मोहोऽत्रापि ग्राह्यः । व्याहरतीत्यतःपरं यतस्तस्मादित्यध्याहार्यम् । यद्भोजनादिकं कामयमानो देवदत्तः स्वापादिकमाप्नोत्युत्थापितः पुनस्तदेव । कदाचिद्व्याहरतीति तावदनुभवसिद्धम् । तस्माद्व्याहरणविशेषाच्च तस्य तदा तत्र कामोऽस्तीत्यनुमीयते । स च न तावदुत्थानानन्तरमुत्पन्नः । तदा देवदत्तस्यावशत्वात् । वस्तुदर्शनेऽनुमानादिनेष्टसाधनताज्ञाने च सति खलु कामोदयः स्यात् ।

न चावशस्यैषा कामसामग्री कल्पयितुं शक्यते ततः प्राक्तन एव कामः सुप्त्यादौ सन्नतरो(ऽव्यक्तो)ऽनुवर्तमानः पुनः सहकारिलाभक्रमेण व्यज्यत इत्येवाङ्गीकार्यम् । तथा चाह पतञ्जलिः । अविद्याक्षेत्रत्वमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणामिति । यत एवं तस्मात् कुतः सुप्त्यादावात्मनोऽकामता स्यात् ।

२०सु०- नन्वयं केवलो विशिष्टो वा चेतनत्वहेतुर्मुक्तेष्वनैकान्तिकः । तेषां कामाभावादित्यत आह सर्वेति ।

अनु०-सर्वकामानवाप्नोति ब्रह्मणा सह मुक्तिगः ।पर्येति तत्र जक्षंश्च क्रडन् रतिमवाप्नुयात् ।कामान्नी कामरूपी सन्निमाल-लोकांश्च सञ्चरन् ।आस्ते गायन् साम मुक्त इत्यादिश्रुतिसद्बलात् ।अकामः स्यात् कथं मुक्तः

अनेन सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिते ति श्रुतिमुपादत्ते । पर्येती त्यनेन

स तत्र पर्येति जक्षन्क्रडन्रममाण इति । जक्षन्निति वैदिकत्वात्साधुः ।

कामान्नीत्यनेन इमाल-लोकान्कामान्नी कामरूप्यमनुसञ्चरन् । एतत्साम गायन्नास्त इति । आदि पदेन स एकधा भवती त्यादेः सङ्ग्रहः । बलात्कामसद्भावावगतेरिति शेषः । यद्यप्येताः श्रुतयो न साक्षान्मुक्तस्य कामसद्भावमाचक्षते । तथाऽपि सामर्थ्यात् तं गमयन्त्येव । तदिदमुक्तं श्रुतिबलादिति । तच्च सामर्थ्यमव्यभिचरितमेव न तु सम्भावनामात्रमिति सच्छब्देनाह । तथा हि । कामकर्मत्वादि्ध विषयाः कामाः । कर्मणि घञो विधानात् । तया च सोऽश्नुते सर्वान्कामानित्यत्र सन्निधेः तत्कामकर्मभूतान्विषयानश्नुत इत्युक्तं स्यात् । निष्कामस्य शिलासमस्य कामावाप्तिः कदृशी स्यात् । पर्यटनादिकं च कामकार्यं न विना कामेन सम्भवति । स्त्रीभिर्निष्कामस्य रमणमत्यन्तासम्भावितम् । अन्नादीनां च कामत्वं काम्यतयैवेति पूर्ववत् कामावगतिः ।

यद्यपि स यदि पितृलोककामो भवतीत्याद्या विस्पष्टाः श्रुतयोऽत्र सन्ति तथाऽपि शिष्यैर्न्यायमनुसन्दधानैर्भाव्यमित्येतासामुदाहरणम् । मुक्तस्याकामत्वाभावान्नानैकान्त्यं हेतोरिति ।

२१सु०- ननु मुक्तानां कामाभावेऽपि यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते इत्याद्या श्रुतिरस्ति । तत्कथं कामवत्त्वनिश्चय इत्यत आह कामा येऽस्येति ।

अनु०-कामा येऽस्य हृदि श्रिताः ।इत्यन्तःकरणस्थानां कामानां मोक्षमेव हि ।आह श्रुतिः

इति श्रुतिरित्यन्वयः । अन्तःकरणस्थानामेवेति च । न तु सर्वथाऽपीत्येवार्थः । हिशब्दो यस्मादित्यर्थे । तस्मादकामः स्यात् कथं मुक्त इति सम्बन्धः ।

कुतः श्रुतेरर्थसङ्कोचः क्रियत इत्यत आह हृदीत्येवेति ।

अनु०-हृदीत्येव न चेद्व्यर्थं विशेषणम्

न चेत् सएषा श्रुतिः उक्तरीत्या व्याख्यायेत । सर्वथाऽपि कामाभावपरेति व्याख्यायेत

इति यावत् । तदा हृदि श्रिता इति कामानां विशेषणं व्यर्थमेव स्यात् । व्यावर्त्याभावात् । अतो विशेषणं प्रयुञ्जाना श्रुतिरन्तःकरणपरिणतीनां कामानामेव मुक्तावभावोऽन्तःकरणस्यैवाभावान्न तु सर्वेषां स्वरूपभूतानां कामानामवस्थानादित्येतमर्थं गमयतीति ।

२२सु०- भवेदेतत् । यदीदं विशेषणं स्यात् । न चैवम् । व्यावर्त्याभावात् । एतत्सर्वं मन एवेति श्रुत्या सर्वेषामपि कामानां मनःपरिणाम(वत्)त्वमेव न त्वात्मधर्मः कामोऽस्तीत्यवगमात् । अतो हृदि श्रिता इत्येतत्स्वरूपकथनमात्रमित्याशयेनाशङ्क्य निषेधति हृद्येवेति ।

अनु०-हृद्येव तेषां श्रयणमिति पक्षो न भासते

अन्तःकरण एव । तेषां कामानाम् । भासते शोभते । कुतो न भासत इत्यत आह मुक्तानामिति ।

अनु०-मुक्तानां कामितामाह पृथक् शाखासु यच्छतिः

अन्तःकरणविधुराणामपीत्यर्थः । यद्यस्मात्तस्मान्न शोभत इति सम्बन्धः । श्रुतिः पूर्वोदाहृता । नन्वेतदयुक्तम् । प्रागुदाहृतश्रुतेः प्रतिपक्षतयोद्भाविताया अस्याः श्रुतेस्तयैव बाधस्योच्यमानत्वात् ।

मैवम् । प्रागुदाहृतश्रुतेः प्रबलत्वेन बाधकत्वोपपत्तेः । तथा हि । कामश्रुतिस्तावन्निरवकाशा । तदभावश्रुतिस्तूक्तरीत्या सावकाशा । विशेषणस्वरूपकथनत्वसन्देहेऽपि न निरवकाशत्वम् । एतत्सर्वं मन एवेत्यपि सावकाशश्रुतिरिति साङ्ख्याधिकरणेऽभिहितम् । किञ्च कामश्रुतिः सर्वास्वपि शाखास्वस्ति । तथैवोदाहृतत्वात् । तदभावश्रुतिस्तु क्वचिदेवेति कथं न बाध्यबाधकभावः । तदिदमुक्तं पृथक्शाखास्विति ।

२३सु०- कामस्य यत्रेत्यादिनोक्तमर्थमुपसंहरति अत इति ।

अनु०-अतोऽकामहतत्वं तु मुक्तानामेव मुख्यतः

कामनिमित्तोपद्रवाभावस्य अकामहतत्वस्य अकामत्वाप्तकामत्वाभ्यामेव उपपत्तेः कामत्वस्य चेतनमात्रेऽसम्भवात् आप्तकामत्वस्य च मुक्तलक्षणत्वेन तत्रैव सम्भवादमुक्तेष्वसम्भवादित्यर्थः । मुक्तानामेव धर्म इति सिद्धमिति शेषः ।

२४सु०- सत्यम् । मुख्यया वृत्त्याऽकामहतत्वं मुक्तेष्वेव सम्भवति । तथाऽपि कामनिमित्तबहुतरोपद्रवाद्ब्रह्मादिष्वप्यमुख्यं युज्यत एव । अतः संसारिण एव श्रुतिप्रतिपाद्याः किन्न भवन्तीति चेत् । किं मुख्यार्थपरिग्रहे बाधकसद्भावात् तत्परित्यागः क्रियते किंवा वृथैव । नाद्यः । तदभावात् । बाधकाभासानां च निराकरिष्यमाणत्वात् । द्वितीयं दूषयति मुख्यार्थस्येति ।

अनु०-मुख्यार्थस्य वृथा त्यागो मायिनामेव भूषणम्

अपरीक्षका एव मायावादिप्रभृतयो विना बाधकेन मुख्यार्थं त्यजन्ति । वाच्यार्थपरमेश्वरपरित्यागेन निर्गुणलक्षणाङ्गीकारात् । न तु न्यायविद इति ।

२५सु०- एवमकामहतत्वस्यामुक्तेष्वसम्भवमभिधाय अवृजिनत्वस्याप्यभिधास्यन्नवृजिनत्वं तावद्व्याख्याति अपापत्वमिति ।

अनु०-अपापत्वमदुःखत्वं चावृजिनत्वमिहोदितम्

इहोदितमवृजिनत्वं तावत् अपापत्वमदुःखत्वं चेति योजना । कुत एतदित्यत आह अप्रियमिति ।

अनु०-अप्रियं वृजिनं दुःखमकं तोद इतीर्यते ।तत्कारणत्वात् पापं वा वृजिनं नाम कथ्यते ।इत्युक्तः स्वयमीशेन नामार्थः शब्दनिर्णये

दुःखमप्रियमित्यादिशब्दैः ईर्यत इति सम्बन्धः । तत्कारणत्वाद् दुःखकारणत्वात् । दधित्रपुसं प्रत्यक्षो ज्वर इति यथा । एतेन वृजिनशब्दो दुःखे मुख्यः । पापे तादर्थ्यात् ताच्छब्द्यमित्युक्तं भवति । अत एव वा शब्दः । नामार्थो वृजिननामार्थः । वृजिन शब्दस्य दुःखाद्यर्थत्वेऽवृजिनशब्दस्यादुःखाद्यर्थत्वं सिद्धमेवेति भावः ।

२६सु०- ततः किं यद्यपापत्वादिकमवृजिनशब्दार्थ इत्यत आह अपापत्वं चेति ।

अनु०-अपापत्वं च नैवास्ति यावत्संसारमस्य हि । आरब्धपापमस्त्येव दुःखं च ज्ञानिनोऽपि हि

च शब्दो वक्ष्यमाणसमुच्चयार्थः । अस्य जीवस्य । हि शब्दः संसारित्वादिति हेतुसूचनार्थः । तद्यथा इषीकातूलमित्यादिश्रुतेर्ज्ञानिनः पापाभावात्कथमेतदित्यत उक्तम् आरब्धेति । अनारब्धविषया श्रुतिरिति भावः । ज्ञानिनोऽप्यारब्धपापमस्त्येवेति सम्बन्धः । दुखं चास्त्येव पापसद्भावादिति हिशब्दार्थः । तस्मादवृजिनत्वमपि मुक्तेभ्योऽन्यत्रासम्भवीति सिद्धम् ।

२७सु०- केचिदेतां श्रुतिं अन्यथा व्याचक्षते । यश्च श्रोत्रियोऽवृजिनोऽकामहत इति श्रोत्रियस्य चाकामहतस्येति च वाक्यं न मुक्तसङ्ग्रहार्थम् । किन्नाम प्रकृतमनुष्यगन्धर्वादिविषयमेव । न च तत्रासम्भवः । श्रोत्रियञ्छन्दोधीत इति स्मरणाछ्रोत्रियशब्दस्य छन्दोऽधिगतिनिमित्तत्वात् । मनुष्यगन्धर्वादीनां च सर्वज्ञकल्पत्वात् प्रारब्धपापसद्भावेऽपि न ते तदा पापमाचरन्तीत्यवृजिना एवोच्यन्ते । विषयवैराग्योपेतत्वादकामहताश्च भवन्तीति ।

न च व्यावर्त्याभावेन वैयर्थ्यमिति युक्तम् । न हि वयं श्रोत्रियत्वादिकं विशेषणत्वेन ब्रूमः । किन्तु मनुष्येभ्यो मनुष्यगन्धर्वाणां शतगुणानन्दत्वेऽभिहिते तत्र हेत्वाकाङ्क्षायामिदमुच्यते । एवं मनुष्यगन्धर्वेभ्यो देवगन्धर्वाणां शतगुणानन्दाभिधाने कुत इत्याकाङ्क्षायां श्रोत्रियत्वादिहेतुरुच्यते । एवमुत्तरत्रापि । न च वाच्यं सर्वेष्वपि विद्यमानं श्रोत्रियत्वादिकमानन्दातिशये कथं हेतुः स्यादिति । मनुष्यादप्यतिशयेन मनुष्यगन्धर्वः श्रोत्रियोऽवृजिनोऽकामहतश्च यतः । एवं पूर्वपूर्वनिर्दिष्टादप्यतिशयेनोत्तरोत्तरः श्रोत्रियत्वादिमान् यस्मादिति व्याख्यानादिति ।

तदेतन्निराचष्टे तस्मादिति ।

अनु०-तस्मात्तस्मादकामत्वमिति चाश्रुतकल्पना

च स्त्वर्थः । तस्मात् तस्मात् पूर्वपूर्वनिर्दिष्टादतिशयेनोत्तरोत्तरस्याकामत्वम् । उपलक्षणमेतत् । श्रोत्रियत्वादिकं चेति व्याख्याने त्वश्रुतकल्पनं स्यात् । तस्मादित्यतिशयेनेति चाश्रुतस्य कल्पनीयत्वात् । अन्यथा विवक्षितार्थस्यालाभात् ।

दोषान्तरमाह अकामेति ।

अनु०-अकामहत इत्युक्तेः श्रुतहानिरपि स्फुटा

श्रुतौ अकामहत इत्युक्तेः परेण चाकाम इति व्याख्यातत्वाच्छतस्य हतशब्दस्य हानिरपि स्फुटा आपद्यते । न हि हतशब्दस्य किञ्चित्प्रयोजनमस्ति । अतः श्रुताश्रुतत्यागोपादानप्रसङ्गादयुक्तमिदं व्याख्यानमिति ।

२८सु०- अपरे तु व्याचक्षते । यश्च श्रोत्रिय इति श्रोत्रियस्य चेति च न मुक्तविषयं नापि प्रकृतमनुष्यगन्धर्वादिविषयं किन्तु पुरुषान्तरविषयम् । तथा हि । मनुष्येभ्यो मनुष्यगन्धर्वाणां शतगुणस्तावदानन्दः । यश्चापरः श्रोत्रियोऽवृजिनो मनुष्यगन्धर्वपदे कामरहितश्च । तस्यापि मनुष्येभ्यः शतगुणो मनुष्यगन्धर्वसमान एवानन्दो भवतीत्येवं तेषु तेषु पदेष्वकामस्य तत्तत्समानानन्दत्वमत्रोच्यते । न च वाच्यं विरक्तानां सर्वत्र कामाभावात् कथमियं तारतम्योक्तिरिति । तदतिरिक्तपदेषु कामसद्भावस्य विवक्षितत्वात् । यो यो यावदायासान्मुक्तोऽसावसौ तावदानन्दवानित्यर्थो ह्यत्र प्रतिपिपादयिषित इति ।

एतदपि श्रुतहानाश्रुतकल्पनाप्रसङ्गादेव निरस्तम् । अत्रापि हतशब्दस्य प्रयोजनाभावेन हातव्यत्वात् । तस्मिन्पद इत्यस्यान्यत्र सकाम इत्यस्य च कल्पनीयत्वात् ।

२९सु०- अधिकं दोषमाह कुत्रचिदिति ।

अनु०-कुत्रचित्कामिनः पुंसः कामाभावात्क्वचित्क्वचित् । इन्द्रादिसुखभोगोऽस्तीत्यनुभूतिर्हि कुप्यति

कुत्रचित् इन्द्रादिपदव्यतिरिक्ते कामिनः पुंसः क्वचित्क्वचित् इन्द्रादिपदे कामाभावादिन्द्रादिसमानसुखानुभवोऽस्तीति व्याख्यानेऽनुभवविरोधः स्यात् । राज्यमकामयमानस्य राजसमानसुखानुभूतेरनुभवबाधितत्वस्य स्पष्टत्वात् ।

वैराग्यप्रशंसातो न तत्त्वं मार्गणीयमिति चेन्न । निरवधिकानन्दस्वरूपोऽयमात्मा कामाद्युपद्रवावरणात्तु तथा न भासते ।

अतो यावद्यावत्कामक्षयस्तावत्तावदानन्दोत्कर्षो दृश्यत इत्यस्यार्थस्य प्रदर्शनार्थमस्य प्रकरणस्यावतारितत्वात् । आनन्दोत्कर्षे(ऽत्र) तु तात्पर्यं शतगुणत्वे तु न निर्भरः कार्य इति चेन्न । देवपदाकामादिन्द्रपदाकामस्यानन्दविशेषादर्शनादिति ।

३०सु०- तर्हि कः श्रुत्यर्थ इत्यत आह तस्मादिति ।

अनु०-तस्मादमुक्तसुखगं तारतम्यं पृथक् पृथक् ।उक्तवा यश्चेति मुक्तानां तारतम्यं सुखे श्रुतिः ।आहेति पेशलं

अर्थान्तरप्रतीतेर्निरस्तत्वात् । अमुक्तमनुष्यादिसुखसम्बन्धितारतम्यं ते ये शतमित्यादिवाक्यैः पृथक् पृथगुक्तवा यश्चेति श्रोत्रियस्य चेति च वाक्येन मुक्तानां मनुष्यगन्धर्वादीनां सुखे तारतम्यं श्रुतिरतिदेशेनाहेति व्याख्यानमेव पेशलम् ।

नन्वेवं सति वाक्यभेदो दोषः स्यात् । नैवम् । ज्ञापकसद्भावादित्याह तच्चेति ।

अनु०-तच्च चशब्दादेव गम्यते

यश्चेति वाक्यस्य प्रकृतादन्यो विषय इत्येतच्च चशब्देनैव गम्यते । किमुतैकवाक्यतायामुक्तानुपपत्त्येत्येवार्थः । चशब्दो ह्ययं समुच्चयस्य द्योतकः प्रतीयते । देवदत्तो धनिको यज्ञदत्तश्चेति यथा । न चैकविषयतायामेवं युज्यते । न हि भवति वसिष्ठो ब्रह्मिष्ठोऽरुन्धतीपतिश्च तथेति प्रयोगः ।

विशेषणसमुच्चये चशब्दः किन्न स्यादिति चेन्न । मुख्यार्थे बाधकाभावेन त्यागायोगात् । वचनव्यत्ययश्चैकवाक्यतायां स्फुट एव । तथात्वे खलु ते ये शतं कर्मदेवानामानन्दाः । स एक आजान(ज)देवानामानन्दो ये श्रोत्रिया अवृजिना अकामहताश्चेति स्यात् । तथा ते ये शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियाणामकामहतानामिति भवेत् ।

नन्वेवं तर्हि कथं बृहदारण्यकवाक्यं भाष्ये मुक्तमात्रविषयं व्याख्यातम् । यश्चेति विशेषणसमुच्चयपरमुक्तम् । अयमभिप्रायो भाष्यकारस्य । सर्वथा वाक्यद्वयमेवेदं भिन्नविषयम् । एकवाक्यताश्रद्धायामपि मुक्तमात्रविषयमस्तु । तत्रानुपपत्तीनामल्पत्वात् । नामुक्तमात्रविषयम् अनुपपत्तिबाहुल्यादिति ।

३१सु०- मानुषादिहिरण्यगर्भान्तानाममुक्तानां मुक्तानां च उत्तरोत्तरं शतगुणानन्दत्वं श्रुतिद्वयमाहेत्ययुक्तम् । मानुषानन्दनिर्देशे मुक्तज्ञापकाभावात् । न हि तत्राकामहतत्वादिकमन्यद्वा किमपि श्रूयते इत्याशङ्कां निराकुर्वन् श्रुत्यर्थं विवृणोति राद्ध इत्यादिना अभिवीक्षत इत्यन्तेन । तत्र तावत् बृहदारण्यके मनुष्यमुक्तस्य ज्ञापकं दर्शयति राद्ध इति ।

अनु०-राद्धः संसिद्ध इत्येव मुक्त एवावगम्यते

स यो मनुष्याणां राद्धः समृद्धो भवतीत्युपक्रमवाक्ये राद्ध इति पदेन मुक्त एव गृह्यते नामुक्तः । कया वृत्त्याऽभिधयैव न तूपचर्यते । येन मुख्यार्थानुपपत्त्यादिकं व्युत्पादनीयं स्यात् । कथम् ? संसिद्ध इति । एतदुक्तं भवति । राध साध संसिद्धाविति पठ्यते । राधधातोश्च गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्चे त्यकर्मकत्वात् कर्तरि क्तः । ततो राद्धः संसिद्ध इत्युक्तं भवति । संसिदि्धश्च मुक्तिरेव नित्यत्वेन दुःखासम्भिन्नत्वेन च समीचीनसिदि्धत्वात् । नेतरा, अनित्यत्वेन दुःखसम्भिन्नत्वेन चासमीचीनत्वात् । न च मुख्ये सम्भवत्यमुख्यार्थोऽङ्गीकर्तुं शक्यत इति ।

एवं समृद्धशब्दोऽपि मुक्तस्यैव वाचकः । मुक्तिं विना समयगृद्धेरभावात् । अन्येषामधिपतिरित्यादिकं तु मुक्तामुक्तसाधारणम् । यथा च मुक्ते सम्भवति तथोक्तं भाष्ये ।

३२सु०- इदानीं तैत्तिरियश्रुतौ मुक्तमनुष्यज्ञापकं दर्शयन् युवा स्यादित्यादीनि पदानि व्याचष्टे साधुनेति ।

अनु०-साधुना विष्णुना युक्तो मुक्तः साधुयुवा मतः ।यौवनं नित्यमेतस्य मुक्तस्येति युवा स च ।फलमध्ययनस्याप्तं तेनाध्यायक ईरितः ।निर्ह्रासानन्दसम्प्राप्त्या चाशिष्ठ इव गीयतेस्थितस्यानन्यथाप्राप्तेर्दृढिष्ठ इति चोदितः ।बलिष्ठश्च स्वभावेन मुक्तो भवति केवलम्

निर्दोषो हि साधुरित्युच्यते । न च विष्णोरितरो निर्दोषोऽस्ति । अतः साधुना विष्णुना इत्युक्तम् । तृतीयान्ते साधुशब्द उपपदे तु मिश्रण इत्यस्मात् अन्येभ्योऽपि दृश्यन्त इति क्वनिप्प्रत्यये कृते साधुयुवेति भवति ।

यद्वा युजिर् योग इत्यस्येदं रूपम् । दृशिग्रहणसामर्थ्याद्धातोरन्तरलोपः । तथा च भगवत्सामीप्यलक्षणमोक्षवानित्युक्तं भवति । युवशब्दादप्यतिशयेन साधुयुवशब्दो मुक्तस्य ज्ञापक इति क्रममतिलङ्घ्यादौ व्याख्यातः ।

यद्यपि युवशब्दो यौवननिमित्तः तथाऽपि मुख्यामुख्ययोर्मुख्यो सम्प्रत्यय इति नित्ययौवनमङ्गीकार्यम् । तच्चैतस्य मनुष्यस्य मुक्तस्यैव युज्यते न संसारिण इति हेतोर्युवा च स मुक्त एव । आध्यायकशब्दो यद्यप्याङधिपूर्वादिङध्ययन इत्यस्मात् ण्वुलि प्रत्यये सति निष्पन्नः सम्यगध्ययनस्य कर्तारमाह । तथाऽप्यत्र पुरुषार्थप्रसङ्गादध्ययनस्यापुरुषार्थत्वादध्ययनफलप्राप्तेर्लक्षको वर्णनीयः । अध्ययनस्य फलं च तेन मुक्तेनैवाप्तम् । मुक्तेरेव तत्फलत्वात् । तेन कारणेन मुक्त एवाध्यायक ईरितः ।

आ सम्यक् समन्ताच्च शमस्येत्याशः । अतिशयेनाश आशिष्ठः । सम्यक्तवादि च ह्रासाभावादिकमेव । ततो निर्ह्रासस्य योग्यतानुसारेण पूर्णस्यानन्दस्य सम्प्राप्त्या कारणेन मुक्त एवाशिष्ठ इति च गीयते । अविकारो हि दृढो नाम ।

अतिशयेन दृढो दृढिष्ठः । छान्दसत्वात् र ऋतो हलादेर्लघोरि त्येतन्न भवति । मुक्त एव स्थितस्यानन्यथाप्राप्तेः अतिशयेन निर्विकारत्वात् । दृढिष्ठ इति चोदितः । बलमस्यास्तीति बली । अतिशयेन बली बलीष्ठः । अतिशयश्च स्वाभाविकत्वम् । स्वभावेन बलिष्ठश्च केवलं मुक्तो भवति । नामुक्तः । अतो बलिष्ठ इति स एवोच्यत इति ।

३३सु०- ननु मुक्तस्य तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यादि ति वित्तपरिपूर्णपृथिवीपतित्वमुच्यमानं कथं युज्यत इत्यत आह तस्येति ।

अनु०-तस्येयं पृथिवीत्यादि पूर्वभावव्यपेक्षया

पूर्वभावोऽमुक्तत्वं मुक्तामुक्तमनुष्ययोर्विवक्षया हि युवा स्यादित्यादिकमारब्धम् । तत्र युवा स्यादित्यादिना मुक्तं प्रतिपाद्यामुक्तविवक्षया तस्येत्यादिवाक्यं प्रवृत्तमित्यर्थः ।

अनेनैव न्यायेनान्येषामधिपतिरित्यादिकममुक्तविषयं प्रतिपत्तव्यम् ।

नन्वेवं युवा स्यादित्यादेर्मुक्तामुक्तविषयताऽङ्गीकृतावेकविषयताप्रतीतिविरोध इत्याशङ्कानिरासायामुक्तेति वक्तव्ये पूर्वभावेत्युक्तम् । एक एव चेतनो युवादिशब्दैः प्रतिपाद्यते । तस्य चावस्थाभेदेन विशेषणानि व्यवस्थाप्यन्ते । तस्मादेकविषयताप्रतिभासो नानुपपन्न इति ।

३४सु०- एवं वाजसनेयश्रुतौ स यो ह वै मनुष्याणामि त्यादेः सम्पन्नतम इत्यन्तस्य, तैत्तिरीयश्रुतौ च युवा स्यात् इत्यादेः पूर्णा स्यात् इत्यन्तस्य मुक्तामुक्तपरत्ववर्णनेन स मनुष्याणां परम आनन्दोऽथ (ते) ये शतं मनुष्याणामानन्दा इत्येतत् स एको मानुष आनन्दस्ते ये शतं मानुषा आनन्दा इत्येतच्च मुक्तामुक्तविषयमिति सिद्धे तैत्तिरीयश्रुतिगतं स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्ये त्येतावद्व्याचष्टे स एक इतीति ।

अनु०-स एक इति संसारगतमुक्तवा सुखं पुनः ।श्रोत्रियस्येति वदति मुक्ताच्छतगुणात्मताम्

संसारगतं सुखमुक्तवेति संसारिमनुष्यसुखाच्छतगुणं संसारिणो मनुष्यगन्धर्वस्य सुखमुक्तवेत्यर्थः । मुक्ताच्छतगुणात्मतामिति मुक्तमनुष्यस्य सुखान्मुक्तमनुष्यगन्धर्वस्य शतगुणसुखात्मतां वदतीत्यर्थः । श्रुतिरिति शेषः । स एक इति वाक्येन श्रोत्रियस्येति वाक्येन ।

३५सु०- अनेनैव न्यायेन ते ये शतं मनुष्यगन्धर्वाणामानन्दा इत्यादिकं व्याख्येयमित्याशयवानाह संसारगादिति ।

अनु०-संसारगाच्च संसारगतस्यैव शताधिकम् ।मुक्तान्मुक्तस्य

संसारिमनुष्यगन्धर्वादिसुखादित्यर्थः । संसारगतस्य देवगन्धर्वादेः शताधिकं शतगुणाधिकं सुखमुक्तवेति वर्तते । मुक्तान्मुक्तस्य इति मुक्तमनुष्यगन्धर्वादिसुखाच्छतगुणं मुक्तदेवगन्धर्वादेः सुखं वदतीत्यर्थः । अनेन ते ये शतमित्युभयमेकोक्तया परामृश्य स एक इति श्रोत्रियस्येति च यथायोग्यं पृथक् शतगुणानन्दत्वमुच्यत इत्युक्तं भवति ।

अनयैव रीत्या स एकः पितॄणामि त्यादि वाजसनेयश्रुतिवाक्यमपि व्याख्येयम् । उपक्रमे मुक्तश्रवणादाजान(ज)देवादौ यश्च श्रोत्रिय इत्यादिना तच्छ्रवणान्मध्येऽपि यश्च श्रोत्रिय इति अनुवर्तनीयम् । श्रुतिद्वयविसंवादस्तु भगवत्पादैरन्यत्र परिहृत इति ।

३६सु०- श्रुतिद्वयव्याख्यानमुपसंहरति युक्तं स्यादिति ।

अनु०-युक्तं स्याच्छत्युक्तमभिवीक्षतः

श्रुत्युक्तम् अभिवीक्षतः अभिवीक्षमाणस्य सम्यग्विचारयतो मतेनैतदेव व्याख्यानं युक्तं स्यात् । अथवाऽभिवीक्षोऽभिवीक्षणं सम्यग्विचारस्तस्मादिदमेव श्रुत्युक्तं युक्तं स्यादिति ।

३७सु०- एवं श्रुत्या मुक्तौ तारतम्यमुपपाद्य युक्तयाऽप्युपपादयति युक्तं चेति ।

अनु०-युक्तं च साधनाधिक्यात्साध्याधिक्यं सुरादिषु

सुरादिषु मानुषादिभ्यः साध्याधिक्यं मुक्तिगतफलाधिक्यं साधनाधिक्याद्धेतोयुंक्तमनुमितं चेत्यर्थः । देवादयो मानुषादिभ्योऽधिकमौक्तफलभाजस्तदपेक्षयाऽधिकतत्साधनवत्त्वादित्युक्तं भवति ।

विपक्षे बाधकाभावादप्रयोजकोऽयं हेतुरित्यत आह नाधिक्यमिति ।

अनु०-नाधिक्यं यदि साध्ये स्यात्प्रयत्नः साधने कुतः

सुरादिष्विति वर्तते । मानुषादिभ्य इति च । साधने साधनाधिक्ये । यदि देवादयो मानुषादिभ्योऽधिकमौक्तफलभाजो न स्युः तदा तदधिकतत्साधनार्थप्रयत्नवन्तो न स्युः । अनधिकफलाय चाधिकं प्रयत्नमातिष्ठमाना न प्रेक्षावन्तो भवेयुरिति विपक्षे बाधकान्नाप्रयोजको हेतुः ।

३८सु०- प्रमाणाभावात् स्वरूपासिद्धोऽस्त्वित्यत आह यत्नश्चेति ।

अनु०-यत्नश्च दृश्यते तेषां महानेव महात्मनाम्

महात्मनां महाफलभाक्तवेनानुमेयानां तेषां देवादीनां मानुषादिभ्यो महान्यत्नोऽधिकं मोक्षसाधनानुष्ठानं च दृश्यत एव प्रमाणौः । तान्यपि वक्ष्याम इति भावः ।

३९सु०- व्याप्तिमुपपादयति यत्रेति ।

अनु०-यत्र साधनबाहुल्यं साध्यबाहुल्यमत्र च ।दृष्टं नियमतो

यत्र पुरुषे यदपेक्षया साधनाधिक्यमस्त्यत्र तदपेक्षया साध्याधिक्यं च नियमेन दृष्टम् । कर्षकवणिग्राजपुरुषादिषु लोके, वेदे चाग्न्याहितादिषु; यो यदधिकसाधनवानसौ तदधिकसाध्यवानिति नियमेन तत्तत्प्रमाणैरुपलब्धमेवेत्यर्थः ।

यस्त्वग्न्याधानादिफलानां तारतम्यमजानानः कृष्यादिफले च धान्यादौ तारतम्यं कारणान्तरायत्तं न कृष्यादिसाधनतारतम्याधीनमिति मन्यमानो दृष्टान्तेष्वपि विप्रतिपद्यते

तं प्रत्याह नो चेदिति ।

अनु०- नो चेन्न यत्नं कुर्युरञ्जसा

यदि लोके वेदे च साधनाधिक्यात्साध्याधिक्यं नो भवेत् । तदा केऽप्यञ्जसा यत्नं साधनातिशयानुष्ठानं न कुर्युः सममेव कुर्युः । इतरथा प्रेक्षावन्तो न भवेयुः । न ह्यग्न्याधानेन यावान् स्वर्गोऽश्वमेधेनापि तावत एव लाभेऽश्वमेधे कश्चित् प्रवर्तेत । प्रवर्तमानो वा अबुदि्धमान् भवेत् । द्रो(णावा)णवापमात्रकर्षणेन यावान् धान्यलाभः तावत एव खा(र्यावा)रीवापकर्षणेन भावे न कश्चित् तत्र प्रवर्तेत । तथात्वे च मन्दः स्यात् । दृष्टं वृष्ट्यादिकमदृष्टं धर्मादिकं च साधनान्तर्भूतमेवेति न व्यभिचारः शङ्कनीयः ।

एवं मानुषादयो देवादिभ्योऽल्पमुक्तिफलभाजस्तदपेक्षयाऽल्पसाधनवत्त्वाद्यो यदपेक्षयाऽल्पसाधनवान् स ततोऽल्पफलवान् दृष्टः यथा सम्मतः । देवादयो मानुषान्ता मुक्तौ फलतारतम्यवन्तः साधनतारतम्योपेतत्वाद्ये यत्साधनतारतम्यवन्तः ते तत्साध्यतारतम्यवन्तो यथा सम्मताः । ब्रह्मादिमानुषान्तैरनुष्ठितानि मोक्षसाधनानि तारतम्यवत्फलवन्ति तारतम्यवत्त्वात्सम्मतवत् । ब्रह्मादीनां मानुषान्तानां मोक्षफलानि तारतम्यवन्ति तारतम्यवत्साधनसाध्यत्वात्सम्मतवदित्यनुमानान्यप्यत्र द्रष्टव्यानि । अनुकूलतर्कादिकं च पूर्ववदूहनीयमिति ।

४०सु०- स्यादेतत् । मुक्ता अप्युपासनं कर्म चानुतिष्ठन्तीति गुणोपसंहारपादे समर्थितम् । न चैकप्रकारमेव तेषामनुष्ठानमिति नियामकमस्ति । तथा च तेषामुपासनादितारतम्ये सत्यपि यत्प्रयुक्तफलतारतम्याभावादयुक्तान्येव सतर्काण्यनुमानानि । मुक्तैरनुष्ठितं साधनमेव न भवति साध्याभावादिति चेत् । अमुक्तै(मुमुक्षुभि)रनुष्ठितस्याप्यधिकस्य तथात्वोपपत्तेः । अनुष्ठानं च मुक्तवल-लीलात्मकं भविष्यतीत्यत आह कृच्छे्रणेति ।

अनु०-कृच्छ्रेण साधनादेव न मुक्तवदुदीर्यते

मुमुक्षुभिः कृच्छ्रेणैव साधनानां साधनादनुष्ठानात् कारणान्मुक्तवन्मुक्तानामिव लीलया अनुष्ठानं न भवति । अनेन विशेषणप्रक्षेपादनैकान्त्यादि परिहृतम् । मुक्तानां कृच्छ्राभावाल-लीलावैलक्षण्यदर्शनादन्यथासिदि्धरप्यपास्ता । न हि कृच्छ्रवती लीला भवतीत्युक्तं भवति । कृच्छे्रण मुमुक्षूणां साधनानुष्ठाने किं प्रमाणमित्यत आह उदीर्यत इति । एतदागमेनोदीर्यत इत्यर्थः ।

४१सु०- तदागमं पठति दशकल्पमिति ।

अनु०-दशकल्पं तपश्चीर्णं रुद्रेण लवणार्णवे ।त्यक्तवा सुखानि सर्वाणि क्लिष्टेन लवणाम्भसा ।शके्रण वर्षकोटीश्च धूमः पीतोऽतिदुःखतः ।वर्षायुतं च सूर्येण तपोऽर्वाक्शिरसा कृतम् ।सुदुःखेन सुखं त्यक्तवा धर्मेणाकाशशायिना ।पीता मरीचयो वर्षसाहस्रमतिसादरम् । अतिकृच्छ्रेण कुर्वन्ति यत्नं ब्रह्मविदोऽपि च । इति

कल्पो ब्रह्मणो दिवसः । पात्रादित्वात् नपुंसकत्वम् । कालाध्वनोरत्यन्तसंयोग इति द्वितीया । यद्वा दशकल्पमिति बहुव्रीहिः । तपसो विशेषणम् ।

सहस्रं परिमाणमस्येति साहस्रः सङ्घः । तदस्य परिमाणमित्यर्थे शतमानविंशतिकसहस्रवसनादणित्यणो विधानात् । अन्येऽप्यतिकृच्छे्रण यत्नं कुर्वन्ति किमैहिकफलार्थं नेत्युच्यते ब्रह्मविदोऽपीति । विषयवैराग्यमनेनोपलक्ष्यते । ब्रह्मज्ञानोत्त(र)रं साधनानुष्ठानेन मोक्षतारतम्यस्योपरि साधयिष्यमाणत्वादत्र सामान्यमात्रं विवक्षितम् । इति शब्दो वाक्यसमाप्तौ ।

४२सु०- अनुमानमुपसंहरति एतदिति ।

अनु०-एतदखिलं मोक्षविशेषाभावतः कथम्

एतदखिलं कृच्छ्रेण साधनानुष्ठानम् । विशेषो वैचित्र्यम् । सप्तम्यर्थे तसिः । कथं

युज्यते । ततोऽनेन मोक्षविशेषः सिद्ध इति शेषः ।

४३सु०- स्यादेतत् । मुक्तौ तारतम्यानुमानं कालात्ययापदिष्टम् । परमं साम्यमुपैतीत्यादिश्रुतिविरुद्धत्वादिति । मैवम् । श्रुतेः श्रुतिस्मृतिबाधितत्वेन बाधकत्वासम्भवादित्याशयवान् मोक्षतारतम्यवादिनीः श्रुतिस्मृतीस्तावत्पठति दैवीति ।

अनु०-दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।इति मोक्षविशेषश्च स्वयं भगवतोदितः
अनु०-तमेव यूयं भजतात्मवृत्तिभिर्मनोवचःकायगुणैः स्वकर्मभिः ।अमायिनः कामदुघाङ्घ्रिपङ्कजं यथाधिकारावसितार्थसिद्धये ।अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे इत्यादीनि च वाक्यानि तारतम्यं विमुक्तिगम् ।व्यक्तं वदन्ति

सम्पद् योग्यता । विमोक्षो विशिष्टमोक्षः । निबन्धो नीचस्थाने अन्धेतमसि बन्धः । तादर्थ्ये चतुर्थी । च शब्दः एवार्थे । भगवता स्वयमेवोक्त इति सम्बध्यते । अन्यथा वी त्युपसर्गस्य वैयर्थ्यापत्तेः ।

तमेवेति मुनीन्प्रति पृथोर्वाक्यम् । तं विष्णुमेव । आत्मवृत्तिभिरित्यस्यैव विवरणं मनोवचःकायगुणैः स्वकर्मभिरिति । अमायिनः छद्मरहिता निष्कामाः । यथाधिकारं योग्यतानुसारेणावसितस्य निश्चितार्थस्य मोक्षस्य सिद्धय इति मोक्षतारतम्योक्तिः । अमायिन इत्युक्तत्वादर्थशब्देन मोक्षस्यैवोक्तेः ।

अक्षण्वन्तः अक्षिमन्तः । अनो नुडिति नुट् । कर्णवन्तः प्राप्तसमस्तेन्द्रियफलाः । परस्परं सखायो मुक्ताः । मनोजवेषु मनोजवः प्रज्ञातिशयो बहुवचनमाद्यर्थे ज्ञानादिगुणेषु असमास्तारतम्योपेता बभूवुः ।

भगवत्सामीप्ये च तारतम्यमुच्यते । तेषु केचिदादघ्नास आस्यशब्दस्याऽऽभावः । आस्यं परिमाणस्येत्यादघ्नममृतं तदेतेषामस्ति स्थानमित्यर्श आदिभ्योऽच् । आस्यपरिमाणे सुधानिधौ विहरन्त इति दूरत्वमुच्यते । यद्वा तरतमशब्द इव दघ्नशब्दोऽप्रत्ययोऽप्यस्ति । ततश्चासम्यग्दघ्ना मग्ना इत्यर्थः । त्वे केचिदुपगताः कक्षं वनमुपकक्षाः । उशब्द एवार्थः । श्वेतद्वीपगतवनक्रडारता एवेति मध्यत्वमुच्यते । आज्जसेरसुगित्यसुक् । त्वे (एव) एके स्नात्वाः स्नातव्याः । कृत्यार्थे तवैकेन् केन्यत्वन इति त्वन् ।

ह्रदा इव गम्भीराः परमेश्वरं ददृश्रे ददृशुः । इरयोरे । अनेनातिसामीप्यमुच्यते । श्रुत्वा विष्णुं कर्मफलमि त्यादिस्मृत्याऽस्य मन्त्रस्यैवं व्याख्यातत्वान्नार्थान्तरं कल्पनीयम् ।।

इत्यादीनि चेति । चशब्देन प्रागुदाहृतकाण्वतैत्तिरीयश्रुती समुच्चिनोति । व्यक्तं निरवकाशम् ।

ततः किमित्यत आह तत्केनेति ।

अनु०-तत्केन साम्यं मुक्तेषु गम्यते

तत् तस्मात् निरवकाशश्रुतिस्मृतिबाधितत्वात् केन न केनापि । यदुदाहृतं वाक्यं तन्न तत्परमिति भावः ।

४४सु०- तर्हि कस्तस्यार्थ इत्यत आह दुःखादीति ।

अनु०-दुःखाद्यभावसाम्यं च साम्यवाक्यार्थ ईयते

च शब्दोऽवधारणे परमानन्दसाम्यसमुच्चये वा । यथोक्तम् । दुःखाभावः परानन्दो लिङ्गभेदः समा मता इति ।

४५सु०- किञ्चनेदमनुमानमुत्प्रेक्षितम् । किन्त्वागमसिद्धम् । तत्र कथं कालतीताशङ्केत्याशयेनाह भक्तयादीति ।

अनु०-भक्तयादिगुणसद्भावे ह्यतुल्यत्वं च भारते ।उक्तं

तारतम्येन भक्तयादिगुणसद्भावे सति भक्तयादिसाधनगुणानां तारतम्येन हेतुनेति यावत् । अतुल्यत्वं मोक्षफलस्य । न केवलमस्माभिः किन्तु भारते च उक्तम् । हीति तद्वाक्यस्य प्रसिद्धतां सूचयति । यथा सति हि गुणे प्रवदन्त्यतुल्यतामिति । सति साधौ गुणे भक्तयादावतुल्ये सति फलस्याप्यतुल्यतां वदन्ति हीत्यर्थः । साधनतारतम्यं प्रमाणैर्दृश्यत इत्युक्तम् । कानि तानि इत्यतः कृच्छ्रेणानुष्ठानं प्रदर्शयितुमुदाहृतं तावदेकं वाक्यम् । अन्यान्यपि सन्तीत्याह साधनेति ।

अनु०-साधनवैचित्र्यमपि सर्वत्र कथ्यते

साधकानां साधनवैचित्र्यं सर्वत्रापि ग्रन्थेषु ।

४६सु०- तानि वाक्यानि पठति दुर्ज्ञेयमिति ।

अनु०-दुर्ज्ञेयं घोररूपस्य त्रैलोक्यध्वंसिनः प्रभोः ।दैवतैर्मुनिभिः सिद्धैर्महायोगिभिरेव च

प्रभोः नृसिंहस्य ध्यानचक्रं देवतादिभिः दुर्ज्ञेयम् । कृतो घोरं भयङ्करं रूपमस्येति

तथोक्तः । त्रैलोक्यं ध्वंसितुं शीलमस्येति । एव शब्देन न संज्ञामात्रेण महायोगिनः किन्त्वर्थत एवेत्याह तदेवोक्तं नित्ययुक्तैरित्यादिना ।

अनु०-नित्ययुक्तैर्महाभागौर्विमोहक्लेशसाध्वसैः ।महोत्साहैर्महाधैर्यैः सत्त्वस्थैर्व्यवसायिभिः ।अतीतानागतज्ञानप्रभवाप्ययवेदिभिः ।शौचस्वाध्यायसन्तोषतपःसत्त्वदयान्वितैः ।किमु मर्त्यैर्भयभ्रान्तिध्वंसमोहरुजान्वितैः ।अल्पायुवीर्यधीसत्त्वव्यवसायश्रुतिव्रतैः

सर्वदा ध्यानाद्युद्योगवदि्भः । भागो भाग्यमिन्द्रियजयादि ।

मोहा मिथ्याज्ञानम् ।

क्लेशा अविद्याद्याः ।

साध्वसं विघ्नादिभयम् । न केवलं सदोद्युक्ताः किन्तु स चोद्योगो महानि त्युच्यते महोत्साहैरिति ।

सत्त्वस्थैः सदा तत्त्वगुणप्रचुरैः ।

व्यवसायो निश्चयः ।

ज्ञान शब्देन ज्ञेयमुपलक्ष्यते । अतीतानागतानि ज्ञानानि प्रभवाप्ययौ सृष्टिसंहारौ च वेत्तुं शीलमेषामिति तथोक्ताः । प्रभवाप्ययज्ञानस्य महाफलत्वात् पृथगुक्तिः । मर्त्यैर्दुर्ज्ञेयमिति किमु वक्तव्यम् ।

ध्वंसः मनोविशरणम् ।

मोहः अज्ञानम् ।

श्रुतिः श्रवणम् । अत्र वैहायससंहितावाक्ये देवादिभ्यो मनुष्याणामल्पं साधनमिति स्फुटं प्रतीयते । मानुषत्वापगमानन्तरमाधिकं भविष्यतीति चेन्न । मानुषत्वादेरनपगमस्यानन्तरमेव वक्ष्यमाणत्वात् ।

४७सु०-

अनु०-कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ।ब्रह्मैव किञ्चिज्जानाति न तदन्यो हि कश्चन

कस्तमिति श्रुतिर्यमवाक्यम् । सुरासुराणां सुखदुःखहेतुत्वात् मदामदः । अनेन यमस्यान्येभ्यो ज्ञानाधिक्यमुच्यते । ब्रह्मैव इत्यनेन ब्रह्मणः । अत एव मदन्य इति ब्रह्मादीन्विनेति व्याख्येयम् ।

अनु०-मुक्तानामपि सिद्धानां नारायणपरायणः ।सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामते

मुक्तानामिति भागवतवाक्ये मुक्तानां शरीराद्यभिमानरहितानां सिद्धानां ज्ञानिनां कोटिष्वपि नारायणपरायणः प्रशान्तात्मा सुदुर्लभः कश्चिदेव । नारायणायनाः शान्तात्मानस्तु सर्वेऽपीति स्फुटं साधनतारतम्यं प्रतीयते । अत्र विशेषणद्वयेन वैराग्यभक्त कथ्येते ।

इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न ।यो अस्याध्यक्षः परमे व्योमन्त्सो अङ्ग वेद यदि वा न वेद ।।

इयं विसृष्टिरिति मन्त्रस्यायमर्थः । इयं प्रत्यक्षादिसिद्धा विविधा सृष्टिर्यतो हिरण्यगर्भादासमन्ताद्बभूव । यश्चास्य प्रपञ्चस्याध्यक्षोऽधिपतिः सोऽपि परमात्मानं परमे व्योमन् व्योमि्न हृदयाकाशे यदि वा दधे यदि वा न तथा वेद यदि वा न । ओति कस्यचित्सम्बुदि्धः । इतरापेक्षयाऽऽधिक्येन ध्यायति जानाति च कार्त्स्न्येन तु न ध्यायति न जानाति चेति । व्योमन्निति सप्तम्या लुक् । यो अस्य सो ओति प्रकृत्यान्तःपादमव्यपर इति प्रकृतिभावः ।

अनु०-यः स्वात्ममायाविभवं स्वयं गतो नाहं नभस्वांस्तमथापरे कुतः । ब्रह्मापि यं वेत्ति न चेह सम्यगन्ये कुतो देवमुनीन्द्रमर्त्याः ।

यः स्वात्ममायेत्यादिषु भागवतवचनेषु कैमुत्योक्तया ज्ञानतारतम्यमवगम्यते । या भगवान् स्वात्ममायाया विभवं स्वरूपमहिम्नो विस्तरं स्वयमेव गतो ज्ञातवान् । ब्रह्मवाक्यमिदम् । यं हरिम् इह जीवेषु ।

अनु०-नमस्तेऽमिततत्त्वाय ब्रह्मादीनां च सूतये ।निर्गुणाय च सत्काष्ठां नाहं वेदापरे कुतः

तत्त्वं स्वरूपम् । सूतिः कारणम् । यस्य सत्काष्ठां सम्यग्दिङ्मात्रम् । ब्रह्मवाक्यमिदम् ।

अनु०-नाहं परायुर्ऋषयो न मरीचिमुख्या जानन्ति यद्विरचितं खलु सत्त्वसङ्घाः ।यन्मायया मुषितचेतस ईशदैत्यमर्त्यादयः किमुत शश्वदभद्रवृत्ताः ।

नाहं परायुरिति शिववचनम् । यद्विरचितं यस्य चरित्रम् । ईशेति भगवत्सम्बुदि्धः ।

अनु०-अहं महेन्द्रो निऋतिः प्रचेताः सोमोऽग्निरीशःपवनोऽर्को विरिञ्चः आदित्यविश्वे वसवोऽथ साध्या मरुद्गणा रुद्रगणाः ससिद्धाः । अन्ये च ये विश्वसृजोऽमरेशा भृग्वादयोऽस्पृष्टरजस्तमस्काः । यस्येहितं न विदुः स्पष्टमायाः सत्त्वप्रधाना अपि किं ततोऽन्ये । सर्वस्यादौ स्मृतो ब्रह्मा तस्माद्देवादनन्तरः । जानाति देवप्रवरं भूयश्चातोऽधिकं नृप ।

अहमिति यमवचनम् । ईहितं चेष्टितम् । सर्वस्य प्रपञ्चस्य आदौ स्मृतः आद्यतया प्रमितः । अतो ज्ञानिवर्गात् । भूयोऽधिकम् अतिशयेनाधिकम् ।

अनु०-न त्वामतिशयिष्यन्ति मुक्तावपि कथञ्चन ।मद्भक्तियोगाज्ज्ञानाच्च सर्वानतिशयिष्यसि । यथा भक्तिविशेषोऽत्र दृश्यते पुरुषोत्तमे ।तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गभेदने ।

सायुज्यं समनुप्राप्ता अपि देवादयोऽखिलाः । तारतम्यादि्ध तिष्ठन्ति तारतम्यं हि साधने । मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ।

न त्वामिति ब्रह्माणं प्रति भगवद्वाक्यम् । अत्र संसारे । लिङ्गभेदने लिङ्गशरीरभङ्गे जाते सति । सिद्धये ज्ञानाय । यततामपि मध्ये केचित्सिद्धा भवन्ति । सिद्धानां मध्य इति योज्यम् । तत्त्वतः प्राचुर्येण । एकं च तत्त्वतो ज्ञातुमिति यथा ।

अनु०-य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ।।न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि ।।अध्येष्यते च य इमं धर्म्यं संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ।।्रद्धावाननसूयश्च शृणुयादपि यो नरः ।सोऽपि मुक्तश्शुभाल्लोकान्प्राप्नुयात्पुण्यकर्मणा ।

य इममिति व्याख्यातुरध्येतुः श्रोतुश्च तारतम्यमुच्यते । व्याख्यानादिप्राचुर्यं च प्रत्येकं मोक्षसाधनमित्यन्यत्रोक्तम् ।

अनु०-ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे । अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ।

ध्यानेनेत्यस्य भगवत्पादकृतं गीतातात्पर्यगतं व्याख्यानं द्रष्टव्यम् ।

अनु०-सुसूक्ष्मैरप्यशेषैश्च विशेषैः सह पश्यति । स्वात्मानं भगवान्विष्णुः सर्वरूपोऽपि सर्वदा । सर्वत्र चान्यदप्येवं तेनादृष्टं न हि क्वचित् । सर्वत्र सर्वदैवेशं पश्यत्येव रमाऽपि तु । न तु सर्वैर्विशेषैस्तं पश्यन्त्यप्यन्यतोऽधिकम् ।स्वात्मानमन्यच्चाशेषं पश्यत्येव हि सर्वदा । ब्रह्मा तु सर्वगं पश्येद्गुणानप्यन्यतोऽधिकम् । न तु सर्वेषु कालेषु तथा पश्यत्यमुक्तिगः । मुक्तस्तु सर्वदा पश्येत् सर्वदत्वेन चापि तु ।न रमावद्विशेषाणां दर्शनं शक्नुयात्क्वचित् । स्वात्मानमन्यच्च सदा विशेषैरखिलैरपि । पश्यत्यञ्जस्तथा वाणी विशेषांस्तावतो न तु ।त्रैगुण्यात्परतः पश्येद्व्याप्तं शतगुणं हरिम् ।

सुसूक्ष्मै रित्यादिना सर्वेषां ज्ञानतारतम्यमुच्यते । स्वतोऽन्यद्विश्वमप्येवं पश्यति । अपि तु किन्तु । तर्हि भगवत्समाना किमिति प्रश्नार्थः । अन्यतो ज्ञानवर्गादधिकं पश्यन्त्यपि सर्वैर्विशेषैर्युक्तं तं नैव पश्यति विष्णोः स्वस्माच्चान्यदशेषम् ।

अन्यतः सरस्वत्यादेरधिकं पश्येत् । ब्रह्मणोऽप्यवस्थाभेदेन विशेष उच्यते न तु सर्वेष्विति । तथा सर्वगतत्वेन सरस्वत्यादिदृष्टाधिकगुणत्वेन सर्वगतत्वेन चेति । चशब्देनोक्तगुणवत्त्वं समुच्चिनोति । तर्हि मुक्तस्य ब्रह्मणो रमासाम्यं किमिति प्रश्नः अपि त्विति । दर्शनं कर्तुम् । अन्यत् भगवतः । यथा ब्रह्मा रमादृष्टान्न पश्यति तथा । यावन्तो ब्रह्मदृष्टास्तावतः ।

अनु०-गिरिशो गरुडश्चैव तमोमात्रगतं हरिम् ।पश्येद्विशेषानपि हि वाणीदृष्टान्न पश्यति ।।उमा सुपर्णी च महत्तत्त्वं यावत्प्रपश्यति ।रुद्रदृष्टान्विशेषांश्च नैव पश्येत्कदाचन ।।स्वरूपमन्यरूपं च मुक्ता देवाः समस्तशः ।जानन्तीन्द्रश्च कामश्च ब्रह्म यावदहंकृतिः ।।पश्यन्तो मनुदक्षाद्या बुदि्धतत्त्वस्थितं हरिम् ।पश्यन्ति सोमसूर्यौ तु मनस्स्थं परमेश्वरम् ।। अन्ये भूतस्थितं विष्णुं देवाः पश्यन्ति सर्वदा । बहुसाहस्रवर्षेण महत्तत्त्वे क्वचित्क्वचित् ।।अन्ये चैव यथायोगमण्डान्तर्वर्तिनं हरिम् ।श्वेतद्वीपपतिं चैव हृद्येवान्ये तु केचन ।कदाचिदेव तत्रापि केचित्पश्यन्ति केशवम् ।।

तमोगुणमात्रगतमेवेति सम्बन्धः । पश्येदित्यादेः प्रत्येकं सम्बन्धः । अन्यरूपं स्वाधमरूपम् । बहुसाहस्रवर्षेणेति । बहुसहस्रवर्षानुष्ठितसाधनेन ।

क्वचित्क्वचिदिति महत्तत्त्वप्रविभागानभिप्रैति । यथायोगमेव केचन (तु) श्वेतद्वीपपतिमेव ।

तत्रापि हृद्यपि ।

४८सु०- परिमाणदर्शनवद्विशेषदर्शने तारतम्यं न विस्पष्टमुक्तमत आह उमेति ।

अनु०-उमा यादवनन्तांशान्पूर्वदृष्टेभ्य एव तु ।विशेषान् वासुदेवस्य पश्चादुक्ता विचक्षते । शक्रकामादयश्चैव विशेषान् ब्रह्मणि स्थितान् । उमादिभिः प्रबुद्धेभ्यः शतांशानेव चक्षते ।

उमा पर्यन्तं तु पश्चात्पश्चादुक्ताः पूर्वपूर्वैर्दृष्टेभ्यो दृष्टानामनन्तांशानेव वासुदेवस्य विशेषान्विचक्षते । शक्रकामादयश्चेति चस्त्वर्थः । एव शब्दस्योमादिभिरेवेत्यन्वयः । प्रबुद्धेभ्य इति पूर्ववत् षष्ठ्यर्थे । चक्षते पश्यन्ति ।

४९सु०- उदाहृतानां वचनानां प्रयोजनमाह इत्यादीति ।

अनु०-इत्यादिवेदस्मृतिगवचनेभ्यो यथार्थतः ।तारतम्यं च मुक्तानां साधनानां च दृश्यते ।

यथार्थत इति । न परमतानुवादरूपेणेत्यर्थः । मुक्तानां च साधनानां चेति योजना । साधनतारतम्यप्रतिपादनायोदाहृतेष्वेव केषुचिद्वाक्येषु मुक्तानां तारतम्यं प्रतीयते । तदपि प्रकृतत्वाद् ग्राह्यमित्यर्थः ।

५०सु०- अस्तु मुमुक्षूणां साधनेषु तारतम्यं मा च भून्मोक्षे तारतम्यमित्याशङ्कायां प्राग्बाधकमुक्तम् । इदानीं शङ्कैवैषा नोपपद्यते दूरे दूषणाभिधानमित्याह साध्येति ।

अनु०-साध्यसाधनवैरूप्यम्

साध्यमविचित्रं साधनं विचित्रमिति साध्यसाधनयोर्वैरूप्यं केन बीजेन कल्प्यते शङ्क्यते न केनापि । अयमभिसन्धिः । पक्षे विपक्षत्वशङ्का खलु केनचिद्बीजेन स्यात् । निर्बीजं शङ्कमानो

न लौकिको नापि परीक्षक इत्युन्मत्त इवोपेक्षणीयः । बीजं च व्यभिचारदर्शनं वोपाधिदर्शनं वा तयोरन्यतरशङ्का वा । तत्राद्यं तावदिह नास्ति । तदिदमाह अदृष्टमिति ।

अनु०-अदृष्टं केन कल्प्यते

नापि द्वितीयम् । पक्षे साध्यसद्भावस्य श्रुत्यादिसिद्धत्वेन यस्यकस्यचिदाशङ्क्यमानस्यावश्यं साध्यव्यापकत्वाभावेनोपाधित्वासम्भवात् । पक्षेऽपि तद्वृत्तौ साधनव्यापकत्वात् । अत एवोपाधिशङ्काऽपि निरस्ता । ततो व्यभिचारशङ्काऽपि । उदाहृतवाक्यैर्व्याप्तेरुक्तत्वात् । अतो बीजाभावाच्छङ्कैवैषाऽनुपपन्नेति ।

५०असु०- ईश्वरो मुमुक्षुभ्यो विचित्रं फलं ददाति विचित्रसाधनैराराधितत्वात् । विचित्रसाधनान्यपेक्ष्य फलदातृत्वादित्यनुमानान्तरं हृदि निधायान्यथासिदि्धनिरासार्थं विपक्षे बाधकमाह वैषम्यमिति ।

अनु०-वैषम्यं निर्घृणत्वं च तेन स्यातां परस्य च

तेन साध्यसाधनवैरूप्येण । द्वितीयश्चशब्दः प्रमाणान्तरसूचनार्थः । यदीश्वरोऽनुष्ठिताल्पसाधनायानुष्ठितमहासाधनसमानफलं दद्यात् । तदाऽसौ विषमः प्रसज्येत । यदि वा अनुष्ठितमहासाधनायानुष्ठिताल्पसाधनसमानफलं दद्यात् । तदा निर्घृणः स्यादित्यर्थः ।

ईश्वरस्य वैषम्याद्यापत्तिर्नानिष्टा । दुःखाद्यहेतुत्वादित्यत आह सापेक्षत्वादिति ।

अनु०-सापेक्षत्वादिति च तौ विद्याधीशेन वारितौ

अनेन वैषम्यनैर्घृण्ये न सापेक्षत्वात् इति सूत्रमुपादत्ते । तौ चेति सम्बन्धः । तौ वैषम्यनैर्घृण्यलक्षणौ दोषौ । यदि्ध प्रमाणविरुद्धमप्रामाणिकं वा तदुच्यतेऽनिष्टमिति । वैषम्यादिकं चेश्वरस्य सूत्रकारेण वारितत्वात् प्रमाणविरुद्धमिति कथं नानिष्टम् । अङ्गीकृतसूत्रप्रामाण्यान्प्रत्ययं यत्न इति नासङ्गतिः ।

ये तु सूत्रप्रामाण्यमनङ्गीकृत्येश्वरस्य वैषम्याद्यापत्तेरिष्टत्वं मन्यन्ते । तान्प्रति वेदाप्रामाण्यहेतुत्वेन वैषम्यादेर्दोषत्वं सूचयितुं पुल्लिङ्गनिर्देशः । अन्यथा प्रकरणात् ते वारिते इत्यवक्ष्यत् । नपुंसकप्रयोगेऽपि दूषणे इति शक्यते ज्ञातुमिति चेन्न । ते वैषम्यनैर्घृण्ये इति निराकाङ्क्षत्वात् ।

५१सु०- प्रसङ्गस्य विपर्यये पर्यवसानमुपपादयति तारतम्यादिति ।

अनु०-तारतम्यात्साधनानां साध्यतादृक्त्वमीशतः ।अवैषम्यादिहेतुः स्यात् सदैव परमेश्वरे ।।

साधनानां तारतम्यात् सदैव नियमेन ईशतो भवतः साध्यस्य तारतम्यं परमेश्वरेऽवैषम्यादिहेतुः स्यात् । आपादकविपर्ययस्य खल्वापाद्यविपर्ययं प्रति निर्वाहकत्वे भवेत् प्रसङ्गस्य विपर्ययपर्यवसानम् । निरग्निकत्वविपर्ययो हि निर्धूमत्वविपर्ययं घटयति । अस्ति चैतत्प्रकृत इति ।

यद्वा कथं वैषम्यादि सूत्रकारेण वारितमित्यतः सापेक्षत्वस्य वैषम्याद्यभावेन सह हेतुहेतुमद्भावं व्युत्पादयति तारतम्यादिति । पूर्वैव योजना ।

५२सु०- व्यर्थमिदं सूत्रकारस्य साधनसंस्कारपूर्वकर्मापेक्षाऽङ्गीकारेण वैषम्यादिनिवारणम् । फले तत्परिहारेऽपि साधनादौ परिहर्तुमशक्यत्वात् । तथा हि । साधनादौ परमेश्वरस्य प्रयोजकत्वमस्ति न वा । नेति पक्षे परमेश्वरत्वहानिः । आद्ये निर्निमित्तं विचित्राणि साधनानि प्रयोजयतः कथं न वैषम्यादीत्यतोऽनुपपन्नस्य सूत्रस्य कथं बाधकत्वमिति । मैवम् । अस्याक्षेपस्य सूत्रकृतैव निरस्तत्वादित्याह स्वातन्त्र्य इति ।

अनु०-स्वातन्त्र्ये विद्यमानेऽपि साधनादौ परेशितुः ।अपेक्ष्यानादिवैचित्र्यं न दोष इति तद्वचः

स्वातन्त्र्यं प्रयोजककर्तृत्वम् । वैचित्र्यं साधनादेः । अपेक्ष्य प्रेरणादिति शेषः । दोषो वैषम्यादिः । तद्वचः सूत्रकृतो वचोऽस्ति ।

५३सु०- नन्वेवं सर्वत्र सापेक्षस्य हरेः स्वातन्त्र्यहानिर्दोषः स्यादित्यत आह स्वातन्त्र्य इति । अयमपि दोषो नास्ति । कथम् । परेशितुः साधनादौ विद्यमानेऽपि स्वेच्छयाऽनादिवैचित्र्यमपेक्ष्य प्रेरकत्वमित्येतदर्थप्रतिपादकं तद्वचोऽस्ति यत इति ।

किं तद्वच इत्यतः क्रमेण सूत्रद्वयं पठति नानादित्वादिति ।

अनु०-नानादित्वादिति ह्युक्तमुपपद्यत इत्यपि ।

तत्राद्यदोषपरिहाराय न कर्माविभागादिति चेन्नानादित्वादि ति सूत्रं(मनेनो)उपादत्ते । द्वितीयपरिहाराय उपपद्यते चेति ।

५४सु०- एवमनुमानस्यान्यथासिदि्धं निरस्य बाधकप्रतिरोधौ निराकरोति अपेक्ष्येति ।

अनु०-अपेक्ष्योपायवैषम्यमुपेयस्य तथा स्थितिः ।मया कया विरुद्धा स्यात्

तथा स्थितिः विषमतेश्वरेण क्रियत इति साध्यमानेति शेषः । मया प्रमाणेन । कया न कयापि । परमं साम्यमित्यादेः अन्यथाव्याख्यातत्वादिति भावः । अनुमानादेः व्याप्तिप्रतिपत्तये दृष्टान्तमाह राजादाविति ।

अनु०- राजादावपि दृश्यते

प्रेक्षावति राजादौ सेवानुरूपफलदानं वैपरीत्यकर्तर्यप्रेक्षावति वैषम्यादिकं च दृश्यत इत्यर्थः । साध्यसाधनवैरूप्यकल्पने बाधकान्तरमाह त्याग इति ।

अनु०-त्यागो दृष्टस्य चादृष्टकल्पनेति सुदुष्करौ ।मायिभ्योऽन्येन केनापि

सर्वत्र साध्यसाधनैकरूप्यस्य दृष्टत्वात् तद्वैरूप्यस्य क्वाप्यदृष्टत्वात् प्रकृतवैरूप्यं शङ्कमानस्य दृष्टत्यागोऽदृष्टकल्पना चेति दोषौ प्रसज्येते । न च स्यातां ताविति शक्यते वक्तुम् । प्रेक्षावता केनाप्यनङ्गीकृतत्वादित्याह सुदुष्कराविति । मायावादिनो दृष्टं प्रपञ्चस्य सत्यत्वादिकं त्यजन्ति । अदृष्टमनिर्वाच्यादिकं कल्पयन्ति । अतो मायिभ्योऽन्येनेत्युक्तम् । अस्य चोत्तरत्र उपयोगः । अन्यैरकृतमपि दृष्टत्यागादिकं कुर्वतां को दोष इत्यत आह तत्किमिति ।

अनु०- तत्किमन्यैश्च वादिभिः ।मायिनोऽत्रानुगम्यन्ते

तत् तर्हि । किमिति गूढाभिप्रायः प्रश्नः । अत्र दृष्टत्यागाद्यनुष्ठानविषये । अनुगम्यन्ते अनुस्रियन्ते ।

एतदुक्तं भवति । दृष्टत्यागादिप्रसङ्गेन मायावादिनो दूषयतां पुनरत्र दृष्टत्यागादिकं स्वयं कुर्वतां व्याहतिः स्यादिति ।

५५सु०- साध्यसाधनयोर्वैरूप्यं शङ्कमानस्यानिष्टान्तरमाह श्रुतेति । उक्तविधया साध्यसाधनसारूप्यस्य श्रुतत्वादन्यथा च अश्रुतत्वात् अत्र वैरूप्याङ्गीकारे श्रुतहान्यश्रुतग्रहावपि स्याताम् । मायिनां लिङ्गे इति तयोर्विशेषणं प्रयुञ्जानस्योक्त एवाभिसन्धिः ।

मायावादिनो हि श्रुतं सार्वज्ञाद्युपेतं ब्रह्म परित्यज्याश्रुतं निर्गुणमुपयन्ति । दृष्टत्यागादिचतुष्टयं कुर्वतां बाधकान्तरमाह तदिति ।

अनु०- श्रुतहान्यश्रुतग्रहौ ।अप्यत्र मायिनां लिङ्गे तत्के दोषास्ततोधिकाः ।

तत् तत्र प्रकृतदोषेषु । ततो दृष्टत्यागादेः । अधिका बहिर्भूताः । दृष्टत्यागादिकं कुर्वाणेनान्यदपि प्रमितं त्याज्यं स्यात् । अदृष्टकल्पनादिकं च कुर्वताऽप्रामाणिकमन्यदपि कल्पनीयं भवेदिति भावः ।

५६सु०- स्यादेतत् । यदि मुक्तास्तारतम्योपेताः स्युस्तदा परस्परं द्वेषवन्तः स्युरिति प्रतिकूलतर्कपराहतं मुक्ततारतम्यानुमानमित्यत आह निश्शेषेति ।

अनु०-निश्शेषगतदोषाणां बहुभिर्जन्मभिः पुनः । स्यादापरोक्ष्यं हि हरेर्द्वेषेर्ष्यादिस्ततः कुतः ।।

निश्शेषेण गता अपगता दोषा येभ्यस्ते तथोक्ताः । पुनः श्रवणादिमतामिति शेषः । तेषां हरेरापरोक्ष्यमिति तान्प्रति हरेरापरोक्ष्य(रपरोक्षत्व)मित्यर्थः । अनुबन्धादिभ्य इत्यत्र प्रतिपादितोऽयमर्थ इति हि शब्दः । यस्मादित्यर्थे वा । द्वेषेर्ष्यादि दोषस्ततस्तस्मात्कुतो मुक्तानां नापादयितुं शक्यत इत्यर्थः ।

एतदुक्तं भवति । ये तारतम्योपेतास्ते द्वेषादिमन्तो दृष्टा यथा लौकिकाः पुरुषा इति खल्वत्र व्याप्तिरभिधातव्या । न चैवम् । लौकिकानां द्वेषादिमत्त्वे दोषित्वस्यैव प्रयोजकत्वात् । यत्र द्वेषादिमत्त्वं तत्र दोषित्वमिति व्याप्तेर्दर्शनात् ।

न च दोषित्वं मुक्तेषु सम्भवति । औपाधिका हि तेषु दोषा वक्तव्याः । स्वाभाविकानां शङ्कितुमशक्यत्वात् । ते च भगवत्साक्षात्कारोदयात्प्रागेव प्राचुर्येण गताः । साक्षात्कारेण च समूलघातं हताः । मुक्तौ चोपाधेरेवापगतत्वान्नेषदपि स्थातुमर्हन्ति । अतो व्यापकाभावाद्व्याप्यस्याप्यभाव इति ।

ननु परेणापि न मुक्तेषु द्वेषादिमत्त्वं साध्यते किन्त्वापाद्यत एव । ततस्तेभ्यस्तद्व्यावृत्तिसाधनमसङ्गतम् । मैवम् ।

तर्कमूलभूतव्याप्तावुपाधिः खल्वत्र कथितः । तस्य च पक्षाद्व्यावृत्तिः स्वव्यावृत्त्या विवक्षितधर्मव्यावर्तनशक्तिश्चावश्यकेति तद्व्युत्पादनस्य क्रियमाणत्वात् । अत्र द्वेषेर्ष्यासन्तापपरेष्टप्रतिघातप्रयत्नेच्छा व्याप्याः । अविद्याऽहङ्काराद्या व्यापका इति विवेकः ।

५७सु०- दोषाणामेव द्वेषादौ प्रयोजकत्वमित्येतमर्थं परेणापि स्वीकारयितुं प्रतिबन्दीं गृह्णाति भवेयुरिति ।

अनु०-भवेयुर्यदि चेर्ष्याद्याः समेष्वपि कुतो न ते ।

तारतम्येऽङ्गीकृते मुक्तानाम् ईर्ष्यादयो यदि भवेयुः यदि आपाद्यन्ते । तदा मुक्तेषु समेषु अङ्गीकृतेषु अपि कुतो न भवेयुः । यदि मुक्तास्तारतम्योपेतास्तदा द्वेषादिमन्तः स्युरिति वदता न द्वेषादिमन्तस्तस्मात्समा एवेति वाच्यम् । न च साम्यमप्यङ्गीकर्तुं शक्यते । यदि मुक्ताः समाः स्युस्तदा द्वेषादिमन्तः स्युरिति तत्राप्यनिष्टप्रसङ्गादित्यर्थः ।

साम्ये कथं द्वेषादिप्रसङ्ग इत्यतः परप्रसङ्गवत् साम्यस्यापि द्वेषादिसाहचर्यं दृष्टमित्याह तप्यमाना इति ।

अनु०-तप्यमानाः समान्दृष्ट्वा द्वेषेर्ष्यादियुता अपि ।दृश्यन्ते बहवो लोके दोषा एवात्र कारणम् ।।

समसत्तामात्रं नापादकत्वेन विवक्षितम् । अतिप्रसङ्गात् । किन्तु समदर्शनमेवेत्याशयेनोक्तं समान्दृष्ट्वेति ।

प्रतिबन्दीग्रहणस्य प्रयोजनमाह दोषा इति । दोषाणां समुदितानामेव कारणत्वमित्येकवचनम् । एवमस्माभिः साम्यवादिनं प्रत्यतिप्रसङ्गेऽभिहिते तेनैतदेव वक्तव्यम् ।

अत्र लोके दोषा एव द्वेषादेः कारणम् । अन्वयव्यतिरेकाभ्यां तन्निश्चयात् । न तु साम्यम् । सत्यपि साम्ये सखिष्वभावात् । असत्यपि क्वचिद्भावात् । न च मुक्तेषु दोषास्सन्ति । अतः साम्येऽपि न (द्वे)दोषादिप्रसङ्ग इति ।

५८सु०- अतः किमित्यत आह यदीति ।

अनु०-यदि निर्दोषता तत्र किमाधिक्येन दूष्यते ।

यद्येवं दोषाणामेव द्वेषादिकारणत्वम् । तत्र मुक्तेषु निर्दोषता चाङ्गीकृता । तदा आधिक्येन हीनाधिकभावेनाङ्गीकृतेन । किं दूष्यते न किमपि । साम्यमङ्गीकुर्वाणेनापि निर्दोषतयैव द्वेषादिप्रसङ्गो वारणीयः । तारतम्यमङ्गीकुर्वाणैरस्माभिरपि तथैव निराकरिष्यते ।

इयांस्तु विशेषः । यत्तारतम्यं प्रमितं न साम्यमिति समुदायार्थः ।

५९सु०- शङ्कते यदीति ।

अनु०-यद्यन्यदर्शनाभावादीर्ष्यादिर्विनिवार्यते

भवेदेतद्यदि साम्येन प्रसक्तं द्वेषादिकं निर्दोषतया निवारयामः । न चैवम् । किन्नाम समसत्तामात्रं हि न द्वेषादिकारणमतिप्रसङ्गात् । अपि तर्हि समदर्शनम् । न च मुक्तः समं मुक्तान्तरं पश्यत्यतो न द्वेषादीति । एवं तर्हि न तारतम्यसत्तामात्रं द्वेषादिकारणं, किन्तु स्वतोऽधिकदर्शनमेव ।

न च मुक्तः स्वतोऽधिकं मुक्तान्तरं पश्यति । तस्मात्सत्यपि तारतम्ये न द्वेषादिप्रसङ्ग इति कुतो न सन्तोष्टव्यमिति परिहारोऽत्र शक्यते वक्तुम् । तथाऽपि नासौ तात्त्विक इत्यन्यदर्शनाभावमेव दूषयति अदर्शनादिति ।

अनु०-अदर्शनादरत्यादिः कथं तेन निवार्यते

एवमन्यदर्शनाभावेन द्वेषादिकं निवारयता तेनादर्शनात्प्रसक्तमरत्यादिकं कथं निवार्यते । अरतिः सुखाभावः । आदि पदेन तन्द्री भयं च गृह्यते । एतदुक्तं भवति । स्यादयं परिहारो यदि मुक्तस्यान्यदर्शनाभावः सम्भवेत् । न चैवम् । मुक्तो हि न तावदचेतनः । अपसिद्धान्तप्रसङ्गात् । ततश्चेतनस्य सतोऽन्यदर्शनाभावेऽरत्यादिकं प्रसज्यत इति ।

६०सु०- ननु बहिर्मुखा एवान्यदर्शनाभावेऽरत्यादिकं प्राप्नुवन्ति न च मुक्तास्तथाऽतो नारत्यादिप्रसङ्ग इत्यत आह ब्रह्मणोऽपीति ।

अनु०-ब्रह्मणोऽप्यरतिर्दृष्टा पूर्वमेकाकिनः श्रुतौ ।

ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयमि त्येवं प्रमितस्यापीत्यर्थः । पूर्वम् आदिकाले । श्रुतौ इति जातावेकवचनम् । ताः श्रुतीरर्थतः पठति नैवेति ।

अनु०-नैव रेमे स चैकाक तस्मान्न रमते क्वचित् ।द्वितीयमैच्छत्तेनासाविति श्रुतय ऊदिरे ।

अनेन स वै नैव रेमे तस्मादेकाक न रमते स द्वितीयमैच्छदिति वाक्यमुपादत्ते ।

६१सु०- स्यादेतत् । यद्यन्यदर्शनाभावमात्रमरत्यादेः कारणं स्यात् । न चैवम् । किन्तु अन्यदर्शनेच्छायां तदभावः । मुक्तस्य त्विच्छैव नास्त्यतोऽन्यदर्शनाभावेऽपि नारत्यादिकं प्रसज्यत इत्याशङ्क्याह यदीति ।

अनु०-यदीच्छा नैव तत्रास्तीत्येव तत्कल्प्यते मृषा ।श्रुत्युक्तनिर्दोषतैवं किन्नाङ्गीक्रियते स्वयम् ।

तत् तत्र मुक्तौ । तत्र अन्यदर्शनविषये । इच्छा नैवास्तीति मृषैव कल्प्यते यदीति योजना । भिद्यते हृदयग्रन्थिरित्यादिश्रुत्युक्ता । स्वयं साक्षाच्छत्युक्तेति सम्बन्धः । तर्हीति शेषः । तच्छब्दो वा तर्ह्यर्थः ।

इदमुक्तं भवति । मुक्तानां साम्यमङ्गीकृत्यान्यदर्शनाभावेन द्वेषादिपरिहृत्य अन्यदर्शनेच्छाभावेन च अरत्यादिकं परिहरतोऽप्रामाणिकानेककल्पनं प्रामाणिकपरित्यागश्च स्याताम् । सामान्यदर्शनाभावेनाभावतदिच्छाभावानामप्रामाणिकत्वात् । तारतम्यादेः प्रामाणिकत्वात् । ततो वरं तारतम्यमङ्गीकृत्य द्वेषादिनिरासाय श्रौतनिर्दोषतास्वीकार इति ।

एतेन तारतम्यं साम्यं वाऽङ्गीकृत्य निर्दोषत्वेन द्वेषादिसमाधानं विधातव्यमिति सन्देहोऽपि निरस्तो वेदितव्यः ।

६२सु०- उक्तमेव स्पष्टमाह तारतम्यं चेति ।

अनु०-तारतम्यं च कामं च श्रुतमेवातिहाय तु । अश्रुता समता केन कल्प्यते युक्तिमानिना ।

अन्यदर्शनं चेत्यपि ग्राह्यम् । स यो मनुष्याणां राद्धः । कामस्य यत्राप्ताः कामाः । अक्षण्वन्तः कर्णवन्तः सखाय इत्यादौ श्रुतम् । न ह्यन्यदर्शनाभावे सख्यं सम्भवति । समतेत्यन्यदर्शनाभावेच्छाभावयोरप्युपलक्षणम् । युक्तिं मन्यत इति युक्तिमानी । युक्तौ बहुमानवता केनाप्येवं न कल्प्यत इत्यर्थः । प्रामाणिकपरित्यागाप्रामाणिकस्वीकारप्रसङ्गो हि तर्कापरनामिका युक्तिः ।

६३सु०- ननु समताया अश्रुतत्वेऽपि नाप्रामाणिकत्वम् । न हि श्रुतिरेव प्रमाणमित्यत आह किं तदिति ।

अनु०-किं तन्मानं समत्वे ते मुक्तानामुपलभ्यते

न किञ्चित्तच्छतेरन्यत् । अतः प्रमाणान्तराभावेऽश्रुतत्वेनाप्रामाणिकत्वमेव सिद्ध्यति । यद्यन्यदर्शनाभावादित्यादिनोक्तमुपसंहरति वृथेति ।

अनु०-वृथाऽयमाग्रहः केन श्रुतहान्यश्रुतग्रहे

केन न केनापि कारणेन । श्रुतहान्यश्रुतग्रह इति द्वन्द्वैकवद्भावः । श्रुतहानिसहितोऽश्रुतग्रह इति वा । विषयसप्तमीयम् । ततो न कार्यं इति भावः । मुक्तानां तारतम्येऽनुमानान्तरमाह मोक्षेऽपीति ।

अनु०-मोक्षेऽपि तारतम्येतश्चेतनत्वाद्यथा पुरा ।

तारतम्येनेतः प्राप्तस्तारतम्यवानिति यावत् । पुरा संसारे ।

६४सु०- नन्वत्र संसारे वर्तमानं कमपि पक्षीकृत्यायं तारतम्येत इति साध्यते तत्र च मोक्षेऽपीति सिद्धसाधनतापरिहाराय विशेषणमुपादीयत इति वा । मोक्षेऽपीत्यनेन मुक्तं पक्षीकृत्य तारतम्येत इति वा । मुक्तं पक्षीकृत्य तारतम्येत इति साध्यते । तत्र प्राचीनेन तारतम्येन सिद्धसाधनतापरिहाराय मोक्षेऽपीति विशेषणमुपादीयत इति वा । नाद्यः । तस्य नित्यसंसारित्वस्यापि सम्भवेन बाधापत्तेः । निश्चितमोक्षपुरुषविशेषपक्षीकारेऽपि दृष्टान्तस्य साध्यविकलत्वात् । न हि संसारी मुक्तिगततारतम्योपेतः । द्वितीये अपिपदवैयर्थ्यम् । प्राक्तनतारतम्योपेतत्वेन सिद्धसाधनता च । तृतीयेऽपि दृष्टान्तस्य साध्यविकलतैव । तारतम्योपेतत्वं च हीनाधिकसद्भावो वान्यतरसद्भावो वा आद्ये परमेश्वरेऽनैकान्त्यम् । द्वितीये सिद्धसाधनता । मुक्तानामपि अमुक्तेभ्योऽधिकत्वस्य परेणाङ्गीकृतत्वात् । मुक्ताधिकत्वसाधने देवदत्ते व्यभिचारः तत् कथमेतत् ।

उच्यते । मुक्तास्तदानीन्तनेन परस्परं तारतम्येनोपेताश्चेतनत्वात्संसारिणो यथेत्ययमर्थोऽत्र विवक्षितः । तारतम्यं च कुतश्चिद्धीनत्वं कुतश्चिदधिकत्वमित्येतयोरन्यतरदिति नोक्तदोषः । सामान्यस्य च विशेषनिरासेनापाकरणे चातिप्रसङ्गः । यद्वा मुक्तयुत्तरक्षणवर्ती मुक्तः प्राग् यतोऽधिकत्वहीनत्वाभ्यामुपेतस्वरूपोऽभूदिदानीमपि ताभ्यामुपेत इति प्रतिज्ञार्थो वर्णनीयः । सामान्यत एव व्याप्तिरभिधातव्येति ।

६५सु०- आभासानुद्धरति इत्युक्त इति ।

अनु०-इत्युक्त उत्तरं किं ते

उक्ते प्रयुक्ते । व्याप्तिपक्षधर्मत्वयोः प्रमितत्वान्न किमप्युत्तरमस्तीति भावः । बाधितविषयमनुमानमित्यत आह कल्पनेति ।

अनु०-कल्पनामात्रवादिनः

कल्पनामात्रेण वदतीति तथोक्तः । पूर्वेणैव सम्बन्धः । श्रुतीनामन्यार्थत्वात् प्रमाणान्तरस्य चाभावात् स्वोत्प्रेक्षयैव मुक्तानां तारतम्याभावं वदतस्तवोत्तरं किमिति ।

यद्येवमनुमीयेत तदा मुक्ता दुःखाद्युपेताः चेतनत्वात् संसारिवदित्यप्यनुमीयेतेत्यतिप्रसङ्गपराहतमनुमानमित्यत आह न चेति ।

अनु०-न च दुःखादिकं कल्प्यं

कल्प्यं अनुमेयं मुक्तस्य । आदिपदेनापरिपूर्णानन्दत्वादेः सङ्ग्रहः । कुत इत्यत आह निर्दुःखत्वेति ।

अनु०- निर्दुःखत्वश्रुतेर्बलात्

अत्राप्यादिपदं ग्राह्यम् । अयमभिसन्धिः । समानयोगक्षेमत्वाभिप्रायेण खल्वयमतिप्रसङ्गो वाच्यो नान्यथा व्याप्त्यभावात् । न च प्रकृते तदस्ति । दुःखादिसाधकस्य निर्दुःखत्वादिकं प्रतिपादयन्त्या श्रुत्या बाधितत्वात् । श्रुतेरपौरुषेयत्वेन धर्मिग्राहकत्वेन चानुमानतो बलवत्त्वात् । तारतम्यानुमानस्य चाबाधितत्वादिति ।

६६सु०- एतदेव विवृण्वन्मुक्तस्य निर्दुःखत्वादि प्रतिपादयन्तीः श्रुतीस्तावत्पठित्वा तासां तात्पर्यमाह शोकमिति ।

अनु०-शोकं तरत्यात्मवेत्ता तीर्णः सर्वानदुःखभाक् ।येनानन्द्येव भवति न शोचति कदाचन ।किल्बिषस्पृत्पितुषणिररं हित इहेश्वरः ।यं यमन्तमभिप्रेप्सुः स सङ्कल्पाद्भवेदिह ।इत्यादिश्रुतयो मानं निर्दुःखत्वादिसम्पदि ।

अनेन तरति शोकमात्मविदिति श्रुतिमुपादत्ते । वेत्ता वेदिता । विचारणार्थस्य विन्दतेर्वा रूपमेतत् । तीर्णाः सर्वानित्यनेन तीर्णो हि तदा सर्वाञ्छोकानिति । अदुःखभागित्यनेन नानानन्दं कञ्चिदुपस्पृशतीति । येनेत्यनेन तद्वै जैवं मनो येनानन्द्येव भवतीत्यथो न शोचतीति । एवशब्देन शोकाभावे लब्धेऽपि यत्पुनः न शोचती त्युक्तं तस्याभिप्रायः कदाचनेति ।

किल्बिषस्पृदित्यनेन सर्वे नन्दन्ति यशसाऽऽगतेन सभासाहेन सख्या सखायः । किल्बिषऽस्पृत्पितुषणिर्ह्येषामरं हितो भवति वाजिनाये ति मन्त्रम् (ऋ. १०७११०) परस्परं सखायः सर्वे मुक्ता आगतेन स्वागतेन यशसा (यशस्वता) (शस्विना) सभां सहत इति सभासहः कर्मण्यण् । तेन सख्या परमेश्वरेण निमित्तेन नन्दन्ति । कथम् । हि यस्मादीश्वर एषां मुक्तानां किल्बिषस्पृद् । दुःखं न सहते । स्पर्धतेरर्थे स्पृधेति धात्वन्तरं ततः क्विप् । पितुषणिः अन्नस्य दाता । अन्नं वै पितुरिति श्रुतेः । षणु दाने । अस्मादिकारप्रत्ययः । अर(मलं)मत्यर्थम् । वाजिनायेन्द्रियाय हितो भवति । इन्द्रियं वै वाजिनमिति श्रुतेः । इह मुक्तविषये । यं यमित्यनेन

यं यमन्तमभिकामो भवति सोऽस्य सङ्कल्पादेव भवतीति । अन्तं स्थानम् । इह मुक्तौ । निर्दुःखत्वादिसम्पदि मुक्तानाम् ।

६७सु०- ततः किमित्यत आह अत इति ।

अनु०-अतो दुःखाद्यनुमया नावकाशोऽत्र लभ्यते

श्रुतिबाधितत्वादित्यर्थः । अत्र मुक्तेषु । मुक्ता दुःखाद्युपेता इति प्रतिज्ञायाः स्वव्याहतत्वाच्चेत्यपि द्रष्टव्यम् । ततोऽपि किमित्यत आह तारतम्येति ।

तारतम्यानुमा तस्माद्भवेन्नातिप्रसङ्गिनी

तस्मात् बाधाभावेन समानयोगक्षेमत्वाभावात् ।

६८सु०- मुक्ततारतम्यसाधनमुपसंहरति श्रुतीति ।

अनु०- श्रुतियुक्तिबलादेव तारतम्यं विभाव्यते ।मुक्तावपि ततः केऽत्र विरोधं कर्तुमीशते ।

विभाव्यते सम्यगनुभूयते । के वादिनो न केऽपि । अत्र मुक्ततारतम्यविषये ।।

।। इति कामचाराधिकरणम् ।। ३४४ ।।

न्यायसुधा

।। अथ उभयलिङ्ग-आधिकारिकाधिकरणे ।।

सु०-

ब्र०सू०- ॐ सर्वथाऽपि तु त एवोभयलिङ्गात् ॐ ।।

ॐ न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॐ ।।

६९सु०- अत्र प्रथमाधिकरणेऽनादिज्ञानयोग्यतावतामेव ज्ञानप्राप्तिर्नान्येषामित्युक्तम् । द्वितीये च देवतादिपदप्राप्तिरनादितद्योग्यतोपेतानामेव नेतरेषामित्यभिहितम् । सेयं जीवानां नानाविधानादियोग्यता प्रसिद्धैस्तैस्तैः कारणैरुत्कर्षापकर्षप्राप्तिर्भवतीति वददि्भः वादिभिः नाभ्युपगम्यते अतः तां साधयितुमाह अनादीति ।

अनु०-अनादियोग्यतां चैव कलिवाणीश्वरावधिम् ।को निवारयितुं शक्तो युक्तयागमबलोद्धताम् ।

न केवलं मुक्तानां तारतम्यमिति चार्थः । अनेन मुक्ततारतम्यस्यापीदं साधकमित्युक्तं भवति । अनादेर्नित्यत्वात् । एवशब्दस्य क एवेति सम्बन्धः । कलिवाणीश्वराववधी यस्याः

सा तथोक्ता । योग्यतापकर्षपरम्परायाः कलिरवधिस्तदुत्कर्षपरम्पराया वाणीश्वरः । उद्धतां अप्रतिहताम् । कथं युक्तयागमसिद्धेत्यत आगमानां सावकाशत्वाभिमानेन युक्तावेव बहुमानवन्तं प्रत्यादौ तामाह ब्राह्मण इति ।

अनु०-ब्रह्मणोऽन्यत आधिक्ययुक्तः कालो विवादवान् । कालो ह्ययं यथेत्यादि माऽनुमामानिनो भवेत् ।

वर्तमानकाले ब्रह्मा सर्वाधिक इति सम्प्रतिपन्नम् । अतो विवादवान्विवादविषयः काल इत्युक्तम् । वर्तमानमहाकल्पव्यतिरिक्तोऽतीतोऽनागतश्च काल एतस्य ब्रह्मणो यदन्यत आधिक्यं तेन युक्तः । कालो हीति कालत्वादित्यर्थः । अयं वर्तमानः कालो यथा । आदिपदेनायं ब्रह्मातीतादिकालेऽप्यन्यतोऽधिको ब्रह्मत्वात् तत्कालवर्तिब्रह्मवदित्यादेः सङ्ग्रहः । अनुमामानिनोऽनुमायां बहुमानवतो बोधाय प्रयोक्तव्या भवेत् । अनुमामानिनः प्रतीतिं वा; ब्रह्मगतेनाधिक्येन कालस्य सम्बन्धाभावात् कथमनुमानमिति चेन्न । परम्परासम्बन्धेनानुमानप्रामाण्यवादिभिरयं कालो वेदव्यतिरिक्तेदानीन्तनत्वरहितपौरुषेयवानित्याद्यनुमानप्रवृत्तेः अङ्गीकृतत्वात् । तदिदमुक्तम् अनुमामानिन इति । ब्रह्मणः पदाद्यभावकालेऽपि सर्वोत्कर्षसिद्धौ योग्यतैव सर्वोत्कृष्टानादिनित्या सिद्धा भवति ।

७०सु०- स्यादेतत् । प्रमाणबाधितेयं प्रतिज्ञा । दृष्टान्तश्च साध्यविकलः । अन्यशब्दो ह्ययं प्रकरणाद्ब्रह्मव्यतिरिक्तं सर्वमाह । तत्र हरेर्महालक्ष्म्या ऋजुभ्यश्चाधिक्यं ब्रह्मणः कालत्रयेऽपि नास्ति । हरेः श्रियश्चाधिकत्वेन ऋजूनां समत्वेन प्रमितत्वादित्यत आह अन्यशब्द इति ।

अनु०-अन्यशब्दो हरिश्रीस्वसमेभ्योऽन्यविवक्षया ।प्रयुक्तो नैव दोषाय

स्व शब्देन ब्रह्मोच्यते । स चावर्तनीयः । स्वश्च स्वसमाश्चेति । यदा वक्ता स्वविवक्षां स्वयमेव व्याख्याति काऽत्र प्रकरणाद्यपेक्षा । तदभावे तस्योपयोगात् । कथायां तु व्यक्तमेव वक्तव्यम् । अन्यथा प्रतिज्ञान्तरादीनामप्येवं परिहारप्रसङ्गात् । नैव दोषाय बाधादिहेतुर्नैव भवति ।

७१सु०- उक्तन्यायमन्यत्राप्यतिदिशति रुद्रादिषु चेति ।

अनु०- रुद्रादिषु च युक्तितः

अनयैव रीत्या रुद्रादिषु अपि सा अनादियोग्यता युक्तया साधनीया इत्यर्थः । विमतः कालोऽस्य रुद्रस्येश्वरादिव्यतिरिक्ताद्यदाधिक्यं तेन युक्तः कालत्वादेतत्कालवदित्यादि ।

(ननु) मुक्तास्तावत् सर्वेऽपि ब्रह्मणोऽधिकाः तेषां मुक्तत्वादस्य संसारित्वात् । अतोऽन्यशब्दव्याख्याने तेऽपि कुतो न गृह्यन्त इत्यत आह उत्तमत्वं त्विति ।

अनु०-उत्तमत्वं तु मुक्तानामपि न ब्रह्मणो भवेत्

अतस्तदग्रहे न दोष इति शेषः । तत्कथमित्यत आह व्यक्तिरिति ।

अनु०-व्यक्तिः सुखस्य तु भवेन्न त्वाधिक्यं सुखस्य च

आद्यस्तुशब्दोऽवधारणार्थः । व्यक्तिरेवेति सम्बध्यते । चशब्दो गुणान्तरसमुच्चयार्थ उभयत्रान्वेति । प्राग्विद्यमानस्यैव स्वरूपसुखादेर्मुक्तावविद्याद्यावरणापायेन व्यक्तिरनुभवलक्षणा भवेन्न तु किमप्यधिकमुत्पद्यते । तथा सत्यनित्यत्वप्रसङ्गात् । न च ब्रह्मणः स्वरूपादितरेषां स्वरूपमधिकम् । न च निर्णिक्तं कांस्यमनिर्णिक्तात्सुवर्णादधिकं भवति ।

एतेन मुक्तत्वहेतुरपि प्रत्युक्तः ।

७२सु०- न केवलं मुक्तानां ब्रह्मणोऽधिकत्वं नास्ति किं तर्हीत्यत आह बलेति ।

अनु०-बलज्ञानाधिकत्वं तु तेभ्यो हि ब्रह्मणः सदा

गुणान्तरोपलक्षणमेतत् । सदा संसारे मुक्तौ च । एतेन समशब्देनापि तत्परिग्रहो निरस्तः ।

७३सु०- नन्वेवमनुमाने विमतः कालोऽस्य राज्ञः सम्प्रतिपन्नाधिक्येन युक्तः कालत्वात् सम्प्रतिपन्नकालवदित्यनुमानप्रसङ्ग इत्यत आह आधिक्यस्येति ।

अनु०-आधिक्यस्य त्वनित्यत्वे न किञ्चिन्मानमीयते

ब्रह्मण इति शेषः । अनित्यत्व इति सादित्वस्याप्युपलक्षणम् । तु शब्दो राजाद्याधिक्यस्य व्यावर्तकः । बाधकभावाभावाभ्यां विशेषान्नातिप्रसङ्ग इति भावः ।

७४सु०- एवं ब्रह्मादिजीवेष्वनादिनित्यां नानाविधां योग्यतां प्रसाध्येदानीमागमेनापि साधयन्नादौ तावत् श्रुतीः पठति शृण्वे वीर इति ।

अनु०-ृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः ।एधमानद्विलुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ।

वीरः अध्यवसितान्तगामी । इन्द्रः परमेश्वरः । उग्रमुग्रं सर्वान्दुष्टप्रकृतीन्दमयन् नित्यनरकं प्रापयन् अन्यमन्यं सर्वान् सत्स्वभावान् अतिनेनीयमानः संसारं भृशमतिक्रामयन् । स्वयोग्यतातिरेकेणैधमानं द्वेष्टीति एधमानद्विट् । ृण्वे श्रूयते । कुत उभयस्य देवतासुरवर्गस्य राजा यतः । किञ्च मनुष्यान् विशः प्रजाः चोष्कूयते नित्यं परिवर्तयति ।

परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति ।अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति ।

परा पूर्वेषाम् । अतीतमन्त्रे पूर्वेषां पूर्वनिर्दिष्टानामुग्राणां सख्या सख्यानि परावृणक्ति परित्यजति । अपरेभिः अपरैः साधुभिः सह सख्यानि वितर्तुराणो ऽतिशयेन त्वरमाण एत्य अनानुभूतीः सम्यगनुभवरहितान् अवधून्वानः अवमे संसारे वर्तयन् इन्द्रः पूर्वीः शरदः अतीतान्संवत्सरांस्तीर्णो वर्तमानांश्च तर्तरीति । आगामिनश्च तरिष्यतीति ।

अत्र मन्त्रद्वये असुराणामनादितो भगवद्भजनाभावो नित्यनरकावाप्तिश्च श्रूयते । देवानां सदा भगवद्भजनं मोक्षावाप्तिश्च । मनुष्याणां सर्वदा संसार इति ।

अनु०-दिवे दिवे सदृशीरन्यमर्धं कृष्णा असेधदपसद्मनो जाः ।अहन् दासावृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ।

दिवे दिवे वर्षणाद् वृषभः परमेश्वरो दिवे दिवे सर्वदा सदृशीः चेतनत्वमात्रेण कृष्णाः तमोमयीः जाः प्रजाः कास्ता देवेभ्यः अन्यमर्धं स्वीयात्सद्मनोपासेधत् । निवर्तयति । किञ्च दासौ दस्यू वस्नयन्तः जगच्छायदन्तौ वर्चिनं शम्बरं चोदव्रजे जलराशौ समुद्रतीरे अहन् हिंसितवानिति । अत्र दैत्यानां कदाऽपि न मोक्ष इति प्रतीयते ।

अनु०-तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाऽप्येतर्हि सुप्तो भूर्भूरित्येव प्रश्वसित्यभूतिरित्यसुरास्ते ह पराबभूवुः । तद्यथा पेशस्कारी पेशसो मात्रामुपादायान्यन्नवतरं कल्याणतरं रूपं तनुते । एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वा अन्यन्नवतरं कल्याणतरं रूपं कुरुते । पित्र्यं वा गान्धर्वं वा दैवं प्राजापत्यं वा ब्राह्मं वाऽन्येषां भूतानाम् ।

तं भूतिरिति । तं परमेश्वरम् । भूतिः ऐश्वर्यरूपः । बभूवुः मुक्ता इति शेषः । एतर्हीदानीं सुप्तः सुप्तस्थो वायुः । पराबभूवुः नित्यनिरयं प्राप्ताः । अत्र देवासुराणां सम्यग्विपरीतोपासनाभ्यां मोक्षतमसोः प्राप्तिः श्रूयते । तेन देवत्वमसुरत्वं च सहजमिति ज्ञायते । तद्यथा तद्वक्ष्यमाणं निदर्शनं यथा । पेशस्कारी सुवर्णकारः पेशसः सुवर्णस्य मात्रां अंशम् । अन्यदिव नवतरं प्रागननुभवात् । कल्याणतरं मलापकर्षात् । रूपं रुचकादिकम् । आत्मा परमात्मा । अन्येषां भूतानां मनुष्योत्तमानाम् । अत्र सुवर्णस्यैव यथा रुचिकादिभावः सुवर्णकारेण क्रियते न यस्य कस्यचिद्द्रव्यस्य तथा मुक्तियोग्यानामेवेश्वरेण मुक्तत्वं क्रियते नान्येषामिति प्रतीयते ।

७५सु०- अधुना अत्रैव स्मृतीः पठति प्रयान्तीति ।

अनु०-प्रयान्ति परमां सिदि्धमैहिकामुष्मिकं द्रुतम् ।या न प्राप्याऽसुरैः सर्वैरक्षय्या क्लेशवर्जिता ।न तां गतिं प्रपद्यन्ते विना भागवतान्नरान् ।

पुरा सत्ये युग इति प्रकृतानां देवतास्वभावानां प्रयान्ती त्यनेन मोक्षादिफलप्राप्तिमुक्तवा या न प्राप्ये त्यसुराणां न तां गति मिति मनुष्याणां च कदाचित् तत्प्राप्तिर्नास्तीत्युच्यते ।

अनु०-अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।परं भावमजानन्तो मम भूतमहेश्वरम् ।मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ।

अवजानन्ती त्यनेन भगवदवज्ञादिलक्षणराक्षसादिस्वभाववतां कदाऽपि पुरुषार्थावाप्तिर्नास्तीति कथ्यते । प्रकृतिः स्वभावः ।

अनु०-महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ।

महात्मान इत्यत्र भगवद्भजनादिलक्षणदेवत्वं स्वभाव इति प्रतीयते ।

अभयं सत्त्वसंशुदि्धर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ।। अहिंसा सत्यमक्रोधस्त्यागश्शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ।। तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति सम्पदं दैवीमभिजातस्य भारत ।। दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ।।

अभयमि त्यनेन अभयादिलक्षणं देवत्वं दम्भादिलक्षणं चासुरत्वं स्वभाव एवेति ज्ञायते ।

अनु०-मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ।तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु । आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ।

मामात्मे त्यनेन असुरस्वभावानां अन्धतमसावाप्तिपर्यवसानमभिधीयते ।

द्विविधो भूतसर्गोऽत्र दैव आसुर एव च । विष्णुभक्तिपरो दैवो विपरीतस्तथाऽऽसुरः ।। देवानां परमो धर्मः सदा यज्ञादिकाः क्रियाः। स्वाध्यायस्तत्त्ववेदित्वं विष्णुपूजा रतिः स्मृतिः ।। दैत्यानां बाहुशालित्वं मात्सर्यं युद्धसत्क्रिया । नीतिशास्त्रप्रवेदित्वं शिवपूजा रतिः स्मृतिः ।। वर्णाश्रमाचारवत्त्वं स्वाध्यायो भक्तिरच्युते । शिवे सूर्ये तथा देव्यां स्वभावो मानुषः स्मृतः ।। अनादिवैष्णवा एव देवतास्तु स्वभावतः । विपरीताः स्मृता दैत्याः सदैवानादिकालतः । मानुषा मिश्रमतयो विमिश्रगतयोऽपि च ।

द्विविध इति स्पष्टं देवासुरत्वयोः स्वभावत्वमाख्यायते । सर्गशब्दस्य स्वभाववाचित्वात् । द्विविध एवेति सम्बन्धः । सर्गाणां सुबहुत्वेऽपि शुभाशुभफलाधिकौ । देवासुराख्यौ द्वावेव गन्धर्वाद्यास्तदन्तरा इति वचनादवधारणोपपत्तिः ।

स्वभाव इत्येतद्देवानां दैत्यानामित्यत्रापि सम्बध्यते ।

परमो धर्म इति यज्ञादिकानां क्रियाणां विशेषणम् । भगवदर्पणादिना परमधर्मरूपयज्ञादिकाः क्रिया इति । रतिः स्मृतिश्च विष्णोः शिवस्य चेति शेषः । बाहुशालित्वमित्यस्थाने बाहुबलप्रयोगोऽभिप्रेयते ।

युद्धसत्क्रिया युद्धकौशलम् ।

वर्णाश्रमेति तदनुष्ठानमात्रपर्यवसायित्वमाचष्टे । अच्युतादौ साम्येन भक्तिरित्यर्थः ।

अनादीति स्पष्टम् ।

अनादित्वादेव स्वभावतः अनादिकालत इत्येतत् मानुषा इत्यनेन सम्बध्यते । मिश्रमतयः सम्यगसम्यग्ज्ञानाः । विमिश्रगतयः सुखदुःखात्मकसंसारफलाः । देवादीनामप्येवं फलं ज्ञातव्यम् ।

श्रुतिस्मृत्युदाहरणफलं दर्शयति इत्यादीति ।

अनु०- इत्यादिवाक्यसन्दर्भैर्ज्ञायतेऽनादियोग्यता

सन्दर्भैरि त्यतिबहूनि वाक्यान्यत्रार्थेऽन्यत्रोदाहृतानि द्रष्टव्यानीति सूचयति ।

७६सु०- उक्तानामनुमानां व्याप्त्यवधारणाद्यर्थमागमानां चान्यार्थव्याख्याननिरासार्थमनुग्राहकं तर्कमाह यदीति ।

अनु०-यद्यनादिविशेषो न साम्प्रतं कथमेव सः

विशेषः स्वरूपगतो योग्यतालक्षणोऽतिशयः । स विशेषः परिदृश्यमानोऽतिशयः ।

एतदुक्तं भवति । यदि हिरण्यगर्भस्यानादिः सर्वोत्कृष्टो योग्यतालक्षणो विशेषो न स्यात् तदसाम्प्रतं दृश्यमानं सर्वोत्कृष्टत्वं न स्यात् । तस्यैतद्बीजत्वात् । कारणाभावे च कार्याभावस्य नियतत्वात् । अन्यथा सर्वेषामपि सर्वोत्कृष्टत्वापत्तेः । एवमन्यत्रापि वक्तव्यमिति ।

७७सु०- ननु ब्रह्मादीनां योग्यतालक्षणाऽनादिविशेषाभावेऽपि सादिनो विशिष्टादृष्टादेव सर्वोत्कृष्टत्वादिकं भविष्यति । तथा च स्मृतिः स्वधर्मनिष्ठः शतजन्मभिः पुमान्विरिञ्चतामेती त्यादिकेति चेत् । अत्र वक्तव्यम् । किं तद्विरिञ्चस्य सर्वोत्कर्षबीजं विशिष्टमदृष्टं ततः प्राक्तनतथाविधमदृष्टमनपेक्ष्यैव जायते । उतापेक्ष्येति । आद्यं दूषयति अदृष्टादेव चेति ।

अनु०-अदृष्टादेव चादृष्टं स्वीकृतं सर्ववादिभिः

तानि तानि द्रव्यादीनि खल्वदृष्टोत्पत्तौ निमित्तानि श्रुतिस्मृतिभ्यामुपलभ्यन्ते । तत्सम्पत्तिश्चादृष्टनिमित्तैव । तस्मान्न केवलं फलं किन्नाम उत्तरोत्तरम् अदृष्टं च पूर्वपूर्व अदृष्टाद् भवतीति चार्वाकव्यतिरिक्त सर्ववादिभिः स्वीकृतम् । अतः सर्वोत्कर्षहेतोर्विशिष्टादृष्टस्य तथाविधप्राक्तनादृष्टानपेक्षोत्पत्तिकत्वाभ्युपगमे अपसिद्धान्तः स्यात् । भवतु अन्येषां वादिनामित्थं सिद्धान्तो मम तु सर्वोत्कर्षादिफलोत्पत्तावेव विशिष्टादृष्टापेक्षा न तु तदुत्पत्तावपीति । यद्वा यद्विरिञ्चस्य सर्वोत्कर्षनिमित्तं विशिष्टमदृष्टं तस्य तथाविधादृष्टकार्यत्वेऽपि तस्य नादृष्टकार्यत्वमिति ।

७८सु०- सर्वस्यापि प्रवाहस्य तथात्वे हि भवतामिष्टसिदि्धरिति वदन्तं प्रत्यतिप्रसङ्गमाह आकस्मिक इति ।

अनु०-आकस्मिको विशेषश्चेददृष्टे क्वचिदिष्यते ।सर्वत्राकस्मिकत्वं स्यान्नादृष्टापेक्षता भवेत् ।

क्वचिद्विरिञ्चोत्कर्षहेतौ तद्धेतौ वा अदृष्ट े विशेषोऽतिशयो यद्याकस्मिकोऽदृष्टनिरपेक्ष एव इष्यते, यदि किमपि विशिष्टमदृष्टं तथाविधादृष्टनिरपेक्षमेवोत्पद्यते इत्यङ्गीक्रियत इति यावत् । तर्हि सर्वत्र फलादावप्याकस्मिकत्वमङ्गीकार्यं स्यादविशेषात् । आपाद्यं विवृणोति नेति ।

सर्वत्रेत्यनुवर्तते । यद्येवं न विव्रीयेत तर्हि परेणादृष्टस्य निष्कारणताया अनङ्गीकृतत्वादसङ्गतोऽयं प्रसङ्गः स्यात् । एवमेवापादकमपि व्याख्येयमिति भावः ।

अस्तु विरिञ्चोत्कर्षस्याप्यदृष्टानपेक्षतेति चेन्न । प्राग्भवीयस्य दृष्टकारणकलापस्य नष्टत्वेन निष्कारणतापातात् । किञ्च विशिष्टो दृष्टकारणकलापोऽपि तस्य कुत इति वाच्यम् । निर्निमित्तश्चेदतिप्रसङ्गः । स्वभावनिमित्तश्चेत्सिद्धं नः समीहितम् । एतेन दृष्टव्यापारपरितुष्टादीश्वराद्विरिञ्चस्य सर्वोत्कर्षसम्पत्तिरित्यपि निरस्तम् । अनादियोग्यताऽपरिहारादिति ।

७९सु०- अस्तु तर्हि द्वितीयः पक्ष इति तत्राह अदृष्टाच्चेदिति ।

अनु०-अदृष्टाच्चेद्विशेषोऽयमनादित्वं कुतो न तत्

भवतीति शेषः । विशिष्यत इति विशेषः विशिष्टमदृष्टमित्यर्थः । अयं इति विरिञ्चस्य सर्वोत्कर्षहेतुः । अनादित्वं तथाविधादृष्टपरम्परायाः । अनादियोग्यतावत्त्वमिति च । तत् तर्हि । इदमुक्तं भवति । यथा विरिञ्चस्य सर्वोत्कर्षे कारणं विशिष्टमदृष्टं तथा(विधादृष्टपूर्वकं)विधपूर्वादृष्टहेतुकम् । तथा तदपि तदपीति स्वीकार्यम् । समानन्यायत्वात् । तथा च अनादिविशिष्टादृष्टप्रवाहाश्रयत्वं तस्यैव कुत इत्यनुयोगस्य नान्यदुत्तरमनादेर्विशिष्टस्वभावात् । तत्तत्फलप्राप्त्युपाययोः प्रयत्नादृष्टयोरागन्तुकयोर्बीजभूतोऽनागन्तुकस्वभावविशेष एव अनादियोग्यता उच्यते । यथोक्तम् । स्वभावाख्या योग्यता या हठाख्ये त्यादि । अतः सिद्धा ब्रह्मादिकलिपर्यन्तेषु जीवेष्वनादियोग्यतेति ।

८०सु०- भगवान्निर्दोष इति यत्प्रागुक्तं तत्समर्थनार्थमुत्तरो ग्रन्थः । ननु न स्थानतोऽपी त्यादिनैव समर्थितमेतत् । सत्यम् । युक्तयादिना प्राप्तं सदोषत्वं तत्रापाकृतम् । अत्र तु प्रत्यक्षप्राप्तमिति भेदात् । एतदपि तत्रैव कुतो न दूषितमिति चेत् । विश्वादिषु प्रत्यक्षस्याप्रवृत्तेः । प्रासङ्गिकं तु निराकरणं तत्र वा अत्र वा न कश्चिद्विशेषः । प्रागुक्तार्थप्रपञ्चश्च अत्र अनुभाष्यकृता क्रियते । मुक्ततारतम्यादेः प्रपञ्चनात् । अतोऽत्रैव निर्दोषताप्रपञ्चनं युक्तम् । किञ्चात्र ज्ञानस्वरूपनिरूपणं भविष्यति तत्प्रसङ्गश्च ज्ञानपादे समुचितः ।

अपि च न भगवत्साक्षात्कारमात्रेण अशेषपुरुषार्थप्राप्तिः किन्तु निर्दोषाद्भगवद्दर्शनादित्युक्तम् । तच्चानेन निर्दोषभगवद्दर्शनमुपदर्शितं भवति । तर्हि तत्रैवायं ग्रन्थसन्दर्भः कुतो न निवेशित इति चेत् । देवदानवमानवस्वभावप्रपञ्चनस्यात्रोपयुक्तत्वेन तदानन्तर्योपपत्तेः । तथा च वक्ष्यामः ।

८१सु०- इदमत्र शङ्क्यते । रामकृष्णादयो भगवदवतारा भगवताऽत्यन्ताभिन्ना इति तावत्समर्थितम् । तेषां च परस्परं भेदस्तत्कालवर्तिनां पुरुषाणां प्रत्यक्षेण दृश्यते । न च ते देहवन्त इति चोक्तम् । ततो देहगत एव भेद इत्यनवकाशम् । ततश्च सर्वेषां स्वातन्त्र्यानुपपत्तेः । केषाञ्चित्पारतन्त्र्यम् । एवमन्येऽपि भेदानुषङ्गिणो दोषा द्रष्टव्याः । समानन्यायत्वात् । वेधादिदोषाश्च प्रत्यक्षेणेक्ष्यन्त इति न भगवतो निर्दोषत्वमिति । तत्र तावद्भेदस्य प्रत्यक्षसिद्धतां निराकर्तुमागमवाक्यं पठति न चेति ।

अनु०-न चान्यभेदवद्विष्णौ भेदस्तद्दर्शिनामपि ।दृश्यते

चः अवधारणे । अन्यभेदवत् इति व्यतिरेकदृष्टान्तः । अन्येषां घटादीनां यथाऽनेकत्वातिरिक्तोऽन्योन्याभावलक्षणो भेदो दृश्यते न तथेति । विष्णौ भेदो दृश्यत इत्येवोक्तेऽनेकत्वस्याप्यदर्शनं प्रतीयेत तदर्थमिदं वचनम् । यद्वा यथा विष्णावन्यप्रतियोगिको भेदो दृश्यते न तथा स्वप्रतियोगिक इति योजना । अन्यथा घटादिप्रतियोगिकोऽपि भेदो न दृश्यत इत्यपि प्रतीयेत । अथवाऽन्यप्रतियोगिकभेदवति विष्णावित्यैकपद्येन व्याख्येयम् । प्रयोजनं तूक्तमेव ।

विष्णौ रामकृष्णादिरूपे । अधुनातनैर्भेदो न दृश्यत इति परस्यापि सम्मतम् । अतः तद्दर्शिनामपि इत्युक्तम् । तृतीयार्थे षष्ठी । अवतारदर्शिभिरपीत्यर्थः । तद्दर्शिनां प्रत्यक्षेणापीति वा । स्वभावत एव जीवास्त्रिविधाः । देवदानवमानवभेदात् । तत्र दैवं प्रत्यक्षं तावदवताराणां परस्परं न भेदं गोचरयतीति भावः ।

८२सु०- न केवलमेतावत्किं तर्हीत्यत आह प्रत्यभिज्ञैवेति ।

अनु०- प्रत्यभिज्ञैव बहुरूपेषु दृश्यते

उत्तमानां पुरुषाणां भगवतो बहुरूपेषु तदेवेदमित्यभेदविषया प्रत्यभिज्ञैव पुराणादौ दृश्यते । यथा जाम्बवतः स राम एवायं कृष्ण इति प्रत्यभिज्ञा । तथा च कुतो भेदज्ञानस्यावकाश इति भावः ।

ननु बहुत्वं भेदेन विनाऽनुपपद्यमानं तमाक्षिपति । तथा च बहुरूपेषु प्रत्यभिज्ञा न सम्भवत्येव । सम्भवन्ती वा भ्रान्तिः स्यादित्यत आह बहुत्वं चेति ।

अनु०-बहुत्वं च विशेषेण

भगवद्रूपाणामिति शेषः । अन्यथोपपत्तिकुण्ठितार्थापत्तिः न भेदं प्रमापयतीत्यर्थः । अन्यथाऽप्युपपत्तिपक्षे भेदसन्देहः स्यात् सोऽप्यनिष्ट इत्यन्यथैवोपपत्तिं सूचयति न भेदेनेति ।

अनु०-न भेदेन कथञ्चन

उपपद्यत इति उभयत्र शेषः । कुतः । भगवद्रूपाणां भेदे निरवकाशप्रमाणाभावात् तद्विरोधाच्च । तदिदमाह कथञ्चनेति ।

८३सु०- एवमुत्तमानां पुंसां भगवदेकरूपदर्शनसमये रूपान्तरप्रतीतावसत्यां ततो भेदज्ञानमसम्भावितम् । प्रतियोगिज्ञानाभावे भेदज्ञानाभावस्य नियतत्वात् । सत्यामपि तथा विरोधिन्याः प्रत्यभिज्ञाया भावादित्युक्तम् । तथाऽपि मध्यमादिजनानां प्रत्यक्षं भगवद्रूपभेदे प्रमाणं भविष्यति । एकरूपदर्शनसमये रूपान्तरप्रतीत्यभावे भेददर्शनानुपपत्तावपि तद्भावे सम्भवत्येव । न च तेषामपि प्रत्यभिज्ञा भवदि्भरभ्युपेतुं शक्यते । उत्तमत्वप्रसङ्गात् इत्यतो मध्यमानपेक्ष्य तावदाह प्रत्यभिज्ञा चेति ।

अनु०-प्रत्यभिज्ञा च येषां न तेऽपि तन्मुष्टदृष्टयः

च स्त्वर्थः । येषां तु मध्यमानां जनानां प्रत्यभिज्ञा भगवद्रूपेषु नास्ति तेऽपि तत्र भेदं नैव पश्यन्तीति योजना । प्रत्यभिज्ञाभावे कारणं तेन भगवता मुष्टापहता दृष्टिरेषामिति । तेन बहुत्वेनेति वा । भगवदिच्छया तेषां योग्यतया चोपोद्बलितं बहुत्वमुपलभ्यमानं प्रतीयमाने(ऽपि) वस्तुनि विद्यमानस्याप्यभेदस्य ज्ञानं प्रतिबध्नाति । अत्र तन्मुष्टदृष्टयस्तेऽपीत्यनुवादात् तन्मुष्टदृष्टित्वात् प्रत्यभिज्ञैषां नास्तीति लभ्यते ।

८४सु०- भगवद्रूपे भेदं नैव पश्यन्तीत्युक्ते घटादिभ्योऽपि भेदं न पश्यन्तीति मन्दस्य प्रतीतिः स्यात् तां निवारयितुमाह भेदमिति ।

अनु०-भेदं नैव प्रपश्यन्ति भेदमन्येभ्य एव च ।पश्यन्त्येवं हरिस्तेषां सन्दर्शयति नान्यथा ।

अन्येभ्यो भेदं पश्यन्त्येव चेति योजना ।

ननु प्रतीयमानं वस्तुद्वयं भेदेन वा प्रतीयतेऽभेदेन वा । भेदाभेदोदासीनतया तु प्रतीतिः कथमित्यत आह एवमिति ।

अनु०-एवं बृहत्संहितायां वचनं

तेषां योग्यतयेति शेषः । अन्यथा गतिबुद्धीत्यादिना कर्मसंज्ञायां द्वितीया स्यात् । विभक्तिव्यत्ययो वा छान्दसः । अन्यथा भेदेनाभेदेन च दर्शयति ।

यथा खल्वख्यातवादिनां सहकारिसामर्थ्याद्भेदाभेदौदासीन्येन वस्तुप्रतीतिः । यथा वाऽन्येषां शुक्तिकाशकलदर्शनानन्तरं व्यासक्तौ । तथा परमेश्वरशक्तयाऽत्रापि तथा प्रतीतौ को विरोधः । अधमजीवप्रत्यक्षस्य त्वन्या गतिर्भविष्यति ।

एवमीश्वररूपभेदे प्रत्यक्षं निराकुर्वता अनुमानमपि निराकृतम् । बहुत्वस्य अन्यथासिद्धेरुक्तत्वात् । तन्न्यायेन चाकारविशेषादीनामन्यथासिद्धत्वादिति ।

वचनम् अस्तीति शेषः ।

८५सु०- मा भूद्भगवद्रूपभेदः प्रत्यक्षानुमानसिद्धः । आगमसिद्धस्तु भविष्यति । पुराणेषु तत्र तत्र अन्यादिशब्दश्रवणादिति चेन्न । नेह नानाऽस्ति किञ्चने त्यादिवेदवाक्यविरोधात् । पुराणमेव वेदस्य किन्न बाधकं भवतीत्यत आह नेति ।

अनु०-न पुराणगम् ।लोकदर्शनवाद्येव वेदरोधाय शक्नुयात् ।

वचनमिति वर्तते । पुराणवचनं खलु लोकानां यद्भगवद्रूपेषु भेददर्शनं तदनुवादपरमेव । न वस्तुनिष्ठम् । उपक्रमादिना तथाऽवगमात् । वेदस्तु वस्तुतथात्वे तात्पर्यवान् । लिङ्गैः तथा अध्यवसायात् । अतो न तत् तद्बाधनाय शक्नोति ।

नन्वेतद्व्याहतम् । यत्प्राग्भगवद्रूपभेदविषयं प्रत्यक्षं नास्तीत्युक्तम् । इदानीं तु तदस्तीति । तस्यैवाभावे पुराणवचनस्य तदनुवादित्वानुपपत्तेः ।

मैवम् । बहुत्वाद्यनुमानाभासजनितभेददर्शनानुवादित्वोपपत्तेः ।

किञ्चोत्तममध्यमानां भेदविषयं प्रत्यक्षं नास्तीत्यभिहितम् । अधमानां तु तदस्तीत्यधुना अङ्गीक्रियते । तर्हि तदेव भगवद्रूपभेदे प्रमाणं भविष्यतीत्यपि न वाच्यम् । उत्तमानामभेदविषयेण प्रत्यक्षेण बाधितत्वात् । न च तदेव नास्ति । प्रत्यभिज्ञैव बहुरूपेषु दृश्यत इत्यागमोक्तत्वात् । तथा च भीष्मवाक्यम् । तमिममहमजं शरीरभाजां हृदि हृदि विष्ठितमात्मकल्पितानाम् । प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूतभेदमोह इति ।

८६सु०- अथ भेददर्शनमेवाभेददर्शनस्य बाधकं कुतो न भवतीत्यत आह अपरीक्षितेति ।

अनु०-अपरीक्षितदृष्टिश्च परीक्षापूर्वदर्शनम् ।निषेद्धुं शक्नुयात्क्वापि

अपरीक्षिता परीक्षया प्रमाणत्वेनानिश्चिता । नेत्यस्यानुकर्षणार्थः च शब्दः । परीक्षापूर्वः प्रामाण्यनिश्चयो यस्य दर्शनस्य तत् परीक्षापूर्वदर्शनम् । परीक्षापूर्वं प्रामाण्यनिश्चयो यस्य प्रत्यक्षस्येति वा । क्वापीत्यनेन नियममाह । तदनेन यत्परीक्षया न निश्चितप्रामाण्यं ज्ञानं न तत् निश्चितप्रामाण्यं ज्ञानान्तरं बाधत इति व्याप्तिरुक्ता । परीक्षाग्रहणं प्रामाण्यनिश्चयोपलक्षणमेव, न तु नियमार्थमित्युत्तरत्र स्फुटीभविष्यति ।

८७सु०- अत्र दृष्टान्तमाह देवदत्तेति ।

अनु०- देवदत्तादिदृष्टिवत्

यथा यज्ञदत्तादावनिश्चितप्रामाण्या देवदत्तादिदृष्टिः न निश्चितप्रामाण्यं यज्ञदत्तादिदृष्टिं बाधते तथेत्यर्थः । ततः किं यद्येवं व्याप्तिरिति चेत् । भेददर्शनमनिश्चितप्रामाण्यमभेददर्शनं तु निश्चितप्रामाण्यम् । अतो न तत् तस्य बाधकं किन्तु वैपरीत्यमेवेति वदामः ।

कुतो भेददर्शनमनिश्चितप्रामाण्यमित्यत आह न चेति ।

अनु०-न च निश्चितभेदस्य दर्शनेऽस्ति पुराणगम् ।वाक्यं क्वचिदि्ध

चः अवधारणे । क्वचित् प्रदेशे । हि शब्दो हेतौ । परमेश्वररूपभेदविषयं प्रत्यक्षं तावदस्माकं पुराणवाक्यादेव सिद्धम् । पुराणवाक्यं च केचिद्भेदं पश्यन्तीति वा प्रतिपादयतु । अनुवादकतया लिङ्गत्वेन वा । अतस्तत्प्रामाण्यनिश्चयस्तत एवान्वेष्टव्यः । न च भेददर्शनस्य प्रामाण्यं निश्चाययत्पुराणवाक्यमस्ति । अतः प्रमाणाभावान्न भेददर्शनस्य प्रामाण्यनिश्चय इति भावः ।

प्रामाण्यनिश्चयो द्वाभ्यां प्रकाराभ्यां भवति । अर्थतथात्वनिश्चयेन वा ज्ञानपरीक्षया

वा । आद्याभिप्रायेणोक्तं सत्यतया निश्चितभेदस्येति । द्वितीयाभिप्रायेण तु भेदस्य दर्शन इति समासः । षष्ठ्या आक्रोश इत्यलुक् । निश्चितं परीक्षितं च तद्भेदस्य दर्शनं चेति तथोक्तम् । तत्र स्वाभिप्रायेणाक्रोशः पराभिप्रायेण निश्चितत्वमित्यविरोधः ।

८८सु०- यदि पुराणवाक्या(देव)न्निश्चितप्रामाण्यं भेददर्शनं न प्रतीयेत तर्हि कदृशं तत्प्रतीयत इत्यत आह सम्मुग्धमिति ।

अनु०- सम्मुग्धं दर्शनं तत्र गम्यते

प्रमाणत्वाप्रमाणत्वाभ्यां सन्दिग्धम् । दर्शनं भेदस्य । तत्र पुराणवाक्ये ।

एतदुक्तं भवति । पुराणवाक्यं भेददर्शनमात्रं गमयति । न तु तस्य प्रामाण्यमप्रामाण्यं

वा । ततः प्रागभेददर्शनावगमात् तत्र प्रामाण्याप्रामाण्यसन्देह एव युक्तः । अवगते त्वभेददर्शने तस्याप्रामाण्यमेव निश्चीयते । पुराणवाक्यादेव तत्प्रामाण्यस्य निश्चितत्वात् । समधिगतोऽस्मीति संशब्दश्रवणात् । हृदि हृदि नैकधा स्थितमपीत्यनुमानानामाभासत्वस्योक्तत्वात् । विधूतभेदमोह इति भेदज्ञानस्य मोहत्वाभिधानाच्चेति । एवं भगवद्रूपेषु भेदाभावः सिद्धः । तथा वेधादिदोषाभावश्च । प्रमाणाभावात् ।

८९सु०- नन्वस्ति तद्दर्शिनां प्रत्यक्षमत्र प्रमाणम् । मैवम् । महतां प्रत्यक्षेण वेधाद्यभावग्राहिणा बाधितत्वात् । इदमेव तस्य बाधकं किन्न स्यादित्यत आह अपरीक्षितमेवेति ।

अनु०-अपरीक्षितमेवात्र वेधादिकमधीशितुः ।परीक्षादर्शने नैव दृश्यते केनचित्क्वचित् ।

अत्र वेधादिदोषतदभावयोर्मध्ये । अधीशितुरत्रावतारेष्विति वा । दृश्यत इति सम्बन्धः । यद्वा वेधादिकमिति तद्दर्शनमुपलक्ष्यते । परीक्षया युक्तं दर्शनं परीक्षादर्शनम् । यद्वा परीक्ष्यत इति परीक्षा । गुरोश्च हल इत्यकारप्रत्ययः । परीक्षा च तद्दर्शनं च तस्मिन् । दृश्यते वेधादिकं क्वचित् । दोषदर्शनपरीक्षितं निर्दोषत्वदर्शनं तु परीक्षितमिति भावः ।

९०सु०- ननु दोषाभावविषयं महतां प्रत्यक्षं तावत् कुतः सिद्धमित्यत आह निर्दोषमेवेति ।

अनु०-निर्दोषमेव तं ब्रह्मा ददर्शाशेषरूपिणम् ।निर्दोषमेव रुद्रोऽद्राङ्निर्दोषं तं पुरन्दरः । निर्दोषाण्यस्य रूपाणि दृष्टान्येवं सुरोत्तमैः ।अन्ये सदोषाः सर्वेऽपि निर्दोषो हरिरेकलः । इति बर्कश्रुतेश्चैव सदोषं नास्य दर्शनम्

अद्राक् अद्राक्षीत् । नित्यमागमशासनमिति वचनात् । पुरन्दरोऽ द्राक्षीत् । अन्यैरपि सुरोत्तमैः । सदोषा दृष्टाः । तस्मात् निर्दोषो हरिरेक एव । च शब्दः श्रुत्यन्तरसमुच्चयार्थः । अस्य परमेश्वरस्य विषये महतां दर्शनं सदोषं दोषग्राहि नैव, किन्तु निर्दोषमेव गृह्णातीति ।

९१सु०- दोषदर्शनम् अपरीक्षितं तदभावदर्शनं तु परीक्षितम्, एतत् कुत इत्यत आह अविद्ध इति ।

अनु०-अविद्धो विद्धवद्विष्णुरजातो जातवन्मृषा ।अबद्धो बद्धवच्चैव दर्शयत्यमितद्युतिः ।इति पैङ्गिश्रुतिश्चैव प्राह निर्दोषतां हरेः ।

अविद्धमिव विद्धवत् । छान्दसो द्वितीयान्ताद्वतिः । एव शब्दस्याविद्ध इत्यादिना सम्बन्धः । दर्शयति आत्मानम् । पूर्वश्रुत्याऽप्ययमर्थोऽर्थात्सिध्यतीति पैङ्गिश्रुतिश्चे त्युक्तम् । निर्दोषतामिति फलोक्त्या विवक्षितमर्थम् उपलक्षयति । अत्रैव स्पष्टां श्रुतिम् उदाहरति अपरीक्षितेति ।

अनु०-अपरीक्षितदृष्ट्यैव सदोषो दृश्यते हरिः ।परीक्षादर्शने नैव दोषो दृश्यो हरेः क्वचित् ।इति पैङ्गिश्रुतिश्चाह

आह दोषदर्शनस्यापरीक्षितत्वं निर्दोषतादर्शनस्य परीक्षितत्वं च । ततः किमित्यत आह प्रमाणं हीति ।

अनु०-प्रमाणं हि परीक्षितम् ।

यत् परीक्षितं परीक्षया प्रमाणत्वेनावधृतं तदेव प्रमाणम् । अपरीक्षितं त्वापाततः सन्दिग्धम् । निश्चितविरोध्युपनिपाते त्वप्रमाणमेव । अतः परीक्षितेन निर्दोषतादर्शनेनापरीक्षितं दोषदर्शनमेव बाध्यते । न तु विपर्ययः । प्रामाण्यनिश्चये परीक्षोपयोगः प्रमाणसिद्ध इति हि शब्दः । तथा च वक्ष्यते ।

९२सु०- अत्र केचिदाहुः । स्वत एव ज्ञानानां प्रामाण्यं (गृह्यते) न तु परीक्षाधीनम् । सकलमपि ज्ञानं स्वप्रकाशं यथार्थं च । अतः स्वेनैव स्वयं स्वप्रामाण्यं च सिद्ध्यति का तत्र परीक्षापेक्षेति । अन्ये तु ब्रुवते । ज्ञानं तत्प्रामाण्यं चानुमानेनैव गृह्यत इति । अपरे तु वदन्ति । ज्ञानं तत्प्रामाण्यं च साक्षिणैव ज्ञायत इति । यदि च स्वतःप्रामाण्यग्रहो न स्यात् तर्हि न स्यादेव । तस्य परीक्षाधीनत्वेऽनवस्थाप्रसङ्गात् । अनुमानविशेषः खलु परीक्षा नाम । सा च स्वयं प्रमाणतया निश्चिता अन्येषां ज्ञानाना• प्रामाण्यावधारणाय प्रभवति नान्यथा । तत्प्रामाण्यावधारणं च परीक्षान्तरेणेति कथं नानवस्था स्यादिति । तत्र प्रामाण्यग्रहस्य परीक्षाधीनत्वेऽनवस्थाप्रसङ्गं तावत्परिहरति नेति ।

अनु०-न परीक्षाऽनवस्था स्यात्

प्रामाण्यग्रहणस्य परीक्षाधीनत्वाङ्गीकारेऽपीति शेषः । तत्र हेतुमाह साक्षीति ।

अनु०- साक्षिसिद्धे त्वसंशयात्

द्विविधं खलु ज्ञानमन्तःकरणपरिणामरूपं साक्षिरूपं चेति । । तत्राद्याद्विशेष्टुं तुशब्दः ।

एतदुक्तं भवति । स्यादियमनवस्था यदि सर्वत्र परीक्षाऽपेक्षा स्यात् । न चैवम् । सन्दिग्धे खल्वर्थे परीक्षाऽपेक्ष्यते न त्वसन्दिग्धे । संशयश्च मनोवृत्तिविषये पानीयादौ भवति न पुनः साक्षिसिद्धे सुखादौ । अतस्तावदेव परीक्षा यावत्साक्षिगृहीतेषु सुखादिष्ववतार इति कुतोऽनवस्थेति । प्रपञ्चितश्चायमर्थोऽस्माभिः प्रकृत्यधिकरणे ।

९३सु०- मनोवृत्तिविषय एव संशयो न साक्षिसिद्ध इत्यत्र किं कारणमित्यत आह मानस इति ।

अनु०-मानसे दर्शने दोषाः स्युर्न वै साक्षिदर्शने

मनःपरिणतिरूपे दोषाः कारणतया सम्भाविताः स्युः । वैशब्दस्तुशब्दार्थे । अयमर्थः । द्विविधो हि संशयो भवति । एकस्तावदादित एव । यथा स्थाणुर्वाऽयं पुरुषो वेति । अपरस्तु निश्चयपृष्ठभावी । यथा स्थाणुतया(वदयं) प्रतीयते स्थाणुर्भवति न वेति । तत्राद्यो विशेषादर्शनादिदोषमूलः । द्वितीयोऽपि प्रथमज्ञानस्य दोषजन्यत्वशङ्कामूलः । दोषाश्च मानस एव दर्शने सम्भवन्ति । अतस्तत्संशयात्मकं वा जायते निश्चयतया जातस्य विषये वा आहार्यः संशयो भवति । न तु साक्षि(सिद्धे)दर्शने दोषसम्भवः । अतो न तत्संशयात्मकं नापि (साक्षिसिद्धे) तत्सिद्धेऽर्थे संशय इति ।

९४सु०- मानसे दर्शने दोषाः सम्भवन्तीति स्फुटम् । साक्षिदर्शने न सम्भवन्तीत्येतत्कुत इत्यत आह सुदृढ इति ।

अनु०-सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनम्

सुदृढः कदाऽपि बाधरहितः । निर्णयः अवधारणात्मकः प्रत्ययः । यत्र इति निपातो य इत्यर्थे ।

इदमुक्तं भवति । दोषास्तावज्ज्ञानस्य डोलायमानतादर्शनेन बलवद्बाधकोपनिपातेन वा कल्प्याः । यथोक्तम् । बलवत्प्रमाणतश्चे(श्चैव ज्ञेया दोषा न चान्यते) ति । साक्षिदर्शनं च निर्णयात्मकमेव भवति न च बाध्यत इत्युपपादितं पृथगधिकरणे । अतः प्रमाणाभावान्न तत्र दोषः सम्भवति ।

९५सु०- साक्षिसिद्धेऽर्थे संशयो नास्तीत्युक्तं तदनुभवारूढं कर्तुं साक्षिसिद्धमर्थं तावदाह इच्छेति ।

अनु०-इच्छा ज्ञानं सुखं दुःखं भयाभयकृपादयः ।साक्षिसिद्धाः

आदि पदेन प्रयत्नद्वेषावेतदभावाश्च गृह्यन्ते । ततः किमित्यत आह नेति ।

अनु०-न कश्चिदि्ध तत्र संशयवान्क्वचित्

तत्र क्वचित् इति सम्बन्धः । न जातु मम सुखमस्ति न वेति संशयो नापि प्रतीयमानमिदं सुखं सदसद्वेति संशय इति हि शब्देनाह ।

९६सु०- साक्षिदर्शनमबाधितमेवेति न युज्यते शुक्तिरजतादौ बाधदर्शनात् । न हि प्रतीतिसमयमात्रवर्तिनि तत्रान्यज्ञानं सम्भवतीत्यत आह यदिति ।

अनु०-यत्क्वचिद्व्यभिचारि स्याद्दर्शनं मानसं हि तत्

यद्दर्शनं क्वचित् शुक्तिरजतादौ विषये व्यभिचारि बाधितं स्यात् तच्चक्षुरादिकरणकं मनःपरिणतिरूपमेव न साक्षिरूपम् । कुत एतत् । मानसदर्शनस्य बाध्यत्वाङ्गीकारेऽनिष्टाभावात् । साक्षिणस्तु तथात्वे सर्वव्यवहारविलोपप्रसङ्गस्योक्तत्वात् । तदिदमुक्तं हि शब्देन । सम्भवति चास्य मानसत्वमन्यथाख्यातिसमर्थनादिति ।

९७सु०- मानसस्य दर्शनस्य दोषबाधसम्भवोऽभिहितः । कदृशस्य तर्हि प्रामाण्यमित्यत आह मन इति ।

अनु०-मनश्चक्षुर्दर्शनादेरपि यत्रैव साक्षिणा । प्रामाण्यं सुगृहीतं स्यात्तत्परीक्षितदर्शनम् ।

मनश्चक्षु श्शब्दौ श्रोत्रादेरुपलक्षकौ । दर्शनं साक्षात्कारः । आदि पदेन लैङ्गिकशब्दज्ञानसङ्ग्रहः । इन्द्रियलिङ्गशब्दकरणकस्य मनोवृत्तेर्ज्ञानस्येत्यर्थः । निर्धारणे षष्ठी । सम्भावितदोषबाधस्यापीत्यपेरर्थः । यत्र ज्ञाने सुगृहीतं परीक्षया निश्चितं तत्परीक्षितदर्शनं प्रमाणमिति शेषः । प्रत्यक्षागमज्ञानप्रामाण्यग्रहण एव परीक्षोपयोगः, धर्मिज्ञानानुमानोपमानानुव्यवसायानां तु प्रामाण्यग्रहणं न परीक्षापेक्षमिति केचिन्मन्यन्ते । तन्निरासाय सर्वमानससङ्ग्रहार्थं मनश्चक्षुर्दर्शनादेर्मध्य इत्युक्तम् । अन्यथा यत्र ज्ञान इत्यादिकमेवावक्ष्यत् । तदेव प्रमाणमित्येतावता पूर्णे परीक्षितदर्शनमित्यनुवादेन सुगृहीतमित्येतद्विवृणोति ।

९८सु०- एवं मानसप्रत्यक्षादिज्ञानप्रामाण्यग्रहस्य परीक्षाधीनत्वेऽपि साक्षिप्रामाण्यग्रहस्य तदनपेक्षत्वान्न परीक्षाऽनवस्थेत्युक्तम् । तत्र किमनया द्विविधकल्पनया । साक्षिवत् प्रत्यक्षादिज्ञानस्यापि प्रामाण्यग्रहः परीक्षानपेक्ष एवोक्तविधया स्वतः किन्न स्यादित्याशङ्कां परिहरति नेति ।

अनु०-न ज्ञानदृष्टिमात्रेण प्रामाण्यं तस्य दृश्यते

ज्ञानस्य दृष्टिः ज्ञानदृष्टिः । तस्य ज्ञानस्य ।

९९सु०- एतदुक्तं भवति । वृत्तिज्ञानानां स्वप्रकाशत्वमेव तावदसत् । प्रमाणाभावात् । ज्ञानव्यवहारस्य साक्षिवेद्यत्वेनैवोपपत्तेः । इदमहं जानामीत्यनुभवस्य साक्षिरूपत्वात् । विमतं ज्ञानं न स्वप्रकाशम् अनात्मत्वात् कार्यत्वात् अनित्यत्वात् मनोरूपत्वात् सुखादिवत् इत्यादिप्रमाणविरोधाच्च ।

भवतु वा ज्ञानं स्वप्रकाशं तथाऽपि स्वरूपमात्र एव न तु स्वधर्मे प्रामाण्येऽपि । तथा

हि । वेदवाक्यश्रवणे सति बाह्यस्य वाक्यार्थज्ञानमुत्पद्यते न वा । न द्वितीयः । सत्यां सामग्रयां कार्यानुदयानुपपत्तेः । अन्यथा मीमांसकस्यापि तदनुदयप्रसङ्गात् । आद्येऽपि तत्प्रकाशते न वा । नेति पक्षेऽपसिद्धान्तः । प्रथमे तत्प्रामाण्यं प्रकाशते न वा । नाद्यः । तन्निरा(सस्यानु)सानुपपत्तेः । ततो ज्ञानदृष्टिमात्रेण न ज्ञानप्रामाण्यं दृश्यत इति द्वितीय एवाङ्गीकार्यः । तथा च स्वप्रकाशज्ञानेनैव प्रामाण्यग्रह इति कथं स्यात् । अपौरुषेयत्वादियुक्तिभिः प्रबोधितो बाह्यः प्रतिपद्यते च तत्प्रामाण्यमिति कथं न परीक्षापेक्षत्वम् । अन्यथा वैदिकज्ञानप्रामाण्ये विप्रत्तिपत्तिरेव न स्यात् ज्ञानस्वरूपवत् ।

किञ्चैवंवादिनो मते शुक्तिरजतादिविभ्रमो न स्यात् । इदमनुभवस्य रजतस्मरणस्य च भेदाग्रहो हि विभ्रमः । तत्र प्रामाण्यवद्भेदस्यानुभवत्वस्मरणत्वयोश्च प्रकाशोऽवश्यम्भावीति कथं विभ्रमावकाशः । न हि प्रामाण्यस्य भेदादेश्च कश्चिद्विशेषोऽस्तीति ।

९९असु०- ज्ञानप्रामाण्ये सहैवानुमेये इत्यप्यसत् । ज्ञानस्या(प्य)नुमेयत्वे प्रमाणाभावात् । तद्व्यवहारस्यान्यथैवोपपत्तेः । आशुतरविनाशिनो ज्ञानस्य जानामीति वर्तमानतया प्रतिभा(सा)ऽनुपपत्तेश्च । अपरोक्षावभासविरोधाच्च । अनुमेयत्वेऽपि ज्ञानस्य न ज्ञानानुमितिमात्रेण प्रामाण्यं तस्य दृश्यते । तदि्ध ज्ञाततया व्यवहारेण कार्येण वाऽनुमातव्यम् । न च तावता प्रामाण्यमनुमातुं शक्यते । व्यभिचारात् । ततो ज्ञाततादिमात्रेण प्रतीते ज्ञाने बाधाभावादिना प्रामाण्यमनुमेयम् । अन्यथा बाह्यानामपि वैदिकज्ञानप्रामाण्यानुमानप्रसक्तेः । प्रसक्तमप्यपोद्यत इति चेत् । तर्ह्यपवादनिरासाय परीक्षापेक्षावश्यम्भाविनीत्यागतम् । इदमेव च अस्माभिः अभिधास्यते, सर्वथा परीक्षाऽनपेक्षेति तु न क्षम्यते ।

१००सु०- एतेन साक्षिवेद्यतापक्षोऽपि प्रतिक्षिप्तः । औपनिषदज्ञानदृष्टिमात्रेण बाह्यैः तत्प्रामाण्यस्यादर्शनात् ।

१सु०- चतुर्थपक्षस्त्वतिमन्दः । अनुमानादिज्ञानदृष्टिमात्रेण तत्प्रामाण्यस्य चार्वाकादिभिरदृष्टत्वात् । विभागे मानाभावाच्च । धर्मिज्ञानादिप्रामाण्ये विगानाभावादिति चे(त्)न्न । निरालम्बनादिमतदर्शनात् । उपपत्तिबाधितं तदिति चेत् । तर्हि स्वीकृताऽऽयुष्मतैव परीक्षापेक्षेत्यलं पल-लवेनेति ।

२सु०- एवं तर्हि प्रत्यक्षादिवत् साक्षिणोऽपि प्रामाण्यं परीक्षापेक्षग्रहणमेवाङ्गीक्रियताम् । द्विधा कल्पनस्यान्याय्यत्वादित्यत आह नियमेनेति ।

अनु०-नियमेन सुख्याद्येषु प्रामाण्यं साक्षिगोचरम्

दृश्यत इति वर्तते । साक्षी गोचरो यस्य तत्तथोक्तम् । गोचरत्वं चाश्रयतया विवक्षितम् । सुखादिविषये यत्साक्षिगतं प्रामाण्यं तन्नियमेन दृश्यते । एतदुक्तं भवति । यदि वृत्तिज्ञानानामिव साक्षिज्ञानस्यापि प्रामाण्यं तद्दर्शनमात्रेण न दृश्यते तदाऽधिकमपि कारणं कल्पयामः । न च एवम् । सुखज्ञाने दृष्टे तत्प्रामाण्याज्ञानसंशयविपर्ययाणां कदाऽप्यदर्शनात् । कल्पकसद्भावे द्विधा कल्पनस्यादूषणत्वादिति ।

३सु०- किञ्च साक्षिप्रामाण्यस्यापि परीक्षापेक्षग्रहणत्वेऽनवस्था च स्यात् । ननु प्रामाण्यग्रहणमभिलषता नानवस्थातो भेत्तुं युक्तम् । परीक्षाऽनवस्थाभावेऽपि ग्राहकानवस्थाया दुष्परिहरत्वादित्यत आह स्वप्रामाण्यमिति ।

अनु०- स्वप्रामाण्यं सदा साक्षी पश्यत्येव सुनिश्चयात्

साक्ष्येवेति सम्बन्धः । सदा सुनिश्चयादिति । परीक्षानपेक्षमेवेति यावत् । एतच्चानुभवान्यथाऽनुपपत्तिभ्यां कल्प्यते ।

४सु०- नन्वेवं सति वृत्तिज्ञानानां परतःप्रामाण्यमुक्तं स्यात् । ज्ञानस्वरूपस्य साक्षिवेद्यत्वात् । प्रामाण्यस्य परीक्षागम्यत्वात् । तथा च न विलक्षणत्वादिति यत्स्वतः प्रामाण्यमिष्टं तत्त्यक्तं स्यादित्यत आह ज्ञानस्येति ।

अनु०-ज्ञानस्य ग्राहकेणैव साक्षिणा मानतामितेः ।

ज्ञानस्य ग्राहकेण साक्षिणैव ज्ञानस्य मानताया मितेः कारणात् स्वतःप्रामाण्यमिष्यत एवेति सम्बन्धः । भवेत्स्वतःप्रामाण्यत्यागो यदि ज्ञानमेव साक्षिवेद्यं न प्रामाण्यमिति ब्रूमः ।

न चैवम् । ज्ञानवत् तत्प्रामाण्यस्यापि साक्षिवेद्यत्वाभ्युपगमादिति । किमर्थं तर्हि परीक्षावश्यम्भावोऽभ्युपगम्यत इत्यत आह दोषेति ।

अनु०-दोषाभावे प्रमाणत्वं

साक्षिणा निश्चितत्वमिति वक्ष्यमाणमिहापि योज्यम् । इति प्रामाण्यस्येति पदद्वयमध्याहार्यम् । ज्ञानं गृह्णन् साक्षी करणदोषाभावे अस्य प्रामाण्यमित्येव प्रामाण्यं निश्चिनोति । न तु प्रमाणमेवेदमिति ।। ततः किमित्यत आह दोषाभावस्येति ।

अनु०- दोषाभावस्य साक्षिणा ।निश्चितत्वं क्वचिच्चैव स्वतः प्रामाण्यमिष्यते ।

परीक्षयेति शेषः । चोऽवधारणे । क्वचिदेव प्रयोजनवशाज्जिज्ञासायां जातायां परीक्षालाभे चेत्यर्थः । दोषाभावनिश्चयार्था परीक्षा न तु प्रामाण्यग्रहणार्था । तत्पुनर्ज्ञानमिव साक्षिवेद्यमेव । अतो न स्वतःप्रामाण्यपरित्याग इति भावः ।

५सु०- स्यादेतद्यदीयं प्रक्रिया प्रमाणवती स्यान्न च तदस्तीत्यत आह अत इति ।

अनु०-अतो न सर्वमानानां प्रामाण्यं निश्चितं भवेत् । साक्षिणा निश्चितं यत्र तत्प्रामाण्यं स्वलक्षणम् ।

अत एव हि सर्वेषां ज्ञानानां प्रामाण्यं प्रथमतो न निश्चितं भवेत् । किन्नाम यत्र यदा परीक्षासहकृतेन साक्षिणा प्रामाण्यं निश्चितं भवति तत्तदैव प्रामाण्यं स्वलक्षणं प्रामाण्यस्वरूपमप्रामाण्यविविक्तं प्रामाण्यं सिद्ध्यति । इदमुक्तं भवति । यदि साक्षी दोषाभावे प्रमाणमेतदिति प्रथमं सम्मुग्धं प्रामाण्यं गृहीत्वा पश्चाज्जिज्ञासायां सत्यां परीक्षया प्रमाणमेवेत्यवधारयतीत्येषा प्रक्रिया नाङ्गीक्रियेत तदाऽनभ्यस्तविषयाणां शब्दादिना जातानां सर्वेषामपि ज्ञानानां प्रथममेव प्रामाण्यमवधार्येत । न चैतदस्ति । तेन जानीमोऽस्तीयं प्रक्रियेति ।

६सु०- उक्तमर्थं बुद्ध्यारोहाय सङ्क्षिप्याह न हीति ।

अनु०-न हि कश्चित्सुखाद्येषु संशयं कुरुते जनः ।न चैवाखिलमानानि निश्चिनोत्यखिलो जनः ।तस्मादनुभवारूढं किमर्थमपलप्यते ।

यस्मात सुखाद्येषु कश्चित्संशयं न करोति यस्माच्चाखिलानि वृत्तिज्ञानानि दर्शन एव प्रमाणतयाऽखिलो जनो न निश्चिनोति तस्मात्साक्षिप्रामाण्यं परीक्षानपेक्षेण साक्षिणैव गृह्यते । वृत्तिज्ञानानां तु तत्सापेक्षेणेत्यनुभवारूढं प्रमेयं किमर्थमपलप्यते । निर्निमित्तमपलपितुं न शक्यत इति ।

७सु०-न परीक्षाऽनवस्था स्यादि त्युक्तमुपसंहरति दोषाभावादिकं चेति ।

अनु०-दोषाभावादिकं चैव साक्षी सम्यक् प्रपश्यति

साक्ष्येवेति सम्बन्धः । स्वस्य परीक्षायाश्च दोषाभावं च परीक्षानिरपेक्षः साक्ष्येव सम्यक् प्रपश्यति । तस्मान्न काऽप्यनवस्थेति ।

८सु०-अपरीक्षितमेवे त्यादिनोक्तमुपसंहरति तदिति ।

अनु०-तत्परीक्षितमानेन न दोषो विष्णवि क्वचित्

तत् तस्मात् परीक्षितमेव मानम् । तेन च भगवति क्वचिदपि दोषो नास्तीति सिद्धम् । तद्विरोधादपरीक्षितं दोषदर्शनमप्रमाणमेवेत्यर्थः ।

९सु०- एवमपरीक्षितं दोषदर्शनं परीक्षितेन निर्दोषतादर्शनेन बाधितं न भगवतो दोषित्वं साधयितुं शक्तमित्युक्तम् । इदानीं तादृशस्यापि साधकत्वेऽतिप्रसङ्गं सूचयति अपरीक्षितेति ।

अनु०-अपरीक्षितदृष्टिस्तु कस्मिन्नर्थे न विद्यते

शुक्तयादीनां रजतत्वादावपि विद्यत एव । ततश्च तया तदपि सिद्ध्येदविशेषादिति भावः ।

१०सु०-तदेवं दोषदर्शनं परीक्षितप्रत्यक्षविरोधात् अप्रमाणमित्यभिहितम् । निरनिष्टो निरवद्य इत्याद्यागमविरोधाच्च । स्यादेतत् । प्राक् तत्त्वमस्याद्यागमस्य प्रत्यक्षविरुद्धत्वात् प्रतीतार्थे न प्रामाण्यमित्युक्तम् । तत्कथं तद्विपरीतं प्रत्यक्षस्यागमविरोधेनाप्रामाण्यमिदानीमुच्यत इत्याशङ्कां परिहर्तुमाह तदिति ।

अनु०-तत्प्रत्यक्षविरुद्धार्थे नागमस्यापि मानता ।उपजीव्यमक्षजं यत्र तदन्यत्र विपर्ययः ।।

यत्र यदा अक्षजमागमस्योपजीव्यं तत् तदा प्रत्यक्षविरुद्धार्थे जात्या प्रबलस्यापि आगमस्य मानता नास्ति । तस्मात् (उक्तात्) उपजीव्यो पजीवकभावादन्यत्र विपरीतोपजीव्योपजीवकभावे बाध्यबाधकभावस्यापि विपर्ययः । यदा आगमः प्रत्यक्षस्योपजीव्यः तदा आगमविरुद्धार्थे प्रत्यक्षस्य न मानतेत्यर्थः ।

११सु०- ततः किमित्यत आह लौकिक इति ।

अनु०-लौकिके व्यवहारेऽत्र प्रत्यक्षस्योपजीव्यता ।अवतारादिदृष्टौ स्यादागमस्योपजीव्यता ।

लौकिके प्रत्यक्षसिद्धजीवादिविषये ब्रह्मात्मकत्वादिबोधनरूपे व्यवहारे तत्त्वमस्याद्यागमेन क्रियमाणे अत्र आगमे आगमं प्रत्यक्षस्योपजीव्यता । अवताराणां विश्वादीनां च दोषदृष्टौ प्रत्यक्षादिकं प्रत्यागमस्योपजीव्यता स्यात् । एतदुक्तं भवति । प्राक् प्रत्यक्षविरोधेन आगमस्याप्रामाण्यमभिधाय इदानीमागमविरोधेन प्रत्यक्षस्याप्रामाण्याभिधानं न विरुद्धम् । न हि निर्विशेषणयोः प्रत्यक्षागमयोः परस्परं बाध्यबाधकभावोऽभिहितः । किन्तूपजीवकत्वेन बाध्यत्वमुपजीव्यत्वेन बाधकत्वम् । तच्च तत्रान्यथाऽत्रान्यथेति कथं विरोध इति । अनेन दोषविषयप्रत्यक्षविरोधादागमस्यैवाप्रामाण्यं किन्न स्यादिति चोद्यं गर्भस्रावेणैव गतम् । आगमस्योपजीव्यतया प्रत्यक्षतः प्राबल्यस्योक्तत्वात् ।

१२सु०- कथं प्रत्यक्षं प्रत्यागमस्योपजीव्यत्वमित्यत आह आगमेनेति ।

अनु०-आगमेन हि विष्णुत्वं ज्ञात्वा दोषोऽत्र कल्प्यते

अत्र विष्णौ । वस्तुतः कल्पनैवैषा न प्रमितिरितिभावेन कल्प्यत इत्युक्तम् । भवेत् आगमस्योपजीव्यत्वं यदि विष्णुत्वं ज्ञातव्यं भवेत् । तदेव न ज्ञातव्यमित्यत आह न चेदिति ।

अनु०-न चेत्स्याद्दोषवानन्यः

यदि विष्णुत्वं रामकृष्णादौ न ज्ञातं तदा दोषग्राहिणा प्रत्यक्षेण विष्णोरन्यो दोषवानिति गृहीतं स्यात् । न तु विष्णुर्दोषवानिति । न हि देवदत्ते देवदत्तत्वाज्ञाने देवदत्तोऽयमागत इत्याकारं ज्ञानमुत्पत्तुमर्हतीति । तथाऽपि न आगमस्योपजीव्यत्वम् । यतः श्रीवत्सकौस्तुभादिलक्षणेन विष्णुत्वमनुमाय विष्णुर्दोषवानिति प्रत्यक्षेण ज्ञास्यत इत्यत आह शास्त्रेति ।

अनु०- शास्त्रसिद्धं हि लक्षणम्

श्रीवत्सादिकं लक्षणं विष्णुत्वेन व्याप्तमित्येतच्छास्त्रेणैव सिद्धम् ।

यद्यप्यस्मिन्पक्षे साक्षादागमो नोपजीव्यः । तथाऽप्यनुमानमूलव्याप्तिग्रहणाय तदुपजीवनमपरिहार्यमेवेति भावः ।

ननु विष्णुत्वाज्ञाने विष्णोरन्यो दोषवानिति ज्ञानेन कुतो भाव्यम् । विष्णुत्ववत्तदन्यत्वस्याप्यज्ञातत्वादिति चेत् । एवं तर्ह्यज्ञानं प्रसज्यत इत्याह कस्यचिदिति ।

अनु०-कस्यचिद्दोषवत्त्वं स्यादितिमात्रेऽक्षजं भवेत्

इतिमात्रे एतावत्येव विषये । विष्णुर्दोषवानिति ज्ञान(स्य•नुत्पादप्रसङ्ग एव तात्पर्यमिति भावः । ननु यथा पटोऽयं छिन्नो दग्धो मलिन इति परानुपजीविना प्रत्यक्षेणैव गृह्यते । तथाऽऽगमादिकमनुपजीव्य प्रत्यक्षेणैव विष्णुदोषवानिति ज्ञास्यत इत्यत आह नेति ।

अनु०-न विष्णोर्दोषवत्त्वे हि प्रत्यक्षं वर्तते स्वतः

स्वतः परानुपजीवनेन । अयमभिसन्धिः । पटत्वमवयवसन्निवेशव्यङ्ग्यं प्रत्यक्षमेवेति युज्यते तथा ज्ञानम् । विष्णुत्वं तु समस्तगुणपरिपूर्णत्वनिर्दोषत्वजगज्जन्मादिकारणत्वलक्षणं

न प्रत्यक्षम् । अतो न तथाविधं ज्ञानमुपपद्यते । यथा पञ्चपलपरिमितोऽयं पटो मलिन इति ज्ञानमिति ।

१३सु०- अयं समुदायार्थः । रामकृष्णादिदोषग्राहिणा प्रत्यक्षेण त्रेधोत्पत्तव्यम् । विष्णुरयं दोषवानिति वा विष्णोरन्योऽयं दोषवानिति वा कश्चिदयं दोषवानिति वा । प्रकारान्तराभावात् । तत्र द्वितीयतृतीययोर्न विष्णोर्दोषवत्त्वे तदुद्भावयितुं (शक्यते) शक्यम् । विष्णुर्दोषवानिति तेन अनवगाहनात् । वस्तुवृत्त्या असौ विष्णुरेवेति चेत् । किं ततः । न हि वस्तुवृत्तिसहितं यत्किञ्चिज्ज्ञानं विवक्षितविशे(षणं सा)षं साधयति । अतिप्रसङ्गात् । आद्ये विष्णुत्वं सर्वथा ज्ञातव्यम् । न चैतत्प्रत्यक्षवेद्यं नाप्यनुमेयमित्युक्तं शास्त्रयोनिसूत्रे । तस्मात् देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः । आविरासीदि त्यागमेन वाऽऽगमावगतव्याप्तिकानुमानेन वा अवगन्तव्यम् । ततः सर्वथा प्रत्यक्षस्य आगमोपजीव्यत्वमङ्गीकार्यम् । सर्वोऽप्यागमस्तावदेकमेव वाक्यम् । स च सर्वरूपोपेतस्य विष्णोर्निर्दोषत्वं प्रतिपादयतीति तद्विरोधादप्रमाणमेव दोषविषयं प्रत्यक्षमिति ।

१४सु०- इतश्च तदप्रमाणमिति दर्शयितुमाह केचिदिति ।

अनु०-केचित्पश्यन्ति दोषानित्यत्रापि स्यान्न चाक्षजम्

न केवलं दोषेष्विति अपि शब्दः । च शब्दोऽनुमानादिसमुच्चयार्थः ।

१५सु०-प्रत्यक्षं भगवद्रूपाणां दोषित्वे प्रमाणमिति वदन् प्रष्टव्यः । केचित् तत्कालवर्तिनः पुरुषा भगवद्रूपेषु दोषान् पश्यन्तीत्यत्रार्थे अस्माकं किं प्रमाणम् । प्रत्यक्षमनुमानमागमो वेति । न तावत् प्रत्यक्षम् । परपुरुषवर्तिनि प्रत्यक्षे परेषां प्रत्यक्षायोगात् । दूरे कालभेदे । नाप्यनुमानं लिङ्गाभावात् । आगमोऽपि वेदः पुराणादिर्वा । नाद्यः । तस्यादर्शनात् । तस्माद्द्वितीय एवाङ्गीकार्य इत्याह पौराणमिति ।

अनु०-पौराणं वाक्यमेवात्र

अत्र भगवद्रूपदोषग्राहिप्रत्यक्षसद्भावे । वक्तव्यमिति शेषः ।

१६सु०- ततः किमिति चेत् । तत्पुराणवाक्यं तद्दोषदर्शनं किं प्रत्यक्षलक्षणं प्रमाणतया मन्यते, उत अपरीक्षितप्रमाणाप्रमाणभावप्रतीतिमात्रतया, अथाप्रमाणतया ।

आद्ये दोषमाह तदिति ।

अनु०- तच्छत्यैव विरुद्ध्यते

भगवद्रूपेषु दोषग्राहिणीं प्रतीतिं प्रमाणतया प्रतिपादयत्पुराणवाक्यं दोषसद्भावं मन्यत एव । न हि सम्भवति ताहिणः प्रामाण्यमङ्गीकरोति नाङ्गीकरोति च तदिति । दोषसद्भावं मन्यमानं च तत्प्रागुदाहृतया श्रुत्यैव विरुद्ध्यत इति ।

पुराणवाक्यस्य श्रुतिविरुद्धत्वे को दोष इत्यत आह पुराणस्येति ।

अनु०-पुराणस्योपजीव्यश्च वेद एव

पौरुषेयेण खलु वाक्येन समूलेन भाव्यम् । यतः केनचित्कारणेन कञ्चिदर्थं बुदि्धस्थीकृत्य वाक्यं प्रयुञ्ज्महे । अन्यथोत्पत्तेरेवासम्भवः ।

पुराणवाक्यस्य च वेद एव मूलं कुत इत्यत आह न चेति ।

अनु०- न चापरः

अपरः पौरुषेयो ग्रन्थः । च शब्दः प्रत्यक्षा(गम)दिसमुच्चयार्थः । पौरुषेयस्तावदागमो

न पुराणस्य मूलम् । तस्यापि मूला(न्तरा)पेक्षायामन्धपरम्परापातात् । न (च) प्रत्यक्षानुमाने । तदर्थस्य तदगोचरत्वात् । नाप्युत्प्रेक्षा । प्रतारकवाक्यवदप्रामाण्यप्रसङ्गात् । अतः परिशेषाद्वेद एव पुराणस्योपजीव्य इति सिद्धम् ।

ततः किमित्यत आह तद्विरोध इति ।

अनु०-तद्विरोधे कथं मानं तत्तत्र च भविष्यति

उपजीव्यवेदविरोधे । तत् पुराणवाक्यम् । तत्र भगवतः सदोषत्वे । उपजीव्यविरुद्धस्योपजीवकस्याप्रामाण्यावश्यम्भावादिति चार्थः ।

नन्वीश्वरप्रणीतानां पुराणानां तदीयं निजं ज्ञानमेव मूलं न वेदः । अनीश्वरप्रणीतानामपि योगिप्रत्यक्षमेव अतो वेदविरोधेऽपि को दोषः ।

उच्यते । वेदस्तावत्प्रमाणमेवेति निष्टङ्कितम् । न च प्रमाणयोर्विरोधोऽस्ति । वस्तुविकल्पप्रसङ्गात् । ततो वेदविरोधे निजज्ञानादिमूलत्वमेवापनीयते । तथाऽपि वेद एव पुराणस्योपजीव्य इति कथम् । अनीश्वरप्रणीतपुराणाभिप्रायेणेति न दोषः । अनीश्वरा हि स्वयंप्रतिभातेऽप्यर्थे (समाश्वा) आश्वासार्थं वेदमुपजीवन्ति ।

यथोक्तम् यत्स्वयंप्रतिभातस्य संशयार्थं गुरोर्वचः इति ।

यद्वेश्वरप्रणीतपुराणानामपि प्रामाण्यावधारणाय वेदसंवादोऽपेक्षितः । अन्यथोत्प्रेक्षामूलत्वशङ्कनात् । तदभिप्रायेण पुराणस्योपजीव्यश्च वेद एवे त्युक्तम् ।

१७सु०- द्वितीयं दूषयति अपरीक्षितेति ।

अनु०-अपरीक्षितदृष्टिश्च कथमेवाक्षजं भवेत्

अक्षजं कथमेव भवेदिति प्रत्यक्षं प्रमाणतयाऽभिलषितार्थे नोद्भावयितुं शक्यते । न हि प्रमाणत्वेनानवधारितं प्रमाणत्वेनोद्भावयन् परीक्षकः स्यादिति भावः । विपक्षे बाधकमाह यद्येवमिति ।

अनु०-यद्येवं देवदत्तादिभ्रमः किन्नाक्षजं भवेत्

प्रमाणत्वेनापरीक्षितमपि यदि प्रत्यक्षतयोद्भाव्यत इत्यर्थः । देवदत्तादिभ्रम इति । यज्ञदत्तशुक्तयादौ देवदत्तरजतादिभ्रम इत्यर्थः । बाधितत्वात् तन्न अक्षजं प्रमाणमिति चेत् । तत्किं बाधाभावमात्रं वस्तुव्यवस्थाहेतुः । तथात्वे निश्चायकप्रमाणवैयर्थ्यापत्तेः । अस्ति च प्रकृते वेदबाध इति ।

१८सु०- तथा च तृतीयपक्ष एवाङ्गीकार्यः । न च अप्रमाणतया निश्चितेन दोषसिदि्धरिति भावः ।

१९सु०-उपजीव्यवेदविरोधादुपजीवकयोः प्रत्यक्षपुराणवाक्ययोरप्रामाण्यमित्युक्तम् । तदसत् । उपजीवकमुपजीव्यविरोधेन बाध्यत इति नियमाभावात् । दृश्यते ह्युपजीव्यस्यापीदं रजतमिति ज्ञानस्योपजीवकेन नेदं रजतमिति ज्ञानेन बाध इति चेत् । कथमत्रोपजीव्योपजीवकभाव इति वक्तव्यम् । अप्राप्तस्य प्रतिषेधायोगात् प्राप्तिरूपमिदं रजतमिति ज्ञानमाद्यमुपजीव्यं, प्रतिषेधात्मकं तु नेदं रजतमिति ज्ञानमुपजीवकमिति वा, असिद्धे धर्मिणि प्रतिषेधासम्भवाद्धर्मिज्ञानमाद्यमुपजीव्यं द्वितीयं तूपजीवकमिति वा । आद्ये समाधिमाह यावच्छक्तति ।

अनु०-यावच्छक्तिपरीक्षायामुपजीव्यस्य बाधने ।दोषो नाशोधिते दोष उपजीव्यत्वमस्त्वलम् ।

परीक्षायां सत्यां प्रमाणतया प्रतीतस्येति शेषः । बाधने उपजीवकेन कृत इति शेषः । दोषः अस्मदभिमत(तो )नियमभङ्गः स्यात् । उपजीव्येऽशोधिते परीक्षायाऽप्रमाणादविविक्ते उपजीविकेन बाधिते न दोषः । उपजीव्यत्वमस्त्वलमिति । प्रकृतोदाहरणे प्रथममुपजीव्योपजीवकभावमभ्युपैति । उपजीव्यत्व मित्युपलक्षणम् । उपजीवकत्वं चेत्यपि द्रष्टव्यम् । पूर्वोत्तरज्ञानयोरिति शेषः । अलंशब्दोऽवधारणे ।

२०सु०- इदमुक्तं भवति । (अस्त्वेव) अस्त्येवेदं रजतं नेदं रजतमिति ज्ञानयोरुपजीव्योपजीवकभाव उपजीव्यस्योपजीवकेन बाधश्च । तथाऽप्युपजीव्यविरोधेनोपजीवकं बाध्यत इति नियमभङ्गो नास्ति । अयं खल्वस्य नियमस्यार्थः । परीक्षया शोधितमुपजीव्यं विरोध्युपजीवकं बाधते स्वयं तेन न बाध्यत इति । न तु यथाश्रुतः । अस्य तु तदा भङ्गः स्यात् ।

यदि परीक्षितमुपजीव्यं विरोधिनोपजीवकेन बाध्यं (बाधितं) क्वचिदुपलभेमहि । न चैवम् । इदं रजतमिति ज्ञानं तु न शोधितम् । ततस्तस्मिन्नुपजीवकेन बाधिते न नियमभङ्गः । न हि निर्विशेषणस्य व्यभिचारे विशिष्टं व्यभिचरत्यतिप्रसङ्गात् । न च वाच्यं विशिष्टस्य प्रयोजकताकल्पनं निर्मूलमिति । उभयथा(पि) बाध्यबाधकभावदर्शनात् । विशेषणानपेक्षायामव्यवस्थापातात् ।

ननु परीक्षायामङ्गीकृतायां तयैवालम् । परीक्षितेनापरीक्षितं बाध्यत इत्येतावतः क्वचिद्व्यभिचाराभावात् किमुपजीव्योपजीवकभावेन ।

उच्यते । भवेदेवं यद्यात्यन्तिकं परीक्षामत्राङ्गीकुर्मः । न चैवम् । किन्तु यावच्छक्तिपरीक्षामेव । न च तावन्मात्रस्य बाधकत्वनियमोऽस्ति । यावच्छक्तिपरीक्षितस्यापि बाधदर्शनात् । अतो युक्तं विशिष्टस्योपादानम् । आत्यन्तिकपरीक्षैव बाधकत्वोपयोगिनी भवतु किमुपजीव्यत्वेनेत्यपि न वाच्यम् । तस्यापि सांव्यावहारिकत्वात् । यथोक्तम् । सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्ये ति । प्रकृते तु वेदः परीक्षित उपजीव्यश्चेति ।

२१सु०- द्वितीये परिहारमाह भ्रमेऽपीति ।

अनु०-भ्रमेऽप्यभ्रमभागोऽस्ति

हीति वक्ष्यमाणमत्रापि सम्बध्यते । यद्यप्येकमेवेदं रजतमिति ज्ञानं तथाऽपि विषयोपाधिवशाद् द्विभागम् । तत्र प्रकारे भ्रमत्वेऽपि स्वरूपेऽभ्रमत्वमेव । तत्र कदाऽपि बाधाभावात् । तथाऽन्येप्याहुः । सर्वं ज्ञानं धर्मिणि प्रमाणं प्रकारे तु विपर्यय इति । भागाभ्युपगमादेव न विरोधचोदनावकाशः । ततः किमित्यत आह तन्मात्रमिति ।

अनु०- तन्मात्रमुपजीव्य हि । बाधकज्ञानवृत्तिः स्यात्

अभ्रमभागमात्रम् । तेनैव धर्मिणः सिद्धेः । रजताकारस्य निषेध्यत्वेन धर्मित्वाभावादिति हिशब्दार्थः । एतदुक्तं भवति । अस्मिन्पक्षे यदुपजीव्यं न तदुपजीवकेन बाध्यते यच्च बाध्यते

न तदुपजीव्यमित्यतो नेदमस्मदीयनियमभङ्गस्योदाहरणमिति ।

२२सु०- अत्रान्तरे मायावादिनश्चोदयन्ति । यदुक्तमुपजीव्यविरोधात् औतश्रुतीनाम् अप्रामाण्यमिति । तदसत् । तत्राप्यस्य समाधानस्य सुवचत्वात् । तथा हि । यः सर्वज्ञ इत्यादीनां तत्त्वमस्यादीनां च कथमुपजीव्योपजीवकभाव इति वक्तव्यम् । सिद्धं तु निवर्तकत्वादित्यादिवचानात् । तत्त्वमस्यादिवाक्यमैक्यविरोधिनां सार्वज्ञादीनां दुःखादीनां च प्रतिषेधकमङ्गीकृतम् ।

न च प्राप्तिं विना प्रतिषेधोऽस्तीति प्राप्तिरूपं यः सर्वज्ञ इत्यादिकमुपजीव्यम्, तत्त्वमस्यादिकं तूपजीवकमिति वा, असिद्धे धर्मिणि प्रतिषेधानुपपत्तेर्धर्मिप्रतिपादकमाद्यमुपजीव्यमुपजीवकं चोत्तरमिति वा । आद्ये रजतज्ञानस्येवापरीक्षितत्वादुपजीव्यस्यापि प्रथमस्य उत्तरेण बाधे न काऽप्यनुपपत्तिः । द्वितीये शुक्तिस्वरूपमात्रमिव ब्रह्मस्वरूपमात्रमुपजीव्यं न सार्वज्ञादिविशिष्टम् । तथा च यदुपजीव्यं न तदुत्तरेण बाध्यते । यद्बाध्यते सार्वज्ञादिकं न तदुपजीव्यमिति न कश्चिद्विरोध इति ।

अत्र परिहारद्वयमपि प्रतिषेधति न चैवमिति ।

अनु०- न चैवं

प्रसिद्धयोर्भ्रान्तिबाधयोरिवात्र समाधानं न वक्तुं शक्यते । वैषम्यादिति भावः ।

२३सु०- तत्कथमित्यतः प्रथमपक्षे तावद्वैषम्यं दर्शयति सुपरीक्षित इति ।

अनु०- सुपरीक्षिते

प्रथमप्रमाणे सुपरीक्षिते सति न चैवमिति सम्बन्धः । एतदुक्तं भवति । इदं रजतमिति ज्ञानमुपजीव्यमप्यपरीक्षितत्वादुपजीवकेन नेदं रजतमिति ज्ञानेन बाध्यते । उपजीव्योपजीवकन्यायस्य यावच्छक्तिपरीक्षाविषयत्वादिति ह्यस्माभिरभिहितम् । अस्मन्न्यायेन च परेण प्रत्यवस्थीयते । न च तद्युक्तम् । यः सर्वज्ञ इत्यादीनामहं दुःखीत्यादीनां च सुपरीक्षितत्वात् ।

उपपादितं खलु यः सर्वज्ञ इत्यादिश्रुतीनां तत्त्वावेदकत्वं साक्षिणश्च नियमेनाव्यभिचारित्वमिति ।

द्वितीयपक्षे वैषम्यं दर्शयति सर्वमिति ।

अनु०-सर्वं तदुपजीव्यैव प्रमाणं वर्तते यतः

यतः कारणात् तत्सर्वं सार्वज्ञादिकं उपजीव्यैव तत्त्वमसीत्यादिकं प्रमाणं प्रवर्तते ऽतो न चैवमिति सम्बन्धः ।

इदमुक्तं भवति । यथा नेदं रजतमिति ज्ञानं पुरोवर्तिनः स्वरूपमात्रं धर्मीकृत्य प्रवर्तते न तु रजतत्वविशिष्टं न तथा तत्त्वमस्यादिवाक्यं प्रवर्तितुमर्हति । किन्तु सर्वज्ञत्वादिविशिष्टं ब्रह्मस्वरूपं दुःखादिविशिष्टं जीवस्वरूपं च धर्मीकृत्यैव । तथा च धर्मिग्राहकविरोधोऽपरिहार्य इति । अत्र सर्वमिति सर्वज्ञत्वाद्यन्यतमस्योपलक्षणम् ।

२४सु०- ननु तत्त्वमस्यादिवाक्यमपि यदि स्वरूपमात्रमुपजीव्य प्रवर्तेत तदा कदृशो दोष इत्यत आह कथमिति ।

अनु०-कथं ब्रह्मेति तज्ज्ञेयं सर्वज्ञत्वादिलक्षणम् । विहाय यस्मात्कस्माच्चित्स्वरूपस्यैव चेद्यदि ।उपजीव्यत्वम्

वाक्यद्वयमेतत् । तत्रैकस्यार्थः । धर्मान् विहाय स्वरूपस्यैवोपजीव्यत्वं चेत् तर्हि तत्कथं ज्ञेयं यत्तत्त्वमसीति बोध्यते । एतदुक्तं भवति । शब्देनानूद्य हि स्वरूपं तत्त्वमसीति वक्तव्यम् ।

न च निर्धर्मस्य प्रतिपादकः शब्दोऽस्ति । अतः स्वरूपमात्रस्य बुद्धावनारोहाद्बोधनमेवानुपपन्नमिति ।

न ब्रूमः स्वरूपमात्रस्योपजीव्यत्वम् । किन्तु भेदकान् सर्वज्ञत्वादिधर्मान् विहाय तत्त्वादिना विशिष्टस्य । तथा च न कश्चिद्दोष इत्यतः शिष्टं वाक्यम् । यदि तत्त्वादिधर्मोपेतस्योपजीव्यत्वं तर्हि सर्वज्ञत्वादिकं विहाय यस्मात्कस्माच्चित्तत्त्वादेस्तद्ब्रह्मेति कथं ज्ञेयम् । यद्यप्यस्मिन्पक्षे नोक्तदोषस्तथाऽपि बोध्यस्य ब्रह्मास्मीति ज्ञानमनुपपन्नमेव । सर्वज्ञत्वादेर्ब्रह्मलक्षणत्वेन तदनुपादाने ब्रह्मणो बुद्धावनारोहात् । तत्त्वादेर्घटादिसाधारणत्वादिति भावः । सर्वज्ञत्वादिपरित्यागेनोपजीवने बाधकमभिधाय विपर्यये पर्यवसानमाह एतस्मादिति ।

अनु०-एतस्माद्व्यावृत्तं यावता भवेत् ।तावतैवोपजीव्यत्वं

अपरथा ज्ञानासम्भवात् । यावता धर्मेण । तावता उपेतस्यैव ।

ननु नेदं रजतमिति ज्ञानं यथा स्वरूपमात्रमुपजीव्य प्रवृत्तम् । तथेदमपि प्रवर्त्स्यति को दोष इत्यत आह स्वरूपस्यैवेति ।

अनु०- स्वरूपस्यैव न क्वचित्

उपजीव्यत्वमिति वर्तते । उक्तानुपपत्तेरेव दृष्टान्तोऽपि न सम्मत इत्यर्थः ।

२५सु०- ननु यत्सर्वज्ञं तत्त्वमसीति न बोधनीयम् । किन्तु तत्त्वमसीत्येव । न च उक्तदोषः । तच्छब्दो ब्रह्म वदति । योग्यान्विताभिधायिनश्चशब्दाः । लक्षणं च ब्रह्मणाऽन्वेतुं योग्यम् । ततश्च तच्छब्देनैव व्यावृत्तस्य प्रतीतेरित्याशयवानाशङ्कते सर्वेति ।

अनु०-सर्वलक्षणयुक्तं च स्वरूपं यदि भण्यते

च शब्दोऽवधारणे । भण्यते तच्छब्देन इति यदि भण्यते इत्यावृत्त्या योज्यम् । सम्प्रतिपत्तिमुत्तरमाह अस्त्विति ।

अनु०-अस्तु

यत्परेणोक्तं तदस्त्वित्यर्थः ।।

प्रतिवाद्युक्तार्थाङ्गीकारे प्रतिज्ञाहानिः कथं न भवेदित्यत आह न इति ।

अनु०- नो नैव हानिः स्यात्

अनभिमतप्रमेयाङ्गीकारे हि प्रतिज्ञाहानिः स्यात् । अनेन चाङ्गीकृतेन नो ऽस्माकं नैव (न प्रतिज्ञाहा) हानिः स्यात् । परस्य धर्मिग्राहिविरोधो ह्यस्माभिरुच्यते । तत्परिहाराय परेण चेदमुदितम् । न चानेन तत्परिहृतम् । प्रत्युत दृढीकृतमिति भावः ।

किं प्रकृतप्रमेयाविरोधित्वमात्रेण इदम् अङ्गीक्रियते उत तथाभूतत्वेनेति जिज्ञासायामाह स्वपक्षश्चेति ।

अनु०-स्वपक्षश्चायमञ्जसा

अञ्जसेति नाभ्युपगममात्रेणेत्यर्थः । तदुपपादयति यस्मादिति ।

अनु०-यस्मादन्वित एवार्थः शब्दानामपि सर्वशः

सर्वशोऽपीति सम्बन्धः । इत्येतत्सूत्रसामर्थ्येन प्रागुपपादितमिति शेषः ।

२६सु०- किञ्चास्मिन्नपि पक्षे ब्रह्मणो बुद्धावनारोहस्तदवस्थ एव । यतस्तदादिशब्दाः सामान्यत एव योग्यान्वितं ब्रुवते । सर्वज्ञादिशब्दा एव विशेषतः । तथाऽनुभवात् । न च सामान्यतोऽन्विताभिधायिना व्यावृत्तप्रतीतिरित्याशयवानाह विशेषेति ।

अनु०-विशेषसामान्यतया स्वरूपमखिलं भवेत्

अखिलं योग्यान्वितं स्वरूपं विशेषसामान्यतया शब्दबोध्यं भवेत् ।

२७सु०- अन्विताभिधानमात्रमङ्गीक्रियत एव । तच्चैकस्य पदस्य सामान्यत एव न विशेषत इति न बुद्धौ ब्रह्मारोहः । यदि च विशेषतस्तदा धर्मिग्राहिविरोधस्तदवस्थ एवेति समुदायार्थः ।

केचिन्मायावादिनोऽन्विताभिधानमङ्गीकुर्वते विज्ञानघनादय इति नाप्राप्तशङ्केयम् ।

२८सु०- व्यावर्तकधर्मैर्व्यावृत्तस्यैवोपजीव्यत्वमिति यदुक्तं तन्नास्ति । बाधकज्ञानेषु तदभावात् । न च तत्रापि व्यावृत्तस्यैवोपजीव्यत्वं न स्वरूपमात्रस्येत्युक्तमिति वाच्यम् । पूर्वस्मिन् भ्रमज्ञाने व्यावृत्तत्व(स्य)स्यैवासिद्धत्वात् । सिद्धौ च भ्रमत्वानुपपत्तेः । तन्मात्रमुपजीव्यं ही त्युक्तविरोधाच्चेत्यत आह पुरोवर्तित्वेति ।

अनु०-पुरोवर्तित्वपूर्वाणि देवदत्तादिकभ्रमे ।व्यावर्तयन्ति तद्रूपं चैत्रमात्राद्विनैव तु ।

देवदत्तादौ यश्चैत्रादिभ्रमस्तत्र पुरोवर्तित्वपूर्वाणि विशेषणानि देवदत्तादिस्वरूपं देवदत्तादेरविदितत्वाच्चैत्राद्विनैवापुरोवर्त्यादिभ्यो व्यावर्तयन्ति यस्मात्तस्माद्बाधकज्ञानं व्यावृत्तमेव उपजीवतीति नियमो नानुपपन्नः ।

नापि भ्रमानुपपत्तिः । आरोप्यव्यावृत्तेरनङ्गीकरणात् । तन्मात्रशब्देन चारोप्यमात्रव्यावर्तनान्नोक्तविरोधोऽपीति भावः ।

नन्वनेन नात्यन्तव्यावृत्तिरु(पजीव्यत्वो)पयोगिनी । किन्तु व्यावृत्तिमात्रमित्युक्तं भवति । तत्प्रकृतेऽप्यस्ति । तत्त्वादिना ब्रह्मणोऽपि व्यावृत्तत्वेनोपजीव्यत्वसम्भवादिति चेन्न । तावन्मात्रेण बोध्यस्यापि ब्रह्मास्मीति ज्ञानानुपपत्तेरुक्तत्वात् ।

२९सु०- दोषान्तरं चाह ब्रह्मण इति ।

अनु०-ब्रह्मणो निर्विशेषत्वाद्व्यावर्तयति किं पुनः

ब्रह्मणः पुनः इति सम्बन्धः । किं कर्तृ, ब्रह्म व्यावर्तयति, न किमपि ।

तत्त्वादीनामङ्गीकारेऽपि दोषमाह यस्मादिति ।

अनु०-यस्मात्कस्माच्चिदप्यर्थात्तावच्चेत्सिद्धसाधनम्

तत्त्वादि विशेषणेन यस्मात्कस्माच्चिदप्यर्थात् तत्त्वादिरहितात् । तावद्व्यावृत्तं चेदुपजीव्य । त्वमसीति बोध्यते । तदेदं वाक्यं सिद्धसाधनं ज्ञातस्यैव ज्ञापकं स्यात् । बोध्येन अस्यार्थस्य प्रागेव विदितत्वात् । तथा चाशास्त्रं स्यात् ।

३०सु०-मा भूत्तत्त्वादिना व्यावृत्तं ब्रह्मोपजीव्यम् । विज्ञानमानन्दं ब्रह्मे त्यादिश्रुत्या ब्रह्मलक्षणत्वेनोक्तेन चिन्मात्रत्वादिना तु भविष्यतीत्यत आह चिन्मात्रत्वं चेति ।

अनु०-चिन्मात्रत्वं च नैवेष्टमविशेषत्ववादिनः

मात्रशब्देन चितः सर्वविषयत्वादिकं व्यावर्तयति । आनन्दत्वादेरप्युपलक्षणमेतत् । ब्रह्मण इति शेषः । चिन्मात्रत्वादिकं न ब्रह्मणो भिन्नम् अतो निर्विशेषत्वाविरोधात् तदङ्गीक्रियत इत्यत आह तावन्मात्रमिति ।

अनु०-तावन्मात्रं यदीष्टं स्यात्सर्वज्ञत्वं कुतो न तत्

तत् तर्हि तस्यापि श्रुतत्वादभिन्नत्वाच्चेति भावः । अभेदे कथं लक्षणत्वमिति चेत् । समं विज्ञानादावपि । उक्तश्च लक्ष्यलक्षणप्रकारो लक्षणसूत्र इति ।

३१सु०- श्रुतत्वसाम्येऽपि चिन्मात्रत्वादिकमेव धर्मिणि निवेश्यते । अविरुद्धत्वात् ।

न सर्वज्ञत्वादिकं विरुद्धत्वात् । यथा नेदं रजतमिति ज्ञानेऽविरुद्धपुरोवर्तित्वाद्युपेतस्य धर्मित्वं

न विरुद्धरजतत्वाद्युपेतस्येत्यत आह चिन्मात्रेति ।

अनु०-चिन्मात्राभेदसाध्येऽपि

चिन्मात्रेणाभेदश्चिन्मात्राभेदः सः साध्यः प्रतिपाद्यो यस्य तत्तथोक्तम् । तत्त्वमस्यादिवाक्ये चिन्मात्राभेदसाध्येऽङ्गीकृतेऽपि तद्वाक्यं सिद्धसाधनं भवेदित्यन्वयः । तत्कथमित्यत आह सिद्धमिति ।

अनु०- सिद्धं तत्प्रतिवादिनः

तच्चिदैक्यं प्रतिवादिनो बोध्यस्य यत इति शेषः । कथं सिद्धमित्यत आह स्वेति ।

अनु०-स्वाभेदाङ्गीकृतेरेव

स्वस्य स्वेनाभेदाङ्गीकृतेः । एव शब्दस्य सिद्धमिति पूर्वेण सम्बन्धः । स्वाभेदाङ्गीकृतौ चिदभेदः कथं सिद्ध इत्यत आह चित्त्वमिति ।

अनु०-चित्त्वं स्वस्यापि यन्मतम्

स्वस्य बोध्यस्य यत् यस्मात् मतं सम्मतम् ।

एतदुक्तं भवति । विरोधभयात् सर्वज्ञत्वादिविशिष्टं न धर्मीक्रियते इति वदता चिदानन्दरूपमपि न धर्मीकर्तव्यम् । ज्ञातज्ञापनप्रसङ्गात् । विरोध इव ज्ञातज्ञापनस्याप्यशास्त्रताहेतुत्वे विशेषाभावात् । चिन्मात्रं त्वदतिरिक्तं नास्तीति वाक्यार्थ इति चेन्न । अप्रतिभासनात् । गत्यन्तराभावादित्थं कल्प्यत इति चेत्(न्न) । सूत्रकृतैवार्थान्तरस्योक्तत्वात् ।

३२सु०- न विरोधभयाद्वयं सार्वज्ञादिकं धर्मिणि न निवेशयामः । किन्तु सर्वज्ञत्वादिकं (हि) न ब्रह्मणो भिन्नम् । नेह नानेत्यादिश्रुतिविरोधात् । नापि स्वरूपम् । तस्य वियदादिसर्वसापेक्षत्वात् । सर्वस्य च मिथ्यात्वात् । न हि तथाभूतस्य सत्यस्वरूपता सम्भवति । चिदानन्दादेस्तु ब्रह्मस्वरूपत्वे न काप्यनुपपत्तिरित्याशयवानाशङ्कते सर्वेति ।

अनु०-सर्वापेक्षतया सर्वज्ञत्वमित्येव तन्न हि ।इति चेत्

सर्वज्ञत्वं वर्तत इति शेषः । इति शब्दो हेतौ । एव शब्दस्य तदेवेत्यनेन सम्बन्धः । न हि मिथ्येत्यर्थः । परिहरति चेतनत्वं चेति ।

अनु०- चेतनत्वं च

यत्परसापेक्षं तन्न सदित्यङ्गीकारे ब्रह्मणश्चेतनत्वं च न स्यादित्यर्थः । कुत इत्यतो (ल्युट् प्रत्य)युप्रत्ययस्यानेकार्थत्वात् कर्तृवाचितां तावदुपादाय व्याचष्टे ज्ञत्वमिति ।

अनु०- ज्ञत्वं

चेतनत्वं नाम तावज्ज्ञत्वमित्यर्थः । ततः किमित्यत आह नेति ।

अनु०- न ज्ञेयवर्जितम्

ज्ञत्वमिति वर्तते । किन्तु ज्ञेयसापेक्षमेव । ज्ञानक्रियां प्रति कर्तृत्वं खलु ज्ञत्वम् । सकर्मकक्रियावचनश्च जानातिः । अतः कर्मापेक्षक्रियाकर्तृत्वमपि सापेक्षमेव ।

३३सु०- तथाऽपि कुतश्चेतनत्वं न स्यादिति चेत् । ज्ञस्य ब्रह्मणो ज्ञेयं स्वयमेव वा स्यात् परं वा । नाद्य इत्याह स्वेति ।

अनु०-स्वज्ञेयत्वं च नैवासौ मन्यते सविशेषतः

च स्त्वर्थः । असौ मायावादी । कुतो न मन्यत इत्यत आह सविशेषत इति । सविशेषत्वप्रसङ्गात् । प्रत्यक् पराग्भावलक्षणो हि कर्तृकर्मभावो नैकत्रैकस्य युज्यते । यदि स्यात् तदा भेदप्रतिनिधिना विशेषेण घटनीयः । अतो ब्रह्मणो ज्ञत्वज्ञेयत्वयोरङ्गीकारे विशेषोऽङ्गीकर्तव्यः स्यात् । निर्विशेषं च ब्रह्माङ्गीकृतमिति स्वज्ञेयत्वं न मन्यते । ततश्च परमेव ज्ञेयं वक्तव्यम् । तच्च मिथ्याभूतमिति कथं तदपेक्षं चेतनत्वं सत्स्यादिति । एवं ज्ञत्वस्य ज्ञानसापेक्षत्वमपि वक्तव्यम् ।

३४सु०- किञ्चैवं वदता स्वरूपमात्रमुपजीव्यमित्यपि वक्तुं न शक्यते । तस्यापि स्वशब्देन परापेक्षताप्रतीतेरित्याह स्वशब्दोऽपीति ।

अनु०-स्वशब्दोऽपि परापेक्षः

परापेक्षः परापेक्षस्यार्थस्य प्रतिपादकः । कथमित्यत आह तस्मादिति ।

अनु०-तस्माद्व्यावृत्तिरेव हि ।स्वशब्दार्थ इति प्रोक्तः

परस्मात् । हि शब्दो हेतौ । अर्थः प्रवृत्तिनिमित्तम् । इति प्रोक्तः शब्दशक्तिज्ञैः । स्वं च तद्रूपं चेति हि स्वरूपम् । रूपशब्दश्च स्वपरसाधारणः । तेन स्वस्मिन्प्राप्तेऽपि उच्यमानः स्वशब्दः परिसङ्ख्यान्यायेन परव्यावृत्तिमेव प्रतिपादयतीति ज्ञायते ।

३५सु०- सत्यमेतदेवं व्याख्याने । न चैवमित्यत आह स्वरूपमिति ।

अनु०- स्वरूपं नाम किन्न चेत् ।न स्वरूपाभिधायि स्यात् वैयर्थ्यं स्वपदस्य यत् । रूपशब्देन पूर्णत्वात् तच्च सामान्यतावचः ।

अस्मदभिप्रेतं व्याख्यानं न चेत् अङ्गीक्रियते तदा स्वरूपं नाम किं, न किमपि । स्वरूपशब्दो निरर्थकः स्यादित्यर्थः । रूपशब्दसमानार्थः स्वरूपशब्द इत्यतः कथमेतदिति चेदत्र वक्तव्यम् । स्वं च तद्रूपं चेति व्युत्पत्तिमङ्गीकृत्यैवमुच्यते । उताखण्ड एवायं शब्द इत्युपेत्य । आद्ये दोषमाह वैयर्थ्यमिति । यस्मादस्मिन्पक्षे स्वशब्दस्य वैयर्थ्यं तस्मात्स्वरूपं नाम किमिति सम्बन्धः ।

कुतो वैयर्थ्यमित्यत आह रूपेति । स्वरूपशब्दे यो रूपशब्दस्तेनैव रूपशब्दार्थाभिधानस्य पूर्णत्वात् । न हि रूपशब्दो रूपशब्दार्थं नाभिधत्त इति सम्भवति । अन्यथोत्पलनीलोत्पलशब्दावप्येकार्थौ स्याताम् ।

द्वितीयं निराकरोति तच्चेति । तत् रूपपदम् । चो यस्मादित्यर्थे ।

सामान्यतावचः सामान्याकारस्य वाचकम् । चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः ।

एतदुक्तं भवति । प्रतीतिप्रमाणक एव शब्दार्थनिश्चय इति हि शाब्दाः । तत्र रूपशब्दः सामान्याकारस्याभिधायकः । सर्वेषां ततस्तत्प्रत्ययात् । स्वरूपशब्दश्चासाधारणाकारस्य । तस्मात् तत्प्रतीतेः । तस्मान्न तयोरेकार्थत्वमिति ।

३६सु०- यदुक्तं चेतनत्वं ब्रह्मणो न स्यादिति तदिष्टापादनम् । न हि वयं ब्रह्मणश्चेतनत्वमङ्गीकुर्मः । क्रियावेशलक्षणस्य कर्तृत्वस्य निर्विकल्पकेऽभावात् । किन्तु चैतन्यमेव ब्रह्म । तदर्था एव चेतनत्ववादा व्याख्यातव्या इत्यतश्चैतन्यमपि न परेण शक्याङ्गीकारमिति भावेन तद्व्याख्याति चेतनस्येति ।

अनु०-चेतनस्य स्वभावो हि चैतन्यमिति गीयते

भावः शब्दप्रवृत्तिनिमित्तम् । तस्यात्रागन्तुकत्वं ज्ञापयितुं स्व शब्दः । इति हि गीयत इत्यनेन गुणवचनब्राह्मणादिभ्यः कर्मणि चेति स्मृतिं सूचयति । चेतनशब्दप्रवृत्तिनिमित्तं च ज्ञानम् । चिती संज्ञान इति पाठात् । ततश्च ज्ञानं ब्रह्मेत्युक्तं भवति ।

३७सु०- ततः किमित्यत आह तस्मादिति ।

अनु०-तस्माद्विशेषबाहुल्यं चैतन्यस्य विशेषतः

यस्माच्चैतन्यं नाम ज्ञानं तस्माच्चैतन्यस्य ब्रह्मणो, विशेषतोऽतिशयेन, विशेषबाहुल्यं प्रसज्यते । ज्ञानं हि ज्ञेयज्ञातृकरणसापेक्षं भवति । ज्ञानत्वादिधर्माश्चानिवार्याः । न च सविशेषं ब्रह्म परेणाङ्गीक्रियते । ज्ञेयादिकं च न स्वयम् । विरोधात् । परन्तु मिथ्येति तत्सापेक्षं ज्ञानं कथं सत्स्यात् । ब्रह्मणो ज्ञानत्वे ज्ञेयाद्युपेतता कुत इति चेत् । ज्ञानत्वात् । प्रसिद्धज्ञानवत् । न च ज्ञानत्वमसिद्धमिति युक्तम् । अङ्गीकारविरोधात् । व्याप्तिमुपपादयति नेति ।

अनु०-न ज्ञेयज्ञातृहीनं हि ज्ञानं नाम क्वचिद्भवेत्

यदुक्तं प्राग्ब्रह्मणश्चेतनत्वे ज्ञेयज्ञानोपेतत्वेन भाव्यमिति, तत्रापि ज्ञत्वात्सम्मतवदिति नियामकमभिप्रेतम् । प्रसङ्गात् तस्यापि व्याप्तिमुपपादयति ज्ञेयेति ।

अनु०-ज्ञेयज्ञानविहीनश्च ज्ञ इत्यत्र न च प्रमा

आद्यश्चशब्दो ज्ञेयादिराहित्यज्ञत्वयोः समुच्चये । द्वितीयस्तु व्यभिचारद्वयसमुच्चये ।

३८सु०- ननु प्रसिद्धस्य ज्ञानस्य ज्ञेयाद्युपेतत्वेऽपीदं ब्रह्मस्वरूपं ज्ञानं तद्रहितं भवतु किं बाधकमित्यत आह ज्ञातृज्ञेयेति ।

अनु०-ज्ञातृज्ञेयविहीनं च ज्ञानं चेद्भोक्तृभोग्यतः ।हीनं भोजनमेव स्यात् ताडनं कर्तृ ताड्यतः ।

हीनमेवेति सम्बन्धः । कर्तृ ताड्यत इति ताडयितृताड्याभ्यां हीनं स्यादित्यर्थः । धात्वर्थोऽपि ज्ञानं यदि कर्तृरहितं स्यात् । आकाङ्क्षावशात् सकर्मकतया प्रतीयमानमपि च यदि निष्कर्मकं स्यात् तदोक्तो बहुतरोऽतिप्रसङ्गः, विशेषाभावादिति । ज्ञविषयेऽप्येवं भोज्यभोजनविहीनो भोक्ताऽपि स्यादित्यादिरतिप्रसङ्गो वाच्यः । न हि सकर्मकक्रियायाः कर्ता क्रियादिरहितो युक्त इति ।

३९सु०- ज्ञाता ज्ञेयमिति च कारकाभिधानमेतत् । कारकमुत्पादकमिति च पर्यायावेतौ । कार्यमेव चोत्पादकमपेक्षते । अकार्यं च ब्रह्माख्यं ज्ञानमिति न तस्य कर्त्राद्यपेक्षेत्याशयवान् शङ्कते नित्यत्वादिति ।

अनु०-नित्यत्वात् तादृशं च स्यादिति चेत् नित्यत्वमकार्यत्वस्योपलक्षणम् । अनित्यस्य भोजनादेर्भोक्त्राद्यपेक्षायामपीदं नित्यत्वात् तादृशं ज्ञात्रादिरहितं च स्यादित्यनेन व्यापकविरुद्धोपलब्ध्या व्याप्यविपर्ययः शङ्कितः । नोत्पादकमेव कारकम् । तथा सत्यस्ति गगनमित्यादौ गगनादीनामकारकत्वप्रसङ्गात् । किन्तु धात्वर्थाश्रयः कर्ता, तद्विषयः कर्मेत्यादि ।

आकाङ्क्षाऽनाकाङ्क्षे एव च तदन्वितत्वानन्वितत्वयोः प्रयोजके । न तु कार्यत्वाकार्यत्वे । अत एव कश्चिद्धात्वर्थः कर्माद्यन्वितः कश्चिन्नेति युज्यत इत्याशयवानाकाङ्क्षामप्रयोजककृत्य कार्यत्वाद्येव प्रयोजककुर्वाणस्यातिप्रसङ्गमाह नित्येति ।

अनु०- नित्यवागपि । वाच्यवक्तृविहीना स्यात्

अकार्यस्य कारकानन्वितत्वेऽकार्या वेदवाक् वाच्यवक्तृविहीना स्यात् । कार्यस्य च कारकान्वितत्वे कर्माद्यन्विततानियमोऽपि स्यादित्यपेरर्थः । विपर्यये पर्यवसानमाह न हीति ।

न हि सा चैव तादृशी

सा तादृशी नैव हीति सम्बन्धः । द्वितीयप्रसङ्गस्य विपर्ययपर्यवसानं चशब्देनाह । कथं न सा तादृशीत्यत आह द्रष्टार इति ।

अनु०-द्रष्टारो वेदवाचो हि सन्ति वाच्यानि चाञ्जसा

वक्तार इति वक्तव्ये द्रष्टार इत्युक्तमपौरुषेयत्वाविघातार्थम् । अञ्जसेति वाच्यसद्भावे न काचिदनुपपत्तिरित्युक्तम् ।

४०सु०- ननु सन्ति स्थितिसमये वेदवाचो वसिष्ठादयो द्रष्टार इन्द्रादयश्च वाच्याः । न तु महाप्रलय इत्यत आह नित्य इति ।

अनु०-नित्यो द्रष्टा च वाच्यश्च भगवानेव च स्वयम् ।न हि वक्तृविहीना च वाच्यहीनाऽपि वाक् क्वचित् ।

द्वौ चशब्दावन्योन्यसमुच्चये । तृतीयो यस्मादित्यर्थे वेदवाच इति वर्तते । हि शब्दः तस्मादित्यर्थे । वाक् वेदवाक् । क्वचित् प्रलयेऽपि । यथा वेदवाग्वाच्याद्युपेताऽपि क्वचित्तद्रहिता तथा ब्रह्म(स्व)रूपं ज्ञानं व्यवहारे ज्ञेयाद्यन्वितमपि परमार्थतस्तद्रहितं भविष्यतीति प्रत्याशां वारयितुमिदं वचनम् ।

यस्मादेवं कार्यत्वादिकमप्रयोजकं किन्त्वाकाङ्क्षानिमित्तो नियतसम्बन्ध एव । तस्मान्नित्यवागिव नित्यमपि ज्ञानं ज्ञेयाद्युपेतमेवाङ्गीकार्यमित्युपसंहरति ज्ञातृज्ञेयेति ।

अनु०-ज्ञातृज्ञेयविहीनं च ज्ञानमेव न तद्भवेत्

ननु वाङ् न धात्वर्थः । अपि तु धात्वर्थं प्रति कर्म । तत्कथमत्रोदाहरणम् ।

उच्यते । आकाङ्क्षानिमित्तं प्रतिसम्बन्ध्यन्वितत्वं नित्यत्वेन न हीयत इत्येतावन्मात्रे(ण) वागुदाहरणस्य गृहीतत्वान्न दोषः । वागित्युक्ते हि किंवक्तृका किंवाच्येत्याकाङ्क्षा भवत्येव ।

वर्णानामप्यर्थवत्त्वस्य स्थितत्वान्न नित्यत्ववाच्यवत्त्वयोर्व्यधिकरणत्वम् ।

४१सु०- ज्ञस्यापि नित्यत्वेन ज्ञेयादिरहितत्वशङ्कैवमेव परिहार्येत्याह न हीति ।

अनु०-न हि नित्योऽपि वक्ताऽस्ति वाक्यवाच्यविवर्जितः ।ज्ञानज्ञेयविहीनश्च ज्ञोऽप्येवं नैव विद्यते ।

नित्योऽपि वक्ता परमेश्वरो वाक्यवाच्यविवर्जितो नास्ति । यस्मात्तस्मादेवं नित्योऽपि ज्ञो ज्ञानज्ञेयविहीनो नैव विद्यते । शक्तिः कारकमिति पक्षस्य स्थितत्वान्नित्यो वक्तेति युज्यते । अनेनोभयत्र व्याप्त्यभावेन व्यापकविरुद्धोपलब्धिरसिद्धेत्युक्तं भवति ।

४२सु०- मिथ्याभूतपरसापेक्षस्य सार्वज्ञस्यापि मिथ्यात्वमङ्गीकुर्वाणस्य चेतनत्वाद्यभावप्रसङ्गोऽभिहितः । इदानीं प्रपञ्चमिथ्यात्वं चाप्रामाणिकमित्याह किञ्चेति ।

अनु०-किञ्च सर्वविलोपश्च केन मानेन गम्यते

सर्वविलोपः सर्वस्य मिथ्यात्वम् । न तावत्प्रत्यक्षेण, तस्य सत्यताग्राहित्वात् । नाप्यनुमानेन, प्रत्यक्षबाधितस्य तस्य प्रामाण्याभावात् । न चागमेन । प्रपञ्चमिथ्यात्वं प्रतिपादयतः तस्य अभावादित्याक्षेपार्थः ।

४३सु०-ननु नेह नानाऽस्ति किञ्चने त्यागमस्य सद्भावात् कथं विश्वमिथ्यात्वे मानाभाव इति चेदत्र पृच्छामः । अत्र सर्वस्य मिथ्यात्वं प्रतिपादयति वाक्ये सर्वान्तर्गतत्वेन इदं वाक्यमेतद्वाक्यार्थश्च गृह्यते न वेति । आद्यमनूद्य दूषयति सर्वेणेति ।

अनु०-सर्वेण सह तद्वाक्यमर्थश्च यदि गृह्यते ।तदभावेन सर्वस्य नापलापो भवेत्तदा ।

तदभावेन वाक्यवाक्यार्थयोः मिथ्यात्वेन कारणेन । वाक्याभावे प्रतिपादकाभावात् वाक्यार्थस्य सर्वमिथ्यात्वस्याभावे च व्याघातात् । द्वितीयमनूद्य दूषयति न गृह्यते चेदिति ।

न गृह्यते चेत्तन्न्यायादपलापो न हि क्वचित्

क्वचित् वियदादिविषयेऽपि अपलापो निषेधो न युज्यते । तन्न्यायात् वाक्यादिन्यायात् । अयमर्थः वाक्यवाक्यार्थौ कुतः सर्वस्माद्बहिष्क्रियेते इति वाच्यम् । अनुपपत्तेरिति चेत् । किमनुपपन्नं न प्रतिपादनीयम् । अद्धेति चेत् । एवं वियदादिमिथ्यात्वमप्यनुपपन्नत्वान्न प्रतिपादनीयमिति ।

४४सु०- ननु वाक्योदाहरणे कृते नैवंविधं वाक्यमस्तीति वा (ए)नैषां पदानामत्र शक्तिर(र्ना)स्तीति वा नास्य वाक्यस्यात्र तात्पर्यमस्तीति वा वक्तव्यम् । अनेन विकल्पनिराकरणेन तु किं कृतं स्यादित्यत आह उपपत्तीति ।

अनु०-उपपत्तिविहीनस्य वाक्यस्यार्थो न गम्यते

विहीनस्य विरुद्धस्य । अर्थः तात्पर्यम् । एतदुक्तं भवति । न ब्रूमो वयं नास्तीदं वाक्यमिति । नाप्येषां पदानामत्र शक्तिर्नास्तीति । किन्त्वस्य वाक्यस्य प्रपञ्चमिथ्यात्वे तात्पर्यं नास्तीति । उपपत्तिविरोधाभावो हि प्रतीतार्थे तात्पर्यस्य ज्ञापकः ।

अत्र चास्त्युपपत्तिविरोध इति ज्ञापनाय विकल्प्य दूषणाभिधानं कृतमिति ।

४५सु०- स्यादेतत् । उपक्रमोपसंहाराभ्यासापूर्वताफलार्थवादोपपत्तयः श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्याश्च तात्पर्यलिङ्गानि । तत्रोपपत्तिविरोधेऽप्यन्यैर्लिङ्गैरस्य वाक्यस्य प्रपञ्चमिथ्यात्वे तात्पर्यमवगम्यतामित्यत आह उपक्रमादीति ।

अनु०-उपक्रमादिलिङ्गानां बलीयो ह्युत्तरोत्तरम् ।श्रुत्यादौ पूर्वपूर्वं च

उपक्रमादिलिङ्गानां मध्ये यद्यदुत्तरं तत्तद्बलीय इत्युपपत्तिरेव बलीयसी । श्रुत्यादौ लिङ्गसमूहे च यद्यत्पूर्वं तत्तद्बलीय इति । तत्रापि लिङ्गशब्दोदितोपपत्तिरेव बलवती । ततो बलवद्विरोधे सतामन्येषां लिङ्गानां न तात्पर्यनिश्चायकत्वं युक्तम् । कुत तदित्यत आह ब्रह्मतर्केति ।

अनु०- ब्रह्मतर्कविनिर्णयात्

ब्रह्मतर्काख्ये तर्कशास्त्रे तथा निर्णीतत्वात् ।

एतेनोपक्रमस्योपसंहारात् प्राबल्यं वदन्तो निरस्ताः । यथा चैतत् तथोक्तं न्यायविवरणे ।

४६सु०- इतश्च नाप्यस्य वाक्यस्य प्रपञ्चमिथ्यात्वे तात्पर्यमित्याह प्रत्यक्षमिति ।

अनु०-प्रत्यक्षमुपपत्तिश्च बहवश्चागमा यदा ।विरुध्यन्ते, न चार्थोऽस्ति यत्र, लिङ्गविरोधिता ।स एवार्थः कथं ग्राह्यः

सद्गगनमित्यादि प्रत्यक्षम् । तच्च साक्षिरूपत्वाद्बलवत् । उपपत्तिश्चार्थक्रियाकारित्वादिका । सा च व्याप्त्यादिमत्त्वाद्बलवती । आगमाश्च विश्वं सत्यमित्याद्याः । तेषां प्राबल्यव्युत्पादनाय बहव इत्युक्तम् । निरवकाशत्वाद्युपलक्षणमेतत् । यदा यस्मिन्नर्थेऽङ्गीकृते । यत्र यदर्थप्रतिपादनेऽर्थः प्रयोजनं च नास्ति । ब्रह्मणोऽद्वितीयतासिदि्धः प्रयोजनमिति चेन्न । तस्या एवाप्रामाणिकत्वात् ।

आत्मनो मुक्तिसिदि्धरिति चेन्न । विनाशेनापि तत्सिद्धेः । बहु जीववादिनामिवादर्शनेनाप्युपपत्तेः । वैराग्यार्थमिति चेन्न । दुःखसाधनताज्ञापनेन तत्सिद्धेः । अर्थग्रहणमुपलक्षणम् । उपक्रमादीनामप्यानुकूल्यं नास्तीति च द्रष्टव्यम् ।

न केवलं लिङ्गानुकूल्याभावः । किन्नाम यत्र लिङ्गविरोधिता च । एतद्द्वयं ग्रन्थान्तरे तत्र तत्रोक्तं ज्ञातव्यम् ।

४७सु०- तर्हि निरवकाशं वाक्यमप्रमाणं प्रसज्यत इत्यत आह उपपन्न इति ।

अनु०- उपपन्नेऽविरोधिनि

प्रत्यक्षादिप्रमाणोपक्रमादिलिङ्गविरोधिनि तदनुकूल्योपपन्ने च भगवति स्वगतभेदाभावेऽर्थे वाक्यस्य सति स एवार्थः कथं ग्राह्यः । नेह नानेति वाक्यस्यापव्याख्याने निराकृते लब्धमाह मुख्यार्थ इति ।

मुख्यार्थे विद्यमाने तु क्व सार्वज्ञं निषिध्यते

प्रतिषेधस्य सङ्कोचे कारणाभावेन प्रपञ्चमिथ्यात्वं मुख्योऽर्थः । तस्मिन्नविद्यमाने तु सार्वज्ञं न प्रतिषेद्धुं शक्यते । मिथ्यार्थसापेक्षतया हि तन्निषेध्यम् । यद्वोपपन्न इत्यादिकमेकं वाक्यम् । उपपन्नेऽविरोधिनि च । अत एव मुख्यार्थे वाक्यस्य विद्यमाने सति । अनेन प्रपञ्चमिथ्यात्वासिद्धेः क्व सार्वज्ञं निषिध्यत इति योजना । सङ्गतिस्तूक्तसङ्गतिसमाहारेण द्रष्टव्या ।

४८सु०- सर्वं तदुपजीव्यैवेत्यादिनोक्तमर्थमुपसंहरति अत इति ।

अनु०-अतः सर्वगुणैर्युक्तं ब्रह्माङ्गीकार्यमेव हि

अङ्गीकार्यं धर्मितयेति शेषः । तथा चोपजीव्यविरोधस्तत्त्वमस्यादिवाक्यस्य दुर्वार इति हेरर्थः ।

४९सु०-स्यादेतत् । सार्वज्ञादिगुणोपेतमेव ब्रह्म धर्मीकुर्मः । किन्तु तेषां मिथ्यात्वान्नोपजीव्यविरोधोऽद्वैतागमस्य । यथा यः पुरुषः स स्थाणुरित्यत्रारोपितेन पुरुषत्वेन व्यावृत्तं वस्तु धर्मीकृत्य प्रवृत्तावपि नोपजीव्यविरोध इत्यत आह अपलापोऽपीति ।

अपलापोऽपि सर्वस्य न कथञ्चन युज्यते

मिथ्यात्वाभिधानम् । अपि शाब्दः पूर्ववाक्यार्थसमुच्चये । सर्व शब्देन प्रकृतं गुणजातमुच्यते । कथञ्चनेति प्रमाणाभावात् श्रुत्यादिप्रमाणविरुद्धत्वाच्च । अप्राप्तत्वेनानुवादत्वाभावस्य चोक्तत्वादित्यर्थः ।

५०सु०- ननु च तत्त्वमस्यादिवाक्यमेव जीवब्रह्मणोरेकतां प्रतिपादयत्सार्वज्ञादिगुणजातस्य मिथ्यात्वं गमयति । न हि तस्य सत्यत्वे जीवब्रह्मैकत्वमुपपद्यते । तत्कथं गुणानां मिथ्यात्वे प्रमाणाभाव इति चेन्न । सिद्धे तत्त्वमस्यादिवाक्यस्य जीवब्रह्मैकत्वनिष्ठत्वे गुणानां मिथ्यात्वसिदि्धः । तत्सिद्धौ च तत्सिदि्धरिति परस्पराश्रयतादोषात् । दोषान्तरं चाह अनादीति ।

अनु०-अनादियोग्यता चोक्ता तेन ग्राह्यैव सर्वथा

यस्माज्जीवानामनादियोग्यतोक्ता प्रमाणैरुपपादिता । तेन कारणेन सा ग्राह्यैव सर्वथा । एतदुक्तं भवति । यदा देवमानवदानवरूपा तदवान्तरभेदरूपा च जीवानां योग्यताऽनादि नित्या प्रमिता तदा का वार्ता जीवब्रह्मणोरेकत्वस्य । तथा च कथं तत्सिद्धये गुणानां मिथ्यात्वकल्पनमिति ।

अत्रैव हेत्वन्तरमाह मुक्तानामिति ।

मुक्तानां तारतम्यं च मानैरुक्तैर्न चाल्यते

मानैरुक्तैरिति । मानानामुक्तत्वादित्यर्थः । न चाल्यते नान्यथयितुं शक्यते । यदा मुक्तावपि तारतम्यं प्रमितम् । तदा का जीवब्रह्मैक्यप्रत्याशा । कथं च तत्त्वमस्यादिवाक्यस्य तत्परत्वम् । यतो गुणानां मिथ्यात्वकल्पनं युक्तं स्यादिति ।

५१सु०- मुक्तानां तारतम्ये प्रमाणान्तरमाह ज्ञानिनोऽपीति ।

अनु०-ज्ञानिनोऽपि यतो नित्यं कुर्वन्ति शुभमेव हि ।तारतम्यं तु मुक्तौ च तेनैवाध्यवसीयते ।

एव शब्देन पापं परिहरन्ति चेति सूचयति । तु शब्देन शुभाशुभकरणपरित्यागयोः तारतम्यं द्योतयति । हिशब्देन तत्र प्रमाणप्रसिदि्धम् । प्रमाणानि तु दशकल्पमित्यादीनि प्रागुदाहृतान्येव । तेनैवेत्यस्य प्रमाणस्य निरवकाशतामाह । प्राङ्मोक्षसाधनानां तारतम्यान्मोक्षतारतम्यमुक्तम् । इदानीं तु ज्ञानेन निश्चितमोक्षाणामपि शुभाशुभकरणपरित्यागतारतम्यादुच्यत इति भेदः । विपक्षे बाधकमाह तारतम्यमिति ।

अनु०-तारतम्यं न चेन्मुक्तौ कुतः कुर्युः शुभं पुनः

पुनरिति ज्ञानोत्तरम् । यदि ब्रह्माद्या मुक्तौ तारतम्यवन्तो न स्युस्तदा ज्ञानमात्रेण मोक्षस्य प्राप्तप्रायत्वाज्ज्ञानोत्तरकालं शुभं न कुर्युः । अशुभं च न परित्यजेयुरित्यर्थः ।

५२सु०-विपर्ययपर्यवसानमाह कृच्छ्रेणेति ।

अनु०-कृच्छे्रणापि तपो ज्ञानं कर्माप्येते चरन्ति हि ।बिभ्यति स्माशुभान्नित्यं सकामाश्च शुभे सदा ।

तपो ज्ञानं कर्मापी त्यनेन शुभमित्युक्तं भवति । ज्ञानमिति श्रवणादिकमुच्यते । कर्मेति यज्ञादि । एते ज्ञानिनः । कृच्छ्रेणापी त्यादिविशेषणानां फलमनुपदमेव ज्ञास्यते । सकामाश्च शुभे सदे त्येकस्य तप आदेश्चरणकाले तप आद्यन्तरं कामयन्त इत्यर्थः । तस्माज्ज्ञानोत्तरकालानुष्ठितेन विचित्रेण शुभेन विचित्रामानन्दवृदि्धं प्राप्नुवन्तीति शेषः ।

५३सु०- भवेदेतद्यदि ज्ञानोत्तरकालकृतानां शुभानां फलवत्त्वं स्यात् । न चैवम् । तेषां कर्मस्वनधिकारात् । अनधिकारिणा च कृतं विफलमिति प्रसिद्धमेव । अनुष्ठानं त्वन्यथाऽप्युपपद्यते । ते हि प्राग्ज्ञानोदयादारनैरन्तर्याभ्यां शुभान्यनुष्ठितवन्तस्तत्स्वाभाव्यमापन्ना ज्ञानोदयानन्तरमप्यनुतिष्ठन्तीत्याशङ्क्य परिहरति न चेति ।

अनु०-न च स्वभाव एवायं भयपूर्वप्रवृत्तितः

अयं ज्ञानिनां शुभाचरणरूपः । अकरणे प्रत्यवायो भविष्यतीति एवं भयपूर्वप्रवृत्तितः कृच्छे्रणैवाचरणाच्च, शुभस्यैवेति प्रेक्षापूर्वमशुभपरित्यागेनेत्यर्थः ।

अनु०-कृच्छ्रेणाचरणाच्चैव शुभस्यैव पुनः पुनः

एतेन कृच्छ्रेणापीत्यादिविशेषणफलमुक्तं भवति । न हि स्वभावकृता प्रवृत्तिरेवं भवितुमर्हति ।

५४सु०- नन्वेते प्रागनुष्ठानकाले भयपूर्वं कृच्छे्रणाशुभपरित्यागेनैवानुष्ठितवन्तः । अतः तत्स्वभावा एव संवृत्ता इदानीमपि तत्स्वाभाव्येन तथैव कुर्वन्तीत्यङ्गीकारे को दोष इत्याशङ्क्याह तादृशोऽपीति ।

अनु०-तादृशोऽपि स्वभावश्चेदज्ञस्यापि भवेत्तथा

भयपूर्वप्रवृत्त्यादिरूपोऽपि ।

५५सु०-ज्ञानिनस्तावदनुष्ठानेऽज्ञेभ्यो न विशिष्यन्ते । तत्र ज्ञानिनां शुभप्रवृत्तिः पूर्वतरपूर्वतमस्वभावबलायातैव न तु फलवतीत्यङ्गीकुर्वाणं प्रति यदि कश्चिद् ब्रूयात् अज्ञानिनामपि शुभा प्रवृत्तिः पूर्वतरपूर्वतमस्वभावागतैव न तु फलवती विशेषाभावादिति, तदा किं वाच्यमिति । प्रतिबन्दीं मोचयितुमाशङ्कते फलवत्त्व इति ।

अनु०-फलवत्त्वे प्रमाणं चेत्तत्र ज्ञस्य समं हि तत्

अज्ञानिनां कर्मणोऽस्तीति शेषः । साम्ये हि प्रतिबन्दीग्रहः । न च तदत्रास्ति । यतोऽज्ञानिकृतकर्मणां सफलत्वे कर्मजं बुदि्धयुक्ता ही त्यादिकं प्रमाणमस्ति । उपलक्षणं चैतत् । अधिकारिणश्चैते विधिगोचराश्चेत्यपि द्रष्टव्यम् । न ह्येवं सति स्वभावकल्पनाऽवकाशोऽस्तीति । एवं तर्हि ज्ञानिष्वपि न स्वभावकल्पना युक्तेत्याशयवानाह तत्रेति ।

तत्र कर्मणः फलवत्त्वे । तत् प्रमाणम् । अत्राप्यधिकारादिकमुपलक्षणीयम् ।

५६सु०- किं तत्प्रमाणमित्यतस्तद्दर्शयति निष्काममिति ।

अनु०-निष्कामं ज्ञानपूर्वं च निवृत्तमिह चोच्यते ।निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम् ।

इह प्रवृत्तनिवृत्तयोर्मध्ये । अभ्येति अतिशयेनैति । आनन्दोद्रेकसाहित्येन मुक्तो भवतीत्यर्थः । एतत्स्मृतिवाक्यार्थविवरणाय वाक्यान्तरं पठति शुभेनेति ।

अनु०-शुभेनानन्दवृदि्धः स्याद् ह्रासश्चैवाशुभेन हि ।ज्ञानिनोऽपि यतस्तेन कर्तव्यं शुभमेव तैः ।

ह्यास श्चानन्दस्य । शुभमेव कर्तव्यमशुभं त्याज्यं च । अनेन विधिसद्भावोऽपि सिद्धः । ततोऽधिकारश्च ।

अत्र श्रुतिमप्याह उपास्त इति ।

अनु०-उपास्ते स य आत्मानं क्षीयते नास्य कर्म हि ।अस्माद्ध्येवात्मनो यद्यत्कामयेत्सृजते च तत् ।

अनेन स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजत इति श्रुतिमुपादत्ते ।

आत्मानं परमात्मानम् । लोकं सर्वाश्रयम् । उपास्ते कारणेन कार्योपलक्षणं पश्यतीत्यर्थः । स विद्वान्मुक्तो भूत्वा यद्यत्कामयते तत्तत्कर्मास्माद्ध्येव आत्मनोऽस्यात्मनः प्रसादेन सृजते ।

अविद्वान्बहुकर्मापि ह्यन्तवत्फलमाप्नुयात्

अविद्वानित्यनेन यद्यप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवे ति श्रुतिमुपादत्ते । अनया चार्थाज्ज्ञानिकर्मणः साफल्यं सिद्ध्यति । उपरि चोपयोगो भविष्यति ।

अनु०-यदेव विद्यया कुर्यात् तदेव ह्यतिवीर्यवत् ।इत्यादिवाक्यसामर्थ्यात् तारतम्यं विमुक्तिगम् ।

यदेवेत्येनेन यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवती ति श्रुतिमुपादत्ते ।

विद्यया ब्रह्मसाक्षात्कारपूर्वकमुपनिषदा स्वयोग्य(म्)या वीर्यवत्तरमधिकफलमित्यादिवाक्यसामर्थ्याज्ज्ञानिकृतकर्मणां फलवत्त्वं तावत्प्रतीयते । ततस्तेषां वैचित्र्याद्विमुक्तिगं तारतम्यं च सिद्धमित्यर्थः ।

५७सु०- स्यादेतत् । नैतानि वाक्यानि ज्ञानिकर्मणां साफल्यं प्रतिपादयन्ति । स य आत्मानमित्यत्र तावत् उपासककर्मणाम् अक्षयफलत्वश्रवणात् । इतरत्र च ज्ञानविद्याशब्दयोः परोक्षज्ञानार्थत्वस्याप्युपपत्तेरित्याशङ्कां परिहरति न चेति ।

अनु०-न चात्रोपासकस्यैव फलमक्षयमुच्यते

अत्र वाक्येषु । फलं कर्मणाम् । तथा ज्ञानादिपदं परोक्षज्ञानार्थतया न व्याख्येयमित्यपि ग्राह्यम् । कुतो नेत्यत आह न हीति ।

अनु०-न हि ज्ञानं विना क्वापि फलस्याक्षयता भवेत्

ज्ञानं ब्रह्मसाक्षात्कारम् । क्वापि मोक्षेऽन्यत्र च । फलस्य कर्मणाम् ।

इदमुक्तं भवति । ब्रह्मसाक्षात्काररहितेनोपासकेन कृतानि कर्माण्यक्षयफलानि केन प्रकारेणेति चिन्त्यम् । किमक्षयं मोक्षं कुर्वन्तीति । उत स्वर्गादिकम् । नाद्यः । नान्यः पन्था इति श्रुतिविरोधात् । न द्वितीयः । पुण्यचितो लोकः क्षीयत इति स्वर्गादिफलानां क्षयित्वश्रवणात् । अनेवंविन्महत्पुण्यं कर्म करोति , तदेव वीर्यवत्तरं भवती त्युदाहृतश्रुतिविरोधश्च पक्षद्वयेऽपि ।

तदेवमज्ञपक्षे वाक्यार्थानुपपत्तेरुपासकपदस्य ज्ञान्युपलक्षकत्वमेव युक्तम् । तथा ब्रह्माभ्येतीति श्रवणाज्ज्ञानपदस्य साक्षात्कारवाचित्वमेव युक्तमिति । अत एव वाक्यसामर्थ्यादित्युक्तम् । यद्यपि पश्यन्नपीममात्मानमित्याद्याः स्पष्टार्थाः श्रुतयोऽत्र सन्ति । तथाऽपि मीमांसार्थमेतासामुदाहरणम् ।

५८सु०- नन्वज्ञपक्षेऽपि नानुपपत्तिः । उपासकेन कृतानि खल्वसङ्कल्पितफलानि कर्माणि ज्ञानमुपजनयन्ति । कर्मणा ज्ञानमातनोतीति श्रुतेः । ज्ञानेन मोक्षो भवतीत्यज्ञकृत कर्मणामपि ज्ञानद्वारेणाक्षयफलत्वोपपत्तेरित्याशङ्क्याह ज्ञानेति ।

अनु०-ज्ञानद्वारेण चेत् तस्य नास्मत्पक्षप्रतीपता

कर्मफलस्याक्षयतेति वर्तते । तस्य परकृतव्याख्यानस्य । अस्मत्पक्षप्रतीपता मुक्ततारतम्यविरोधिता । प्रत्युत तदनुकूलतैव । मुक्तौ तारतम्यमसहमानेन खल्वेवमन्यथा व्याख्यानं क्रियते तन्मुक्ततारतम्यमेव साधयति । कर्माणि हि जिज्ञासवो विचित्राणि कुर्वन्ति । तैश्च जायमानेन ज्ञानेन विचित्रेणैव भाव्यम् । अन्यथा कृतविप्रणाशाकृताभ्यागमापत्तेः । विचित्रेण ज्ञानेन विचित्र एव मोक्षो भावनीयः । पूर्वोक्तादेव हेतोरिति । तदेवं स्वमतविरोधिपरानुकूलमन्यथाव्याख्यानं न कार्यमेव । तथा चास्मद्व्याख्याने स्थिते प्रकृतं युक्तमिति ।

५९सु०- अस्तु वाऽन्यथाव्याख्यानं युक्तम् । ततश्चैतेषां वाक्यानां प्रकृतासाधकत्वम् । एवमपि ज्ञानोत्तरकर्मणो मोक्षान्तर्गतफलहेतुतायाः प्रमाणान्तरेण सिद्धेर्मुक्ततारतम्यं न हातुं शक्यमित्यभ्युपगमवादेनाह ज्ञानोत्तरस्येति ।

अनु०-ज्ञानोत्तरस्यैवमपि ह्यक्षयत्वं

कर्मणोऽक्षयत्वमक्षयमोक्षानुप्रवेशिफलत्वं सिद्ध्यति । कथमित्यत आह न चेति ।

अनु०-न चान्यथा

प्रकारान्तराभावात् । परिशेषप्रमाणादिति यावत् । एतेन ज्ञानोत्तरस्य कर्मणः साफल्येऽपि तस्य फलस्य मोक्षानुप्रवेशितायां प्रमाणाभावान्न मोक्षतारतम्यसिदि्धरित्यपि प्रत्युक्तम् ।

६०सु०-परिशेषमेव दर्शयति पूर्वेति ।

अनु०-पूर्वभाविशुभानां हि ज्ञानेनैव कृतार्थता ।प्रारब्धानां तु भोगेन तज्ज्ञानोत्तरकर्मणाम् ।मुक्तावनुप्रवेशः स्यादन्यथा तत्कृतिर्न हि ।

ज्ञानिकृतेषु कर्मस्वेता विधास्तावत्सम्भवन्ति । ज्ञानार्थत्वं वा भोगार्थत्वं वा व्यर्थत्वं वेति । तत्र ज्ञानिकर्मणां ज्ञानार्थत्वं तावन्नोपपद्यते । पूर्वभाविशुभैरेव ज्ञानस्य कृतत्वात् ।

तत्र हेतुः पूर्वभावीति ।

ज्ञानात्पूर्वभाविनां शुभानां यस्माद् ज्ञानेनैव कार्येण कृतार्थता नान्येन । तेषां कार्यान्तराभावात् । ज्ञानार्थत्वाभावे वैयर्थ्यं स्यादित्यर्थः । पूर्वजातं प्रति पश्चाद्भाविनः कारणत्वायोगाच्च । नापि भोगार्थत्वम् । प्राचीनप्रारब्धकर्मभिरेव भोगस्य जायमानत्वात् । तत्र हेतुः प्रारब्धानां च कर्मणां भोगेनैव कृतार्थतेति । पूर्ववत् तात्पर्यम् ।

वैयर्थ्यनिरासहेतुरन्यथेति । ज्ञानिकर्मणां व्यर्थत्वे तदनुष्ठानं न स्यात् । न हि प्रेक्षावन्तो व्यर्थं (कर्म) कुर्वन्ति । करणस्वाभाव्यादिति चेत् । अबुदि्धपूर्वताप्रसङ्गात् । लोकसङ्ग्रहार्थमिति चेन्न । तत्प्रयोजनस्यापि वाच्यत्वात् । ईश्वरवदिति चेन्न । मुक्तावपि प्रसङ्गात् । परिशेषफलकथनं तत्तस्माज्ज्ञानोत्तरकर्मणां मुक्तावनुप्रवेशो मुक्तिगतानन्दवृद्ध्यर्थत्वं स्यादिति ।

६१सु०- पूर्वभाविशुभानि ज्ञानार्थानीत्युक्तम् । तत्र सर्वेषां ज्ञानार्थतायां प्रसक्तायां विशेषमाह ज्ञानादिति ।

अनु०-ज्ञानात्पूर्वाणि कर्माणि शुभानि ज्ञानसिद्धये ।अकाम्यानि

ज्ञानात्पूर्वाण्यकाम्यान्येव शुभानि कर्माणि पुण्यकर्माणि ज्ञानसिद्धये भवन्ति न तु काम्यानि । शुभानीति विशेषणस्य कृत्यमाह निषिद्धानीति ।

अनु०-निषिद्धानि ज्ञानरोधाय भुक्तये

ज्ञानानुत्पाद, उत्पन्नस्याप्यभिभवो वा ज्ञानरोधः । भुक्तये दुःखस्य । एवं काम्यस्यापि विनियोगो ज्ञातव्यः । एतच्च(च)तुर्थे व्युत्पादनीयम् ।

६१असु०- ननु यथाऽकाम्यानि शुभानीति च विशेषणमुपादीयते तथा नित्यनैमित्तिकव्यतिरिक्तानीत्यपि विशेषणमुपादेयम् । नित्यादेरपि प्रत्यवायपरिहारार्थत्वेन ज्ञानकारणत्वाभावादित्यत आह योग्यताया इति ।

अनु०-योग्यताया बलाद्यच्च शुभबाहुल्यमादितः ।ज्ञानबाहुल्यमेवैतत्कुर्यान्नान्यस्य कारणम् ।

योग्यता ब्राह्मणत्वादिरूपा पितृमरणादिरूपा च । आदितो ज्ञानात्पूर्वं कृतम् । अन्यस्य प्रत्यवायमात्रपरिहारस्य । आध्यानाय प्रयोजनाभावादि त्यत्र अस्यार्थस्य समर्थितत्वान्नेह हेतुरुक्तः । अत्र योग्यताया बलाच्छुभमादितः कृतमेतच्च ज्ञानमेव कुर्यादिति च वक्तव्ये यदुभयत्र बाहुल्यग्रहणं कृतं तत्तस्य नास्मत्पक्षप्रतीपतेत्युक्तप्रपञ्चनार्थमिति ।

६२सु०- अत्र पुरुषार्थोऽतःशब्दादि त्यादिना ज्ञानस्य मोक्षसाधनत्वमुक्तम् । अत्र च कर्मतारतम्याज्ज्ञानतारतम्यं ज्ञानतारतम्यान्मोक्षतारतम्यमिति वदता च सूचितम् । ज्ञानपदं च अवबोधमात्रस्य प्रतिपादकमिति प्रतीतिनिरासार्थमाह ज्ञानस्येति ।

अनु०-ज्ञानस्य भक्तिभागत्वाद्भक्तिर्ज्ञानमितीर्यते

अस्मिञ्छास्त्रे यत्र यत्र ज्ञानस्य मोक्षसाधनत्वमुच्यते तत्र तत्र ज्ञानमिति पदेन भक्तिरीर्यते लक्ष्यते । कुतः । सम्बन्धात् । ज्ञानस्य भक्तिभागत्वात् । माहात्म्यज्ञानस्नेहसमुदायो हि भक्तिरित्युक्तम् । ततो ज्ञानं भक्तेर्भाग एकदेशः । तथा चैकदेशैकदेशित्वलक्षणात्सम्बन्धादित्युक्तं भवति । एकदेशेनैकदेशिलक्षणा च द(शमा)शामात्रं दत्तमित्यादौ प्रसिद्धैव ।

६३सु०- प्रकारान्तरमाह ज्ञानस्यैवेति ।

अनु०-ज्ञानस्यैव विशेषो यद्भक्तिरित्यभिधीयते

यद्यदा ज्ञानस्यैव विशेषः स्नेहादिसाहित्यलक्षणो धर्मो भवति तदा स पिण्डो भक्तिरित्यभिधीयते ।

एतदुक्तं भवति । ज्ञानं स्नेहश्च भक्तेरंशौ । तत्रैकेनांशेनांशान्तरस्योपलक्षणम् । तथा च अजहल-लक्षणया भक्तिरेव सिद्ध्यतीति । एकदेशान्तरेणैकदेशान्तरस्योपलक्षणे दृष्टान्तमाह परोक्षत्वेति ।

अनु०-परोक्षत्वापरोक्षत्वे विशेषौ ज्ञानगौ यथा

यथा ज्ञानस्य परोक्षत्वापरोक्षत्वलक्षणौ द्वौ धर्मौ । तत्र तमेव विद्वानिति परोक्षज्ञानस्य मोक्षसाधनत्वेऽभिहिते परोक्षत्वेनापरोक्षत्वं लक्ष्यत इत्यर्थः । दार्ष्टान्तिकं दर्शयति स्नेहयोगोऽपीति ।

अनु०-स्नेहयोगोऽपि तद्वत्स्याद्विशेषो ज्ञानगोऽपरः

स्नेहश्चासौ योग उपायश्चेति स्नेहयोगः । स्नेहेन योगः सम्बन्ध इति वा । तत ए(केनै)कदेशेनैकदेशान्तरलक्षणा च स्यादिति शेषः ।

६४सु०- लाक्षणिकप्रयोगे सूत्रकारस्य किं प्रयोजनमित्यत आह इत्यभिप्रायत इति ।

अनु०-इत्यभिप्रायतः प्रायो ज्ञानमेव विमुक्तये ।वदन्ति श्रुतयः

द्विविधलक्षणाभिप्रायेण श्रुतयः तरति शोकमात्मवित् इत्याद्याः ।

इदमुक्तं भवति । द्विविधा लक्षणा भवति रूढारूढभेदात् । तत्र द्वितीयायां प्रयोक्तुः प्रयोजनानुसन्धानेन भाव्यम् । न त्वाद्यायामभिधातुल्यायाम् । इयं च रूढलक्षणा । श्रुतिषु प्रायिकव्यवहारदर्शनात् । अतः किं प्रयोजनान्वेषणेनेति ।

६५सु०- भक्तिशब्दो माहात्म्यज्ञानपूर्वकस्य स्नेहस्य वाचक इत्युक्तं तथा ज्ञानशब्दो भक्तयर्थ इति । तदुभयमप्यनुपपन्नम् । भक्तिज्ञानाभ्यां मोक्षो भवतीत्यपि दर्शनात् । तत्र भक्तिशब्दस्योक्तार्थत्वे ज्ञानग्रहणवैयर्थ्यात् । (तस्य तत्रान्तर्भूतत्वात्) । ज्ञानपदस्य चोभयार्थत्वे भक्तिग्रहणवैयर्थ्यादित्यत आह सोऽयमिति ।

अनु०- सोऽयं विशेषोऽपि ह्युदीर्यते ।भक्तिज्ञानमिति क्वापि

क्वापि भक्तिर्ज्ञानमिति पदाभ्यां सोऽयं स्नेहलक्षणो बोधलक्षणश्च विशेषोऽप्युदीर्यते ।

न तूक्त एवार्थ इति नियमस्तस्मान्नानुपपत्तिः । यत्र भक्तिज्ञाने(ज्ञानं) सहोच्येते तदा पुनरुक्तिप्रसङ्गाद्भक्तिपदं स्वार्थैकदेशत्यागेन स्नेहांशस्य लक्षकम् । न तु मुख्यार्थनिष्ठम् । ज्ञानपदं च अनुपपत्त्यभावान्मुख्यार्थमेव न तु लक्षकमिति भावः ।

६६सु०-ननु विना स्नेहाज्ज्ञानमात्रेण यदि मुक्तिरनुपपन्ना स्यात् । तदा ज्ञानपदस्य लक्षकत्वमाश्रयणीयम् । न चैवम् । पुरुषार्थस्य भक्तयेकसाध्यत्वे प्रमाणाभावात् । द्वेषिणामपि शिशुपालादीनां मोक्षदर्शनाच्च । द्वेषिणः स्निग्धा इत्यस्य च विप्रतिषिद्धत्वात् । अतोऽनुपपन्नं लक्षणाश्रयणमित्यतो द्वेषस्य मोक्षसाधनत्वं तावन्निराकरोति न हीति ।

अनु०- न हि द्वेषयुता दृशिः ।पुरुषार्थाय भवति सर्वश्रुतिविरोधतः ।

अत्र द्वेषस्य पुरुषार्थसाधनत्वं निषिध्यते । दृशिरिति तु प्रसङ्गादुक्तम् । ज्ञानस्यावश्यकतामुपादाय स्नेहनिरासाय हि परः प्रत्यवस्थितः । कैमुत्यार्थं वा । माहात्म्यज्ञानमपि न द्वेषयुक्तं मोक्षहेतुः । किमुत केवलो द्वेष इति । यथोक्तम् । नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं विरञ्जनमि ति ।

६७सु०- द्वेषस्य मुक्तिसाधनत्वाङ्गीकारे कथं सर्वश्रुतिविरोध इत्यतस्तावदेकां श्रुतिं पठति चेतनस्येति ।

अनु०-चेतनस्य द्वयं भोग्यं संसारो मुक्तिरेव च ।संसारस्त्रिविधस्तत्र स्वर्गो मध्यमधस्तथा । मुक्तिश्च द्विविधा तत्र सुखं नित्यं तथाऽपरम् ।नित्यदुःखमिति ज्ञेयं साधनं संसृतावपि । काम्यं कर्म निषिद्धं च साज्ञानमिति निश्चयः ।द्वेषो भक्तिश्च मुक्तौ तु मुक्तिद्वयविधायकम् ।इति पैङ्गिश्रुतेर्द्वेषो नैव सन्मुक्तिकारणम् ।

जीवजातस्य । द्वयमेव । तत्र मुक्तिसंसारयोर्मध्ये । मध्यं मानुषत्वम् । अधो नरकादि । नित्यं सुखमेकं मुक्तित्वेन ज्ञेयम् । तथा नित्यदुःखमपरमिति ज्ञेयम् । संसृतौ संसृतिविषये, साधनमपि द्वेषो भक्तिश्चेति योग्यतया सम्बन्धः । विधायकं कारकम् ।

नित्यसुखरूपा सन्मुक्तिः । इति ज्ञायत इति शेषः ।

६८सु०- सन्मुक्तिकारणत्वस्याप्रतिषेधात्कथमेवमुच्यत इत्यत आह असदिति ।

अनु०-असन्मुक्तेः कारणं च

नित्यदुःखस्वरूपाया मुक्तेः कारणत्वेन तावद् द्वेष उक्तः । तेन सन्मुक्तिकारणं न भवतीति ज्ञायते विरोधादिति । नन्वस्यां श्रुतौ मुक्तिविषयौ भक्तिद्वेषौ सदसन्मुक्तिकारणत्वेनोच्येते । विष्णुविषयौ तु प्रकृतौ । अतः किं केन सङ्गतमित्यत आह मुक्ताविति ।

अनु०-मुक्तावित्यत्र केशवः । मुक्तिशब्दोदितो

मुक्तावित्यत्र सप्तम्यन्ते पदे मुक्तति प्रातिपदिकेनोदितः । केवलं मुक्तिशब्दोदित इत्युक्ते मुक्तिद्वयेत्यत्रापि प्राप्तिः । अतो मुक्तावित्यत्रेत्युक्तम् । केन निमित्तेनेत्यत आह मोक्षमिति ।

अनु०- मोक्षं स्वभक्तानां करोति यत्

मुच्लृ मोक्षण इत्यस्मात् स्त्रियां क्तिनिति क्तिन्प्रत्ययः । स च बहुलग्रहणात् कर्तर्यपि भवति । यद्वा करोतीति करणे कर्तृत्वोपचारः । मुच्यतेऽनेनेति मुक्तिरिति करणे क्तिन्प्रत्ययः ।

६९सु०- द्वेषस्य मोक्षसाधनत्वाङ्गीकारे युक्तिविरोधं चाह द्वेषतोऽपीति ।

अनु०-द्वेषतोऽपि विमुक्तिश्चेन्महातात्पर्यरोधनम्

न केवलं भक्तया किन्तु द्वेषतोऽपि विशिष्टा मुक्तिश्चे दङ्गीक्रियते तदा यत्सर्वश्रुत्यादीनां भगवद्गुणोत्कर्ष एव महातात्पर्यं तद्विरुद्धमापद्येत । कथमित्यत आह भक्तयेति ।

अनु०-भक्त्या प्रसन्नतो देवान्मुक्तिरित्येव तद्गुणान् ।वदन्ति श्रुतयस्सर्वाः पुराणान्यागमा अपि ।

अन्येऽप्यागमाः । श्रुत्यादयो मुक्तिप्रयोजनाः परमेश्वरगुणविषयाश्चेति तावत्प्रसिद्धम् । तत्र सम्बन्धोऽयमेव । यद्भगवत एव जीवानां मुक्तिः । सा च प्रसन्नादेव । प्रसादश्च भक्तयैव । भक्तिश्च गुणज्ञा(नादेवे)न एवेत्येवं श्रुत्याद्यास्तद्गुणान्वदन्तीति । तथा च कथं द्वेषतो मुक्तयङ्गीकारे न महातात्पर्यविरोधः ।

७०सु०- भक्तेर्मोक्षसाधनत्वमनेन गम्यते । न च तदस्माभिरपाक्रियते । किन्तु भक्तिवद् द्वेषस्यापीत्यत आह यदीति ।

अनु०-यदि द्वेषेणः मुक्तिः स्याद्वक्तव्यो दोषसञ्चयः

तदा द्वेषोत्पादनार्थमिति शेषः । न चैवम् । गुणमात्रप्रतिपादनस्य प्रतिपादितत्वात् । ततो मोक्षार्थं प्रवृत्तो वेदादिर्गुणानेव प्रतिपादयन्मोक्षस्य भक्तिमात्रसाध्यत्वमभिप्रैतीति गम्यत इति भावः ।

ननु द्वेषाच्चैद्यादयो नृपा इत्यादीनि द्वेषस्यापि मोक्षसाधनतां प्रतिपादयन्ति वाक्यानि सन्ति । तत्कथं द्वेषस्य मुक्तिसाधनत्वाभाव इत्यत आह स्मर्तव्य इति ।

स्मर्तव्यो भगवान्नित्यमित्यर्थेनैव हि क्वचित् । द्वेषादिव गुणानाह पुराणे क्रुद्धवाक्यवत् ।

पुराणे क्वचित्प्रदेशे । भगवान् नित्यं स्मर्तव्य इत्यभिप्रायेणैव द्वेषान्मुक्तिमाहेव पुराणकृदिति सम्बन्धः । तस्मान्नोक्तविरोध इति हेरर्थः ।

इदमुक्तं भवति । पुराणवाक्यं द्वेषस्य मुक्तिसाधनत्वं प्रतिपादयदिवापाततो यद्यपि प्रतीयते । तथाऽपि तन्न तदभिप्रायम् । किन्तु मुमुक्षुणा भगवान् सर्वदा स्मर्तव्य इति तस्याभिप्रायः । यथा वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीदि त्यत्र नाकार्यकरणे तात्पर्यं किन्तु सर्वथा भर्तव्यत्वे, तथेहापीति । गुणानाहेति तात्पर्यान्तरम् ।

चैद्यादीनां द्वेषतो मुक्तिं प्रतिपादयद्वाक्यं भगवतः कृपालुत्वादीन्गुणानाहेति । शापादिना द्वेषिणोऽपि चैद्याद्यास्तात्कालिकद्वेषमनिरूप्य पूर्वतनीं भक्तिमेवापेक्ष्य भगवता मोचिताः । अहो कृपालुत्वं निर्विकारत्वं सत्यसङ्कल्पत्वं च तस्येत्यत्र तात्पर्यं तेषां वाक्यानामित्यर्थः । द्विविधानि वाक्यानि, वैरेण यन्नृपतय इत्यादीनि स्मरणप्रधानानि तेषां प्रथमा गतिः । द्वेषाच्चैद्यादय इत्यादीनि तेषां द्वितीयेति हृदयम् ।

प्रथमव्याख्याने लौकिकदृष्टान्तमाह क्रुद्धवाक्यवदिति । क्रुद्धवाक्यस्य यथा न प्रतीत एवार्थप्रामाण्यम् । किन्त्वन्यत्र; तथैवेत्यर्थः ।

७१सु०- एतद्विवृणोति यथेति ।

अनु०-यथा क्रुद्धः पिता पुत्रं मरेत्याक्षेपपूर्वकम् ।प्रोक्तस्यान्यस्य कृत्यर्थं वदत्येवं पुराणगम् ।वाक्यं

मरेति प्रकृत्यन्तरस्यैतद्रूपम् । जीव वा मर वा साधो व्याध मा जीव मा मरे ति प्रयोगदर्शनात् । आक्षेपो निन्दा । स्वेन प्रोक्तस्यान्यस्य कार्यस्य । पिता किञ्चित्पुत्रं प्रति विधत्ते इदं कुर्विति । स तु श्रमादिभीरुरकुर्वाण एवावतिष्ठते । तदा क्रुद्धः पिता ब्रवीति । ओ जाल्म वैधवेय भ्रियस्वेति । तस्य वाक्यस्य यथा न पुत्रमरणविधाने तात्पर्यं किन्तु स्वविहितकरणे । तथा च द्वेषेण स्मरणे मुक्तिर्भवतीति पुराणवाक्यस्यापि न द्वेषस्य मुक्तिसाधनत्वे तात्पर्यम् । किन्तु स्मरणस्य कर्तव्यतायामिति ।

७२सु०- इयं च व्यञ्जनावृत्तिरिति केचित् । तात्पर्यवृत्तिरित्यपरे । वाक्यलक्षणा(अ)नुमा(नमित्या)नं चेत्याचार्याः । प्रतीत एवार्थः किन्न स्यादित्यत आह श्रुतीति ।

अनु०-श्रुतिविरोधेन स्वविरोधेन चाञ्जसा ।बह्वागमविरोधाच्च न द्वेषान्मुक्तिवाचकम् ।

पुराणगं वाक्यमिति वर्तते । श्रुतयोऽतीतपादेऽत्र चोदाहृताः । यत्र द्वेषस्य मुक्तिसाधनत्वमुच्यते तत्रैव तद्विरुद्धमुच्यत इति स्वविरोधः । सोऽपि हिरण्यकशिपुश्चेत्यादिभागवतवाक्यानां पठितत्वात् प्रदर्शित एव । अञ्जसा मुख्यया वृत्त्या । द्वेषान्मुक्तिं प्रतिपादयन्न भवति ।

७३सु०- आगमविरोधं दर्शयति तम इति ।

अनु०-तमो द्वेषेण संयान्ति भक्तया मुक्तिं तथैव च ।विष्णौ विष्णुप्रसादेन विलोमत्वेन चाञ्जसा ।इति षाड्गुण्यवचनमप्युक्तार्थनियामकम् ।

विष्णौ भक्तया जातेन विष्णुप्रसादेनैव मुक्तिं संयान्ति । तथा विष्णौ द्वेषेण जातेन विलोमत्वेन विष्णुकोपेन अञ्जसा तमः संयान्तीति योजना । चशब्दौ समुच्चयार्थौ । उक्तार्थनियामकं विष्णुभक्तिरेव मुक्तिसाधनं न द्वेष इत्यस्यार्थस्य नियामकम् । एतद्वाक्यसमाख्यया चेतनस्येति श्रुतौ मुक्तावितिशब्दो विष्णोर्वाचक इति सिद्ध्यति । तथा च द्वेषो भक्तिश्चेत्येतद्द्वयं सन्मुक्तेः केवलो द्वेषस्त्वसन्मुक्तेः कारणमित्यन्यथाप्रतीतिरपास्ता भवति ।

७४सु०-इतश्च नैतद्वाक्यं प्रतीतार्थपरमित्याह महातात्पर्येति ।

अनु०-महातात्पर्यरोधेन कथं वाक्यं प्रमाणताम् ।याति

मोक्षप्रयोजनानां सर्वागमानां भगवद्गुणेष्वेव यन्महातात्पर्यं तदन्यथाऽनुपपत्त्या भक्तिरेव मुक्तिसाधनं न द्वेष इत्यवगम्यते । अतो महातात्पर्यविरोधेन च द्वेषवाक्यं प्रतीतार्थे कथं प्रमाणतां याति ।

ननु श्रुत्यादीनां कथं प्राबल्यम् । येन तद्विरोधादिदं वचनं स्वार्थात्प्रच्याव्यते । उच्यते । श्रुतेः श्रुतित्वादेव प्राबल्यम् । स्ववाक्यस्य निरवकाशत्वात् । अत एव तत्रोक्तमञ्जसेति । इतरागमानां च बहुत्वेन । अत एव बह्वागमेत्यभिहितम् । महातात्पर्ययुक्तेर्वाक्यतः प्राबल्यमुपपादयितुमाह सर्वेति ।

अनु०-सर्वार्थरूपं हि महातात्पर्यमिष्यते

सर्वेषां शास्त्राणामनन्यार्थतया यदेकार्थप्रतिपादकत्वं तद्रूपमित्यर्थः ।

७५सु०- कथमिदं लभ्यते । अर्थशब्दो मुख्यं प्रतिपाद्यमाह । सत एव पदार्थस्ये ति

यथा । स चैकवचनान्तः । तेन च तत्प्रतिपादकत्वं लक्ष्यत इति । कथमयं महातात्पर्यशब्दार्थ इत्यत आह वाचकत्वं हीति ।

अनु०-वाचकत्वं हि तात्पर्यं

तत् परं प्रतिपाद्यं यस्य तत्तत्परम् । तस्य भावस्तात्पर्यमित्ये(वमर्थवा)वं वाचकत्वं प्रतिपादकत्वं हि तात्पर्यमुच्यते । तस्य च महच्छब्देन विशेषणे योग्यतयैषोऽर्थो महातात्पर्यशब्दस्य भवतीति भावः । ततः किमित्यत आह यदर्था इति ।

अनु०-यदर्था अखिला रवाः ।सोऽर्थः कथं परित्याज्य एकशब्दस्य संशये ।

योऽर्थो येषां ते यदर्थाः । रवा आगमाः । एकशब्दस्य संशये एकवाक्यसम्बन्धिनि संशये सत्येकं सन्दिग्धं विरुद्धार्थं वाक्यमादायेत्यर्थः ।

एतदुक्तं भवति । सर्वाणि वाक्यानि सम्भूयानन्यार्थतया यमेकमर्थं प्रतिपादयन्ति तद्विरुद्धार्थं प्रतिपादयत् तदवान्तरवाक्यं यदुपलभ्यते सावकाशं च तन्महावाक्यार्थविरोधादन्यथा क्रियते न तु तद्विरुद्धो महावाक्यार्थस्त्यज्यत इति तावत्प्रसिद्धम् । महावाक्यस्य प्रधानत्वादुपक्रमादिभिर्निश्चितार्थत्वाच्च । अवान्तरवाक्यस्याप्रधानत्वात् सन्दिग्धार्थत्वाच्च । प्रकृते तु भक्तिरेव मुक्तिसाधनं न द्वेष इति सर्वैर्वाक्यैः सम्भूय प्रतिपादितोऽर्थः । अर्थाक्षि(आक्षि)प्तस्यापि प्रतिपाद्यस्येव तदर्थत्वात् । द्वेषान्मुक्तिं प्रतिपादयदेकं तदवान्तरवाक्यं सावकाशं चोक्तप्रकारेण । तस्मादिदमेव बाध्यत इति ।

७६सु०- द्वेषस्य मुक्तिसाधनत्वनिराकरणमुपसंहरति अत इति ।

अनु०-अतो विज्ञानभक्तिभ्यां पुरुषार्थः परो भवेत्

माहात्म्यज्ञानस्नेहाभ्यामेव न तु द्वेषेणेत्यर्थः । मोक्ष इति वक्तव्ये परः पुरुषार्थ इति वदता ज्ञानादिकमपि द्वेषिणां न भवतीति सूचितम् । ज्ञानादेरपि धर्माद्यपेक्षया परपुरुषार्थत्वात् ।

७७सु०- एवं द्वेषस्य मुक्तिसाधनत्वं निराकृत्येदानीं भक्तेः परमपुरुषार्थसाधकत्वे प्रमाणं नास्तीति यदुक्तं तन्निरासाय प्रमाणान्याह यस्येति ।

अनु०-यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।। भक्त्या ज्ञानं ततो भक्तिस्ततो दृष्टिस्ततश्च सा ।ततो मुक्तिस्ततो भक्तिः सैव स्यात्सुखरूपिणी ।।भक्त्या प्रसन्नो भगवान् दद्याज्ज्ञानमनाकुलम् ।तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया ।। नाहं वेदैर्न तपसा न दानेन न चेज्यया ।शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा । भक्तया त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ।। इत्यादिवाक्यतश्चैव सोऽयमुक्तार्थ ईयते ।

यथा देवे तथा गुराविति । यथा देवे देवयोग्या तथा गुरौ गुरुयोग्येत्यर्थः । अनेन ज्ञानस्य भक्तिसाध्यत्वमुच्यते ।

भक्तया ज्ञान मित्यनेन ज्ञानादेः । ज्ञानं परोक्षनिश्चयो जायते । ततो ज्ञानात्पक्वा भक्तिर्भवति ।

ततो दृष्टिस्ततश्च सा परिपक्वा भक्तिः ।

ततो मोक्षानन्तरं भक्तिरवतिष्ठते ।

सा सुखरूपिण्येव स्यान्न फलवती । भक्तया प्रसन्न इत्यनेनापीदमेवोच्यते । ज्ञानाभावे भक्तयभावादनाकुलमित्युक्तम् ।

तयैव पक्वया एतया परिपक्वया । वेदैरिति भक्तिरहितश्रवणादिभिरित्यर्थः । न विद्यतेऽन्यो विषयो यस्याः साऽनन्या ।

यादृशी तत्र भक्तिः स्यात् तादृश्यन्यत्र नैव चेत् । अनन्यभक्तिः सा ज्ञेया विष्णावेव च सा भवेदि ति च स्मृतिः । विवक्षितस्तु सन्धिर्भवतीति वचनाच्छक्य अहमिति युज्यते ।

तत्त्वेन याथार्थ्येन ज्ञातुम् ।

इत्यादिवाक्यतश्चेति चशब्देन चेतनस्य द्वयमित्यादीनि पूर्वोदाहृतवाक्यानि समुच्चिनोति । वाक्यत एव न त्वर्थात् ।

७८सु०- अनुमानेनाप्युक्तमर्थं साधयति न चेति ।

अनु०-न च प्रसादमाप्नोति द्वेषाद्भक्तया तमाप्नुयात् ।इति दृष्टानुसारित्वमप्यस्मिन्नर्थ ईर्यते ।

भगव द्द्वेषात् भगवत्प्रसादं नैवाप्नोति । भगवद्भक्तया तं भगवत्प्रसादं प्राप्नुयादित्यस्मिन्नर्थे दृष्टानुसारित्वं प्रत्यक्षदृष्टव्याप्तिकानुमानानुसारित्वमपि ईर्यते ज्ञायते ।

एतदुक्तं भवति । भगवत्प्रसादादेव मोक्ष इति तावन्निष्टङ्कितम् । भगवत्प्रसादो भगवद्द्वेषसाध्यो न भवति । भगवत्प्रसादत्वात् । यो यत्प्रसादो नासौ तद्द्वेषसाध्यो यथा गुरुप्रसादः । यद्वा भगवद्द्वेषो भगवत्प्रसादसाधनं न भवति । भगवद्द्वेषत्वात् । यो यद्द्वेषः स तत्प्रसादसाधनं न भवति । यथा गुरुद्वेषः ।

अथवा भगवान् स्वद्वेषिणि न प्रसीदति प्रेक्षावत्पुरुषत्वात् देवदत्तवत् । यद्वा भगवद्द्वेषी भगवत्प्रीतिविषयो न भवति भगवद्द्वेषित्वात् । यो यद्द्वेषी नासौ तत्प्रीतिविषयः । यथा सम्प्रतिपन्न इति द्वेषस्य प्रसादसाधनत्वेऽपास्ते मुक्तिसाधनत्वमेवापास्तं भवति । तथा भगवत्प्रसादो भगवद्भक्तिसाध्यो भगवत्प्रसादत्वात् । यो यत्प्रसादः स तद्भक्तिसाध्यो यथा गुरुप्रसादः ।

यद्वा गुरुभक्तिः भगवत्प्रसादसाधनं भगवद्भक्तिसाध्यो यथा गुरुप्रसादः ।

यद्वा भगवद्भक्तिः भगवत्प्रसादसाधनं भगवद्भक्तित्वात् । या यद्भक्तिः सा तत्प्रसादसाधनं यथा गुरुभक्तिः ।

अथवा भगवान् स्वभक्ते प्रसीदति प्रेक्षावत्पुरुषत्वात् सम्मतवत् । यद्वा भगवद्भक्तो भगवत्प्रीतिविषयो भगवद्भक्तत्वात् । यो यद्भक्तोऽसौ तत्प्रीतिविषयः । यथा गुरुभक्त इति । भक्तेः प्रसादसाधनत्वे सिद्धे मुक्तिसाधनत्वमेव सिद्धं भवतीति ।

७९सु०- नन्वलौकिके भगवति लोकदृष्टान्तेनैवमनुमानं न युज्यते । अन्यथाऽणुत्वादिनियमस्याप्यनुमानापत्तेः । अतो लोकविलक्षणो द्विष्टोऽपि प्रसीदतीत्यङ्गीकारे न बाधकमिति शङ्कामागमवाक्येन परिहरति य इति ।

अनु०-ये पृथग्विहिता विष्णोर्गुणा वेदेन सादरम् । त एव दृष्टवैलोम्यादङ्गीकार्या न चापरम् ।अन्यद्दृष्टानुसारेण वासुदेवेऽपि गृह्यते ।

पृथग् लोकवैलक्षण्येन, सादरं तात्पर्येण, दृष्टवैलोम्याद् दृष्टवैलोम्यमनादृत्य । अपरं वेदानुक्तं लोकविलक्षणं गुणजातं नैवाङ्गीकार्यम् । किन्तु वेदोक्तादणुत्वमहत्त्वयौगपद्यादेरन्यद्गुणजातम् । गुणा इत्यस्य प्रयोजनमुच्यते । दोषाभावा इति ।

अनु०-दोषाभावाश्च ये वेदैरुदिता अविहाय तान् ।अनुक्ता अपि च ग्राह्या महातात्पर्यशक्तितः ।एवं बृहत्संहितावाक् सिद्धान्तो हि तदीरितः ।

च स्त्वर्थः । लोकविलक्षणा अविलक्षणाश्चेति शेषः ।

महातात्पर्यशक्तित इति ।

सर्वथाऽपि दोषो भगवति नास्तीत्यत्र सामान्यतः सर्वशास्त्राणां तात्पर्यस्य निर्णीतत्वादित्यर्थः । वेदानुक्तस्याप्रामाणिकार्थस्य ग्रहणमयुक्तमित्याशङ्कामनेन निराचष्टे । विशेषतोऽनुक्तावपि सामान्यतः सिद्धेरिति भावः ।

तत् तस्मादीरितोऽर्थः सिद्धान्तः प्रामाणिकः । यद्वा बृहत्संहितेरितोऽर्थो हि सिद्धान्त इति तत्र बहुमानमुत्पादयति ।

८०सु०- एवं भक्तेरेव मोक्षसाधनत्वमुपपादितम् । भक्तिश्च केवलं भगवद्विषयैवेति प्रतीतिमपाकर्तुमाह तारतम्येनेति ।

अनु०-तारतम्येन तद्भक्तेष्वपि भक्तिर्विनिश्चयात् ।कर्तव्या

न केवलं विष्णौ किन्तु तद्भक्तेषु रमादिष्वपि, विनिश्चयात् सर्वथा, सा च क्रियमाणा तारतम्येनैव । कुत इत्यत आह एषाऽपीति ।

अनु०-एषाऽपि तद्भक्तिः

यतस्तद्भक्तेषु क्रियमाणैषाऽपि भगवद्भक्तिरेवातस्तद्विषयेऽपि भक्तिः कर्तव्या ।

एतदुक्तं भवति । विष्णुभक्तिस्तावत्कर्तव्येत्युपपादितम् । सा च तद्भक्तभक्तयैव साङ्गा नान्यथेति । एतदपि कुत इत्यत आह लोकेति ।

अनु०- लोकवेदानुसारतः

लोकशब्देन लोकसिद्धव्याप्तिमदनुमानमुच्यते । वेदशब्देनागममात्रम् ।

८१सु०- लोकानुसारितां दर्शयति यो हीति ।

अनु०-यो हि भक्तः प्रधाने स्यात्तदीयेष्वपि भक्तिमान् ।दृश्यतेऽसौ नियमतो विपरीतो विपर्यये ।

प्रधाने राजादौ । विपर्यये तदीयभक्तिराहित्ये । विपरीतः प्रधानभक्तिरहितः । नियमेन दृश्यते । अनेनान्वयव्यतिरेकावुक्तौ । तथा चायं प्रयोगः । विमतो भगवद्भक्तभक्तिमान् भवेत् भगवद्भक्तया पुरुषार्थभाक्तवात् । यो यद्भक्त्या पुरुषार्थभागसौ तद्भक्तभक्तो दृष्टो यथा सम्मतः । यश्च यद्भक्तभक्तो न भवति नासौ तद्भक्तया पुरुषार्थभाग्यथा सम्मत इति ।

ननु दैत्यादयो ब्रह्मादिषु भक्तिमन्तोऽपि तद्भक्तेष्विन्द्रादिषु भक्तिरहिता दृश्यन्ते । ततो व्यभिचार इत्यत आह व्यभिचार इति ।

अनु०-व्यभिचारो यदि क्वापि भक्तिह्रासोऽत्र कल्प्यते

यदि क्वापि परेण व्यभिचारश्चो द्यते तदाऽस्माभिरत्र पुरुषे भक्तिह्रासः कल्प्यते विफलभक्तित्वमुच्यते । तथा च विपक्षे विशिष्टस्य हेतोरभावान्न व्यभिचार इत्यर्थः । कुत एवं कल्प्यत इत्यत आह भक्तति ।

अनु०-भक्तिदोषो ह्यसौ यन्न तद्भक्तेष्वपि भक्तिमान्

तद्भक्तेष्वपि भक्तिमान् नेति यदसौ प्रधानभक्तेरेव दोषो हि । तेन प्रधानभक्तिरेव दुष्टा न फलायालमिति प्रसिद्धम् । हिरण्यगर्भादिभिर्दैत्यादिभ्योऽमरत्वादिकं सच्छलमेव दीयते मृषा

न भवतीति पुराणेषु सुप्रसिद्धमेवेति । वेदानुसारित्वं तूत्तरत्र प्रदर्शयिष्यते ।

८२सु०- तद्भक्तभक्तिः कर्तव्येत्येतदनुमानेनोपपाद्य सा च तारतम्येन कार्येत्येतदनुमानेन साधयति तारतम्येनेति ।

अनु०-तारतम्येन तेष्वद्धा भक्तिर्दृष्टानुसारतः ।विष्णुप्रसादानुसारात्कार्या दोषस्तदन्यथा

तेषु तद्भक्तेषु क्रियमाणा भक्तिरद्धा सर्वथा तारतम्येन कार्या । कुतः दृष्टानुसारतः । तारतम्येनेत्यस्यैव विवरणं विष्णुप्रसादानुसारादिति । यस्मिन्नधिको विष्णुप्रसादस्तस्मिन्नधिकेत्यादि । तदन्यथा साम्येन वैपरीत्येन च करणेऽनर्थो भवति ।

दृष्टानुसारत इत्युक्तं दर्शयति स्वेति ।

अनु०-स्वप्रीत्यनुसृतौ प्रीतिर्लोकेऽप्यद्धैव दृश्यते

अत्र स्व शब्देन राजादिः कथ्यते । तत्प्रीत्यनुसारेण तस्य यस्मिन्यथा प्रीति स्तदनुसारेण भक्तिकरणे सति तस्मिन्भक्ते तस्य राजादेः । प्रीतिरद्धा नियमेनैव दृश्यते ।

अयमत्र प्रयोगः । ईश्वरः स्वप्रीत्यनुसारेण स्वभक्तेषु भक्तेः प्रसीदति । प्रेक्षावत्पुरुषत्वाद्राजवदिति । अनेन प्रमेयान्तरमपि सिद्धमित्याह तारतम्येति ।

अनु०-तारतम्यपरिज्ञानमप्येतेनैव साधनम्

एतेनैव भगवद्भक्तेषु रमाब्रह्मादिषु तारतम्येनैव मुक्तिः करणीयेति समर्थितेनैव देवतातारतम्यपरिज्ञानं यत्प्रागुक्तं तदपि मोक्षस्य साधनमिति सिद्धम् । न ह्यविदिते तारतम्ये तारतम्यानुरोधेन मुक्तिकरणं सम्भवति । अनेनैव प्रकारेणानुमानसम्भवादिति वाऽतिदेशार्थः ।

८३सु०- भगवत्प्रसादतारतम्यानुसारेण तदीयेषु मुक्तिः कार्येत्यत्रागममप्याह लक्ष्मीति ।

अनु०-लक्ष्मीविरिञ्चवाणीशगिरिजेन्द्रा गिरां पतिः ।सूर्यादयश्च क्रमशो भगवत्प्रीतिगोचराः ।तेषु भक्तिः क्रमेणैव कार्या नित्यं मुमुक्षुभिः ।

तेन भगवत्प्रीतिक्रमेणैव ।

तिष्ठतु क्रमस्तेषु भक्तिकरणमेव कुतः । भगवत्प्रीतिगोचरत्वादेव ।

कारणान्तरं चोच्यते सर्वेऽपीति ।

अनु०-सर्वेऽपि गुरवश्चैते पुरुषस्य सदैव हि ।तस्मात्पूज्याश्च नम्याश्च ध्येयाश्च परितो हरिम् । इति षाड्गुण्यवचनादप्येषोऽर्थोऽवसीयते ।हरिभक्तिः क्रमेणैव तदीयेषु हरिस्मृतिः । हरिस्तुतिस्तत्स्मृतिश्च तत्स्तुतिर्हरिपूजनम् ।तत्पूजा विहितात्याग इति मुक्तेः क्रमेण हि । नियमात्साधनान्येव नित्यसाध्यानि चाखिलैः ।इति प्रवृत्तवचनं साधनस्य विनिर्णये ।

गुरुत्वं विद्याप्रवर्तकत्वेन प्रसिद्धमेव । पूज्याश्चेत्यादिना भक्तेरेव प्रपञ्चनं हरिं परितो न तु पृथक् । वेदानुसारत इति यदुक्तं तदप्यनेन दर्शितं भवति । क्रमेणैव तदीयेषु भक्तिस्तत्स्मृतिरित्यादौ तच्छब्देन तदीया उच्यन्ते । क्रमेणैवेति सर्वत्र सम्बध्यते । क्रमेणेति हरिविषयाणि भक्तयादीनि मुख्यसाधनानि तदीयविषयाणि तु अमुख्यसाधनानि इत्यर्थः । मुक्तिसाधनत्वात् अखिलैः मुमुक्षुभिर्नित्यसाध्यानि । साधनस्य विनिर्णये इति साधनविनिर्णयाख्ये अवान्तरप्रकरणे अस्तीत्यर्थः ।

एतदेव विवृणोति प्रवृत्त इति ।

अनु०-प्रवृत्ते पञ्चरात्रे हि साधनस्य विनिर्णयः ।

पञ्चरात्रे प्रवृत्तं नाम अवान्तरो ग्रन्थः । तत्रापि साधनस्य विनिर्णयः नाम प्रकरणम् अस्ति इत्यर्थः ।

८४सु०- उक्तार्थेष्वनुमानान्तराण्याह हरीति ।

अनु०-हरिद्वेषो न शुभदः सद्द्वेषत्वाद्यथा गुरोः ।क्रमाद्भक्तिर्हरिप्रीतिकारणं तत्प्रियोपगा ।भक्तिर्यतो यथा स्वस्मिन्नित्याद्या युक्तिरत्र च ।

सद्द्वेषत्वात् उत्तमपुरुषद्वेषत्वात् । वैष्णवैर्दैत्यादिषु क्रियमाणे द्वेषे व्यभिचारं वारयितुं सदित्युक्तम् । गुरोः द्वेषः । प्राग्द्वेषस्य भगवत्प्रसादसाधनत्वाभावे सामान्यव्याप्तिमाश्रित्य भगवद्द्वेषत्वं हेतुरुक्तः, अत्र तु शुभमात्रसाधनत्वाभावे विशेषव्याप्तिमेवाश्रित्य सद्द्वेषत्वमिति महान् भेदः ।

क्रमाद्भक्तिरिति । क्रममनुसृत्य रमादिषु भक्तिर्धर्मिणीत्यर्थः ।

तत्प्रियोपगा भक्तिर्यत इति । हरिप्रियविषयभक्तित्वादित्यर्थः । तत्प्रियानुपगच्छति विषयीकरोतीति तत्प्रियोपगा । या यत्प्रियविषया भक्तिः सा तत्प्रीतिकारणम् । यथा स्वस्मिन् भक्तिः । अत्र स्वशब्देन देवदत्त उच्यते । यथा राजप्रिये देवदत्ते भक्त राजप्रीतिकारणमित्यर्थः । इह क्रमादिति प्रतिज्ञायां विशेषणप्रक्षेपेण भगवद्भक्तभक्तेः कर्तव्यत्वं तत् तारतम्यस्य चावश्यकत्वं सिद्ध्यति । यद्वा अनेन प्रयोगद्वयं सूचयति । भागवतभक्तिर्भगवत्प्रीतिकारणं भगवत्प्रियभक्तित्वादिति । भगवान् रमादिषु तारतम्योपेतभक्तयैव प्रसीदति । तारतम्येनैव तद्विषयप्रीतिमत्त्वादिति च । युक्तिश्चेति सम्बन्धः ।

अत्र प्रागुक्तेऽर्थे ।

किं सामान्यव्याप्त्या, विशेषव्याप्तिरप्यस्तीत्याशयेन प्रयोगान्तरमुच्यते प्राधान्येति ।

अनु०-प्राधान्यतारतम्यानुसारिणी भक्तिरुत्तमा ।प्रीतिदैव हरेर्यस्माद्भक्तिः सा स्वोपगा यथा ।इति वा .. ।

उत्तमत्वतारम्यानुसारिणी रमादिषु भक्तिः हरेः प्रीतिदैव । यस्मात् सोत्तमा भक्तिः । शास्त्रविहितभक्तित्वादित्यर्थः । स्वोपगा सा विष्णुविषया भक्तिर्यथेत्यर्थः । इति वा अनुमातव्यमिति शेषः । अत्रापि पूर्ववद्विशिष्टसाधनात् पृथक्प्रयोगद्वयेन वा साध्यद्वयसिदि्धः ।।

।। इति उभयलिङ्गआधिकारिकाधिकरणे ।।

न्यायसुधा

।। अथ फलश्रुत्यधिकरणम् ।।

ब्र०सू०- ।। ॐ स्वामिनः फलश्रुतेरित्यात्रेयः ॐ ।।

८५सु०- ज्ञानं महाफलकारणमिति पुरुषार्थाधिकरणे प्रतिपादितम् । ज्ञानोत्तरमनुष्ठितं वर्णाश्रमकर्म शमदमादिकं चानन्दातिशयकारणमिति स्तुत्यधिकरणे । तदेतज्ज्ञानकर्मादिफलं किं प्रेरकत्वादीनां भवति उत कर्तृत्वाद्देवदत्तस्येति संशये प्रथमसूत्रेण देवानामेवेति पूर्वपक्षयित्वा ।

आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियत इत्येकदेशिमतेन सिद्धान्तमभिधाय सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवदि ति परमसिद्धान्तोऽभिहितः । तत्र देवानां ज्ञानादिफलमिति पूर्वपक्षांशो ग्राह्य एव । अवधारणमात्रमेव त्याज्यम् । अतः पूर्वपक्षसूत्रार्थं विवृणोति ज्ञानेति ।

अनु०- ज्ञानकर्मादिफलं चैषु क्रमोपगम्

फलं च देवानां भवतीति शेषः । भवच्चैषु देवेषु क्रमोपगं क्रमेणैवोपगच्छति ।

८६सु०- देवदत्तेनानुष्ठितस्य ज्ञानादेः फलं देवानां भवतीत्येका प्रतिज्ञा । भवच्च तत्क्रमेणैव न तु साम्येन वैपरीत्येन वेति द्वितीया । तत्राद्यायां हेतुं सूचयन् द्वितीयमुपपादयति स्वातन्त्र्येति ।

अनु०-स्वातन्त्र्यतारतम्येन फलं हि फलिनां भवेत्

फलिनां फलभाजां, स्वातन्त्र्यतारतम्येन स्वाम्यतारतम्यानुसारेणैव हि फलेन भाव्यम् । न तु साम्येन वैपरीत्येन वेत्यर्थः । ब्रह्मादयस्तारतम्येनैव फलवन्तस्तत्र तारतम्येनैव स्वातन्त्र्यादित्युक्तं भवति । अनेन प्रथमप्रतिज्ञायां स्वातन्त्र्यहेतुः सूचितो भवति यः सूत्रे स्वामित्वपदेनोक्तः । यद्यपि फलप्राप्तौ तारतम्यं न सूत्रितम् । तथाऽपि फलप्राप्तावुक्तस्य स्वामित्वहेतोः सामर्थ्येन प्राप्तमिति तदप्युपपादितम् ।

८७सु०- यदि स्वातन्त्र्याद्देवदत्तानुष्ठितज्ञानादिफलं देवानां स्यात् तर्हि तदनुष्ठितमिथ्याज्ञानादिफलमपि प्रसज्येताविशेषादित्यत आह अशुभं त्विति ।

अनु०-अशुभं त्वशुभेऽप्येषां स्वातन्त्र्यात्प्रीतितो हरेः ।आज्ञया चान्यगं नैव भोगाय भवति क्वचित् ।

अन्यगमशुभं त्वेषां देवानां क्वचिदपि भोगाय न भवति । कुतः । हरेः प्रीतितोऽशुभेऽप्येषां स्वातन्त्र्याद्भगवत्प्रसादेन मैतदस्मान् प्रापदिति निवारणे तेषां सामर्थ्यसद्भावात् । मैतदेतान् प्रापदिति हरेरेवाज्ञया च । अन्यगमिति वदता स्वगतं तु भवतीति सूचितम् । अनेन असति निवारणकारण इति स्वामित्वहेतुर्विशेषितो भवति ।

८७असु०-यदुक्तमविशेषादिति तदसिद्धम् । व्यवस्थापकश्रुतिसद्भावादित्याह पुण्यमेवेति ।

अनु०-पुण्यमेवामुमाप्नोति न देवान् पापमाप्नुयात् ।इत्यादिश्रुतयो मानमुक्तेऽर्थे

अनेन पुण्यमेवामुं गच्छति न ह वै देवान् पापं गच्छती ति श्रुतिमुपादत्ते ।

अमुं सप्तान्नविद्योपासनेन प्रेरकतया परपुरप्रवेशिनं परकृतं पुण्यमेवाप्नोति न पापम् । कुतः । देवो ह्यसौ जातो न हि देवान् प्राप्नोतीत्यर्थः । उक्तेऽर्थे शुभमेव भवति नाशुभमित्यर्थे ।

८८सु०- व्यवस्थापकान्तरमाह युक्तय इति ।

अनु०- युक्तयोऽपराः

अपराः पूर्वोक्ताभ्याम् । उक्तेऽर्थे मानमिति सम्बन्धः ।

कास्ता युक्तय इत्यतस्ता दर्शयितुमागमवाक्यं पठति उपासनेति ।

अनु०-उपासनाधर्मफलं यतो देहान्तरे स्थितिः । वासुदेवाज्ञया चैव पूर्वकर्मानुसारतः । प्रेरयन्ति हि ते जीवान् पुण्यपापेषु नित्यशः । अरागद्वेषतश्चैव कथं दोषानवाप्नुयुः । हर्याज्ञाकरणादेव पुण्यमेभिरवाप्यते । हरिपूजेति चोद्देशात् कथं न शुभमाप्नुयुः ।

यतः कारणात् देहान्तरे स्थितिः, परपुरं प्रविश्य तत्र पुण्यपापप्रेरणं, देवानां भगवदुपासनाजनितधर्मफलम् । अतः कथं पापादिकं प्रेरयन्तोऽपि दोषानवाप्नुयुः । न हि सात्त्विको धर्मो दुःखपर्यवसायी । तत्त्वव्याघातादित्यर्थः ।

परपुरे देवानां पापादिप्रेरणं न दुःखहेतुः । सात्त्विकधर्मफलत्वात् तत्त्वज्ञानवदित्युक्तं भवति ।

किञ्च ते देवा वासुदेवाज्ञयैव न तु स्वेच्छया तत्तत्कृतपूर्वकर्मानुसारत एव । अत एवारागद्वेषतो रागद्वेषौ विनैव नित्यशो जीवान् पुण्यपापेषु प्रेरयन्ति हि यस्मात् तस्मात् कथं दोषानवाप्नुयुः । प्रभोराज्ञयाऽपराधानुसारेण चोरशासकराजपुरुषवदिति भावः । पापादिप्रेरणेन देवानामशुभं न भवतीत्येव केवलं न, किन्तु हर्याज्ञाऽनुष्ठानाज्ज्योतिष्टोमाद्यनुष्ठातृभिरिवैभिर्देवैः पुण्यमेवाप्यते ।

किञ्च स्वविहितपरप्रेरणे हरिपूजेयमिति चोद्देशात् कथं देवा न शुभमाप्नुयुः ।

अनु०-अतो यथाक्रमं धर्मज्ञानयोः फलमञ्जसा ।सर्वप्राणिगतं देवाः प्राप्नुवन्त्याविरिञ्चतः ।

अत इत्युपसंहारः । धर्मज्ञानयोरेवेति योज्यम् । प्राप्नुवन्तोऽप्याविरिञ्चतो यथाक्रमं प्राप्नुवन्तीत्यपूर्वोक्तिर्नोपसंहारः । अन्यगतं ज्ञानादिफलं देवाः प्राप्नुवन्ति । देवगतं तु कथमित्यपेक्षायामुक्तं देवा इति ।

अनु०-देवा एव हि देवानां विशिष्टा विनियामकाः

देवानां अपकृष्टानाम् । अतस्तदीयज्ञानादिफलं तेषां भवतीति शेषः ।

ब्रह्मा त्विति आविरिञ्चत इत्युक्तस्य विवरणम् ।

अनु०-ब्रह्मा त्वखिलदेवानां नराणा• च नियामकः । अतः सर्वगुणानेष प्राप्नोत्यधिकमन्यतः ।

देवादिग्रहणमुपलक्षणम् । अधिकमिति क्रियाविशेषणम् ।

भवत्वन्यगतज्ञानादिफलप्राप्तिर्देवानाम् । तत्रापि तारतम्ये को हेतुरित्यत उक्तं द्रव्येति ।

अनु०-द्रव्यस्वातन्त्र्यविज्ञानप्रयत्नैरधिकं फलम् ।देवानामन्यगं चापि तेषु हि ब्रह्मणोऽधिकम् ।बृहत्तन्त्रोदितं वाक्यं हरिणा फलनिर्णये ।

द्रव्याणीन्द्रियादीनि तेषु स्वातन्त्र्यं द्रव्यस्वातन्त्र्यं विज्ञानप्रयत्नौ धर्माद्युत्पादनिमित्ते । अधिकैरिति शेषः । च शब्दोऽनुक्तसमुच्चयार्थः । मध्यमैर्द्रव्यस्वातन्त्र्यादिभिर्मध्यमम् । अल्पैरल्पमिति । तेष्वपि देवेषु निरवधिकद्रव्यस्वातन्त्र्यमत्त्वादिति हि शब्दार्थः । फलनिर्णय इति तत्रापि प्रकरणविशेषोक्तिः ।

द्रव्यस्वातन्त्र्याद्यतिशयात्फलातिशय इत्युक्तस्य व्याप्तिं दर्शयति लोकेऽपीति ।

अनु०- लोकेऽप्येतादृशगुणैः फलाधिक्यं हि दृश्यते

एतादृशगुणैरि त्यधिकैर्द्रव्यस्वातन्त्र्यादिभिः समुदितायां कृषौ, यस्याधिकं क्षेत्रादिद्रव्यस्वातन्त्र्यं, यस्य चाऽऽवापादौ ज्ञानप्रयत्नाधिक्यं तस्य फलाधिक्यं दृश्यत इत्यर्थः । एवं मध्यमाल्पयोरप्युदाहर्तव्यम् । अनेन स्वातन्त्र्यतारतम्येनेत्युक्तमुपपादितं भवति ।

८९सु०- प्रसङ्गात्पापादिफलं प्रेरकाणामसुराणां तारतम्येन भवतीत्याह एवञ्चेति ।

अनु०-एवञ्च कलिपूर्वाणामसुराणां महत्फलम् ।अशुभेषु सदैव स्यान्मिथ्याज्ञानादिकेषु हि ।

महाप्रेरकाणां महदित्यादीत्यर्थः । अशुभेषु अशुभनिमित्तम् । हि शब्देन स्वातन्त्र्यं हेतुमाह । एवमिति देवदृष्टान्तम् । असुराणां चेति सम्बन्धः ।

९०सु०- प्रागुक्तेऽर्थेऽत्र च प्रमाणान्तरमाह शुभेति ।

अनु०-शुभाशुभफलं देवा असुराश्च समाप्नुयुः ।क्रमेणैव यथाशक्ति यथा ये ये प्रयोजकाः । प्रेरका अपि पापानां न देवाः पापमाप्नुयुः ।इति प्रकाशिकायां हि प्रोवाच हरिरञ्जसा ।

यथासङ्ख्येन शुभाशुभफलम् । यथाशक्तति क्रमेणैवेत्यत्र युक्तिः । तस्य विवरणं ये ये यथा प्रयोजकास्तथा तथेति । प्रेरका इत्यस्य पूर्ववच्छङ्कापरिहारश्च ।

सु०-

ब्र०सू- ॐ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॐ ॐ सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॐ ।।

९१सु०- एवं प्रपञ्चेन पूर्वपक्षमुक्तवा सिद्धान्तसूत्रतात्पर्यमागमवाक्येनाह यद्यपीति ।

अनु०-यद्यप्येवं सुराणां च दैत्यानां च महत्फलम् ।शुभाशुभेभ्य एवं च कर्तुश्च स्याद्यथोदितम् ।

एवमुक्तप्रकारेण यद्यपि शुभाशुभेभ्यो ज्ञानादिभ्यो भवत्फलं सुराणां च दैत्यानां च भवतीत्युपपादितम् । एवञ्च तथाऽपि कर्तुः देवदत्तादेरपि फलं स्यादेव । आगमेऽप्यस्यार्थस्य प्रकृतत्वाद्यद्यपीत्यादि युज्यते । एतदुक्तं भवति देवासुराणां शुभाशुभफलमित्येतावदभ्युपगम्यते । प्रमितत्वात् । तेषामेवेति तु न क्षम्यते । किन्तु कर्तुरपि भवतीति । कर्तुः फलाङ्गीकारे यदु किञ्चेमाः प्रजा इति सावधारणश्रुतिविरोध आत्रेयवचनविरोधश्च स्यादित्यत उक्तं महदिति । देवादीनां महत्फलं कर्तुस्त्वल्पम् । अल्पस्य चासत्त्वविवक्षा बहुलमुपलब्धेति भावः ।

कुतः कर्तुः फलाङ्गीकार इत्यत आह यथोदितमिति । श्रुतिस्मृतिसद्भावादित्यर्थः । ताश्च भाष्यादावुदाहृता द्रष्टव्याः ।

९२सु०- युक्तिमप्याह तस्मादिति ।

अनु०-तस्मान्निरयमानुष्यस्वर्गमुक्तयुपभोगिनः । मानुषोत्तममारभ्य

कर्तुः शुभाशुभफलसद्भावादेव मानुषोत्तममारभ्य देवपर्यन्ता दैत्यपर्यन्ताश्च निरयाद्युपभोगिन इति युज्यते नान्यथेत्यर्थः । उक्तस्यापवादमाह देवास्त्विति ।

अनु०-देवास्तु निरयं विना ।असुरास्तु विना मुक्तिं तमोऽन्धमपि चाप्नुयुः ।इति तत्त्वविवेकोक्तं स्वयं भगवतो वचः ।

अन्यफलोपभोगिनः । न केवलमसुराणां मुक्तयभावः किन्त्वन्धन्तमोऽपि चाप्नुयुः ।

एतदुक्तं भवति । मनुष्योत्तमास्तावन्निरयमानुष्यस्वर्गमुक्तः प्राप्नुवन्ति । देवाश्च मानुष्यस्वर्गमुक्तः । असुराश्च स्वर्गमानुष्यनिरयान्धतमसानि । न च निरयादीनि निर्निमित्तानि । न च स्वकृतपापादीनि विना निमित्तमस्ति । तस्मात्कर्तुरप्यस्ति शुभाशुभफलप्राप्तिरिति ज्ञायते । अन्यथा निरयाद्यभावप्रसङ्गात् ।

न च वाच्यं सुरासुराणां कर्तृत्वप्रयुक्तफलाभावेऽपि प्रेरणनिमित्तफलसद्भावान्मुक्तयाद्युपपत्तिरिति । देवानां मानुष्यप्राप्तेरयोगात् । दैत्यानां स्वर्गादिप्राप्तेरनुपपत्तेः । सर्वथा मनुष्याणां निरयादिप्राप्तेरसम्भवादिति । तदिदमुक्तं मानुषोत्तममारभ्येति, मनुष्योत्तमानामादित्वोक्तया, निरयाद्यनेकफलोक्तया च । वचोऽस्तीति शेषः ।।

।। इति फलश्रुत्यधिकरणम् ।।

न्यायसुधा

।। अथ अनाविष्काराधिकरणम् ।।

ब्र०सू०-।।ॐ अनाविष्कुर्वन्नन्वयात् ॐ ।। ।

९३सु०- ज्ञानदानं किमाविष्कारेण कार्यमुतानाविष्कारेणेति संशये पूर्ववदत्रापि पूर्वपक्षमत्यन्तहेयत्वाभावात् प्रपञ्चेनाह ज्ञानदा अपीति ।

अनु०-ज्ञानदा अपि चाचार्या विशेषात् फलमाप्नुयुः

न केवलं शिष्याः किन्तु ज्ञानदा आचार्या अपि ज्ञानफलमाप्नुयुः । तच्च विशेषात् शिष्यादप्यतिशयेन । आचार्या इत्यनेनैव सिद्धे ज्ञानदा इति वचनं ज्ञानदानेति ज्ञापनार्थम् । चशब्दः परमाचार्यादिसङ्ग्रहः । कुत एतदित्यत आह मुक्ताविति ।

अनु०-मुक्तावष्टगुणं शिष्याद्गुरुराप्नोति शोभनम् ।तद्गुरुर्द्विगुणं तस्मात्सार्धं तावत्ततोऽपरे । देवाः सहस्रगुणितं क्रमात् तस्माद्यथोत्तरम् ।ब्रह्मा महौघगुणितमेवं फलविनिर्णयः ।इत्याह भगवांश्छास्त्रे गुरुवृत्ताभिधे स्वयम् ।

शिष्यात्, शिष्यस्य यच्छ्रवणफलं ततोऽष्टगुणं गुरुर्ज्ञानदानेनाप्नोति । तद्गुरुः गुरोर्गुरुः तस्मात् गुरुफलाद् द्विगुणं फलमाप्नोति । सन्तानकारणत्वात् । ततः परमगुरोरपरे गुरवः स्वशिष्यफलापेक्षया सार्धं तावत् अध्यर्धं फलमाप्नुवन्ति । यथोत्तरं तस्मात्क्रमादित्यध्यर्धप्राप्तिक्रमात् देवाज्ञानप्रवर्तकत्वात् सहस्रगुणितम् । यथोत्तरं तस्मात् क्रमादिति ब्रह्मा महौघगुणितमित्यनेनापि सम्बध्यते । सहस्रमहौघशब्दावुपलक्षणार्थौ । परम्पराया अनियतत्वात् ।

आगमसिद्धेऽत्रार्थे युक्तिरप्यस्तीत्याह युक्तं च तदिति ।

अनु०-युक्तं च तत्

प्रतिग्रहीतुः शिष्यस्य ज्ञानफलादप्याचार्यस्य ज्ञानदानफलमधिकमित्येतद्युक्तिसिद्धं च । तां युक्तिं सूचयति नेति ।

अनु०- न गोदाता गोमात्रफलमाप्नुयात्

प्रतिग्रहीतुर्हि गोमात्रफलम् । गोदाता न गोमात्रफलवान् भवति । किन्तु महाफलं स्वर्गादिकं च प्राप्नोति । यथैतत्तथा प्रकृतेऽपीत्यर्थः । अयमत्र प्रयोगः । ज्ञानदाता दत्तवस्तुफलादप्यधिकदानफलवान् पुरुषार्थहेतुवस्तुदातृत्वात् गोदातृवदिति ।

ज्ञानफलादप्याचार्यस्य ज्ञानदानफलमधिकमित्यत्र भगवद्गीतासंवादमाह य इममिति ।

अनु०-य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः । न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतमो भुवि ।।इत्याह भगवान्

अध्येष्यत इत्युत्तरवाक्यमत्र पठनीयम् ।

यत एवं ज्ञानदानं तत्सम्प्रदायप्रवर्तनं च महाफलम् । अतो बहूनां ग्रहणायाविष्कारेण ज्ञानदानं कार्यमिति प्राप्ते सिद्धान्तमाह एवमपीति ।

अनु०-एवमपि

सत्यं ज्ञानदानमुक्तप्रकारेण महाफलम् । तथाऽपि नाविष्कारेण कार्यं कुत इत्यत आह पात्रमिति ।

अनु०- पात्रमपेक्ष्यते ।

दानफलेनेति शेषः । पात्रे क्रियमाणं खलु दानं फलायालम् । नापात्रे । प्रत्युत प्रत्यवायस्यैव हेतुः । आविष्कारेज्ञानदाने चायोग्यानामपि तत्प्राप्तिर्भवति । सा च प्रतिषिद्धेति भावः ।।

।। इति अनाविष्काराधिकरणम् ।।

न्यायसुधा

।। ऐहिकाधिकरणमुक्तिफलाधिकरणे ।।

ब्र०सू०- ॐ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ ।।

ब्र०सू०-ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॐ ।।

सु०- अधिकरणद्वयस्य तात्पर्यं सङ्क्षेपेणाह एवमेवेति ।

अनु०-एवमेवाविरोधेन प्रारब्धस्यैव कर्मणः ।ज्ञानं दृष्टफलं प्रोक्तं मुक्तिश्चैवेह लभ्यते ।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य चतुर्थः पादः ।।

प्रारब्धस्य कर्मणोऽविरोधेनैव ज्ञानं दृष्टफलं प्रोक्त मिति प्रथमाधिकरणतात्पर्यम् । दृष्टं च तत्फलं चेति दृष्टफलम् । श्रवणादिसम्पूर्त्यनन्तरमेव ज्ञानमुत्पद्यते । यदि प्रारब्धकर्मप्रतिबन्धकं नास्ति । तस्मिंस्तु सति तदवसान इति । एवमेव मुक्तिश्चैवेह लभ्यत इति द्वितीयस्य । यस्मिन् देहे ज्ञानमुत्पन्नं तत्पातानन्तरमेव मुक्तिर्लभ्यते प्रारब्धकर्मप्रतिब(न्धाभावे)न्धकाभावे । तद्भावे तु तदवसान इति ।।

सु०- इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य पगा ुणजयतीर्थाख्ययतिना । कृतायां टीकायांविषमपदवाक्यार्थविवृतौ तृतीयाध्यायेऽस्मिश्चरमचरणः पर्यवसितः ।। ३४ ।।

।। इति श्रीमन्न्यायसुधायां तृतीयाध्यायस्य चतुर्थः पाद ।।

।। इति तृतीयाध्यायः ।।