Jump to content

Bhagavatatatparyanirnaya/C1/S1: Difference between revisions

From Anandamakaranda
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
{{Adhyaya
{{Adhyaya
| document_id  = BTN
| document_id  = BTN
| chapter_id  = BTN_C01
| chapter_num  = 1
| chapter_num  = 1
| chapter_name = प्रथमः स्कन्धः
| section_id  = BTN_C01_S01
| section_num  = 1
| title        = प्रथमोऽध्यायः
| title        = प्रथमोऽध्यायः
}}
}}
Line 14: Line 10:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C01
| chapter_id    = BTN_C01
| section_id    = BTN_C01_S01
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = जन्माद्यस्य यतोऽन्वायादितरतश्चार्थेष्वभिज्ञः स्वराट्
| verse_line1  = जन्माद्यस्य यतोऽन्वायादितरतश्चार्थेष्वभिज्ञः स्वराट्
Line 36: Line 30:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C01
| chapter_id    = BTN_C01
| section_id    = BTN_C01_S01
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = धर्मः प्रेज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां
| verse_line1  = धर्मः प्रेज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां
Line 58: Line 50:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C01
| chapter_id    = BTN_C01
| section_id    = BTN_C01_S01
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = निगमकल्पतरोर्गलितं फलं
| verse_line1  = निगमकल्पतरोर्गलितं फलं
Line 80: Line 70:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C01
| chapter_id    = BTN_C01
| section_id    = BTN_C01_S01
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः
| verse_line1  = नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः
Line 100: Line 88:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C01
| chapter_id    = BTN_C01
| section_id    = BTN_C01_S01
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = यानि वेदविदां श्रेष्ठो भगवान् बादरायणः ।
| verse_line1  = यानि वेदविदां श्रेष्ठो भगवान् बादरायणः ।
Line 125: Line 111:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C01
| chapter_id    = BTN_C01
| section_id    = BTN_C01_S01
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् ।
| verse_line1  = आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् ।
Line 145: Line 129:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C01
| chapter_id    = BTN_C01
| section_id    = BTN_C01_S01
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = अथाऽख्याहि हरेर्धीमन्नवतारकथाः शुभाः ।
| verse_line1  = अथाऽख्याहि हरेर्धीमन्नवतारकथाः शुभाः ।
Line 152: Line 134:
}}
}}


{{AuthorNote| text = ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे प्रथमोध्यायः ॥}}
{{Commentary
| verse_id = BTN_C01_S01_V18
| id      = BTN_C01_S01_V18_author-note
| name    = Bhashyam
| text     =
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे प्रथमोध्यायः ॥
}}


{{Commentary
{{Commentary

Revision as of 04:40, 9 April 2026

प्रथमोऽध्यायः

जन्माद्यस्य यतोऽन्वायादितरतश्चार्थेष्वभिज्ञः स्वराट्तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यं सूरयः ।


श्रीमद्भागवततात्पर्यनिर्णयःसृष्टिस्थित्यप्ययेहानियतिदृशितमोबन्धमोक्षाश्च यस्माद्अस्य श्रीब्रह्मरुद्रप्रभृतिसुरनरद्व्यीशशत्र्वात्मकस्य ।विष्णोर्व्यस्ताः समस्ताः सकलगुणनिधिः सर्वदोषव्यपेतःपूर्णानन्दोऽव्ययो यो गुरुरपि परमः चिन्तये तं महान्तम् ॥जन्माद्यस्येत्यादि । तं परं धीमहि । अन्वयात् ।'यतो वा इमानिइत्यादिश्रुतिस्मृतिभ्यः । इतरतः तर्कतः । चेतनाद्धि पित्रादेः पुत्रादिरुत्पद्यते । अभिज्ञः सर्वज्ञः । अतो युज्यते ।'यं कामये तं तमुग्रं कृणोमिमम योनिःइत्यन्येषां तदपेक्षत्वात् । न चान्यापेक्षोऽसौ । स्वराट् । कुतः? तेने ब्रह्म हृदा य आदिकवये । स हि'विश्वा जातानि परिता बभूव। नान्यः । हृदा स्नेहेन ।'यो ब्रह्माणं विदधाति पूर्वम्इति च । स्वात्मत एव हि तस्य बुद्धिप्रकाशः । नच प्रसादं विना ज्ञातुं शक्यः । मुह्यन्ति यं सूरयः । न चातृप्तः प्रवर्तते । किन्तु मृषा वृथैव ।'भित्वा मृषाश्रुःइतिवत् ।'देवस्यैषः स्वभावोऽयम्इति च ।यत्रेति विशेषणान्नान्यत्र । स्वविषय एव वृथा । जीवेश्वरजडानां सर्गस्त्रिसर्गः । एकस्य तेजसो बहुत्ववदीश्वरसर्गः । वारिनिमित्तप्रतिबिम्बवज्जीवसर्गः । मृदो घटादिवदव्यक्ताज्जडसर्गः ।नच मायामयी सृष्टिः । धाम्ना स्वेन सदा निरस्तकुहकम् । तद्धाम्ना श्रियो निरस्तकुहकत्वं मुक्तानां च । नच मुक्तवत्पूर्वं बन्धभाक्त्वम् । सदा निरस्तकुहकत्वात् । सत्यं निर्दुःखनित्यनिरतिशयानन्दानुभवरूपम् । परं सम्पूर्णगुणम् । परत्वसाधकं जन्मादीत्यादि ।तन्त्रभागवते च–'सृष्टिस्थित्यप्ययेहादेः श्रुतिस्मृतिसमन्वयात् ।युक्तितश्चेत्तृपूर्वादेः श्रीब्रह्मभवपूर्विणः ॥सुरगन्धर्वमनुजपितृदैत्यात्मनः पृथक् ।कर्ता विष्णुरजो नित्यः सर्वज्ञत्वान्न चापरः ॥अनन्याधिपतिश्चासौ गरीयान् ब्रह्मणो यतः ।तत्प्रसादमृते तस्य नान्यो वेत्तास्ति कश्चन ॥तेजसो रूपवद्रूपं बहुधा कुरुते हरिः ।वारिस्थतेजःप्रतिमा जीवास्तस्माद् विनिर्गताः ॥कुलालेन मृदा यद्वन्निर्मीयन्ते घटादयः ।विष्णुनैवं प्रकृत्यैव निर्म्यते जगदीदृशम् ॥एष त्रिसर्गो विष्णोस्तु वृथा लोकस्य चावृथा ।इन्द्रजालविधां सृष्टिं मन्यन्ते ज्ञानर्दुर्बलाः ॥नित्यं निरस्तेन्द्रजाले स्वत एव कथं भवेत् ।अक्षमाः सत्यसृष्टौ हि मायासृष्टिं वितन्वते ॥अनन्ताचिन्त्यविभवः कथं तामीहते हरिः ।निर्दुःखपूर्णानन्दत्वाद्यमाहुः सत्यमच्युतम् ॥निर्दोषगुणपूर्णत्वात् परं चाहुर्जनार्दनम् ।एवंविधानुभावो यः स कथं निन्दितं सृजेत् ॥स्वप्नादिकं परो देवः प्राणादिस्थस्तनोत्यसौ ।केवलस्य परस्यास्य मायासृष्टिर्न युज्यते ॥तस्माद् बाधायुताः सर्वे स्वप्नाद्या ये त्वकेवलाः ।इदं न बाध्यते सर्वं जगत्केवलजं यतः ॥मोक्षवत् केवलस्यास्य शक्त्या सम्यग्विजृम्भितम् ।एतद्रहस्यं परमं ब्रह्मसूत्रपदोदितम् ॥ये त्वेवं न विजानन्ति ते हि यान्त्यधरं तमः ।ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ॥सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः ।ये त्वेतदनुतिष्ठन्ति पारम्पर्यागतं मम ॥ते यान्ति परमं स्थानं ममैवोदितमञ्जसा॥ इत्यादि ।'वैधर्म्याच्च न स्वप्नादिवत्इति च ।'प्रघान्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्इत्यादि ।ब्रह्मसूत्रमहाभारतगायत्रीवेदसम्बन्धश्चायं ग्रन्थः ।उक्तं च गारुडे–'अर्थोऽयं ब्रह्मसूत्राणां भारतार्थविनिर्णयः ।गायत्रीभाष्यरूपोऽसौ वेदार्थपरिबृंहितः ॥पुराणानां साररूपः साक्षाद्भगवतोदितः ।द्वादशस्कन्धसंयुक्तः शतविच्छेदसंयुतः ॥ग्रन्थोऽष्टादशसाहस्रः श्रीमद्भागवताभिधः। इति ॥ १ ॥
धर्मः प्रेज्झितकैतवोऽत्र परमो निर्मत्सराणां सतांवेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।


अधिकारिविषयफलान्युच्यन्ते धर्म इति । प्रोज्झितकैतवः फलानपेक्षया । ईश्वरार्पणेन परमः ।'तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम् ।अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम्। इत्यादि सतां लक्षणम् ।सतां च मात्सर्यमर्जुनस्य एकलव्य इव कुत्रचिद् दृश्यते । तद्वर्जनीय-मुत्तमेषु ज्ञानार्थिना ।महासंहितायां च–'उत्तमे स्वात्मनो नित्यं मात्सर्यं परिवर्जयेत् ।कुरुते यत्र मात्सर्यं तत्तत् तस्य विहीयते। इति ।नित्यनिरस्तदोषपूर्णगुणं वास्तवम् ।नित्यसंहितायां च–'निरस्ताखिलदोषं यदानन्दादिमहागुणम् ।सर्वदा परमं ब्रह्म तस्माद्वास्तवमीयते॥ इति ।वस्तु अप्रतिहतं नित्यम् च ।स्कान्दे च–'वसनाद् वासनाद्वस्तु नित्याप्रतिहतं यतः ।वासनेदं यतस्तुन्नमतस्तद् ब्रह्म शब्द्यते॥ इति ।किं वा परैः अर्थकामादिकथनैः ?गारुडे च–'धर्मार्थकाममोक्षाणामेकमेव पदं यतः ।अवरोधो हृदीशस्य पृथग्वक्ष्ये न तानहम्। इति ।सद्यःशब्दः आपेक्षिक इति तत्क्षणादिति । नचासम्पूर्णाधिकारिणां तत्क्षणा-दवरुध्यत इति सद्यःशब्दः । अधिकारिविषयफलानां स्मरणात् फलाधिक्यं भवति ।वामने च–'अधिकारं फलं चैव प्रतिपाद्यं च वस्तु यत् ।स्मृत्वा प्रारभतो ग्रन्थं करोतीशो महत्फलम्। इति ॥ २ ॥
निगमकल्पतरोर्गलितं फलंशुकमुखादमृतद्रवसंयुतम् ।


ज्ञातफलस्यापि प्रशंसाविधिभ्यां क्षिप्रप्रवृत्तिर्भवतीति प्रशस्य विधत्ते । निगमकल्पतरोरिति । भगवता गलितम् । शुकेन द्रवीकृतम् ।उक्तं च ब्रह्माण्डे-'धर्मपुष्पस्त्वर्थपत्रः कामपल्लवसंयुतः ।महामोक्षफलो वृक्षो वेदोऽयं समुदीरितः ॥शातितानि फलानीह कृष्णद्वैपायनेन तु ।भारताख्यानि यानीह तथा भागवतं भुवि ॥आर्द्रीकृतानि तानीह शुकप्रभृतिभिर्जनैः ।ख्यापयद्भिर्गुरुप्रोक्तान् वेदार्थान् ग्रन्थनिष्ठितान् ॥कानिचित् दर्शयामास वृक्षस्याग्रे फलानि तु ।व्याचक्षमाणो वेदार्थं भगवान् लोकपूजितः ॥एतेषामथ तेषां वा रसान् पिबत सज्जनाः ।आमोक्षान्महती तृप्तिरहो मे पश्यतो भवेत्॥ इति ॥ ३ ॥
नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयःसत्रं स्वर्गाय लोकाय सहस्त्रसममासत ॥ ४ ॥


प्रकारान्तरेण पुरुषार्थशङ्कानिवृत्त्यर्थमाख्यायिका ।पाद्मे च–'आख्यायिकाः प्रदर्श्यन्ते सर्ववेदेषु सर्वशः ।द्योतयन्त्यस्तु महतां तात्पर्यं तत्र तत्र ह ॥अलाभः पुरुषार्थस्य प्रोक्तमर्थमृते त्विति ।द्योतनाय महाराज श्रद्धावृद्ध्यर्थमेव च॥ इति ॥ ४ ॥
यानि वेदविदां श्रेष्ठो भगवान् बादरायणः ।अन्ये च मुनयः सूत परावरविदो विदुः ॥ ७ ॥


यानि भगवज्ज्ञातान्यन्यैरप्यृषिभिः ज्ञायन्ते तानि वेत्थ ।
             उक्तं हि ब्रह्माण्डे
             'द्वैपायनेन यद्बुद्धं ब्रह्माद्यैस्तन्न बुध्यते ।
सर्वबुद्धं स वै वेद तद्बुद्धं नान्यगोचरम्इति ॥ ७-८ ॥
आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् ।ततः सद्यो विमुच्येत यं बिभेति स्वयं भवः ॥ १४ ॥


विवशः बह्वभ्यासात् ।उक्तं च ब्रह्मवैवर्ते–'शारीराद् वाचिकाभ्यासो वाचिकान्मानसो भवेत् ।मानसाद् विवशान्मुच्येन्नान्यथा मुक्तिरिष्यते। इति ॥ १४ ॥
अथाऽख्याहि हरेर्धीमन्नवतारकथाः शुभाः ।लीला विदधतः स्वैरमीश्वरस्यात्ममायया ॥ १८ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे प्रथमोध्यायः ॥
आत्ममायया स्वरूपभूतेच्छया ।'महामायेत्यविद्येति नियतिर्मोहिनीति च ।प्रकृतिर्वासनेत्येव तवेच्छाऽनन्त कथ्यते। इति स्कान्दे ॥विष्णुसंहितायां च–'इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिरिति त्रिधा ।शक्तिशक्तिमतोश्चापि न भेदः कश्चनेष्यते॥ इति ॥ १८ ॥