Bhagavatatatparyanirnaya/C3/S12: Difference between revisions

Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 3: Line 3:
| chapter_num  = 3
| chapter_num  = 3
| title        = द्वादशोऽध्यायः
| title        = द्वादशोऽध्यायः
}}
}}{{VerseBlock
{{VerseBlock
| verse_id      = BTN_C03_S12_V01
| verse_id      = BTN_C03_S12_V01
| document_id  = BTN
| document_id  = BTN
Line 19: Line 18:
| id      = BTN_C03_S12_V01_B1
| id      = BTN_C03_S12_V01_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
कालपरिमाणं दर्शयितुं द्रव्यपरिमाणं दृष्टान्तत्वेन दर्शयति ।'मनुष्या देवलोकेऽपि विशेषेणैव दर्शने ।अंशांशित्वविशेषं तु यस्य द्रष्टुं न शक्नुयुः ॥चरमो विशेष इति तं मुनयो ब्रूयुरञ्जसा ।परमाणुः स विज्ञेयः कणादाद्या निरंशिनम् ॥अनन्तांशयुतत्वेऽपि यं ब्रूयुर्भ्रान्तिदर्शनात् ।ततोऽपि परमाणुत्वं तदंशानां तु यद्यपि ।अनन्तत्वाद्विवेकार्थमस्योक्ता परमाणुता''॥ इति तत्त्वविवेके ।अनेकांशैरासमन्ताद्युतः ॥ १ ॥
कालपरिमाणं दर्शयितुं द्रव्यपरिमाणं दृष्टान्तत्वेन दर्शयति ।
'मनुष्या देवलोकेऽपि विशेषेणैव दर्शने
अंशांशित्वविशेषं तु यस्य द्रष्टुं न शक्नुयुः
चरमो विशेष इति तं मुनयो ब्रूयुरञ्जसा
परमाणुः स विज्ञेयः कणादाद्या निरंशिनम्
अनन्तांशयुतत्वेऽपि यं ब्रूयुर्भ्रान्तिदर्शनात्
ततोऽपि परमाणुत्वं तदंशानां तु यद्यपि
अनन्तत्वाद्विवेकार्थमस्योक्ता परमाणुता''॥ इति तत्त्वविवेके
अनेकांशैरासमन्ताद्युतः ॥ १ ॥
}}
}}


Line 38: Line 44:
| id      = BTN_C03_S12_V02_B1
| id      = BTN_C03_S12_V02_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
कालतो देशतो गुणतश्च परममहत्त्वं सतः परब्रह्मण एव । सच्छब्दोऽन्यत्रा- प्युपचारतो भवतीत्यतः पदार्थस्येति । सत्पदस्य यो मुख्याभिधेयस्तस्य ।'मुख्याभिधेयस्त्वर्थः स्याद्वाच्यमन्यच्च भण्यते ।अमुख्येष्वर्थशब्दस्तु नीचोपरि हितो भवेत्''॥ इति ब्रह्मतर्के ।यद्वेव समः प्लुषिणेत्यादिनाऽन्यत्र स्थितस्य तत्परिमाणत्वमप्यस्तीत्यतः स्वरूपावस्थितस्येति । जगदावरकस्य स्वरूपस्य ततः किञ्चिन्महत्व-मित्यतः कैवल्यमिति । तत्रापि बहुविधानि रूपाणि तस्य सन्तीत्यविशेष इति । सर्वगते प्रादेशमात्रमपि विद्यत इत्यतो निरन्तर इति । परब्रह्मणो यः केवलभावः । अण्डाद्यन्तःप्रविष्टं तदावरकं तस्यैव परमपुरुषादिरूपान्तरं तदेकदेशं च विना यत्सर्वगतं रूपं तदेव परममहान् ।'कालकोटिविहीनत्वं कालानन्त्यं विदुर्बुधाः ।देशकोटिविहीनत्वं देशानन्त्यं तथैव च ॥गुणानामप्रमेयत्वं वस्त्वानन्त्यं विदो विदुः ।आनन्त्यं त्रिविधं नित्यं हरेर्नान्यस्य कस्यचित् ॥तस्य सर्वस्वरूपेष्वप्यानन्त्यं तु त्रिलक्षणम् ।तथापि देशतस्तस्य परिच्छेदोऽपि विद्यते ॥परिच्छेदस्तथा व्याप्तिरेकरूपेऽपि युज्यते ।तस्याचिन्त्याद्भुतैश्वर्याद्व्यवहारार्थमेव ॥गुणतः कालतश्चैव परिच्छेदो न कुत्रचित् ।व्याप्तत्वं देशतोऽप्यस्ति सर्वरूपेषु यद्यपि ॥न च भेदः क्वचित्तेषामणुमात्रोऽपि विद्यते ।तथापि विद्यतेऽणुत्वं यस्मादैश्वर्ययोगतः ॥तस्माद्बुध्द्यवतारार्थमव्याप्तत्वं च भण्यते ।यत्तस्य व्यापकं रूपं परं नारायणाभिधम् ॥शून्यं ब्रह्मेति तत्प्राहुर्द्वितीयं स्रष्टृ यत्ततः ।परमः पुरुषो नाम मितं तद्देशतो विभोः ॥तृतीयं वासुदेवाख्यं जगदावरकं मितम् ।देशतो जगदाविष्टं तुरीयं विष्णुनामकम्''॥ इति ब्रह्मतर्के ॥सर्वगतस्यापि ब्रह्मरूपस्य कालादिरूपया प्रकृत्या समव्याप्तावपि दार्ष्टान्ति-कान्तर्भावात्तदन्यस्मिन्ननवस्थानाच्च स्वरूपावस्थितस्येत्युक्तम् ।'देव्यां कालादिरूपिण्यां स्थितं ब्रह्मापि सर्वगम् ।उच्यतेऽनन्यगं यस्मादात्मवत्सा हरेर्विभोः ।महदादिगतं यत्तु तदन्यगतमुच्यते''॥ इति ब्राह्मे ॥ २ ॥
कालतो देशतो गुणतश्च परममहत्त्वं सतः परब्रह्मण एव । सच्छब्दोऽन्यत्रा- प्युपचारतो भवतीत्यतः पदार्थस्येति । सत्पदस्य यो मुख्याभिधेयस्तस्य ।
'मुख्याभिधेयस्त्वर्थः स्याद्वाच्यमन्यच्च भण्यते
अमुख्येष्वर्थशब्दस्तु नीचोपरि हितो भवेत्''॥ इति ब्रह्मतर्के
यद्वेव समः प्लुषिणेत्यादिनाऽन्यत्र स्थितस्य तत्परिमाणत्वमप्यस्तीत्यतः स्वरूपावस्थितस्येति । जगदावरकस्य स्वरूपस्य ततः किञ्चिन्महत्व-मित्यतः कैवल्यमिति । तत्रापि बहुविधानि रूपाणि तस्य सन्तीत्यविशेष इति । सर्वगते प्रादेशमात्रमपि विद्यत इत्यतो निरन्तर इति । परब्रह्मणो यः केवलभावः । अण्डाद्यन्तःप्रविष्टं तदावरकं तस्यैव परमपुरुषादिरूपान्तरं तदेकदेशं च विना यत्सर्वगतं रूपं तदेव परममहान् ।
'कालकोटिविहीनत्वं कालानन्त्यं विदुर्बुधाः
देशकोटिविहीनत्वं देशानन्त्यं तथैव च
गुणानामप्रमेयत्वं वस्त्वानन्त्यं विदो विदुः
आनन्त्यं त्रिविधं नित्यं हरेर्नान्यस्य कस्यचित्
तस्य सर्वस्वरूपेष्वप्यानन्त्यं तु त्रिलक्षणम्
तथापि देशतस्तस्य परिच्छेदोऽपि विद्यते
परिच्छेदस्तथा व्याप्तिरेकरूपेऽपि युज्यते
तस्याचिन्त्याद्भुतैश्वर्याद्व्यवहारार्थमेव
गुणतः कालतश्चैव परिच्छेदो न कुत्रचित्
व्याप्तत्वं देशतोऽप्यस्ति सर्वरूपेषु यद्यपि
च भेदः क्वचित्तेषामणुमात्रोऽपि विद्यते
तथापि विद्यतेऽणुत्वं यस्मादैश्वर्ययोगतः
तस्माद्बुध्द्यवतारार्थमव्याप्तत्वं च भण्यते
यत्तस्य व्यापकं रूपं परं नारायणाभिधम्
शून्यं ब्रह्मेति तत्प्राहुर्द्वितीयं स्रष्टृ यत्ततः
परमः पुरुषो नाम मितं तद्देशतो विभोः
तृतीयं वासुदेवाख्यं जगदावरकं मितम्
देशतो जगदाविष्टं तुरीयं विष्णुनामकम्''॥ इति ब्रह्मतर्के
सर्वगतस्यापि ब्रह्मरूपस्य कालादिरूपया प्रकृत्या समव्याप्तावपि दार्ष्टान्ति-कान्तर्भावात्तदन्यस्मिन्ननवस्थानाच्च स्वरूपावस्थितस्येत्युक्तम् ।
'देव्यां कालादिरूपिण्यां स्थितं ब्रह्मापि सर्वगम्
उच्यतेऽनन्यगं यस्मादात्मवत्सा हरेर्विभोः
महदादिगतं यत्तु तदन्यगतमुच्यते''॥ इति ब्राह्मे ॥ २ ॥
}}
}}


Line 66: Line 96:
| id      = BTN_C03_S12_V04_B1
| id      = BTN_C03_S12_V04_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
अनुमितः शास्त्रलोकानुसारेण ज्ञातः ।'अनुमेति द्वयं प्राहुर्यथाज्ञानं च लिङ्गजम्''। इत्यभिधानम् ॥'यावन्तं देवलोकस्थो मानुषस्त्ववधारयेत् ।महाप्राज्ञो देवजूकः स कालः परमाणुकः ॥सर्गाद्यैरनवच्छिन्नस्तदनन्तर इत्यपि ॥तथैव परमाण्वादिविशेषात्मापि नो भवेत् ।पूर्वापरादिभेदो न स कालः परमो महान् ॥''इति ब्रह्मतर्के ॥स्वरूपावस्थितस्य कैवल्यमविशेषो निरन्तर इत्येतानि विशेषणानि क्रमेण परममहतः कालस्याप्यत्रोक्तानि ।'देशतः कालतश्चैव वस्तुतश्च त्रिधा हरेः ।यथानन्त्यं न चान्यस्य प्रकृतेर्देशकालतः ॥तथाशब्दस्य कालस्य देशानन्त्यं न कालतः ।कालशब्दात्मिका सैव तथापि तु हरेः सदा ॥नास्याः सामर्थ्यलेशोऽपि ज्ञानानन्दगुणेष्वपि ।ज्ञेयस्तदवरो वायुः शेषवीन्द्रहरास्ततः ॥अवरास्तत इन्द्राद्या गुणैः सर्वैर्न संशयः ॥''इति ब्रह्मवैवर्ते ॥'अण्वादिकालसंस्थानभोक्तृत्वात्परमेश्वरः ।अण्वादिनामवाच्योऽसौ कालश्चेत्यभिधीयते''॥ इति च ॥सतो ब्रह्मणः अविशेषं स्वरूपं यः कालः कालान्तर्यामी तदेव ब्रह्म भुंक्ते । तदपि ब्रह्म परममहान् । तस्यापि त्रिधा परिच्छेदाभावात् ।'सर्वं सर्वत्र भोक्ताऽपि विशेषादेकभोक्त्तृवत् ।स्थितो हरिरचिन्त्यात्मा निजैश्वर्यादजो विभुः''॥ इति ब्रह्मतर्के ॥ ३-४ ॥
अनुमितः शास्त्रलोकानुसारेण ज्ञातः ।
'अनुमेति द्वयं प्राहुर्यथाज्ञानं च लिङ्गजम्''। इत्यभिधानम् ॥
'यावन्तं देवलोकस्थो मानुषस्त्ववधारयेत्
महाप्राज्ञो देवजूकः स कालः परमाणुकः
सर्गाद्यैरनवच्छिन्नस्तदनन्तर इत्यपि
तथैव परमाण्वादिविशेषात्मापि नो भवेत्
पूर्वापरादिभेदो न स कालः परमो महान् ॥''इति ब्रह्मतर्के
स्वरूपावस्थितस्य कैवल्यमविशेषो निरन्तर इत्येतानि विशेषणानि क्रमेण परममहतः कालस्याप्यत्रोक्तानि ।
'देशतः कालतश्चैव वस्तुतश्च त्रिधा हरेः
यथानन्त्यं न चान्यस्य प्रकृतेर्देशकालतः
तथाशब्दस्य कालस्य देशानन्त्यं न कालतः
कालशब्दात्मिका सैव तथापि तु हरेः सदा
नास्याः सामर्थ्यलेशोऽपि ज्ञानानन्दगुणेष्वपि
ज्ञेयस्तदवरो वायुः शेषवीन्द्रहरास्ततः
अवरास्तत इन्द्राद्या गुणैः सर्वैर्न संशयः ॥''इति ब्रह्मवैवर्ते ॥
'अण्वादिकालसंस्थानभोक्तृत्वात्परमेश्वरः
अण्वादिनामवाच्योऽसौ कालश्चेत्यभिधीयते''॥ इति च
सतो ब्रह्मणः अविशेषं स्वरूपं यः कालः कालान्तर्यामी तदेव ब्रह्म भुंक्ते । तदपि ब्रह्म परममहान् । तस्यापि त्रिधा परिच्छेदाभावात् ।
'सर्वं सर्वत्र भोक्ताऽपि विशेषादेकभोक्त्तृवत्
स्थितो हरिरचिन्त्यात्मा निजैश्वर्यादजो विभुः''॥ इति ब्रह्मतर्के ॥ ३-४ ॥
}}
}}


Line 85: Line 133:
| id      = BTN_C03_S12_V05_B1
| id      = BTN_C03_S12_V05_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
अगात् दृष्टिविषयं प्राप्य ज्ञात इत्यर्थः ॥ ५ ॥
अगात् दृष्टिविषयं प्राप्य ज्ञात इत्यर्थः ॥ ५ ॥
Line 104: Line 151:
| id      = BTN_C03_S12_V08_B1
| id      = BTN_C03_S12_V08_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
राशिभेदात् । ऊनातिरेकात्सप्त वेति ॥ ८ ॥
राशिभेदात् । ऊनातिरेकात्सप्त वेति ॥ ८ ॥
Line 123: Line 169:
| id      = BTN_C03_S12_V09_B1
| id      = BTN_C03_S12_V09_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
काकणिकाचतुष्कं तु विंशांशेत्यभिधीयते ।कृष्णलेत्यपि तं ब्रूयुस्तैश्चतुर्भिस्तु माषकम् ॥चतुरङ्गुलदीर्घे तु कृते माषचतुष्टये ।यावत्स्यात्परिणाहेन तावद्वारं विधीयते ॥प्रस्थस्य नाडीपात्रस्य षट्पलस्य शुभे जले ।भाराधिक्येनोदकेन क्षिप्रं पूर्तिर्भविष्यति ॥अतिशैत्ये कलङ्के च नाद्येनैव तु पूरणम् ।तस्माद्वसन्तकाले तु प्रयागस्थोदकेन तु ।नाडीशुद्धिपरीक्षा स्यादन्यथा न समं भवेत्''॥ इति पाद्मे ॥'निर्मलेन समोष्णेन नित्यसूर्यांशुवारिणा ।प्रवाहगेन कार्या स्यात्कालशुद्धिः सदैव तु''॥ इति ब्रह्माण्डे ॥ ९ ॥
काकणिकाचतुष्कं तु विंशांशेत्यभिधीयते
कृष्णलेत्यपि तं ब्रूयुस्तैश्चतुर्भिस्तु माषकम्
चतुरङ्गुलदीर्घे तु कृते माषचतुष्टये
यावत्स्यात्परिणाहेन तावद्वारं विधीयते
प्रस्थस्य नाडीपात्रस्य षट्पलस्य शुभे जले
भाराधिक्येनोदकेन क्षिप्रं पूर्तिर्भविष्यति
अतिशैत्ये कलङ्के च नाद्येनैव तु पूरणम्
तस्माद्वसन्तकाले तु प्रयागस्थोदकेन तु
नाडीशुद्धिपरीक्षा स्यादन्यथा न समं भवेत्''॥ इति पाद्मे ॥
'निर्मलेन समोष्णेन नित्यसूर्यांशुवारिणा
प्रवाहगेन कार्या स्यात्कालशुद्धिः सदैव तु''॥ इति ब्रह्माण्डे ॥ ९ ॥
}}
}}


Line 142: Line 197:
| id      = BTN_C03_S12_V10_B1
| id      = BTN_C03_S12_V10_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
यत्रोभयोः स शब्दः स्यात्तत्र द्विवचनेऽप्युभे''। इत्यभिधानम् ॥१०॥
यत्रोभयोः स शब्दः स्यात्तत्र द्विवचनेऽप्युभे''। इत्यभिधानम् ॥१०॥
Line 170: Line 224:
| id      = BTN_C03_S12_V14_B1
| id      = BTN_C03_S12_V14_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
'इडावत्सरनामाऽसौ नक्षत्रद्वादशे स्थितः ।तिथीनां द्वादशावर्ते यो हरिः सोऽनुवत्सरः ॥वत्सरो यः स्थितस्त्वह्नां षष्ट्युत्तरशतत्रये ।गुर्वावर्ते द्वादशांशे यः स्थः स परिवत्सरः ॥सौरद्वादशके मासे यः स्थः संवत्सरो हरिः ।एवं स कालनामाऽपि कालस्थः परमेश्वरः''॥ इति ब्रह्मतर्के ॥'सर्वदा दर्शनात्तस्यानिमिषत्वं विदुर्बुधाः ।सततं गमनाद्वापि कालस्थस्य महात्मनः''॥ इति च ॥ १३-१४ ॥
'इडावत्सरनामाऽसौ नक्षत्रद्वादशे स्थितः
तिथीनां द्वादशावर्ते यो हरिः सोऽनुवत्सरः
वत्सरो यः स्थितस्त्वह्नां षष्ट्युत्तरशतत्रये
गुर्वावर्ते द्वादशांशे यः स्थः स परिवत्सरः
सौरद्वादशके मासे यः स्थः संवत्सरो हरिः
एवं स कालनामाऽपि कालस्थः परमेश्वरः''॥ इति ब्रह्मतर्के ॥
'सर्वदा दर्शनात्तस्यानिमिषत्वं विदुर्बुधाः
सततं गमनाद्वापि कालस्थस्य महात्मनः''॥ इति च ॥ १३-१४ ॥
}}
}}


Line 191: Line 251:
| id      = BTN_C03_S12_V15_B1
| id      = BTN_C03_S12_V15_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
अभ्रमाय भूतभेदकः । क्रतुभिः स्वप्रज्ञाभिः ।'भूतानां ज्यैष्ठ्यकानिष्ठ्यज्ञप्त्यै यज्ञादिवृत्तये ।बोधयन्सृज्यशक्तिं च कालस्थो वर्तते हरिः''॥ इति तन्त्रप्रकाशिकायाम् ॥ १५ ॥
अभ्रमाय भूतभेदकः । क्रतुभिः स्वप्रज्ञाभिः ।
'भूतानां ज्यैष्ठ्यकानिष्ठ्यज्ञप्त्यै यज्ञादिवृत्तये
बोधयन्सृज्यशक्तिं च कालस्थो वर्तते हरिः''॥ इति तन्त्रप्रकाशिकायाम् ॥ १५ ॥
}}
}}


Line 210: Line 271:
| id      = BTN_C03_S12_V23_B1
| id      = BTN_C03_S12_V23_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
दिनस्थो भगवान्भोक्ता ॥ २३ ॥
दिनस्थो भगवान्भोक्ता ॥ २३ ॥
Line 230: Line 290:
| id      = BTN_C03_S12_V24_B1
| id      = BTN_C03_S12_V24_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
'युगैकसप्ततेरूर्ध्वं सार्धाष्टादशलक्षकम् ।वत्सराणां मनोर्भुक्तिः सहस्रं चतुरुत्तरम् ॥शतानां प्रलयश्चैव पञ्चोत्तरमथापि च ।आद्येषु षट्सु प्रथमे द्विसहस्रं प्रकीर्तितम् ।वत्सराणां मनोरन्तरेवमिन्द्रादीनां भवेत्''॥ इति महावाराहे ॥२४॥
'युगैकसप्ततेरूर्ध्वं सार्धाष्टादशलक्षकम्
वत्सराणां मनोर्भुक्तिः सहस्रं चतुरुत्तरम्
शतानां प्रलयश्चैव पञ्चोत्तरमथापि च
आद्येषु षट्सु प्रथमे द्विसहस्रं प्रकीर्तितम्
वत्सराणां मनोरन्तरेवमिन्द्रादीनां भवेत्''॥ इति महावाराहे ॥२४॥
}}
}}


Line 249: Line 312:
| id      = BTN_C03_S12_V27_B1
| id      = BTN_C03_S12_V27_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
'ब्रह्मणा कालनाम्ना तु सह शेते हरिर्निशि''। इति ब्राह्मे ॥ २७ ॥
'ब्रह्मणा कालनाम्ना तु सह शेते हरिर्निशि''। इति ब्राह्मे ॥ २७ ॥
Line 268: Line 330:
| id      = BTN_C03_S12_V32_B1
| id      = BTN_C03_S12_V32_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
अस्य ब्रह्मणः । ब्रह्मणो दिनमित्युक्तत्वात् ॥ ३२ ॥
अस्य ब्रह्मणः । ब्रह्मणो दिनमित्युक्तत्वात् ॥ ३२ ॥
Line 287: Line 348:
| id      = BTN_C03_S12_V37_B1
| id      = BTN_C03_S12_V37_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
'नायुर्मानं भगवतः कस्मिन्रूपेऽपि विद्यते ।अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः''॥ इति हरिवंशेषु ॥३७॥
'नायुर्मानं भगवतः कस्मिन्रूपेऽपि विद्यते
अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः''॥ इति हरिवंशेषु ॥३७॥
}}
}}


Line 306: Line 367:
| id      = BTN_C03_S12_V38_B1
| id      = BTN_C03_S12_V38_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
'यमः कालो मानुषाणां तस्य कालः सुदर्शनः ।तस्यापि रुद्रस्तत्कालो ब्रह्मा दुर्गाऽपि तस्य तु ॥सा ब्रह्मप्रलये देवी वर्तते चक्ररूपिणी ।संहरन्ती सदा लोकान्सैव ब्रह्मादिषु स्थिता ॥तस्या नियामको विष्णुः परः कालः स उच्यते ।कालाभिमानिनी सैव प्रभुर्न जगदीशितुः ॥तस्याः प्रभुः स एवेशो विष्णुः सर्वेश्वरेश्वरः ॥''इति च ॥ ३८ ॥
'यमः कालो मानुषाणां तस्य कालः सुदर्शनः
तस्यापि रुद्रस्तत्कालो ब्रह्मा दुर्गाऽपि तस्य तु
सा ब्रह्मप्रलये देवी वर्तते चक्ररूपिणी
संहरन्ती सदा लोकान्सैव ब्रह्मादिषु स्थिता
तस्या नियामको विष्णुः परः कालः स उच्यते
कालाभिमानिनी सैव प्रभुर्न जगदीशितुः
तस्याः प्रभुः स एवेशो विष्णुः सर्वेश्वरेश्वरः ॥''इति च ॥ ३८ ॥
}}
}}


Line 334: Line 400:
| id      = BTN_C03_S12_V40_B1
| id      = BTN_C03_S12_V40_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
'दशेन्द्रियाणि च मनो भूतान्यण्डगतानि तु ।विकारा इति विज्ञेया भूताहंमहतः परे''॥ इति च ॥'पृथिवीं विशेष इत्याहुः शब्दादीनां बहुत्वतः ।सा सूक्ष्मत्वाद्वृणोत्यण्डं द्विगुणा तु दशोत्तराः ।अबादयः प्रकृत्यन्ता अष्टप्रकृतयः स्मृताः''॥ इति च ।अन्तर्गताः शरीराणि ।'शरीराणां बहुत्वेन अतीतानागतैस्तथा ।अस्यैव देवकायेषु प्रतिप्रति च दर्शनात् ।विष्णुसामर्थ्यतोऽण्डानां बहुत्वं नान्यथा भवेत् ॥''इति ब्रह्मतर्के ।'एकमण्डं बहुत्वेन प्रत्येकं रोमकूपगम् ।ब्रह्माऽपश्यत्तथाऽऽत्मानं हरेस्तेषु पृथक्पृथक्''॥ इति ब्रह्माण्डे ॥'बृहदण्डमभूदेकम्''इति च भारते ॥ ३९,४० ॥
'दशेन्द्रियाणि च मनो भूतान्यण्डगतानि तु
विकारा इति विज्ञेया भूताहंमहतः परे''॥ इति च ॥
'पृथिवीं विशेष इत्याहुः शब्दादीनां बहुत्वतः
सा सूक्ष्मत्वाद्वृणोत्यण्डं द्विगुणा तु दशोत्तराः
अबादयः प्रकृत्यन्ता अष्टप्रकृतयः स्मृताः''॥ इति च
अन्तर्गताः शरीराणि ।
'शरीराणां बहुत्वेन अतीतानागतैस्तथा
अस्यैव देवकायेषु प्रतिप्रति च दर्शनात्
विष्णुसामर्थ्यतोऽण्डानां बहुत्वं नान्यथा भवेत् ॥''इति ब्रह्मतर्के ।
'एकमण्डं बहुत्वेन प्रत्येकं रोमकूपगम्
ब्रह्माऽपश्यत्तथाऽऽत्मानं हरेस्तेषु पृथक्पृथक्''॥ इति ब्रह्माण्डे ॥
'बृहदण्डमभूदेकम्''इति च भारते ॥ ३९,४० ॥
}}
}}


Line 361: Line 437:
| id      = BTN_C03_S12_V41_B1
| id      = BTN_C03_S12_V41_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
धाम गृहम् अण्डराशयः ॥ ४१ ॥
धाम गृहम् अण्डराशयः ॥ ४१ ॥