Bruhadaranyaka/C5/S7: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
== सप्तमं ब्राह्मणम् == | |||
{{Adhyaya | {{Adhyaya | ||
| document_id = BR | | document_id = BR | ||
Revision as of 19:05, 10 April 2026
सप्तमं ब्राह्मणम्
य एष एतस्मिन् मंडले पुरुषस्तस्य भूरिति शिर एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे सुवरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षर तस्योपनिषदहरिति हन्ति पाप्मानं जहाति च य एवं वेद ॥ १ ॥
योऽयं दक्षिणेऽक्षन् पुरुषस्तस्य भूरिति शिर एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे सुवरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे तस्योपनिषदहमिति हन्ति पाप्मानं जहाति च य एवं वेद ॥ २ ॥
॥ इति बृहदारण्यकोपनिषदि सप्तमाध्याये सप्तमं ब्राह्मणम् ॥
॥ इति बृहद्भाष्ये सप्तमाध्याये सप्तमं ब्राह्मणम् ॥ ५ ॥
तस्य विष्णोः शिरो नाम भावनाद् भूरिति स्मृतम् ।
भावनं रक्षणं प्रोक्तं दृष्ट्या वाचा च रक्षति ॥ उत्पादनाद्भुनामा स्याद् दक्षिणो बाहुरस्य तु । विनाशनाद्व इत्युक्तः सव्यो बाहुः परात्मनः ॥ स्वित्यानन्दस्समुद्दिष्टो वरिति ज्ञानमुच्यते । मुक्तिदानेन तद्दानात् सुवस्य पदद्वयम् ॥ दक्षिणश्चैव सव्यश्च क्रमाद्वर्णद्वयोदितौ । पादावस्य हि तत्प्राप्तिर्मुक्तिरित्यभिधीयते ॥ अहमेषो ह्यहेयत्वाज्जीवेन सहभावतः । असावहरिति प्रोक्तः सर्वलोकप्रकाशनात् ॥ तद्वेदनात् सर्वपापं हन्ति चैव जहाति च ।
कानिचिद्धन्ति पापानि कल्पादीन् संजहाति च ॥ इति प्रवृत्ते ॥