Jump to content

Satprashna: Difference between revisions

From Anandamakaranda
Imported from pramati-sarvamoola XML (grantha.io importer v3)
 
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 8: Line 8:
| title        = प्रथमप्रश्नः
| title        = प्रथमप्रश्नः
}}
}}
{{Bhashyam
| verse_id = SPB_C01
| id = SPB_C01_intro
| text =
नमो भगवते तस्मै प्राणादिप्रभविष्णवे ।
नमो भगवते तस्मै प्राणादिप्रभविष्णवे ।
अमन्दानन्दसान्द्राय वासुदेवाय वेधसे ।
अमन्दानन्दसान्द्राय वासुदेवाय वेधसे ।
}}
{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C01_V01
| verse_id = SPB_C01_V01
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C01
| chapter_id = SPB_C01
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनः । ते हैते ब्रह्मपराः ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः । एष ह वै तत् सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १ ॥

| verse_id     = SPB_C01_V02
| verse_id = SPB_C01_V02
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C01
| chapter_id = SPB_C01
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = तान् ह स ऋषिरुवाच । भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ । यथाकामं प्रश्नान् पृच्छत । यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥ २ ॥
| verse_line1 = तान् ह स ऋषिरुवाच । भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ । यथाकामं प्रश्नान् पृच्छत । यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥ २ ॥
}}
}}

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C01_V03
| verse_id = SPB_C01_V03
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C01
| chapter_id = SPB_C01
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = अथ कबन्धी कात्यायनः उपेत्य पप्रच्छ । भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त इति । तस्मै स होवाच प्रजाकामो ह वै प्रजापतिः। स तपोऽतप्यत ॥ ३ ॥
| verse_line1 = अथ कबन्धी कात्यायनः उपेत्य पप्रच्छ । भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त इति । तस्मै स होवाच प्रजाकामो ह वै प्रजापतिः। स तपोऽतप्यत ॥ ३ ॥
| commentary1   = satprashna
| commentary1 = satprashna
}}
}}

{{Bhashyam
{{Bhashyam
| verse_id = SPB_C01_V03
| verse_id = SPB_C01_V03
| id       = SPB_C01_V03_B01
| id = SPB_C01_V03_B01
| text     =
| text =
 
प्रजानां पालनाद्विष्णुः प्रजापतिरितीरितः ।
प्रजानां पालनाद्विष्णुः प्रजापतिरितीरितः ।
}}
}}

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C01_V04
| verse_id = SPB_C01_V04
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C01
| chapter_id = SPB_C01
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = स मिथुनमुत्पादयते । रयिं च प्राणं चेति । एतौ मे बहुधा प्रजाः करिष्यत इति । आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः ॥
| verse_line1 = स मिथुनमुत्पादयते । रयिं च प्राणं चेति । एतौ मे बहुधा प्रजाः करिष्यत इति । आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः ॥
| commentary1   = satprashna
| commentary1 = satprashna
}}
}}

{{Bhashyam
{{Bhashyam
| verse_id = SPB_C01_V04
| verse_id = SPB_C01_V04
| id       = SPB_C01_V04_B01
| id = SPB_C01_V04_B01
| text     =
| text =
 
स वायुं सूर्यनामानं चन्द्रनाम्नीं सरस्वतीम् ॥
स वायुं सूर्यनामानं चन्द्रनाम्नीं सरस्वतीम् ॥
सूर्याचन्द्रगतौ देवः ससर्ज पुरुषोत्तमः ।
सूर्याचन्द्रगतौ देवः ससर्ज पुरुषोत्तमः ।
Line 61: Line 70:

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C01_V05
| verse_id = SPB_C01_V05
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C01
| chapter_id = SPB_C01
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = रयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च । तस्मान्मूर्तिरेव रयिः ॥ अथादित्य उदयन् यत्प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते । यद् दक्षिणां यत्प्रतीचीं यदुदीची यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते ॥ ५ ॥

| id       = SPB_C01_V05_B01
| id = SPB_C01_V05_B01
| text     =
| text =
 
अमूर्तस्थः स वायुस्तु मूर्तसंस्था सरस्वती ।
अमूर्तस्थः स वायुस्तु मूर्तसंस्था सरस्वती ।
आदित्यस्थः स वायुस्तु प्राणानात्मनि सन्नयेत् ॥
आदित्यस्थः स वायुस्तु प्राणानात्मनि सन्नयेत् ॥
Line 82: Line 92:

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C01_V06
| verse_id = SPB_C01_V06
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C01
| chapter_id = SPB_C01
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते । तदेतदृचाभ्युक्तम् ॥
| verse_line1 = स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते । तदेतदृचाभ्युक्तम् ॥
| verse_line2 = विश्वरूपं करिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ।
| verse_line2 = विश्वरूपं करिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ।
| verse_line3 = सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ६ ॥
| verse_line3 = सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ६ ॥
}}
}}

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C01_V07
| verse_id = SPB_C01_V07
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C01
| chapter_id = SPB_C01
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = संवत्सरो वै प्रजापतिः । तस्यायने दक्षिणं चोत्तरं च । तद् ये ह वै तदिष्टापूर्ते । कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते । त एव पुनरावर्तन्ते । तस्मादेते ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष वै रयिर्यः पितृयाणः ॥ ७ ॥

| verse_id     = SPB_C01_V08
| verse_id = SPB_C01_V08
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C01
| chapter_id = SPB_C01
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानं अन्विष्यादित्यमभिजयन्ते । एतद् वै प्राणानामायतनमेतदमृतमभयमेतत् परायणम् । एतस्मान्न पुनरावर्तन्त इत्येष निरोधः ।
| verse_line1 = अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानं अन्विष्यादित्यमभिजयन्ते । एतद् वै प्राणानामायतनमेतदमृतमभयमेतत् परायणम् । एतस्मान्न पुनरावर्तन्त इत्येष निरोधः ।
| verse_line2 = तदेष श्लोकः ॥
| verse_line2 = तदेष श्लोकः ॥
| verse_line3 = पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
| verse_line3 = पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
| verse_line4 = अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षर आहुरर्पितमिति ॥ ८ ॥
| verse_line4 = अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षर आहुरर्पितमिति ॥ ८ ॥
| commentary1   = satprashna
| commentary1 = satprashna
}}
}}

{{Bhashyam
{{Bhashyam
| verse_id = SPB_C01_V08
| verse_id = SPB_C01_V08
| id       = SPB_C01_V08_B01
| id = SPB_C01_V08_B01
| text     =
| text =
 
संवत्सरस्थो भगवान् वागीरावयनस्थितौ  ।
संवत्सरस्थो भगवान् वागीरावयनस्थितौ  ।
}}
}}

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C01_V09
| verse_id = SPB_C01_V09
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C01
| chapter_id = SPB_C01
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = मासो वै प्रजापतिः । तस्य कृष्णपक्ष एव रयिः । शुक्लः प्राणः । तस्मादेते ऋषयः शुक्ल इष्टिं कुर्वन्ति । इतर इतरस्मिन् । अहोरात्रे वै प्रजापतिः । तस्याहरेव प्राणो रात्रिरेव रयिः । प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते । ब्रह्मचर्यमेव तद् यद् रात्रौ रत्या संयुज्यन्ते ॥ ९ ॥

| id       = SPB_C01_V09_B01
| id = SPB_C01_V09_B01
| text     =
| text =
 
मासस्थितः स भगवान् पक्षयोर्वाक् च मारुतः ॥
मासस्थितः स भगवान् पक्षयोर्वाक् च मारुतः ॥
अहोरात्रे तु भगवान् प्राणो ह्यहनि वाङ् निशि ।
अहोरात्रे तु भगवान् प्राणो ह्यहनि वाङ् निशि ।
Line 139: Line 151:

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C01_V10
| verse_id = SPB_C01_V10
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C01
| chapter_id = SPB_C01
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = अन्नं वै प्रजापतिः । ततो ह वै तद्रेतः । तस्मादिमाः प्रजाः प्रजायन्त इति । तद् ये ह वै तत्प्रजापतिव्रतं चरन्ति ॥ ये मिथुनमुत्पादयन्ते ।
| verse_line1 = अन्नं वै प्रजापतिः । ततो ह वै तद्रेतः । तस्मादिमाः प्रजाः प्रजायन्त इति । तद् ये ह वै तत्प्रजापतिव्रतं चरन्ति ॥ ये मिथुनमुत्पादयन्ते ।
| verse_line2 = तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् ।
| verse_line2 = तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् ।
| verse_line3 = तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥ ११ ॥
| verse_line3 = तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥ ११ ॥
}}
}}

Line 155: Line 167:
}}
}}
{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C02_V01
| verse_id = SPB_C02_V01
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C02
| chapter_id = SPB_C02
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येव देवाः प्रजा विधारयन्ते । कतर एतत् प्रकाशयन्ते । कः पुनरेषां वरिष्ठ इति ॥ १ ॥
| verse_line1 = अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येव देवाः प्रजा विधारयन्ते । कतर एतत् प्रकाशयन्ते । कः पुनरेषां वरिष्ठ इति ॥ १ ॥
}}
}}

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C02_V02
| verse_id = SPB_C02_V02
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C02
| chapter_id = SPB_C02
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = तस्मै स होवाच । आकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च । ते प्राकाश्या अभिवदन्ति । वयमेतद् बाणमवष्टभ्य विधारयाम इति ॥ २ ॥
| verse_line1 = तस्मै स होवाच । आकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च । ते प्राकाश्या अभिवदन्ति । वयमेतद् बाणमवष्टभ्य विधारयाम इति ॥ २ ॥
| commentary1   = satprashna
| commentary1 = satprashna
}}
}}

{{Bhashyam
{{Bhashyam
| verse_id = SPB_C02_V02
| verse_id = SPB_C02_V02
| id       = SPB_C02_V02_B01
| id = SPB_C02_V02_B01
| text     =
| text =
 
वायुरग्निरित्यत्र भूतवायुरुच्यते ।
वायुरग्निरित्यत्र भूतवायुरुच्यते ।
}}
}}

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C02_V03
| verse_id = SPB_C02_V03
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C02
| chapter_id = SPB_C02
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = तान् वरिष्ठः प्राण उवाच । मा मोहमापद्यथाहमेवैतत् पञ्चधाऽऽत्मानं विभज्यैतद् बाणमवष्टभ्य विधारयामीति । तेऽश्रद्दधाना बभूवुः । सोऽभिमानादूर्ध्वमुत्क्रमत इव । तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रमन्ते । तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते ॥ ३ ॥

| id       = SPB_C02_V03_B01
| id = SPB_C02_V03_B01
| text     =
| text =
 
प्राणशब्देन प्रधानवायुः ।
प्राणशब्देन प्रधानवायुः ।
}}
}}

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C02_V04
| verse_id = SPB_C02_V04
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C02
| chapter_id = SPB_C02
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = तद्यथा मधुमक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रमन्ते । तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्ते । एवं वाङ्मनश्चक्षुःश्रोत्रं चेति । ते प्रीताः प्राणं स्तुन्वन्ति ।
| verse_line1 = तद्यथा मधुमक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रमन्ते । तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्ते । एवं वाङ्मनश्चक्षुःश्रोत्रं चेति । ते प्रीताः प्राणं स्तुन्वन्ति ।
| verse_line2 = एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥ ४ ॥
| verse_line2 = एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥ ४ ॥
}}
}}

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C02_V05
| verse_id = SPB_C02_V05
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C02
| chapter_id = SPB_C02
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ।
| verse_line1 = अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ।
| verse_line2 = ऋचो यजूंषि सामानि यज्ञः क्षत्रं च ब्रह्म च ॥ ५ ॥
| verse_line2 = ऋचो यजूंषि सामानि यज्ञः क्षत्रं च ब्रह्म च ॥ ५ ॥
}}
}}

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C02_V06
| verse_id = SPB_C02_V06
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C02
| chapter_id = SPB_C02
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे ।
| verse_line1 = प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे ।
| verse_line2 = तुभ्यं प्राण प्रजास्त्विमाः यत् प्राणैः प्रतितिष्ठसि ॥ ६ ॥
| verse_line2 = तुभ्यं प्राण प्रजास्त्विमाः यत् प्राणैः प्रतितिष्ठसि ॥ ६ ॥
}}
}}

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C02_V07
| verse_id = SPB_C02_V07
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C02
| chapter_id = SPB_C02
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = देवानामसि वह्नितमः पितॄणां प्रथमा स्वधा ।
| verse_line1 = देवानामसि वह्नितमः पितॄणां प्रथमा स्वधा ।
| verse_line2 = ऋषीणां चरितं सत्यमथर्वाऽङ्गिरसामपि ॥ ७ ॥
| verse_line2 = ऋषीणां चरितं सत्यमथर्वाऽङ्गिरसामपि ॥ ७ ॥
}}
}}

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C02_V08
| verse_id = SPB_C02_V08
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C02
| chapter_id = SPB_C02
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता ।
| verse_line1 = इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता ।
| verse_line2 = त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ ८ ॥
| verse_line2 = त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ ८ ॥
}}
}}

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C02_V09
| verse_id = SPB_C02_V09
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C02
| chapter_id = SPB_C02
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः ।
| verse_line1 = यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः ।
| verse_line2 = आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥ ९ ॥
| verse_line2 = आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥ ९ ॥
}}
}}

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C02_V10
| verse_id = SPB_C02_V10
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C02
| chapter_id = SPB_C02
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = व्रात्यस्त्वं प्राणैकऋषिरत्ता विश्वस्य सत्पतिः ।
| verse_line1 = व्रात्यस्त्वं प्राणैकऋषिरत्ता विश्वस्य सत्पतिः ।
| verse_line2 = वयमद्यस्य दातारः पिता त्वं मातरिश्व नः ॥ १० ॥
| verse_line2 = वयमद्यस्य दातारः पिता त्वं मातरिश्व नः ॥ १० ॥
}}
}}

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C02_V11
| verse_id = SPB_C02_V11
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C02
| chapter_id = SPB_C02
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = याते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि ।
| verse_line1 = याते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि ।
| verse_line2 = या मनसि सन्तता शिवां तां कुरु मोत्क्रमीः ॥ ११ ॥
| verse_line2 = या मनसि सन्तता शिवां तां कुरु मोत्क्रमीः ॥ ११ ॥
}}
}}

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C02_V12
| verse_id = SPB_C02_V12
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C02
| chapter_id = SPB_C02
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = प्राणस्यैतद्वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम् ।
| verse_line1 = प्राणस्यैतद्वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम् ।
| verse_line2 = मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥ १२ ॥
| verse_line2 = मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥ १२ ॥
}}
}}

{{Bhashyam
{{Bhashyam
| verse_id = SPB_C02
| verse_id = SPB_C02
| id       = SPB_C02_author-note
| id = SPB_C02_author_note
| text     =
| text =
 
इति द्वितीयप्रश्नः ।
इति द्वितीयप्रश्नः ।
| extra_class = gr-author-note
}}
}}
== तृतीयः प्रश्नः ==
== तृतीयः प्रश्नः ==
{{Adhyaya
{{Adhyaya
Line 288: Line 305:
}}
}}
{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C03_V01
| verse_id = SPB_C03_V01
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C03
| chapter_id = SPB_C03
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ । भगवन् कुत एष प्राणो जायते । कथमायात्यस्मिन् शरीरे । आत्मानं वा प्रविभज्य कथं प्रतिष्ठते । केनोत्क्रमते । कथं बाह्यमभिधत्ते । कथमध्यात्ममिति ॥ १ ॥

| verse_id     = SPB_C03_V02
| verse_id = SPB_C03_V02
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C03
| chapter_id = SPB_C03
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = तस्मै स होवाचातिप्रश्नान् पृच्छसि ब्रह्मिष्ठोऽसीति । तस्मात् तेऽहं ब्रवीमि ॥ आत्मत एष प्राणो जायते । यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम् ॥ २ ॥
| verse_line1 = तस्मै स होवाचातिप्रश्नान् पृच्छसि ब्रह्मिष्ठोऽसीति । तस्मात् तेऽहं ब्रवीमि ॥ आत्मत एष प्राणो जायते । यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम् ॥ २ ॥
| commentary1   = satprashna
| commentary1 = satprashna
}}
}}

{{Bhashyam
{{Bhashyam
| verse_id = SPB_C03_V02
| verse_id = SPB_C03_V02
| id       = SPB_C03_V02_B01
| id = SPB_C03_V02_B01
| text     =
| text =
 
आत्मतः परमात्मतः॥
आत्मतः परमात्मतः॥
}}
}}

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C03_V03
| verse_id = SPB_C03_V03
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C03
| chapter_id = SPB_C03
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = मनोकृतेनायात्यस्मिञ्छरीरे ॥ यथा सम्राडेवाधिकृतान् विनियुङ्क्त एतान् ग्रामानधितिष्ठस्वैतान् ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्ते ॥ ३ ॥
| verse_line1 = मनोकृतेनायात्यस्मिञ्छरीरे ॥ यथा सम्राडेवाधिकृतान् विनियुङ्क्त एतान् ग्रामानधितिष्ठस्वैतान् ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्ते ॥ ३ ॥
| commentary1   = satprashna
| commentary1 = satprashna
}}
}}

{{Bhashyam
{{Bhashyam
| verse_id = SPB_C03_V03
| verse_id = SPB_C03_V03
| id       = SPB_C03_V03_B01
| id = SPB_C03_V03_B01
| text     =
| text =
 
विष्णोर्वायुः समुत्पन्नो वायोः सर्वाश्च देवताः ।
विष्णोर्वायुः समुत्पन्नो वायोः सर्वाश्च देवताः ।
प्राणाद्यास्तान्नयन् प्राण आज्ञापयति राजवत् ॥
प्राणाद्यास्तान्नयन् प्राण आज्ञापयति राजवत् ॥
Line 331: Line 350:

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C03_V04
| verse_id = SPB_C03_V04
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C03
| chapter_id = SPB_C03
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते । मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति । हृदि ह्येष आत्मा ॥ ४ ॥

| verse_id     = SPB_C03_V05
| verse_id = SPB_C03_V05
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C03
| chapter_id = SPB_C03
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = अत्रैतदेकशतं नाडीनाम् । तासां शतमेकैकस्यां द्वासप्ततिं प्रतिशाखानाडीसहस्राण्यासु व्यानश्चरति । अथैकयोर्ध्वं उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम्॥ ५ ॥

| verse_id     = SPB_C03_V06
| verse_id = SPB_C03_V06
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C03
| chapter_id = SPB_C03
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णानः । पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः ॥ तेजो ह वा उदानः । तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः ॥ ६ ॥

| verse_id     = SPB_C03_V07
| verse_id = SPB_C03_V07
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C03
| chapter_id = SPB_C03
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = यच्चित्तस्तेनैष प्राणमायाति । प्राणस्तेजसा युक्तः सहात्मना यथासङ्कल्पितं लोकं नयति ॥ य एवं विद्वान् प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति ।
| verse_line1 = यच्चित्तस्तेनैष प्राणमायाति । प्राणस्तेजसा युक्तः सहात्मना यथासङ्कल्पितं लोकं नयति ॥ य एवं विद्वान् प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति ।
| verse_line2 = तदेष श्लोकः ॥
| verse_line2 = तदेष श्लोकः ॥
| verse_line3 = उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।
| verse_line3 = उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।
| verse_line4 = अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते ॥विज्ञायामृतमश्नुत इति ॥ ७ ॥
| verse_line4 = अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते ॥विज्ञायामृतमश्नुत इति ॥ ७ ॥
}}
}}

{{Bhashyam
{{Bhashyam
| verse_id = SPB_C03
| verse_id = SPB_C03
| id       = SPB_C03_author-note
| id = SPB_C03_author_note
| text     =
| text =
 
॥ इति तृतीयप्रश्नः ॥
॥ इति तृतीयप्रश्नः ॥
| extra_class = gr-author-note
}}
}}
== चतुर्थः प्रश्नः ==
== चतुर्थः प्रश्नः ==
{{Adhyaya
{{Adhyaya
Line 378: Line 400:
}}
}}
{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C04_V01
| verse_id = SPB_C04_V01
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C04
| chapter_id = SPB_C04
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ । भगवन्नेतस्मिन् पुरुषे कानि स्वपन्ति । कान्यस्मिन् जाग्रति । कतर एष देवः स्वप्नान् पश्यति । कस्यैतत् सुखं भवति । कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥ १ ॥

| verse_id     = SPB_C04_V02
| verse_id = SPB_C04_V02
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C04
| chapter_id = SPB_C04
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = तस्मै स होवाच । यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डले एकीभवन्ति ताः पुनः पुनरुदयतः प्रचरन्त्येवं ह वै तत्सर्वं परे देवे मनस्येकीभवन्ति । तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥ २ ॥

| id       = SPB_C04_V02_B01
| id = SPB_C04_V02_B01
| text     =
| text =
 
रश्मीनामविशेषेऽपि ह्यन्यदृष्टिव्यपेक्षया ।
रश्मीनामविशेषेऽपि ह्यन्यदृष्टिव्यपेक्षया ।
सूर्यस्य मण्डलं यान्तीत्युच्यन्ते तददर्शनात् ॥
सूर्यस्य मण्डलं यान्तीत्युच्यन्ते तददर्शनात् ॥
Line 405: Line 428:

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C04_V03
| verse_id = SPB_C04_V03
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C04
| chapter_id = SPB_C04
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = प्राणाग्नयः एवैतस्मिन् पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद् गार्हपत्यात् प्रणीयते । प्रणयनादाहवनीयः प्राणः ॥ यदुच्छ्वासनिःश्वासवेतावाहुती समं नयति स समानो मनो ह वाव यजमान इष्टफलमेवोदानः । स एनं यजमानमहरहर्ब्रह्म गमयति ॥ ३ ॥

| verse_id     = SPB_C04_V04
| verse_id = SPB_C04_V04
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C04
| chapter_id = SPB_C04
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = अत्रैष देवः स्वप्ने महिमानमनुभवति । यद्दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरे च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति । दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पश्यति ॥ स यदा तेजसाऽभिभूतो भवत्यत्रैष देवः स्वप्नान् न पश्यति । अथ यदेतस्मिन् शरीरे सुखं भवति ॥ ४ ॥

| id       = SPB_C04_V04_B01
| id = SPB_C04_V04_B01
| text     =
| text =
 
भगवतः शरीरवत् सादृश्ययुक्ते जीवे सुखं भवति । कस्यैतत्सुखं भवतीति पृष्टत्वात् । न ह्यचेतनस्य शरीरस्य सुखं भवति । यस्यात्मा शरीरमिति च श्रुतिः ।
भगवतः शरीरवत् सादृश्ययुक्ते जीवे सुखं भवति । कस्यैतत्सुखं भवतीति पृष्टत्वात् । न ह्यचेतनस्य शरीरस्य सुखं भवति । यस्यात्मा शरीरमिति च श्रुतिः ।
}}
}}
Line 430: Line 454:
{{Bhashyam
{{Bhashyam
| verse_id = SPB_C04_V04
| verse_id = SPB_C04_V04
| id       = SPB_C04_V04_B02
| id = SPB_C04_V04_B02
| text     =
| text =
 
सादृश्याद्देहवज्जीवो विष्णोस्तस्य सुखं भवेत् ।
सादृश्याद्देहवज्जीवो विष्णोस्तस्य सुखं भवेत् ।
सुप्तौ तस्य सुखार्थं हि भगवान् सुप्तिमानयेत् ॥ इति च
सुप्तौ तस्य सुखार्थं हि भगवान् सुप्तिमानयेत् ॥ इति च
Line 437: Line 462:

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C04_V05
| verse_id = SPB_C04_V05
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C04
| chapter_id = SPB_C04
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = स यथा सोम्य वयांसि वासोवृक्षं सम्प्रतिष्ठन्ते ।
| verse_line1 = स यथा सोम्य वयांसि वासोवृक्षं सम्प्रतिष्ठन्ते ।
| verse_line2 = एवं ह वैतत्सर्वं परे आत्मनि सम्प्रतिष्ठते ॥
| verse_line2 = एवं ह वैतत्सर्वं परे आत्मनि सम्प्रतिष्ठते ॥
| verse_line3 = पृथिवी च पृथिवीमात्रा च आपश्च आपोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च । चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसनं च रसयितव्यं च त्वक् च स्पर्शयितव्यं च वाक् च वक्तव्यं च हस्तौ च दातव्यं च पादौ च गन्तव्यं च पायुश्च विसर्जयितव्यं चोपस्थश्चानन्दयितव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं च अहङ्कारश्चाहङ्कर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च ॥ ५ ॥

| verse_id     = SPB_C04_V06
| verse_id = SPB_C04_V06
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C04
| chapter_id = SPB_C04
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = एष हि द्रष्टा स्प्रष्टा घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः ।
| verse_line1 = एष हि द्रष्टा स्प्रष्टा घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः ।
| verse_line2 = स यो ह वैतदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वं भवति ।
| verse_line2 = स यो ह वैतदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वं भवति ।
| verse_line3 = तदेष श्लोकः
| verse_line3 = तदेष श्लोकः
| verse_line4 = विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र ।
| verse_line4 = विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र ।
| verse_line5 = तदेतदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति ॥ ६ ॥
| verse_line5 = तदेतदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति ॥ ६ ॥
}}
}}

{{Bhashyam
{{Bhashyam
| verse_id = SPB_C04
| verse_id = SPB_C04
| id       = SPB_C04_author-note
| id = SPB_C04_author_note
| text     =
| text =
 
॥ इति चतुर्थप्रश्नः ॥
॥ इति चतुर्थप्रश्नः ॥
| extra_class = gr-author-note
}}
}}
== पञ्चमप्रश्नः ==
== पञ्चमप्रश्नः ==
{{Adhyaya
{{Adhyaya
Line 471: Line 499:
}}
}}
{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C05_V01
| verse_id = SPB_C05_V01
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C05
| chapter_id = SPB_C05
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वै तद्भगवन् मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत । कतमं वाव स तेन लोकं जयतीति ॥ तस्मै स होवाच । एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः । तस्माद्विद्वानेतेनैवायनेनैकतरमन्वेति ॥ १ ॥

| verse_id     = SPB_C05_V02
| verse_id = SPB_C05_V02
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C05
| chapter_id = SPB_C05
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसम्पद्यते । तमृचो मनुष्यलोकमुपनयन्ते । स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ॥
| verse_line1 = स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसम्पद्यते । तमृचो मनुष्यलोकमुपनयन्ते । स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ॥
| verse_line2 = अथ यदि द्वितीयमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम् । स सोमलोके विभूतिमनुभूय पुनरावर्तते ॥
| verse_line2 = अथ यदि द्वितीयमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम् । स सोमलोके विभूतिमनुभूय पुनरावर्तते ॥
| verse_line3 = यः पुनरेतं त्रिमात्रेणोमित्येतैनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकम् । स एतस्माज्जीवघनात् परात्परं पुरिशयं पुरुषमीक्षते ॥ २ ॥

| verse_id     = SPB_C05_V03
| verse_id = SPB_C05_V03
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C05
| chapter_id = SPB_C05
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = तदैतौ श्लोकौ भवतः ॥
| verse_line1 = तदैतौ श्लोकौ भवतः ॥
| verse_line2 = तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः ।
| verse_line2 = तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः ।
| verse_line3 = क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक् प्रयुक्तासु न कम्पते ज्ञः ॥
| verse_line3 = क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक् प्रयुक्तासु न कम्पते ज्ञः ॥
| verse_line4 = ऋग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत् तत् कवयो वेदयन्ते ।
| verse_line4 = ऋग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत् तत् कवयो वेदयन्ते ।
| verse_line5 = तमोङ्कारेणैवायनेनान्वेति विद्वान् यत् तच्छान्तमजरममृतमभयं परं च ॥ इति ॥
| verse_line5 = तमोङ्कारेणैवायनेनान्वेति विद्वान् यत् तच्छान्तमजरममृतमभयं परं च ॥ इति ॥
| commentary1   = satprashna
| commentary1 = satprashna
}}
}}

{{Bhashyam
{{Bhashyam
| verse_id = SPB_C05_V03
| verse_id = SPB_C05_V03
| id       = SPB_C05_V03_B01
| id = SPB_C05_V03_B01
| text     =
| text =
 
प्रणवेन हरिं ध्यायन् ब्रह्मलोकं समेत्य च ।
प्रणवेन हरिं ध्यायन् ब्रह्मलोकं समेत्य च ।
ज्ञानं चतुर्मुखात् प्राप्य मुच्यते नात्र संशयः ॥
ज्ञानं चतुर्मुखात् प्राप्य मुच्यते नात्र संशयः ॥
Line 511: Line 540:
{{Bhashyam
{{Bhashyam
| verse_id = SPB_C05
| verse_id = SPB_C05
| id       = SPB_C05_author-note
| id = SPB_C05_author_note
| text     =
| text =
 
॥ इति पञ्चमप्रश्नः ॥
॥ इति पञ्चमप्रश्नः ॥
| extra_class = gr-author-note
}}
}}
== षष्ठः प्रश्नः ==
== षष्ठः प्रश्नः ==
{{Adhyaya
{{Adhyaya
Line 522: Line 554:
}}
}}
{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C06_V01
| verse_id = SPB_C06_V01
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C06
| chapter_id = SPB_C06
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैनं प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ । तं मह्यं ब्रवीहीति ।
| verse_line1 = अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैनं प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ । तं मह्यं ब्रवीहीति ।
| verse_line2 = तमहं कुमारमब्रुवं नाहमिमं वेद । यद्यहमिममवेदिष्यं कथं ते नावक्ष्यमिति । समूलो वा एष परिशुष्यति योऽनृतमभिवदति । तस्मान्नार्हाम्यहमनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष इति ॥ १ ॥
| verse_line2 = तमहं कुमारमब्रुवं नाहमिमं वेद । यद्यहमिममवेदिष्यं कथं ते नावक्ष्यमिति । समूलो वा एष परिशुष्यति योऽनृतमभिवदति । तस्मान्नार्हाम्यहमनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष इति ॥ १ ॥
| commentary1   = satprashna
| commentary1 = satprashna
}}
}}

{{Bhashyam
{{Bhashyam
| verse_id = SPB_C06_V01
| verse_id = SPB_C06_V01
| id       = SPB_C06_V01_B01
| id = SPB_C06_V01_B01
| text     =
| text =
 
कर्मेति पुष्करः प्रोक्त उषा नामाभिमानिनी ।
कर्मेति पुष्करः प्रोक्त उषा नामाभिमानिनी ।
लोकाभिमानी पर्जन्यः स्वाहा वै मन्त्रदेवता ॥
लोकाभिमानी पर्जन्यः स्वाहा वै मन्त्रदेवता ॥
Line 549: Line 582:

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C06_V02
| verse_id = SPB_C06_V02
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C06
| chapter_id = SPB_C06
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = तस्मै स होवाच । इहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडशकलाः प्रभवन्तीति ॥ स ईक्षाञ्चक्रे । कस्मिन् न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि । कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥ स प्राणमसृजत । प्राणाच्छ्रद्धां खं वायुर्ज्योऽतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च ॥ २ ॥

| id       = SPB_C06_V02_B01
| id = SPB_C06_V02_B01
| text     =
| text =
 
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥
Line 568: Line 602:
{{Bhashyam
{{Bhashyam
| verse_id = SPB_C06_V02
| verse_id = SPB_C06_V02
| id       = SPB_C06_V02_B02
| id = SPB_C06_V02_B02
| text     =
| text =
 
विष्णोः प्राणस्ततः श्रद्धा तस्या रुद्रो मनोभिधः ।
विष्णोः प्राणस्ततः श्रद्धा तस्या रुद्रो मनोभिधः ।
तस्मादिन्द्रस्त्विन्द्रियात्मा तस्य सोमोऽन्नदेवता ॥
तस्मादिन्द्रस्त्विन्द्रियात्मा तस्य सोमोऽन्नदेवता ॥
Line 583: Line 618:

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C06_V03
| verse_id = SPB_C06_V03
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C06
| chapter_id = SPB_C06
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = स यथेमाः नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति । भिद्येते चासां नामरूपे । पुरुष इत्येवं प्रोच्यते । स एषोऽकलोऽमृतो भवति ॥ ३ ॥

| id       = SPB_C06_V03_B01
| id = SPB_C06_V03_B01
| text     =
| text =
 
समुद्रे इत्येव प्रोच्यते । पुरुषे इत्येवं प्रोच्यते । भिद्येते तासां नामरूपे । भिद्येते चासां नामरूपे इत्युक्तत्वात् । अज्ञैरनवगतान्यपि समुद्रे स्थितानां नदीनां विष्णौ स्थितानां मुक्तानां च भिन्नान्येव नामरूपाणि सन्त्येवेत्यर्थः ।

Line 600: Line 636:
{{Bhashyam
{{Bhashyam
| verse_id = SPB_C06_V03
| verse_id = SPB_C06_V03
| id       = SPB_C06_V03_B01
| id = SPB_C06_V03_B01
| text     =
| text =
 
न च भेदशब्दो नाशे प्रयुज्यमानः क्वापि दृष्टः । घटादावपि बहुभाव एव भेदशब्दः प्रयुज्यते । नाशस्त्वर्थतः एवावगम्यते । न चात्रार्थतोऽपि नाशोऽवगम्यते । न हि नामानि रूपाणि च कपालवद् बहुधा भूतानि तिष्ठन्ति । अतो भिद्येते इति पृथक्त्वमेवोच्यते । अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः इति वाक्यशेषाच्च । अतः पुरुषे भिन्नानि नामरूपाणि प्रतिष्ठितानीत्येवार्थः । नामरूपाणि नित्यान्येव , अस्तगमनं त्वादित्यवदज्ञानामविज्ञेयत्वमेव ।

Line 607: Line 644:
{{Bhashyam
{{Bhashyam
| verse_id = SPB_C06_V03
| verse_id = SPB_C06_V03
| id       = SPB_C06_V03_B01
| id = SPB_C06_V03_B01
| text     =
| text =
 
प्राणादयः कला यस्मिन् मुक्ता नित्यं प्रतिष्ठिताः ।
प्राणादयः कला यस्मिन् मुक्ता नित्यं प्रतिष्ठिताः ।
पृथक् पृथक् नामरूपैर्नमस्तस्मै पराय ते ॥ इति सत्तत्त्वे ॥
पृथक् पृथक् नामरूपैर्नमस्तस्मै पराय ते ॥ इति सत्तत्त्वे ॥
Line 615: Line 653:
{{Bhashyam
{{Bhashyam
| verse_id = SPB_C06_V03
| verse_id = SPB_C06_V03
| id       = SPB_C06_V03_B01
| id = SPB_C06_V03_B01
| text     =
| text =
 
नामरूपाद्विमुक्तः इत्यनेनापि नामरूपामुक्तत्वमुच्यते । विप्रिय इत्यादिवत् । नामरूपे अविहायेति च पूर्वत्र ।
नामरूपाद्विमुक्तः इत्यनेनापि नामरूपामुक्तत्वमुच्यते । विप्रिय इत्यादिवत् । नामरूपे अविहायेति च पूर्वत्र ।
}}
}}
Line 622: Line 661:
{{Bhashyam
{{Bhashyam
| verse_id = SPB_C06_V03
| verse_id = SPB_C06_V03
| id       = SPB_C06_V03_B01
| id = SPB_C06_V03_B01
| text     =
| text =
 
अनन्तं वै नामानन्ता विश्वेदेवाः इति नामरूपयोरनन्तत्वं हि श्रुतिर्वक्ति ।
अनन्तं वै नामानन्ता विश्वेदेवाः इति नामरूपयोरनन्तत्वं हि श्रुतिर्वक्ति ।
}}
}}
Line 629: Line 669:
{{Bhashyam
{{Bhashyam
| verse_id = SPB_C06_V03
| verse_id = SPB_C06_V03
| id       = SPB_C06_V03_B01
| id = SPB_C06_V03_B01
| text     =
| text =
 
यत्र पूर्वे साध्या सन्ति देवाः स तत्र पर्येति जक्षन् क्रीडन् रममाणः सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता । ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु इत्यादेश्च । अतः सर्वमुक्तेभ्योऽप्युत्तमोत्तमः परिपूर्णो नारायण इति सिद्धम् ॥

| verse_id     = SPB_C06_V04
| verse_id = SPB_C06_V04
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C06
| chapter_id = SPB_C06
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = तदेष श्लोकः
| verse_line1 = तदेष श्लोकः
}}
}}

{{VerseBlock
{{VerseBlock
| verse_id     = SPB_C06_V05
| verse_id = SPB_C06_V05
| document_id   = SPB
| document_id = SPB
| chapter_id   = SPB_C06
| chapter_id = SPB_C06
| verse_type   = mantra
| verse_type = mantra
| verse_line1 = तान् होवाच । एतावदेवाहमेतत् परं ब्रह्म वेद नातः परमस्तीति ते हि तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ४ ॥
| verse_line1 = तान् होवाच । एतावदेवाहमेतत् परं ब्रह्म वेद नातः परमस्तीति ते हि तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ४ ॥
| commentary1   = satprashna
| commentary1 = satprashna
}}
}}

{{Bhashyam
{{Bhashyam
| verse_id = SPB_C06_V05
| verse_id = SPB_C06_V05
| id       = SPB_C06_V05_author-note
| id = SPB_C06_V05_author_note
| text     =
| text =
 
इति षट्प्रश्नोपनिषत् समाप्ता ॥
इति षट्प्रश्नोपनिषत् समाप्ता ॥
| extra_class = gr-author-note
}}
}}

{{Bhashyam
{{Bhashyam
| verse_id = SPB_C06_V05
| verse_id = SPB_C06_V05
| id       = SPB_C06_V05_B01
| id = SPB_C06_V05_B01
| text     =
| text =
 
नमो नमोस्तु हरये प्रेष्ठप्रेष्ठतमाय मे ।
नमो नमोस्तु हरये प्रेष्ठप्रेष्ठतमाय मे ।
परमानन्दसन्दोहसान्द्रानन्दवपुष्मते ॥
परमानन्दसन्दोहसान्द्रानन्दवपुष्मते ॥
Line 668: Line 712:
{{Bhashyam
{{Bhashyam
| verse_id = SPB_C06
| verse_id = SPB_C06
| id       = SPB_C06_author-note
| id = SPB_C06_author_note
| text     =
| text =
 
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं षट्प्रश्नोपनिषद्भाष्यं सम्पूर्णम् ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं षट्प्रश्नोपनिषद्भाष्यं सम्पूर्णम् ॥
| extra_class = gr-author-note
}}
}}

[[Category:Sanskrit Documents]]
[[Category:Sanskrit Documents]]
[[Category:Satprashna]]
[[Category:Satprashna]]

Revision as of 18:33, 20 April 2026

षट्प्रश्नोपनिषद्भाष्यम्

प्रथमप्रश्नः

नमो भगवते तस्मै प्राणादिप्रभविष्णवे । अमन्दानन्दसान्द्राय वासुदेवाय वेधसे ।
सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनः । ते हैते ब्रह्मपराः ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः । एष ह वै तत् सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १ ॥

तान् ह स ऋषिरुवाच । भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ । यथाकामं प्रश्नान् पृच्छत । यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥ २ ॥

अथ कबन्धी कात्यायनः उपेत्य पप्रच्छ । भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त इति । तस्मै स होवाच प्रजाकामो ह वै प्रजापतिः। स तपोऽतप्यत ॥ ३ ॥

प्रजानां पालनाद्विष्णुः प्रजापतिरितीरितः ।
स मिथुनमुत्पादयते । रयिं च प्राणं चेति । एतौ मे बहुधा प्रजाः करिष्यत इति । आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः ॥

स वायुं सूर्यनामानं चन्द्रनाम्नीं सरस्वतीम् ॥

सूर्याचन्द्रगतौ देवः ससर्ज पुरुषोत्तमः ।

तावाविश्य स्वयं विष्णुः सर्वसृष्टीः करोत्यजः ॥
रयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च । तस्मान्मूर्तिरेव रयिः ॥ अथादित्य उदयन् यत्प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते । यद् दक्षिणां यत्प्रतीचीं यदुदीची यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते ॥ ५ ॥

अमूर्तस्थः स वायुस्तु मूर्तसंस्था सरस्वती ।

आदित्यस्थः स वायुस्तु प्राणानात्मनि सन्नयेत् ॥ प्राच्याः प्राणास्तथेन्द्राद्या दक्षिणाश्च यमादयः । प्रतीच्या वरुणाद्यास्तु सोमाद्या उत्तराः स्मृताः । शेषमित्राववाचीनौ वीन्द्रकामावुदक्तनौ ।

सभार्याः कोणपैः सार्धं चत्वारो दिशि दिश्यपि ॥
स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते । तदेतदृचाभ्युक्तम् ॥विश्वरूपं करिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ।

संवत्सरो वै प्रजापतिः । तस्यायने दक्षिणं चोत्तरं च । तद् ये ह वै तदिष्टापूर्ते । कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते । त एव पुनरावर्तन्ते । तस्मादेते ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष वै रयिर्यः पितृयाणः ॥ ७ ॥

अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानं अन्विष्यादित्यमभिजयन्ते । एतद् वै प्राणानामायतनमेतदमृतमभयमेतत् परायणम् । एतस्मान्न पुनरावर्तन्त इत्येष निरोधः ।तदेष श्लोकः ॥

संवत्सरस्थो भगवान् वागीरावयनस्थितौ ।
मासो वै प्रजापतिः । तस्य कृष्णपक्ष एव रयिः । शुक्लः प्राणः । तस्मादेते ऋषयः शुक्ल इष्टिं कुर्वन्ति । इतर इतरस्मिन् । अहोरात्रे वै प्रजापतिः । तस्याहरेव प्राणो रात्रिरेव रयिः । प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते । ब्रह्मचर्यमेव तद् यद् रात्रौ रत्या संयुज्यन्ते ॥ ९ ॥

मासस्थितः स भगवान् पक्षयोर्वाक् च मारुतः ॥

अहोरात्रे तु भगवान् प्राणो ह्यहनि वाङ् निशि । दम्पत्योर्भगवान् विष्णुर्भार्यास्था तु सरस्वती । भर्तृस्थः स स्वयं वायुरेवं जानन् विमुच्यते ॥

इति प्रजापतिसंहितायाम्
अन्नं वै प्रजापतिः । ततो ह वै तद्रेतः । तस्मादिमाः प्रजाः प्रजायन्त इति । तद् ये ह वै तत्प्रजापतिव्रतं चरन्ति ॥ ये मिथुनमुत्पादयन्ते ।तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् ।

द्वितीयः प्रश्नः

अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येव देवाः प्रजा विधारयन्ते । कतर एतत् प्रकाशयन्ते । कः पुनरेषां वरिष्ठ इति ॥ १ ॥

तस्मै स होवाच । आकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च । ते प्राकाश्या अभिवदन्ति । वयमेतद् बाणमवष्टभ्य विधारयाम इति ॥ २ ॥

वायुरग्निरित्यत्र भूतवायुरुच्यते ।
तान् वरिष्ठः प्राण उवाच । मा मोहमापद्यथाहमेवैतत् पञ्चधाऽऽत्मानं विभज्यैतद् बाणमवष्टभ्य विधारयामीति । तेऽश्रद्दधाना बभूवुः । सोऽभिमानादूर्ध्वमुत्क्रमत इव । तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रमन्ते । तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते ॥ ३ ॥

प्राणशब्देन प्रधानवायुः ।
तद्यथा मधुमक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रमन्ते । तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्ते । एवं वाङ्मनश्चक्षुःश्रोत्रं चेति । ते प्रीताः प्राणं स्तुन्वन्ति ।एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥ ४ ॥

अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ।ऋचो यजूंषि सामानि यज्ञः क्षत्रं च ब्रह्म च ॥ ५ ॥

प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे ।तुभ्यं प्राण प्रजास्त्विमाः यत् प्राणैः प्रतितिष्ठसि ॥ ६ ॥

देवानामसि वह्नितमः पितॄणां प्रथमा स्वधा ।ऋषीणां चरितं सत्यमथर्वाऽङ्गिरसामपि ॥ ७ ॥

इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता ।त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ ८ ॥

यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः ।आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥ ९ ॥

व्रात्यस्त्वं प्राणैकऋषिरत्ता विश्वस्य सत्पतिः ।वयमद्यस्य दातारः पिता त्वं मातरिश्व नः ॥ १० ॥

याते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि ।या मनसि सन्तता शिवां तां कुरु मोत्क्रमीः ॥ ११ ॥

प्राणस्यैतद्वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम् ।मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥ १२ ॥

इति द्वितीयप्रश्नः ।

तृतीयः प्रश्नः

अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ । भगवन् कुत एष प्राणो जायते । कथमायात्यस्मिन् शरीरे । आत्मानं वा प्रविभज्य कथं प्रतिष्ठते । केनोत्क्रमते । कथं बाह्यमभिधत्ते । कथमध्यात्ममिति ॥ १ ॥

तस्मै स होवाचातिप्रश्नान् पृच्छसि ब्रह्मिष्ठोऽसीति । तस्मात् तेऽहं ब्रवीमि ॥ आत्मत एष प्राणो जायते । यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम् ॥ २ ॥

आत्मतः परमात्मतः॥
मनोकृतेनायात्यस्मिञ्छरीरे ॥ यथा सम्राडेवाधिकृतान् विनियुङ्क्त एतान् ग्रामानधितिष्ठस्वैतान् ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्ते ॥ ३ ॥

विष्णोर्वायुः समुत्पन्नो वायोः सर्वाश्च देवताः ।

प्राणाद्यास्तान्नयन् प्राण आज्ञापयति राजवत् ॥ स्वयं च पञ्चरूपस्सन् दद्यान्मोक्षादिकं प्रभुः ॥

इति प्रभञ्जने
पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते । मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति । हृदि ह्येष आत्मा ॥ ४ ॥

अत्रैतदेकशतं नाडीनाम् । तासां शतमेकैकस्यां द्वासप्ततिं प्रतिशाखानाडीसहस्राण्यासु व्यानश्चरति । अथैकयोर्ध्वं उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम्॥ ५ ॥

आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णानः । पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः ॥ तेजो ह वा उदानः । तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः ॥ ६ ॥

यच्चित्तस्तेनैष प्राणमायाति । प्राणस्तेजसा युक्तः सहात्मना यथासङ्कल्पितं लोकं नयति ॥ य एवं विद्वान् प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति ।तदेष श्लोकः ॥

॥ इति तृतीयप्रश्नः ॥

चतुर्थः प्रश्नः

अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ । भगवन्नेतस्मिन् पुरुषे कानि स्वपन्ति । कान्यस्मिन् जाग्रति । कतर एष देवः स्वप्नान् पश्यति । कस्यैतत् सुखं भवति । कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥ १ ॥

तस्मै स होवाच । यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डले एकीभवन्ति ताः पुनः पुनरुदयतः प्रचरन्त्येवं ह वै तत्सर्वं परे देवे मनस्येकीभवन्ति । तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥ २ ॥

रश्मीनामविशेषेऽपि ह्यन्यदृष्टिव्यपेक्षया ।

सूर्यस्य मण्डलं यान्तीत्युच्यन्ते तददर्शनात् ॥ एवं विष्णोस्तु सामीप्याद्देवानां सुप्तिगस्य तु ।

व्यवहाराकरत्वाच्च एकीभाव इतीर्यते ॥ इति च
प्राणाग्नयः एवैतस्मिन् पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद् गार्हपत्यात् प्रणीयते । प्रणयनादाहवनीयः प्राणः ॥ यदुच्छ्वासनिःश्वासवेतावाहुती समं नयति स समानो मनो ह वाव यजमान इष्टफलमेवोदानः । स एनं यजमानमहरहर्ब्रह्म गमयति ॥ ३ ॥

अत्रैष देवः स्वप्ने महिमानमनुभवति । यद्दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरे च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति । दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पश्यति ॥ स यदा तेजसाऽभिभूतो भवत्यत्रैष देवः स्वप्नान् न पश्यति । अथ यदेतस्मिन् शरीरे सुखं भवति ॥ ४ ॥

भगवतः शरीरवत् सादृश्ययुक्ते जीवे सुखं भवति । कस्यैतत्सुखं भवतीति पृष्टत्वात् । न ह्यचेतनस्य शरीरस्य सुखं भवति । यस्यात्मा शरीरमिति च श्रुतिः ।
सादृश्याद्देहवज्जीवो विष्णोस्तस्य सुखं भवेत् । सुप्तौ तस्य सुखार्थं हि भगवान् सुप्तिमानयेत् ॥ इति च
स यथा सोम्य वयांसि वासोवृक्षं सम्प्रतिष्ठन्ते ।एवं ह वैतत्सर्वं परे आत्मनि सम्प्रतिष्ठते ॥

एष हि द्रष्टा स्प्रष्टा घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः ।स यो ह वैतदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वं भवति ।

॥ इति चतुर्थप्रश्नः ॥

पञ्चमप्रश्नः

अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वै तद्भगवन् मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत । कतमं वाव स तेन लोकं जयतीति ॥ तस्मै स होवाच । एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः । तस्माद्विद्वानेतेनैवायनेनैकतरमन्वेति ॥ १ ॥

स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसम्पद्यते । तमृचो मनुष्यलोकमुपनयन्ते । स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ॥अथ यदि द्वितीयमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम् । स सोमलोके विभूतिमनुभूय पुनरावर्तते ॥

तदैतौ श्लोकौ भवतः ॥तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः ।

प्रणवेन हरिं ध्यायन् ब्रह्मलोकं समेत्य च । ज्ञानं चतुर्मुखात् प्राप्य मुच्यते नात्र संशयः ॥
॥ इति पञ्चमप्रश्नः ॥

षष्ठः प्रश्नः

अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैनं प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ । तं मह्यं ब्रवीहीति ।तमहं कुमारमब्रुवं नाहमिमं वेद । यद्यहमिममवेदिष्यं कथं ते नावक्ष्यमिति । समूलो वा एष परिशुष्यति योऽनृतमभिवदति । तस्मान्नार्हाम्यहमनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष इति ॥ १ ॥

कर्मेति पुष्करः प्रोक्त उषा नामाभिमानिनी ।

लोकाभिमानी पर्जन्यः स्वाहा वै मन्त्रदेवता ॥ तपोभिमानी वह्निश्च वरुणो वीर्यदेवता । अन्नस्य देवता सोमो मनो नामानिरुद्धकः ॥ इन्द्रियेशाश्च सूर्याद्याश्चक्षुराद्यभिमानिनः । रुद्रो वीन्द्रः शेषकामौ मनसस्त्वेव देवताः ॥ श्रद्धेति वायोः पत्नी स्यात् सर्वेषां प्रभवाप्यया । तस्याश्च कारणं प्राणः सर्वेषामुत्तमोत्तमः ॥ तस्यापीशः कारणं च वासुदेवः परोऽव्ययः । न तस्य सदृशः कश्चित् कुत एवोत्तमो भवेत् ॥

तं ज्ञात्वा मुच्यते जन्तुर्विदित्वैवं परात्परम् ॥ इति तत्त्वविवेके ।
तस्मै स होवाच । इहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडशकलाः प्रभवन्तीति ॥ स ईक्षाञ्चक्रे । कस्मिन् न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि । कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥ स प्राणमसृजत । प्राणाच्छ्रद्धां खं वायुर्ज्योऽतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च ॥ २ ॥

एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।

खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥

इति मन्त्रोक्त एव क्रमः । न हीन्द्रियेभ्यो मनः पश्चात् । तत्प्राक् श्रुतेश्च इति च भगवद्वचनम् ॥
विष्णोः प्राणस्ततः श्रद्धा तस्या रुद्रो मनोभिधः ।

तस्मादिन्द्रस्त्विन्द्रियात्मा तस्य सोमोऽन्नदेवता ॥ ततश्च वरुणस्सृष्टस्तस्मादग्निस्ततोऽवरः । आकाशदेवता विघ्नस्ततो वायोः सुतो मरुत् ॥ तस्मादग्निः पावकाख्यः प्रथमोऽग्नेः सुतस्ततः । ततः पर्जन्य उद्भूतः स्वाहातो मन्त्रदेवता ॥ उदात्मको बुधस्तस्या उषा नामात्मिका ततः । ततः शनिः पृथिव्यात्मा कर्मात्मा पुष्करस्ततः ॥ क्रमात् प्रत्यवरा ह्येते मुक्ताः सर्वगुणैरपि ।

नित्यमुक्तस्ततो विष्णुः प्राणादप्युत्तमोत्तमः ॥ इति च
स यथेमाः नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति । भिद्येते चासां नामरूपे । पुरुष इत्येवं प्रोच्यते । स एषोऽकलोऽमृतो भवति ॥ ३ ॥

समुद्रे इत्येव प्रोच्यते । पुरुषे इत्येवं प्रोच्यते । भिद्येते तासां नामरूपे । भिद्येते चासां नामरूपे इत्युक्तत्वात् । अज्ञैरनवगतान्यपि समुद्रे स्थितानां नदीनां विष्णौ स्थितानां मुक्तानां च भिन्नान्येव नामरूपाणि सन्त्येवेत्यर्थः ।
न च भेदशब्दो नाशे प्रयुज्यमानः क्वापि दृष्टः । घटादावपि बहुभाव एव भेदशब्दः प्रयुज्यते । नाशस्त्वर्थतः एवावगम्यते । न चात्रार्थतोऽपि नाशोऽवगम्यते । न हि नामानि रूपाणि च कपालवद् बहुधा भूतानि तिष्ठन्ति । अतो भिद्येते इति पृथक्त्वमेवोच्यते । अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः इति वाक्यशेषाच्च । अतः पुरुषे भिन्नानि नामरूपाणि प्रतिष्ठितानीत्येवार्थः । नामरूपाणि नित्यान्येव , अस्तगमनं त्वादित्यवदज्ञानामविज्ञेयत्वमेव ।
प्राणादयः कला यस्मिन् मुक्ता नित्यं प्रतिष्ठिताः । पृथक् पृथक् नामरूपैर्नमस्तस्मै पराय ते ॥ इति सत्तत्त्वे ॥
नामरूपाद्विमुक्तः इत्यनेनापि नामरूपामुक्तत्वमुच्यते । विप्रिय इत्यादिवत् । नामरूपे अविहायेति च पूर्वत्र ।
अनन्तं वै नामानन्ता विश्वेदेवाः इति नामरूपयोरनन्तत्वं हि श्रुतिर्वक्ति ।
यत्र पूर्वे साध्या सन्ति देवाः स तत्र पर्येति जक्षन् क्रीडन् रममाणः सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता । ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु इत्यादेश्च । अतः सर्वमुक्तेभ्योऽप्युत्तमोत्तमः परिपूर्णो नारायण इति सिद्धम् ॥
तदेष श्लोकः

तान् होवाच । एतावदेवाहमेतत् परं ब्रह्म वेद नातः परमस्तीति ते हि तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ४ ॥

इति षट्प्रश्नोपनिषत् समाप्ता ॥
नमो नमोस्तु हरये प्रेष्ठप्रेष्ठतमाय मे । परमानन्दसन्दोहसान्द्रानन्दवपुष्मते ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं षट्प्रश्नोपनिषद्भाष्यं सम्पूर्णम् ॥