Taittiriya: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |

| Line 332: | Line 332: | ||

अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता अयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ताः अयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् ॥ २४ ॥

अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता अयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ताः अयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् ॥ २४ ॥

शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् । सत्यमवादिषम् । तन्मामवीत् । तद्वक्तारमवीत् । अवीन्माम् । अवीद्वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ॥

<div class="verse-block" id=" | |||

॥ इति तैत्तिरीयोपनिषद्भाष्ये शिक्षावल्ली समाप्ता ॥ १ ॥

॥ इति तैत्तिरीयोपनिषद्भाष्ये शिक्षावल्ली समाप्ता ॥ १ ॥

=== ब्रह्मवल्ली === | |||

{{Bhashyam | {{Bhashyam | ||
| Line 632: | Line 632: | ||

तदप्येष श्लोको भवति । यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति ॥ एतग्ं ह वाव न तपति । किमहग्ं साधु नाकरवम् । किमहं पापमकरवमिति । स य एवं विद्वानेते आत्मानग्ग् स्पृणुते । उभे ह्येवैष एते आत्मानग्ग् स्पृणुते । य एवं वेद । इत्युपनिषत् ॥ २८ ॥

तदप्येष श्लोको भवति । यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति ॥ एतग्ं ह वाव न तपति । किमहग्ं साधु नाकरवम् । किमहं पापमकरवमिति । स य एवं विद्वानेते आत्मानग्ग् स्पृणुते । उभे ह्येवैष एते आत्मानग्ग् स्पृणुते । य एवं वेद । इत्युपनिषत् ॥ २८ ॥

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥ इति ब्रह्मवल्ली ॥ २ ॥

<div class="verse-block" id=" | |||

॥ इति द्वितीया ब्रह्मवल्ली समाप्ता ॥ २ ॥

॥ इति द्वितीया ब्रह्मवल्ली समाप्ता ॥ २ ॥

=== भुगुवल्ली === | |||

{{Bhashyam | {{Bhashyam | ||
Latest revision as of 19:49, 17 June 2026
तैत्तिरीयोपनिषत्
शिक्षावल्ली
छन्दोभ्योऽमृतरूपेभ्यस्सुव्यक्तस्तदुपासनात् ॥
मेधावी तत्त्वविज्ञानी भूत्वा क्षिप्रं विमुच्यते ॥ इति च ।भगः षड्गुणपूर्णत्वाद् बहुरूपत्वतो विभुः ॥ सहस्रशाख इत्युक्तस्तमुपास्य जनार्दनम् ।
मुच्यते नात्र सन्देहस्सर्वभोगैश्च युज्यते ॥ इति प्रक्लृप्ते ।अनिरुद्धादिकं वासुदेवान्तं देहमध्यगः ॥ वासुदेवो महोनामा त्वनिरुद्धश्शिरो मतः । भूर्नामाथ भुवोनामा बाहू प्रद्युम्न ईरितः ॥ सङ्कर्षणस्सुवर्नामा पादौ तस्य महात्मनः । अनन्योऽप्यन्यशब्देन चतुरात्मा प्रकीर्त्यते ॥
निर्विशेषोऽपि भगवान् सङ्ख्यामात्रविशेषतः ॥ १३ ॥प्रत्येकशश्चातुरात्म्यात् षोडशात्मा प्रकीर्तितः ॥ महीयते महति च स्वयं स भगवान् हरिः । पूज्यपूजकभेदोऽत्र नैव कश्चिदपीष्यते ॥ नामप्रवृत्तिहेतुत्वान्नाम लोकादिकं हरेः । अयं समीपस्थतया त्वसौ प्राणे स्थितत्वतः ॥ ईक्षणादन्तरिक्षं चाथादित्यस्थोऽदितेस्सुतः । अग्निरग्नौ स्थितत्वाच्च वायुर्वयति यज्जगत् ॥ चन्द्र आह्लादरूपत्वादृगर्च्यत्वाज्जनार्दनः । यजुर्याज्यस्वरूपत्वात् साम चासौ समत्वतः ॥ बृहत्वात् ब्रह्म वेदानां समुदायेऽखिले स्थितः । तत्सम्बन्धाद्वेदराशिर्ब्रह्मशब्देन कीर्तितः ॥ प्रकृष्टनयनात् प्राणोऽपानोऽवाङ्नयनाद्धरिः । विविधं नयनाद् व्यानस्सोऽन्नं सर्वोपजीव्यतः ॥ एवं षोडशरूपोऽसौ चतुरात्मा व्यवस्थितः । महाचमसनामासौ यस्मादतिचमत्कृतिः ॥ माहाचमस्यस्तज्ज्ञानी ब्रह्मा सम्परिकीर्तितः । एवं षोडशरूपाणां ज्ञानयोग्यश्चतुर्मुखः ॥ स एव ब्रह्मवित् तस्मात् पूज्यते मुक्तिगोऽपि सन् ।
सर्वदेवैरतितरां यस्सम्यक् षोडशात्मवित् ॥ इति व्याहृतितत्त्वे ।सुवस्सुबलरूपत्वात् महः पूर्णत्वतो विभुः ॥ तदेतच्चतुराकारं ब्रह्मोक्तं गुणबृंहणात् । स आत्मा सर्वदेवानां चतुरात्मा जनार्दनः ॥ तस्य ब्रह्मादयो देवा अङ्गमागन्तुकत्वतः । वासुदेवादिरूपोऽसौ षोडशात्मा चतुश्चतुः ॥ स एव सर्ववेदोक्तस्सर्वविद्यासु चेश्वरः । प्रणवार्था व्याहृतयो व्याहृत्यर्था ऋगादयः ॥ इतिहासपुराणं च पञ्चरात्रं च सर्वशः । सम्यग्व्याहरणात् विष्णोः श्रुता व्याहृतयस्त्विति ॥ सर्ववेदोक्तसर्वस्वव्याहृतेर्व्याहृतित्वमु ।
विशेषेणाहरन्तीमं विष्णुमित्यथवा स्मृताः ॥ इति व्याहृतिसारे ॥ १४ ॥प्रद्युम्नस्तालुमध्यस्थो लम्बिन्यामिन्द्रनामकः ॥ व्याख्यस्सुपर्णरूपत्वात् केशान्ते वर्तते तु यः । सङ्कर्षणस्सुपर्णात्मा वासुदेवो व्यपस्स्मृतः ॥ यस्माद्व्यपगतस्थाता जगति प्रलये विभुः ।
अशीर्षककपालोसौ कपालादुपरि स्थितः ॥ १५ ॥प्रद्युम्नो भगवान् वायौ भुव इत्येव कीर्तितः ॥ सङ्कर्षणस्सुवर्नामा सूर्ये तिष्ठति केशवः । महोनामा वासुदेवो ब्रह्मणिस्थश्चतुर्मुखे ॥ स वासुदेवस्स्वाराज्यं व्याप्यास्मिन् मनसस्पतौ । अनिरुद्धे च संव्याप्तः ततो वागादिनां पतिः ॥ वागादिषु स्थितो नित्यं भवत्येष जनार्दनः । स्वव्यापी च जगद्व्यापी नित्यैश्वर्यात् स ईश्वरः ॥ आकाशवद्व्याप्तदेहस्सत्यात्मा गुणपूर्तितः । वायोर्विशेषरमको बलानन्दस्वरूपवान् ॥ ज्ञानानन्दस्वरूपोऽसौ शान्तिनामा सुखोन्नतेः । अन्तगत्वात् स्वतः पूर्तेस्समृद्धं तत् प्रकीर्तितम् ॥ इत्युपास्व प्राथमिको योग्यस्त्वं मदुपासने ।
प्राधान्यादिति पूर्वं हि प्राह विष्णुश्चतुर्मुखम् ॥ इति ब्रह्मसारे ॥नारायणादिरूपेण बलयत्यञ्जसा प्रभुः ॥
इत्युवाच स्वयं विष्णुर्वेदद्रष्टा गुणाधिकः ॥ इति तत्त्वसंहितायाम् ॥यद्यद्रूपं भगवतस्तदिदं सर्वमेव च ॥ ओमेवाधिकपूर्णत्वात् तस्माद्यज्ञेषु चर्त्विजः । ओमित्येव स्वकर्माणि कुर्वन्त्युद्दिश्य केशवम् ॥ अधिकोच्च शृणुष्वेति हरिमध्वर्युराह हि । अधिकोच्च महाधाम सूच्च देवेति चादरात् ॥ प्रति प्रति गृणात्येनं शंरूपात्युच्चशावन । इत्याह होता शस्त्रेषु तथैवान्येऽपि चर्त्विजः ॥ एवं स्वऽध्यायकृच्चाह ब्रह्मप्राप्त्यर्थमञ्जसा ।
एवं जानन्त एते तु प्राप्नुवन्त्येव तत्परम् ॥ इति च ॥ १९ ॥अत्युत्कृष्टेन हरिणा पावितोऽस्मि यतः स्फुटम् ॥ वाजिरूपश्च नेता च वाजिनी सूर्य उच्यते । तत्रस्थो भगवान् विष्णुस्सम्प्रोक्तो वाजिनीवसुः ॥ तेनामृतोऽस्मि द्रविणं नित्यानन्दस्वरूपतः । तेनामृतेन सिक्तोहं तेन व्याप्तो यतस्सदा ॥
इत्याह मन्त्रदृक् पूर्वं त्रिशङ्कुर्मानवो नृपः ॥ इति यजुर्विवेके ॥
ब्रह्मवल्ली
स एवान्नात् पुनर्जातो ह्यजातोऽपि यतो विभुः ॥ अन्नात्मनि शरीरेऽसौ व्यज्यते सुविवेकिभिः । अन्नस्य सारभूतोऽयं शरीरस्य च केशवः ॥ अन्ननामा चान्नसंस्थः शरीरेषु च संस्थितः । अत्तृत्वात् सर्वलोकानामन्नमित्युच्यते हरिः ॥ उपजीव्यश्च भूतानामिति चान्नं जनार्दनः । स ज्यायान् सर्वभूतेभ्यस्तस्मात् सर्वौषधं स्मृतः ॥ संसारे दह्यमानानामाश्रयत्वात् स औषधम् । प्रचुरं मय इत्युक्तं प्रचुरात्ता यतो हरिः॥ प्रचुरैस्सेव्यते नित्यमतोऽन्नमय ईरितः । देहस्यैव शिरस्यस्य शिरो विष्णोः प्रतिष्ठितम् ॥ बाह्वोः पक्षौ तथा मध्ये मध्यं पश्चात्तनौ तथा ॥
पुच्छमित्येष भगवाननिरुद्धः स्वयं हरिः ॥ ५ ॥शिरस्तस्य यजुर्नाम यज्ञानां हरणात् स्मृतम् । यजुःसंस्थं च बाहू तु ऋक्सामान्तःस्थितौ सदा ॥ ऋगर्चनायाः स्वीकारात् साम दोषात् समीकृतेः । पञ्चरात्रगतं मध्यमादेशाख्यं सुविस्तृतेः ॥ अथर्वाख्यं तथा पुच्छमधरं चाङ्गिनां रसः । मनोवाचामगम्यं तं ज्ञात्वाऽऽनन्दस्वरूपिणम् ॥
कुतश्चिन्न बिभेत्येव ..श्रद्धाख्यं श्रुतिधर्तृत्वाच्छ्रद्धायां तच्छिरः स्मृतम् । ऋतं ज्ञानततेर्दाता चर्तस्थो दक्षिणः करः ॥ वामः सत्यस्थितः सत्यं सतां यस्मान्नियामकः । योगाख्यं सर्वलोकस्य योगादत्रैव योगगम् ॥
मध्यं पुच्छं महोनाम महनीयत्वतस्सदा ॥ ११ ॥शिरः प्रिये स्थितं तस्य परेयं प्रियनामकम् । मोदप्रमोदयोर्बाहू मोदनाच्च प्रमोदनात् ॥ मोदप्रमोदनामानावानन्दस्त्वाततत्वतः । मध्यमानन्दसंस्थं च ब्रह्म सृष्ट्या तु बृंहयेत् ॥ पुच्छं प्रधानवायौ च ब्रह्माख्ये संस्थितं सदा । अभेदोऽप्यविशेषोऽपि परमैश्वर्ययोगतः ॥ देहदेहिवदेवासौ पञ्चधाऽवस्थितो हरिः । बहिःस्थो देहवद्विष्णुरन्तस्थो देहिवत् स्मृतः ॥ अन्तर्व्याप्तिविशेषेण न त्वशक्तत्वतो बहिः । सर्वेऽपि पुरुषाकाराः उत्तरात् पूर्वसम्भवाः ॥ उत्तरैः पूरिताः पूर्वे निश्छिद्रत्वेन सर्वशः । अत्तृत्वं च प्रणेतृत्वं बोधो विविधवेत्तृता ॥ आनन्दश्च यतः पूर्णस्ततोऽन्नादिमयास्स्मृताः । अत्त्यादिदास्ते प्रत्येकं सर्वे सर्वगुणा अपि ॥ नामभेदस्ततस्तूक्तः सर्वनामवतामपि । पञ्चरूपं च तद् ब्रह्म जीवादन्यन्न विद्यते ॥ इति ये तु विजानन्ति तेऽसन्तस्तमआलयाः । जीवादन्यत् परं ब्रह्म पञ्चरूपं च ये विदुः ॥
सन्तस्त इति विज्ञेया मोक्षयोग्या हि ते ध्रुवम् ॥ १२ ॥अविद्वानपि यः कश्चिद् ब्रह्माप्नोति कथञ्चन ॥ विद्वानेवोत तत्रापि सर्वे वाऽथैव केचन । यदि सर्वेऽथ तत्रापि सर्वे सम्यक् समाप्नुयुः ॥ केचिदेवोत सम्यक् तदसम्यगपरे जनाः । ज्ञानिनोऽपीति पृष्टः सन् ब्रह्मा प्राह चतुर्मुखः ॥ अज्ञा न प्राप्नुयुर्ब्रह्म प्राप्नुयुर्ज्ञानिनोऽखिलाः । तत्रापि सम्यक् प्राप्तिस्तु विरिञ्चस्यैव सर्वदा ॥ अन्येषां तारतम्येन प्राप्तिः सुखविशेषतः । इत्यभिप्रायवान् ब्रह्मा ह्युकारेण समासतः ॥ उक्त्वा प्रश्नोत्तरं पश्चाद्विस्तरेण जगाद ह । कश्चिदेवोत सम्यक् तदाप्नुयादिति वाक्यतः ॥
अनन्तरं तथैवेति ब्रह्मोङ्कारमुवाच ह ॥ १३ ॥इति ज्ञापयितुं विष्णोः स्वातन्त्र्यज्ञापनाय तु ॥ आह सृष्टिं प्रवेशं च माहात्म्यज्ञानतो यतः । प्रीतिं यान्ति महान्तस्तु तद्वशा एव चेश्वराः ॥ अग्न्यादयोऽपि किमुत तदन्ये मुक्तिदस्ततः । स एवैकस्स विज्ञेयः पूर्णैश्वर्यादिरूपवान् ॥ इति तस्य महैश्वर्यमुच्यते स त्वकामयत् । सृष्ट्वा जगदिदं सर्वं नियामकतयाऽस्य तु ॥ बहुरूपो भवानीति स्याज्जगच्चेत्यचिन्तयत् । स्यादित्यालोचनान्नान्यत् तपो विष्णोः कदाचन ॥ अवतारेष्वनुकृतिर्बाह्यवृत्या तपस्विनाम् । सृष्टिर्नाम स्वरूपात्तु बहिर्निष्क्रमणं स्मृतम् ॥ यद्यपीदं जगत्सर्वं स्वोदरस्थं महात्मनः । तथाऽप्येष द्वितीयेन रूपेण बहिराक्षिपेत् ॥ रूपान्तरेणाविशच्च जगत्सर्वं जनार्दनः । त्यच्चानिरुक्तं विज्ञानं तथा निलयनं महान् ॥ सत्यं प्राणस्तथा श्रीश्च सन्निरुक्तं तथाऽनृतम् । अविज्ञानं चानिलयनं प्रकृतिप्राणयोः परम् ॥ तद्गविष्णोस्तु सम्बन्धात् स्वतस्तन्नामको हरिः । ततो नियामकश्चेति त्यदानन्त्यादवाच्यतः ॥ अनिरुक्तं निलयनं सर्वाधारत्वतो हरिः । विज्ञानं सर्वविज्ञानात् सत्यं साधुस्वरूपतः ॥ अवसादसुवाच्यत्वदौर्बल्याज्ञप्त्यसाधुताः । प्रकृतिप्राणतोऽन्यत्र कुर्वंस्तन्नामको हरिः ॥ अतः साधुस्वरूपः सन् सत्यनामाऽनृतादिकम् । नामानेन गतत्वादेर्यदिदं किञ्च भाषितम् ॥ सन्निरुक्तादिशब्देन तत् सर्वं साधुतैव हि । अवसादनादिहेतुत्वं साधुतैव हि सर्वशः ॥
असाधुताऽवसादादिस्तत्कर्तृत्वं हि भाषितम् ॥ १४ ॥स आसाद्यश्च सन्नामा वासुदेवोऽभवत् प्रभुः ॥ स वासुदेवः स्वात्मानं चक्रे सङ्कर्षणादिकम् । तस्मात् तत् सुकृतं नाम स आनन्दो रसस्ततः ॥ आनन्दमेनं सम्प्राप्य मुक्तो मोदेन्न चान्यथा । आदीप्तस्त्वेष भगवान् यद्यानन्दो भवेन्न च ॥ सामान्यचेष्टा धर्म्याश्च कस्य स्युस्तमृते प्रभुम् । सुखं लब्ध्वा हि कुरुते लोकचेष्टां जनार्दनः ॥ अल्पात् सुखादल्पकर्मा पूर्णानन्दाद्धि सर्वकृत् । न ह्यार्ताः कर्म कुर्वन्ति मुग्धाश्चैव विशेषतः ॥ तस्माद् यादृक् सुखं तादृक् कर्म पूर्णसुखत्वतः । सर्वकृत्त्वात् परो विष्णुराह तस्मात् सनातनी ॥ सुखं लब्ध्वा करोतीति च्छन्दोगानां श्रुतिः परा । अलब्ध्वा तु सुखं नैव करोतीत्यपि सादरम् ॥ तत् पूर्णानन्ददेवेन कारितः प्राणिति स्फुटम् ।
सर्वलोकः स एवैक आनन्दयति चाखिलम् ॥ १५ ॥अनात्म्येऽथ गुणानन्त्यादनिरुक्ते निराश्रयात् ॥ अनिलयनेऽभयत्वेन यदा ज्ञानेन तिष्ठति । तदाऽभयं हरिं गच्छेन्नैवाज्ञानी कथञ्चन ॥ यदैतस्मिन् परे विष्णावुदरं जीवगत्वतः । भेदं करोति तेनैव भयमस्य महद् भवेत् ॥ अ इत्युक्तः परो विष्णुरेभ्य उच्च स एव तु । त उदा जीवसङ्घाः स्युरुदरं तद्गतान्तरम् ॥ तदेव ब्रह्म भयकृद् विदुषोऽविदुषस्तथा । विदुषोऽल्पभयं कुर्याद् यावन्मुक्तिं व्रजत्यसौ ॥ अथाभयं भवेद् ब्रह्म तस्य मुक्तस्य सर्वदा । तस्माद् वाय्वादयो देवा विद्वांसोऽपि विशेषतः ॥ भीताः स्वकर्म कुर्वन्ति विष्णोः प्रीत्यर्थमञ्जसा । अमन्वानस्य नुर्विष्णुः कुर्यान्नित्यं महद्भयम् ॥
तमआख्यमनुत्थानम् .... .... ॥ १६ ॥स्यादेव मोक्षस्तत्रापि ह्यानन्दस्य विचित्रता ॥ यस्तु साधुगुणैर्युक्तस्तस्यैवाप्यखिला मही । त्रेतायुगे चक्रवर्ती यदा मुक्तस्तु संसृतेः ॥ अधीतिफलपूर्णत्वादाध्यायक इतीरितः । स एव विष्णुना युक्तो गच्छतीति युवा स्मृतः ॥ एकानन्दस्वरूपोऽसौ मानुषो मुक्त इष्यते । तस्माच्छतगुणानन्दा गन्धर्वा मानुषात्मकाः ॥
मुक्ताः श्रुतिफलं प्राप्तास्ततः कामाहतास्तथा ॥ १७ ॥ये ते हि देवगन्धर्वा मुक्तेभ्यस्तेभ्य एव च ॥ शताधिका हि पितरस्तेभ्य आजानदेवताः । अनाख्याता देवतास्तु जाता देवकुले च याः ॥ आजानदेवतास्ता हि ताभ्योऽग्र्याः कर्मदेवताः । बल्याद्या अन्तराप्राप्तदेवताः कर्मदेवताः ॥ ताभ्यश्च तात्त्विका देवाः सृष्ट्यादौ देवतां गताः । तेभ्यो दक्षश्चेन्द्रनामा स हीन्दुं रारयत् पुरा ॥ तस्मात् बृहस्पतिर्नाम महेन्द्रत्वात् पुरन्दरः । तस्मात् प्रजापतिर्मुक्तो रुद्रः प्रजननेशिता ॥ तस्माद् ब्रह्मा शतगुणो मुक्त इत्येष निर्णयः । यथाऽऽनन्दे तथा ज्ञाने विष्णुभक्तौ बलाधिके ॥ सर्वैर्गुणैः शतगुणाः क्रमेणोक्तेन तेऽखिलाः । अथवा सहस्रगुणिता अनन्तगुणितास्तथा ॥ परिमाणे शतगुणेऽप्यानन्दस्फुटतावशात् । यथा दीपाच्छतगुणाऽप्यग्निज्वाला न दीपवत् ॥ स्फुटीभवेद् यथैवाग्निर्बहुलोऽपि न सूर्यवत् । यथैव सूर्याद् द्विगुणश्चन्द्रो नैव स्फुटीभवेत् ॥ उत्तरेषामुत्तरेषां गुणा एवमतिस्फुटाः । प्रतिबिम्बा यतः पूर्वे ब्रह्मान्तानां नरादयः ॥
अतोऽस्पष्टस्वरूपास्ते स्फुटरूपास्तथोत्तराः ॥ १८-२६ ॥
भुगुवल्ली
स विष्णुः सर्वजीवेषु नृषु देवेषु च स्थितः । एक एव महायोगी निर्विशेषोऽखिलैर्गुणैः ॥ सर्वोत्तमः स पूर्णश्च तमेवं वेद यः पुमान् । जीवांश्च तारतम्यस्थान् स गच्छेत् पञ्चरूपिणम् ॥ विष्णुं न पुण्यपापे च तस्यानिष्टे कदाचन । प्रियाप्रियेषु तज्ज्ञानी ह्यास्तृणोति यतो नृषु ॥ अगोचरं वाङ्मनसोरानन्त्यात् पुरुषोत्तमम् । ज्ञात्वा मुक्तस्य भीर्नैव कुतश्चन भविष्यति ॥
इत्यादि यजुःसंहितायाम् ।अविद्यमानं ध्यायन्तो यान्ति सर्वेऽधरं तमः ॥ तस्मात् सत्यार्थतां ब्रूयात् वेदानामपि सर्वशः । य एवं वेद स ज्ञानी ज्ञानवान् नान्यथा भवेत् ॥
इति वेदार्थविवेके ।स हि मुक्तोऽकामहतः स हि कामैर्न हन्यते ॥ यस्य कामास्तु सत्याः स्युस्सहि कामैर्न हन्यते ।
न ह्यकामः क्वचित् कश्चित् दृश्यते श्रूयतेऽपि च ॥ इति ब्रह्माण्डे ।नष्टानामपि वस्तूनां भेदो नैव विनश्यति ॥ अवस्तुनोऽपि रूपं स्वं भेद एव न चान्यथा । विशेषरूपनाशेन भेदमात्रावसायिता ॥ नाश इत्युच्यते सद्भिर्भेदो न हि विनश्यति । इत्याहुः केचिदज्ञानात् तत्राहुः सूक्ष्मदर्शिनः ॥ सत्यं भेदस्तु वस्तूनां स्वरूपं नात्र संशयः । तस्माद् वस्तुविनाशे तु तद्भेदो नास्ति कुत्रचित् ॥ अविनष्टस्य तस्मात्तु भेदोऽस्त्येव स्वरूपतः । एवम्भावादभावस्य न भेदो भावरूपवान् ॥ अभावाद् भावरूपस्य स्वरूपं भाव इष्यते । नष्टभेदोऽप्यभावात्मा विद्यते च विनाशतः ॥ स्वरूपत्वात्तु भेदस्य भेदे शङ्का न कस्यचित् । सर्वं सामान्यतो यस्मात् सर्वैरप्यनुभूयते ॥ तस्माद् व्यावृत्तता सर्वैः सर्वस्मादनुभूयते । प्रतियोगिता त्वभावस्याप्यस्त्यभावतया स्फुटम् ॥ न ह्यभावोऽप्यधर्मा स्यान्न तु स्याद् भावधर्मयुक् । अभावस्यास्तिता नाम स्यादेवाभावरूपिणी ॥ अभावतापि सैव स्यान्न तु स्याद् भावरूपिणी । अतः स सर्वव्यावृत्तस्वरूपो भगवान् परः ॥ येन ज्ञातः स तु ज्ञानी मुच्यते नात्र संशयः ॥
इति तत्त्वनिर्णये ॥वाक् च वक्तृत्वतो नित्यं मनो मन्तृत्वतस्तथा ॥ तपो ज्ञानस्वरूपत्वाद् विज्ञानं तु विवेचनात् । ज्ञानानुसन्धानरूपतपसा तं जनार्दनम् ॥ क्रमाद् भृगुर्व्यजानात् तमन्नादिबहुरूपिणम् । एवं विजानंस्तं विष्णुं तस्मिंस्तु प्रतितिष्ठति ॥ मुक्तो भूत्वाऽन्नवांश्च स्यादन्नादश्च सदैव तु । अन्ननामा तु भगवान् विद्वांस्तमुपजीवति ॥
तद्वांश्च तेन गुप्तत्वात् .... ॥ १८ ॥आगतं नेति न ब्रूयात् तदेतद् विदुषो व्रतम् ॥ स विष्णुः पृथिवीनामा पृथुत्वात् प्राणनामकः । प्रकृष्टानन्दबलत आकाशः सर्ववेत्तृतः ॥ शराख्यदेहिनश्चैव शरीरं प्रेरणात् स्मृतः । एतैश्चतुभिर्भगवान् रूपैश्च चतुरात्मभिः ॥ भोग्यभोक्तृस्वरूपेण तिष्ठति क्रीडया स्वयम् । न च भोग्यत्वमात्रेण हीनत्वं तस्य कुत्रचित् ॥ न हि भार्योपभोग्यस्तु भर्ता हीनत्वमाप्नुयात् । एवं स भगवान् विष्णुरविशेषोऽखिलेष्वपि ॥ रूपेषु क्रीडते नित्यं भोक्ता भोग्य इतीच्छया । अन्नाख्यं तं नैव निन्द्यात् बहु मन्येत तं सदा ॥ इति व्रतद्वयं ह्येतद् भाव्यं यदि सुखे स्पृहा । येन केनापि विधिना बह्वित्येव जनार्दनम् ॥ मत्वैव प्राप्नुयान्नित्यं मनोवाक्कायवृत्तिभिः । य एवं समुपासीत तस्यान्नाख्यो हरिः स्वयम् ॥ सिद्ध इत्येव हि प्राहुर्विद्वांसः परिनिष्ठिताः । यस्य तद् ब्रह्म संसिद्धं पूर्वं तेनाप्यतेऽग्रतः ॥ मध्ये वयसि चेत् सिद्धं मुक्तो मध्यं प्रपश्यति । वार्धके चेद् विजानाति मुक्तः पादौ प्रपश्यति ॥ तेजोमण्डलमेवान्यत् अङ्गं विष्णोः प्रपश्यति ।
पूर्वे वयसि बोद्धव्यमामुखात् सर्वदृष्टये ॥ ११ ॥योगनामा तथा प्राणे सर्वकामनियोजनात् ॥ क्षेमनामा क्षेमकृत्त्वादपानेऽपि हरिः स्वयम् । कर्मनामा हस्तगतः कर्मकृत्त्वाज्जनार्दनः ॥ गतिदत्वात् गतिर्नाम पादस्थः पुरुषोत्तमः । विसर्गकृद् विमुक्त्याख्यः पायुस्थः परमो विभुः ॥ अध्यात्मस्थ इति प्रोक्तोऽथाधिदैवगतं शृणु । पर्जन्ये तृप्तिनामासौ तृप्तिदत्वाज्जनार्दनः ॥ वायौ तु बलनामा च बलदत्वात् सदैव हि । यशःप्रदत्वात् दक्षे तु यशः पश्वभिमानिनि ॥ नक्षत्रेषु ज्योतिराख्यो ज्योतिर्दातृत्वतो हरिः । उपस्थमानिनि शिवे प्रजात्यानन्दसन्ततेः ॥ दातृत्वात् तत्तदाख्योऽसौ सन्ततिस्त्वमृतं स्मृतम् ।
सर्वः सर्वप्रदत्वात् तु प्रकृतौ पुरुषोत्तमः ॥ १२ ॥नमो नम्यत्वतो नित्यं महश्चापि महत्त्वतः ॥
विरिञ्चमारकश्चासौ ब्रह्म पूर्णगुणत्वतः ॥ १३ ॥प्राप्य गायति मुक्तः सन्नन्ननामाऽस्मि भोग्यतः । यथेष्टमन्नभोक्ता च कीर्तिकर्ता हरेस्तथा ॥ ऋतरूपस्य विष्णोस्तु पुत्रः प्रथमजो ह्यहम् । देवेभ्यः पूर्वजश्चाहं मुक्तानामाश्रयः सदा ॥ यो ददाति च मां सम्यग् विष्णुतत्त्वप्रकाशकः । स इत्थमेव मां याति विष्णोरन्नमहं सदा ॥ ममान्नं सर्वजीवास्तु भोग्या मम यतः सदा । सर्वमभ्यभवं चाहं गुणैः सर्वैश्च नित्यकैः ॥ सुवर्णो भगवान् विष्णुर्ज्योतिः स मम (रे)रोचकः । योऽहमेवंविदभवं तस्य मे माधवः पतिः ॥ इति ब्रह्मा गायमानो मुक्तश्चरति सर्वदा ॥
इति यजुःसंहितायाम् ॥प्रतिबिम्बवच्च गिरिशो ब्रह्मैनं पश्यति स्फुटम् ॥ ब्रह्मा हि स्थिरचिद्रूपो बहुलात्मा विशेषतः । अन्ये क्रमादबहुलास्तथा चञ्चलचेतसः ॥ तस्मात् सम्यङ् न पश्यन्ति हरिं ब्रह्मा तु पश्यति ॥
इति हरिवंशवचनाच्च ब्रह्मैवैनं सम्यग् वेद ।रामस्य स्वृतरूपस्य वाचस्तेनानयन्त हि ॥ भृतमो भीम इत्युक्तो वाचो मा मातरः स्मृताः । ऋगाद्याः इतिहासश्च पुराणं पञ्चरात्रकम् ॥ प्रोक्ताः सप्त शिवास्तत्र शयो भीमस्ततः स्मृतः । मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम् ॥ मध्व आनन्दतीर्थः स्यात् तृतीया मारुती तनुः । इति सूक्तगतं रूपत्रयमेतन्महात्मनः ।
यो वेद वेदवित् स स्यात् तत्त्ववित् तत्प्रसादतः ॥ इति च ।हनूमान् प्रथमो ज्ञेयो भीमस्तु बहुभुक् पितोः ॥ पृतनाक्षयकारी च द्वितीयस्तु तृतीयकः । पूर्णप्रज्ञस्तथाऽऽनन्दतीर्थनामा प्रकीर्तितः ॥ दशेति पूर्णमुद्दिष्टं सर्वं पूर्णमिहोच्यते । प्रज्ञा प्रमतिरुद्दिष्टा पूर्णप्रज्ञस्ततः स्मृतः ॥ आ समन्तात् पतित्वे तु गूढं कलियुगे हरिम् । असत्यमप्रतिष्ठं च जगदेतदनीश्वरम् ॥ वदद्भिर्गूहितं सन्तं तृतीयोऽसुर्मथायति । येन विष्णोस्तु वर्पाख्यान् गुणानज्ञासिषुः परान् ॥ ईशानासः सूरयश्च निगूढान् निर्गुणोक्तिभिः । त्रेतायां द्वापरे चैव कलौ चैते क्रमात् त्रयः ॥ एतेषां परमो विष्णुर्नेता सर्वेश्वरेश्वरः ।
स्वयम्भुब्रह्मसञ्ज्ञोऽसौ परस्मै ब्रह्मणे नमः ॥ इति च ।