Jump to content

Bruhadaranyaka/C5/S2: Difference between revisions

From Anandamakaranda
Imported from pramati-sarvamoola XML (grantha.io importer v3)
 
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 9: Line 9:
}}
}}
== द्वितीयं ब्राह्मणम् ==
== द्वितीयं ब्राह्मणम् ==
{{VerseBlock
| verse_id      = BR_C05_S02_V01
| document_id  = BR
| chapter_id    = BR_C05
| section_id    = BR_C05_S02
| adhikarana    =
| verse_type    = mantra
| verse_line1  = त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुरा उषित्वा ब्रह्मचर्यं, देवा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदक्षरमुवाच द इति व्यज्ञासिष्ठा३ इति व्यज्ञासिष्मेति होचुर्दाम्यतेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ १ ॥
}}
{{VerseBlock
| verse_id      = BR_C05_S02_V02
| document_id  = BR
| chapter_id    = BR_C05
| section_id    = BR_C05_S02
| adhikarana    =
| verse_type    = mantra
| verse_line1  = अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दत्तेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ २ ॥
}}
{{VerseBlock
| verse_id      = BR_C05_S02_V03
| document_id  = BR
| chapter_id    = BR_C05
| section_id    = BR_C05_S02
| adhikarana    =
| verse_type    = mantra
| verse_line1  = अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दयध्वमिति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमिति तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति ॥ ३ ॥
}}
{{AuthorNote| text = ॥ इति  बृहदारण्यकोपनिषदि सप्तमाध्याये  द्वितीयं ब्राह्मणम् ॥}}
{{AuthorNote| text = ॥  इति बृहद्भाष्ये द्वितीयं ब्राह्मणम् ॥ २ ॥}}
{{Commentary
| verse_id = BR_C05_S02_V03
| id      = BR_C05_S02_V03_B01
| name    = Bhashyam
| label    = Bhashyam
| text    =
ज्ञानदानं तु देवानां फलदानं तु कर्मणाम् ।
              विष्णुना विहितं पूर्वं पुनर्देवनरासुराः ॥
              ब्रह्माणमपि पप्रच्छुर्देवानां सद्गुणोच्छ्रितेः ।
              अनहंकारमात्रं तु ब्रह्मणा विहितं सदा ॥
              सर्वोच्चमोक्षसम्प्राप्त्यै नराणां ज्ञानसाधनम् ॥
              देवादीनां दानमेव हविरादेः प्रकीर्तितम् ।
              तमःप्राप्तिविलम्बाय दैत्यानां विहिता दया ॥ इति प्रवृत्ते ॥
}}




[[Category:Bruhadaranyaka]]
[[Category:Bruhadaranyaka]]

Revision as of 05:36, 8 April 2026

द्वितीयं ब्राह्मणम्

त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुरा उषित्वा ब्रह्मचर्यं, देवा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदक्षरमुवाच द इति व्यज्ञासिष्ठा३ इति व्यज्ञासिष्मेति होचुर्दाम्यतेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ १ ॥


अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दत्तेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ २ ॥


अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दयध्वमिति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमिति तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति ॥ ३ ॥


Template:AuthorNote

Template:AuthorNote

ज्ञानदानं तु देवानां फलदानं तु कर्मणाम् ।
             विष्णुना विहितं पूर्वं पुनर्देवनरासुराः ॥
             ब्रह्माणमपि पप्रच्छुर्देवानां सद्गुणोच्छ्रितेः ।
             अनहंकारमात्रं तु ब्रह्मणा विहितं सदा ॥
             सर्वोच्चमोक्षसम्प्राप्त्यै नराणां ज्ञानसाधनम् ॥
             देवादीनां दानमेव हविरादेः प्रकीर्तितम् ।
तमःप्राप्तिविलम्बाय दैत्यानां विहिता दया ॥ इति प्रवृत्ते ॥