Jump to content

Bruhadaranyaka/C5/S7: Difference between revisions

From Anandamakaranda
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 4: Line 4:
| title        = सप्तमं ब्राह्मणम्
| title        = सप्तमं ब्राह्मणम्
}}
}}
== सप्तमं ब्राह्मणम् ==
{{VerseBlock
{{VerseBlock
| verse_id      = BR_C05_S07_V01
| verse_id      = BR_C05_S07_V01
Line 20: Line 18:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = योऽयं दक्षिणेऽक्षन् पुरुषस्तस्य भूरिति शिर एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे सुवरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे तस्योपनिषदहमिति हन्ति पाप्मानं जहाति च य एवं वेद ॥ २ ॥
| verse_line1  = योऽयं दक्षिणेऽक्षन् पुरुषस्तस्य भूरिति शिर एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे सुवरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे तस्योपनिषदहमिति हन्ति पाप्मानं जहाति च य एवं वेद ॥ २ ॥
| commentary1  = bruhadaranyaka
}}
}}



Revision as of 07:05, 9 April 2026

य एष एतस्मिन् मंडले पुरुषस्तस्य भूरिति शिर एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे सुवरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षर तस्योपनिषदहरिति हन्ति पाप्मानं जहाति च य एवं वेद ॥ १ ॥


योऽयं दक्षिणेऽक्षन् पुरुषस्तस्य भूरिति शिर एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे सुवरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे तस्योपनिषदहमिति हन्ति पाप्मानं जहाति च य एवं वेद ॥ २ ॥


॥ इति बृहदारण्यकोपनिषदि सप्तमाध्याये सप्तमं ब्राह्मणम् ॥
॥ इति बृहद्भाष्ये सप्तमाध्याये सप्तमं ब्राह्मणम् ॥ ५ ॥
तस्य विष्णोः शिरो नाम भावनाद् भूरिति स्मृतम् ।
             भावनं रक्षणं प्रोक्तं दृष्ट्या वाचा च रक्षति ॥
             उत्पादनाद्भुनामा स्याद् दक्षिणो बाहुरस्य तु ।
             विनाशनाद्व इत्युक्तः सव्यो बाहुः परात्मनः ॥
             स्वित्यानन्दस्समुद्दिष्टो वरिति ज्ञानमुच्यते ।
             मुक्तिदानेन तद्दानात् सुवस्य पदद्वयम् ॥
             दक्षिणश्चैव सव्यश्च क्रमाद्वर्णद्वयोदितौ ।
             पादावस्य हि तत्प्राप्तिर्मुक्तिरित्यभिधीयते ॥
             अहमेषो ह्यहेयत्वाज्जीवेन सहभावतः ।
             असावहरिति प्रोक्तः सर्वलोकप्रकाशनात् ॥
             तद्वेदनात् सर्वपापं हन्ति चैव जहाति च ।
कानिचिद्धन्ति पापानि कल्पादीन् संजहाति च ॥ इति प्रवृत्ते ॥