Bruhadaranyaka/C5/S2: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 3: | Line 3: | ||
| chapter_num = 5 | | chapter_num = 5 | ||
| title = द्वितीयं ब्राह्मणम् | | title = द्वितीयं ब्राह्मणम् | ||
}} | }}{{VerseBlock | ||
{{VerseBlock | |||
| verse_id = BR_C05_S02_V01 | | verse_id = BR_C05_S02_V01 | ||
| document_id = BR | | document_id = BR | ||
| Line 49: | Line 48: | ||
| id = BR_C05_S02_V03_B01 | | id = BR_C05_S02_V03_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
ज्ञानदानं तु देवानां फलदानं तु कर्मणाम् । | ज्ञानदानं तु देवानां फलदानं तु कर्मणाम् । | ||
विष्णुना विहितं पूर्वं पुनर्देवनरासुराः ॥ | |||
ब्रह्माणमपि पप्रच्छुर्देवानां सद्गुणोच्छ्रितेः । | |||
अनहंकारमात्रं तु ब्रह्मणा विहितं सदा ॥ | |||
सर्वोच्चमोक्षसम्प्राप्त्यै नराणां ज्ञानसाधनम् ॥ | |||
देवादीनां दानमेव हविरादेः प्रकीर्तितम् । | |||
तमःप्राप्तिविलम्बाय दैत्यानां विहिता दया ॥ इति प्रवृत्ते ॥ | |||
}} | }} | ||
[[Category:Bruhadaranyaka]] | [[Category:Bruhadaranyaka]] | ||
Revision as of 16:49, 9 April 2026
त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुरा उषित्वा ब्रह्मचर्यं, देवा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदक्षरमुवाच द इति व्यज्ञासिष्ठा३ इति व्यज्ञासिष्मेति होचुर्दाम्यतेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ १ ॥
अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दत्तेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ २ ॥
अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दयध्वमिति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमिति तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति ॥ ३ ॥
॥ इति बृहदारण्यकोपनिषदि सप्तमाध्याये द्वितीयं ब्राह्मणम् ॥
॥ इति बृहद्भाष्ये द्वितीयं ब्राह्मणम् ॥ २ ॥
ज्ञानदानं तु देवानां फलदानं तु कर्मणाम् ।
विष्णुना विहितं पूर्वं पुनर्देवनरासुराः ॥ ब्रह्माणमपि पप्रच्छुर्देवानां सद्गुणोच्छ्रितेः । अनहंकारमात्रं तु ब्रह्मणा विहितं सदा ॥ सर्वोच्चमोक्षसम्प्राप्त्यै नराणां ज्ञानसाधनम् ॥ देवादीनां दानमेव हविरादेः प्रकीर्तितम् ।
तमःप्राप्तिविलम्बाय दैत्यानां विहिता दया ॥ इति प्रवृत्ते ॥