Anubhashya/C1: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 61: | Line 61: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BSAB_C01 | | verse_id = BSAB_C01 | ||
| id = BSAB_C01_author-note | | id = BSAB_C01_author-note | ||
| text = | | text = | ||
॥ इति प्रथमोऽध्यायः॥ | ॥ इति प्रथमोऽध्यायः॥ | ||
Revision as of 08:59, 10 April 2026
नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितम्।ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते ॥१॥
विष्णुरेव विजिज्ञास्यः सर्वकर्ताऽऽगमोदितः।समन्वयादीक्षतेश्च पूर्णानन्दोऽन्तरः खवत्॥ २॥
प्रणेता ज्योतिरित्याद्यैः प्रसिद्धैरन्यवस्तुषु।उच्यते विष्णुरेवैकः सर्वैः सर्वगुणत्वतः॥ ३॥
सर्वगोऽत्ता नियन्ता च दृश्यत्वाद्युज्झितः सदा।विश्वजीवान्तरत्वाद्यैर्लिङ्गैः सर्वैर्युतः स हि॥ ४॥
सर्वाश्रयः पूर्णगुणः सोऽक्षरः सन् हृदब्जगः।सूर्यादिभासकः प्राणप्रेरको दैवतैरपि॥ ५॥
ज्ञेयो न वेदैः शूद्राद्यैः कम्पकोऽन्यश्च जीवतः।पतित्वादिगुणैर्युक्तः तदन्यत्र च वाचकैः॥ ६॥
मुख्यतः सर्वशब्दैश्च वाच्य एको जनार्दनः।अव्यक्तः कर्मवाच्यैश्च(कर्मवाक्यैश्च) वाच्य एकोऽमितात्मकः॥ ७॥
अवान्तरं कारणं च प्रकृतिः शून्यमेव च।इत्याद्यन्यत्र नियतैरपि मुख्यतयोदितः।शब्दैरतोऽनन्तगुणो यच्छब्दा योगवृत्तयः॥ ८॥
॥ इति प्रथमोऽध्यायः॥