Bruhadaranyaka/C3/S8: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 12: | Line 12: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C03_S08_V01 | | verse_id = BR_C03_S08_V01 | ||
| id = BR_C03_S08_V01_B1 | | id = BR_C03_S08_V01_B1 | ||
| text = | | text = | ||
पूर्वं गार्ग्या जीवानामुत्तरोत्तराश्रयत्वं सर्वेषां भगवदाश्रयत्वं च श्रुतम् । न तु मूलप्रकृतेराधारत्वमाधेयत्वं वा । अतः पुनः पृच्छति । विजिगीषुकथात्वाद् ब्राह्मणानुज्ञया । स्वभर्तुर्विद्याबलं जानन्त्यपि युष्माकमयं जेतुं न शक्य इति ज्ञापयित्वा तेषामुपकारार्थं च पप्रच्छ । न च युक्त्या पूर्वमुपरता । भार्यात्वाद् भगवतोऽन्याधारत्वं नाशंक्यमित्युक्ते भीत्यैवोपरता । भगवतोऽन्याधारत्वं च सर्वाधारमूलप्रकृतेरपि भगवानेवाधार इत्युक्ते युक्तित एव निवारितं भवति । नान्यदतोऽस्ति द्रष्ट्रित्यादियुक्तिभिश्च । अस्थूलत्वादियुक्तिभिश्च ॥ | पूर्वं गार्ग्या जीवानामुत्तरोत्तराश्रयत्वं सर्वेषां भगवदाश्रयत्वं च श्रुतम् । न तु मूलप्रकृतेराधारत्वमाधेयत्वं वा । अतः पुनः पृच्छति । विजिगीषुकथात्वाद् ब्राह्मणानुज्ञया । स्वभर्तुर्विद्याबलं जानन्त्यपि युष्माकमयं जेतुं न शक्य इति ज्ञापयित्वा तेषामुपकारार्थं च पप्रच्छ । न च युक्त्या पूर्वमुपरता । भार्यात्वाद् भगवतोऽन्याधारत्वं नाशंक्यमित्युक्ते भीत्यैवोपरता । भगवतोऽन्याधारत्वं च सर्वाधारमूलप्रकृतेरपि भगवानेवाधार इत्युक्ते युक्तित एव निवारितं भवति । नान्यदतोऽस्ति द्रष्ट्रित्यादियुक्तिभिश्च । अस्थूलत्वादियुक्तिभिश्च ॥ | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C03_S08_V01 | | verse_id = BR_C03_S08_V01 | ||
| id = BR_C03_S08_V01_B1 | | id = BR_C03_S08_V01_B1 | ||
| text = | | text = | ||
वादो जल्पो वितंडेति त्रिविधा विदुषां कथा । | वादो जल्पो वितंडेति त्रिविधा विदुषां कथा । | ||
| Line 110: | Line 108: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C03_S08_V02 | | verse_id = BR_C03_S08_V02 | ||
| id = BR_C03_S08_V02_B1 | | id = BR_C03_S08_V02_B1 | ||
| text = | | text = | ||
बाणस्त्वयोमयः प्रोक्तः शरो नालोऽस्य कीर्तितः इत्यभिधानम् ॥ | बाणस्त्वयोमयः प्रोक्तः शरो नालोऽस्य कीर्तितः इत्यभिधानम् ॥ | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C03_S08_V02 | | verse_id = BR_C03_S08_V02 | ||
| id = BR_C03_S08_V02_B1 | | id = BR_C03_S08_V02_B1 | ||
| text = | | text = | ||
कर्मारस्तु तदा बाणं तीक्ष्णमंजलिकाभिधम् । | कर्मारस्तु तदा बाणं तीक्ष्णमंजलिकाभिधम् । | ||
| Line 144: | Line 140: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C03_S08_V04 | | verse_id = BR_C03_S08_V04 | ||
| id = BR_C03_S08_V04_B1 | | id = BR_C03_S08_V04_B1 | ||
| text = | | text = | ||
दीप्तेराकाशशब्दोक्ता श्रीर्हि सर्वाश्रया मता । | दीप्तेराकाशशब्दोक्ता श्रीर्हि सर्वाश्रया मता । | ||
| Line 178: | Line 173: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C03_S08_V07 | | verse_id = BR_C03_S08_V07 | ||
| id = BR_C03_S08_V04_B1 | | id = BR_C03_S08_V04_B1 | ||
| text = | | text = | ||
पुनः प्रश्नः सर्वाधारा प्रकृतिरित्यनुपचरितत्वेनावधारणार्थम् । आकाश एवेत्यवधारणात् । | पुनः प्रश्नः सर्वाधारा प्रकृतिरित्यनुपचरितत्वेनावधारणार्थम् । आकाश एवेत्यवधारणात् । | ||
| Line 191: | Line 185: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C03_S08_V07 | | verse_id = BR_C03_S08_V07 | ||
| id = BR_C03_S08_V04_B1 | | id = BR_C03_S08_V04_B1 | ||
| text = | | text = | ||
अतस्तत्त्वनिर्णयविरोधिपुनरुक्त्यादीनि निग्रहः । | अतस्तत्त्वनिर्णयविरोधिपुनरुक्त्यादीनि निग्रहः । | ||
| Line 208: | Line 201: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C03_S08_V08 | | verse_id = BR_C03_S08_V08 | ||
| id = BR_C03_S08_V08_B1 | | id = BR_C03_S08_V08_B1 | ||
| text = | | text = | ||
प्रसिद्धस्थूलसूक्ष्मादिवैलक्षण्याज्जनार्दनः । | प्रसिद्धस्थूलसूक्ष्मादिवैलक्षण्याज्जनार्दनः । | ||
| Line 250: | Line 242: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C03_S08_V12 | | verse_id = BR_C03_S08_V12 | ||
| id = BR_C03_S08_V12_author-note | | id = BR_C03_S08_V12_author-note | ||
| text = | | text = | ||
॥ इत्यक्षरब्राह्मणम् ॥ | ॥ इत्यक्षरब्राह्मणम् ॥ | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C03_S08_V12 | | verse_id = BR_C03_S08_V12 | ||
| id = BR_C03_S08_V12_author-note | | id = BR_C03_S08_V12_author-note | ||
| text = | | text = | ||
॥ इति अक्षरब्राह्मणम् ॥ | ॥ इति अक्षरब्राह्मणम् ॥ | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C03_S08_V12 | | verse_id = BR_C03_S08_V12 | ||
| id = BR_C03_S08_V12_B1 | | id = BR_C03_S08_V12_B1 | ||
| text = | | text = | ||
द्यावापृथिव्यौ श्रीभूमी केशौ सूर्यविधू मतौ ॥ | द्यावापृथिव्यौ श्रीभूमी केशौ सूर्यविधू मतौ ॥ | ||
| Line 278: | Line 267: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C03_S08_V12 | | verse_id = BR_C03_S08_V12 | ||
| id = BR_C03_S08_V12_B1 | | id = BR_C03_S08_V12_B1 | ||
| text = | | text = | ||
न तस्य प्राकृता मूर्तिर्मांसमेदोऽस्थिसम्भवा । | न तस्य प्राकृता मूर्तिर्मांसमेदोऽस्थिसम्भवा । | ||
| Line 287: | Line 275: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BR_C03_S08_V12 | | verse_id = BR_C03_S08_V12 | ||
| id = BR_C03_S08_V12_B1 | | id = BR_C03_S08_V12_B1 | ||
| text = | | text = | ||
आदित्यवर्णं तमसस्तु पारे इत्यादेश्च । न सत्तन्नासदुच्यते अदुःखमसुखं समम् न प्रज्ञं नाप्रज्ञम् इत्यादि च ॥ | आदित्यवर्णं तमसस्तु पारे इत्यादेश्च । न सत्तन्नासदुच्यते अदुःखमसुखं समम् न प्रज्ञं नाप्रज्ञम् इत्यादि च ॥ | ||
Revision as of 09:03, 10 April 2026
केवलं तत्त्वविज्ञानमुद्दिश्य गुरुशिष्ययोः ॥ अन्ययोर्वा बहूनां वा निर्दुष्टमनसां कथा । वाद इत्युच्यते सद्भिर्जयस्तत्रार्थिको भवेत् ॥ विजये शिष्यताऽन्येषां पूजा च जयिनः सदा । पुनश्च संशयो यत् स्यात् तेषां तस्यापि वारणम् ॥ कर्तव्यं जयिना नित्यमशक्तस्य स्वतोऽधिकात् । अन्योन्यनिर्णयश्चेत् स्यात् तदा सब्रह्मचारिणः ॥ पृष्टेन प्रथमं मानं वक्तव्यं वादिना शुभम् । वेदाः सर्वे शुभं मानं सेतिहासपुराणकाः ॥ सपञ्चरात्रमीमांसाः स्मृतयश्चाप्यनन्तरम् । तदन्यदशुभं प्रोक्तं न प्रयोज्यं कथासु च ॥ मिश्रमक्षानुमाने तु ग्राह्ये शब्दार्थनिर्णये । अदुष्टमिंद्रियं त्वक्षमुपपत्तिस्तथाऽनुमा ॥ अनुमैव त्वभावाख्यो ह्यर्थापत्त्युपमे तथा । उपपत्तिभेदा यत्तेऽपि वाक्यमेवागमः शुभम् ॥ तत्त्वनिर्णयवैलोम्यं संवादो वा विरोधिते । पराजय इति प्रोक्तः समः सर्वकथासु च ॥ तत्त्वनिर्णयवैलोम्ये दण्ड्या वादकथास्वपि । गुरुणैव त्ववश्यानां राजा दंडं प्रयोजयेत् ॥ गुरुदंडस्तु वाचा स्याद् राजदंडोऽर्थदेहतः । गुरुदंडोऽप्यर्थतः स्यात् संवादे व्रततोऽपि वा ॥ राजदंडो बलाच्च स्याद्दोषस्य गुरुलाघवात् । संवादे दण्ड्यता नास्ति जल्पादौ च कथञ्चन ॥ तत्त्वविप्लवकर्तारं संसत्सु च पराजितम् । छित्वा जिह्वां च काकांकं राजा राज्याद्विवासयेत् ॥ अन्यसाम्यमभेदो वा नीचता वा कुतश्चन । विष्णोः श्रीपूर्वकाणां च व्यत्यासो गुणदोषतः ॥ तद्भक्तेरन्यधर्मत्वं पञ्चैते तत्त्वविप्लवाः । तत्त्वविप्लावकं शूद्रं वैश्यं क्षत्रियमेव वा ॥ हन्यादेवाविचारेण विप्रजिह्वां तथोद्धरेत् । स्वसिद्धान्ते प्रमाणं च परसिद्धान्तदूषणम् ॥ वक्तव्यमुभयं वादे जल्पे चेति सतां मतम् । अवाक्यदूषणं तर्कादागमादेव साधनम् ॥ वाक्यतात्पर्यविज्ञप्त्यै मानमन्यन्न चान्यथा । सतोरेव यदा स्पर्धा गुणतोऽर्थार्थमेव वा ॥ तदा जल्पः समुद्दिष्टस्तत्र विद्यां परीक्षयेत् । विद्यापरीक्षापूर्वा हि सत्कथा जल्प उच्यते ॥ सर्वज्ञा वैष्णवाः पञ्च सप्त वोभयसंमताः । अधिका वा यथालब्धाः प्राश्निकास्तु परीक्षकाः ॥ उभयोः प्रश्नकर्तृत्वात् प्राश्निका इति कीर्तिताः । तदभावे गुणोद्रेकं दर्शयेतां पृथग्जने ॥ विद्यासाम्ये कथा कार्या ह्यन्यथैकपराजयः । विद्योनो दण्ड्य एव स्याद्यदि नोच्चस्य शिष्यताम् ॥ व्रजेत् पश्चाद्यथा वाद एवं जल्पः प्रकीर्तितः । अर्थनिर्णयहेतुत्वाद्वादे प्रश्नो जयेऽपि तु ॥ न जल्पे तु पुनः प्रश्नः सभ्यानुज्ञां विना भवेत् । स्पर्धा सतां वितंडा स्यात् तत्त्वविप्लावकैर्यदा ॥ मूलपक्षग्रहापेता वितंडा कविभिर्मता । सतामेव वितंडा स्यादसतां जल्प एव तु ॥ एवं जल्पो वितंडेति ह्युभयोः सहिता कथा । अप्रकाश्यः स्वपक्षो हि पाषंडानां यतस्ततः ॥ अग्रहेणैव पक्षस्य तर्कागमबलेन तु । दूषयेदेव पाषंडास्तत्त्वविप्लावकान् सदा ॥ तत्पक्षाणां निषेध्यत्वात् तेषां पक्षग्रहो भवेत् । विष्णुभक्त्यन्यधर्माख्यस्तत्त्वविप्लव एव तु ॥ बौद्धादीनां यतः सर्वे तत्त्वविप्लावकास्ततः । सर्वनास्तिकवादी वा स्वमनीषामतोऽपि वा ॥ तस्यापि पक्षं संश्रित्य दूषयेद्वाक्ययुक्तितः । यस्य नैवागमो मानं तं ब्रूयादागमाश्रयः ॥ धर्मार्थोऽथ वृथैवायं तव पक्षस्य सङ्ग्रहः । धर्मार्थश्चेन्न धर्मो हि शक्यो द्रष्टुं विनाऽगमात् ॥ यथाऽनुमीयते हिंसा पापहेतुस्तथैव हि । धर्महेतुत्वमप्यस्या अनुमातुं सुशक्यते ॥ वृथा पक्षं वृथा हन्याद्यदि कश्चित् किमुत्तरम् । इत्यशक्तौ सतां सर्वे सम्भूयापि निवारणम् ॥ कुर्युरेवासतां सन्तस्तत्त्वविप्लाविनां जये । येषां विष्णोः समं किञ्चिदधिकं वा न तु क्वचित् ॥ क्षराक्षराभ्यां भिन्नं च विष्णुं पश्यन्ति ये सदा । तारतम्यविदः सर्वजीवानां प्रकृतेरपि ॥ भगवद्धर्मिणो नित्यं ते सन्तः परिकीर्तिताः । पराजितेष्वसत्सूक्तं राजा दंडं प्रपातयेत् ॥ जितेषु सत्स्वसद्भिस्तु राजोदासीनतां व्रजेत् ।
यावदेषां विजेता स्यादथ दंडं निपातयेत् ॥ इत्यादि ब्रह्मतर्के ॥
पुनरुक्तिःशब्ददोषो न्यूनाधिक्यादिकं तथा । न जिगीषुकथायां च कारणं स्यात् पराजये ॥ क्वचिद्विद्याधिकस्यापि स्खलनं सम्भवेद्यतः । तत्त्वनिर्णयवैलोम्यं विलम्बो वा मुहूर्ततः ॥
विद्यादौर्बल्यहेतुः स्यादतस्तस्मिन् पराजयः ॥ इति ब्रह्मांडे ॥
दीप्तेः पृथुत्वाज्ज्ञानाच्च तथाऽऽह्लादविधेरपि । तदाधारो हरिर्नित्यं स्वातंत्र्येण प्रशासकः ॥ आधारत्वं श्रियो यच्च तच्च विष्णोः प्रशासनात् ।
तद्वशान्न स्वतंत्रत्वं स स्वतंत्रो हरिः सदा ॥ इति महामीमांसायाम् ।