Jump to content

Anuvyakyanam/C3/S2: Difference between revisions

From Anandamakaranda
Imported from pramati-sarvamoola XML (grantha.io importer v3)
 
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
__TOC__
== द्वितीयः पादः ==
<div class="gr-page-nav">[[Anuvyakyanam|अनुव्याख्यानम्]] · [[Anuvyakyanam/Toc|अनुक्रमणिका]]</div>
{{Adhyaya
{{Adhyaya
| document_id  = AV
| document_id  = AV

Revision as of 18:58, 10 April 2026

द्वितीयः पादः

पश्चाददृष्ट्यविज्ञानकालदुःखपृथग्भवाः ।स्थानभेदो विरुद्धत्वं न्यायसाम्यं स्वतो भवः ॥1॥

गुणसाम्यमयोगश्च तर्कबाधो विलोमता ।नानाभावः प्रलोभश्च युक्तयः पूर्वपक्षगाः ॥2॥

अशक्यकर्तृताशक्तिः स्वतोऽबोधस्तदेव च ।अमानक्लृप्तिसन्मानव्यवस्थात्यल्पताभवाः ॥3॥

विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिर्दशनम् ।अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः ॥4॥

सन्ध्याधिकरणम्

वासनाः सर्ववस्तूनामनाद्यनुभवागताः ।सन्त्येवाशेषजीवानामनादिमनसि स्थिताः ॥5॥


देहयोगाधिकरणम्

सृष्ट्वैव वासनाभिश्च प्रपञ्चं स्वाप्नमीश्वरः ।वासनामात्रतां तस्य नीत्वाऽन्तर्धापयत्यजः ॥107॥


सम्पत्त्यधिकरणम्

सुषुप्तिबोधमोहांश्च स्ववशस्तद्वशं सदा ।जीवं नयति देवेशः नान्यः कर्ताऽस्य कश्चन ॥108॥


नस्थानतोऽप्यधिकरणम्

न स्थानतोभेदतोऽप्यस्य भेदः कश्चित् परेशितुः ।सर्वत्राशेषदोषोज्झपूर्णकल्याणचिद्गुणः ॥109॥


उपमाधिकरणम्

यत आभासतामेव श्रुतिरस्य वदत्यलम् ।‘‘यथैषा पुरुषे छाया एतस्मिन्नेतदाततम्’’ ॥121॥


स्थानविशेषाधिकरणम्

प्रतिबिम्बवदप्येषामानन्दोऽन्यगुणा यथा ॥163॥


पालकत्वाधिकरणम्

..... सृष्टिनाशौ तदधीनावितीरिते ।स्वभावत्वात् स्थितेर्नैतदपेक्षेति न युज्यते ॥166॥


अव्यक्ताधिकरणम्

अव्यक्तोऽपि स्वशक्यैव भक्तानां दृश्यते हरिः ॥167॥


उभयव्यपदेशाधिकरणम् (अहिकुण्डलाधिकरणम्)

तदभिन्ना गुणा नित्यमपि सर्वे विशेषतः ।गुणत्वेन गुणित्वेन भोक्तृभोग्यतया स्थिताः ॥168॥


परानन्दाधिकरणम्

.... ते चाखलिवलिक्षणाः ।सर्वे सर्वगुणात्मानः सर्वकर्तार एव तु ॥209॥


फलाधिकरणम्

स एवाशेषजीवस्थनिःसङ्ख्यानादिकालिकान् ॥213॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य द्वितीयः पादः ॥