Jump to content

Bruhadaranyaka/C4/S1: Difference between revisions

From Anandamakaranda
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
__TOC__
== षडाचार्यब्राह्मणम् ==
<div class="gr-page-nav">[[Bruhadaranyaka|बृहदारण्यकोपनिषत्]] · [[Bruhadaranyaka/Toc|अनुक्रमणिका]]</div>
{{Adhyaya
{{Adhyaya
| document_id  = BR
| document_id  = BR

Revision as of 19:05, 10 April 2026

षडाचार्यब्राह्मणम्

जनको ह वैदेह आसाञ्चक्रे । अथ ह याज्ञवल्क्य आवव्राज । तं होवाच याज्ञवल्क्य किमर्थमचारीः पशूनिच्छन्नण्वन्तानिति उयुभयमेव सम्राड् इति होवाच ॥ १ ॥


अणुर्भगवान् तद्विषयान् निर्णयान् वक्तुं वा ।
यत्ते कश्चिदब्रवीत् तच्छृणवामेत्यब्रवीत् । मे जित्वा शैलिनिर्वाग्वै ब्रह्मेति यथा मातृमान् पितृमानाचार्यवान् ब्रूयात् तथा तच्छैलिनोऽब्रवीद् वाग्वै ब्रह्मेत्यवदतो हि किं स्यादित्यब्रवीत् तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य वागेवायतनमाकाशः प्रतिष्ठा प्रज्ञेत्येनदुपासीत का प्रज्ञता याज्ञवल्क्य वागेव सम्राति होवाच वाचा वै सम्राड् बन्धुः प्रज्ञायत ऋग्वेदो यजुर्वेदो सामवेदोऽथर्वांगिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्टं हुतमशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि वाचैव सम्राट् प्रज्ञायन्ते वाग्वै सम्राट् परमं ब्रह्म नैनं वाग्जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥२॥


प्रतिष्ठा प्रतिमा प्रोक्ता प्रतिरूपेण संस्थितेः ।

प्रतिमाधिकसादृश्यान्मुख्या विष्णोः सदा रमा ॥ दीप्तत्वादासमन्तात् सा चाकाश इति गीयते ।

प्रत्येकं विष्णुरूपाणामन्यदायतनं पृथक् ॥ इत्यध्यात्मे ॥
प्रतिमानमवस्थानं रहस्यं नाम सार्थकम् । चतुष्टयं यदा ज्ञानं सम्यग्विद्याफलं तदा ॥ इति च ॥
का प्रज्ञता वागेवेत्यादेर्धर्मधर्म्यभेदः ।

अमिताक्षरं पञ्चरात्रं विद्येत्याहुर्मनीषिणः ।

मिताक्षरं श्लोकवाच्यमुभयं वेद ईर्यते ॥ इति ब्रह्मांडे ॥
सूत्रं तु ब्रह्मसूत्राख्यं महामीमांसिका तथा ।

तथा सांकर्षणं सूत्रं ब्रह्मतर्कादयस्तथा ॥ प्रकाशिका निर्णयश्च तत्त्वनिर्णय एव च । व्याख्येति कथिताः सर्वाः स्वयं भगवता कृताः ॥ बृहत्तर्कादयः सर्वा अनुव्याख्याः प्रकीर्तिताः ॥।

इति प्रतिसंख्याने ॥
वाग्विष्णुर्वाचकत्वेन प्राणः प्रणयनात् स्वयम् ।

मनो मन्तृत्वतो नित्यं स चक्षुः सर्वदर्शनात् ॥

श्रोत्रं श्रवणशक्तित्वाद्धृदयं हृद्गतो यतः ॥ इति प्रत्याहारे ॥
अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचम् इत्यादि च ॥
वागादिषु स्थितं विष्णुं य उपास्ते सदैव तु । वागादिनाम्ना नैनं स प्रजहाति कदाचन ॥ इति सत्तत्त्वे ॥
अत आयतनमेव वागिंद्रियादि । परमं ब्रह्मेतिवचनान्न वागिंद्रियादिमात्रमुपास्यम् ॥
प्रतिमाद्यं हरित्वेन पृथिव्याद्यमथापि वा ।

इंद्रियप्राणजीवाद्यमथवा य उपासते ॥ मिथ्योपास्तिमतां तेषां निष्कृतिर्न कदाचन ।

अतिदुःखे पतन्त्यद्धा तमस्यन्धे पतंगवत् ॥ इत्युपासानिर्णये ॥
सर्वेंद्रियेषु या विष्णोरुपासा युगपत् सदा ।

देवानामेव योग्या सा तया देवत्वमाप्नुयुः ॥ सर्वे देवपदे योग्याः सायुज्यं स्वोत्तमेष्वथ । सम्प्राप्य ब्रह्मणा सार्धं प्राप्नुयुः पुरुषोत्तमम् ॥ दुहन्ति सर्वभोगांश्च तेभ्योऽन्ये मुक्तिगा नराः ।

स्वोत्तमेभ्यश्च देवेभ्यस्ते मुक्ता हरये सदा ॥ इति च ॥
प्रविश्य देहं यो भोगः स्वरूपव्यतिरेकतः । सायुज्यमिति तं प्राहुः संयुक्तत्वाद्विशेषतः ॥ इति च ॥
इंद्रियेषु स्थितं विष्णुमुपासीत क्रमेण तु ।

सदा देवपदायोग्यः स मानुषसुरो भवेत् ॥ मानुषा देवलोकस्थास्ते प्रोक्ताः मानुषाः सुराः ।

मानुषा देवसायुज्यं यान्त्युपासनयाऽनया ॥ इति च ॥
ऋषभान् गजमिश्रांस्तु क्षत्रियो गुरुदक्षिणाम् । विप्रो दद्याद् वृषानेव वैश्यो गाः प्रतिविद्यकम् ॥ इति मानसंहितायाम् ॥
अन्यथा विद्यया मुक्तिः सुराणामन्यथा नृणाम् ।

तत्रापि योग्यताभेदात् प्रतिभेदा अवान्तराः ॥ यया यस्य विमुक्तिः स्यात् तद्दाता मुख्यतो गुरुः ।

एकदेशगुरुत्वं स्यादन्यविद्याप्रदस्य तु ॥ इति च ॥
यदेव ते कश्चिदब्रवीत् तच्छृणुवामेत्यब्रवीत् म उदंकः शौल्बायनः प्राणो वै ब्रह्मेति यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच्छौल्बायनोऽब्रवीत् प्राणो वै ब्रह्मेत्यप्राणतो हि किं स्यादित्यब्रवीत् तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत् सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य प्राण एवायतनमाकाशः प्रतिष्ठा प्रियमित्येनदुपासीत का प्रियता याज्ञवल्क्य प्राण एव सम्राडिति होवाच प्राणस्य वै सम्राट् कामायायाज्यं याजयत्यप्रतिगृह्यस्य प्रतिगृह्णात्यपि तत्र वधाशंकं भवति यां दिशमेति प्राणस्यैव सम्राट् कामाय प्राणो वै सम्राट् परमं ब्रह्म नैनं प्राणो जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ३ ॥


प्राणसंस्थस्य वै विष्णोः सम्प्रीत्यै भोजनं भवेत् ।

तदिच्छयैव चौर्यादि कुर्युरज्ञा अपि ध्रुवम् ॥

तथापि तं न जानीयुः प्राणात्मानं जनार्दनम् ॥ इति प्रवृत्ते ॥
यदेव ते कश्चिदब्रवीत् तच्छृणुवामेत्यब्रवीत् मे बर्कुः वार्ष्णः चक्षुः वै ब्रह्मेति यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तद्वार्ष्णोऽब्रवीच्चक्षुर्वै ब्रह्मेत्यपश्यतो हि किं स्यादित्यब्रवीत् तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत् सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य चक्षुरेवायतनमाकाशः प्रतिष्ठा सत्यमित्येनदुपासीत का सत्यता याज्ञवल्क्य चक्षुरेव सम्राडिति होवाच चक्षुषा वै सम्राट् पश्यन्तमाहुरद्राक्षीरिति स आहाद्राक्षमिति तत्सत्यं भवति चक्षुर्वै सम्राट् परमं ब्रह्म नैनं चक्षुर्जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ४ ॥


यच्चक्षुषि स्थितं रूपं विष्णोश्चक्षुस्तदुच्यते ।

शब्दादेरप्यापरोक्ष्ये तद्धेतुर्विश्वनामकम् ॥ तद्गतस्य ततो विष्णोः कण्ठस्थानागमो यदा । तदा स्वप्नो भवेज्जाग्रद्दर्शनं नैव जायते ॥ चक्षुर्निमीलनं च स्यात् सर्वेंद्रियगुणैः सह ।

चक्षुरात्मा ततो विष्णुः सत्यमित्यभिधीयते ॥ इति च ॥
यदेव ते कश्चिदब्रवीत् तच्छृणुवामेत्यब्रवीत् मे गर्दभीविपीतो भारद्वाजः श्रोत्रं वै ब्रह्मेति यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तद्भारद्वाजोऽब्रवीत् श्रोत्रं वै ब्रह्मेत्यशृण्वतो हि किं स्यादित्यब्रवीत् तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत् सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य श्रोत्रमेवायतनमाकाशः प्रतिष्ठाऽनन्त इत्येनदुपासीत का अनन्ता याज्ञवल्क्य दिश एव सम्राडिति होवाच तस्माद् वै सम्राडपि यां कां च दिशं गच्छति नैवास्या अन्तं गच्छत्यनन्ता हि दिशः दिशो वै सम्राट् श्रोत्रं श्रोत्रं वै सम्राट् परमं ब्रह्म नैनं श्रोत्रं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ५ ॥


सर्वव्यापी तु भगवाननन्त इति कीर्तितः । दिङ्नामा स तु विज्ञेयो दिक्षुस्थो नित्यदेशनात् ॥ इति च ।
यदेव ते कश्चिदब्रवीत् तच्छृणुवामेत्यब्रवीन्मे सत्यकामो जाबालः मनो वै ब्रह्मेति यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तज्जाबालोऽब्रवीत् मनो वै ब्रह्मेत्यमनसो हि किं स्यादित्यब्रवीत् तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत् सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य मन एवायतनमाकाशः प्रतिष्ठाऽऽनन्द इत्येनदुपासीत का आनन्दता याज्ञवल्क्य मन एव सम्राडिति होवाच मनसा वै सम्राट् स्त्रियमभिहार्यते तस्यां प्रतिरूपः पुत्रो जायते स आनन्दो मनो वै सम्राट् परमं ब्रह्म नैनं मनोजहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥६॥


मनःस्थितस्य यद्विष्णोः सम्बन्धादेव कामतः । जातः सुतः सुखे हेतुः परानन्दो हरिः किमु ॥ इति ब्रह्मतर्के ।
यदेव ते कश्चिदब्रवीत् तच्छृणुवामेत्यब्रवीन्मे विदग्धः शाकल्यः हृदयं वै ब्रह्मेति यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच्छाकल्योऽब्रवीत् हृदयं वै ब्रह्मेत्यहृदयस्य किं स्यादित्यब्रवीत् तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत् सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य हृदयमेवायतनमाकाशः प्रतिष्ठा स्थितिरित्येनदुपासीत का स्थितता याज्ञवल्क्य हृदयमेव सम्राडिति होवाच हृदयं वै सम्राट् सर्वेषां भूतानामायतनं हृदयं वै सर्वेषां भूतानां प्रतिष्ठा हृदये ह्येव सम्राट् सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति हृदयं वै सम्राट् परमं ब्रह्म नैनं हृदयं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥७॥


॥ इति षडाचार्यब्राह्मणम् ॥
॥ इति षडाचार्यब्राह्मणम् ॥ ६१ ॥
सदा प्रतिष्ठितानि भवन्ति । विशेषतोपि प्रतिष्ठितानि सुप्तौ ॥
हृदये सर्वशो व्यापी प्रादेशः पुरुषोत्तमः ।

जीवानां स्थानमुद्दिष्टः सर्वदैव सनातनः ॥ हृत्कर्णिकामूलगतः सोऽङ्गुष्ठाग्रप्रमाणकः । मूलेश इति नामास्मिन् सर्वे जीवाः प्रतिष्ठिताः ॥ अंगुष्ठमात्रे पुरुषे कर्णिकाग्रस्थिते हरौ । प्रविशन्ति सुषुप्तौ तु प्रबुध्यन्ते ततस्तथा ॥

सोऽयं त्रिरूपो भगवान् हृदयाख्यः प्रकीर्तितः ॥ इति च ॥
स्थानमायतनं प्रोक्तं प्रतिष्ठा धारकः पुमान् इति च ॥