Jump to content

Bhagavadgitatatparya/C2: Difference between revisions

From Anandamakaranda
Imported from pramati-sarvamoola XML (grantha.io importer v3)
 
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
__TOC__
== द्वितीयोऽध्यायः ==
<div class="gr-page-nav">[[Bhagavadgitatatparya|श्रीमद्भगवद्गीताप्रस्थानम्]] · [[Bhagavadgitatatparya/Toc|अनुक्रमणिका]]</div>
{{Adhyaya
{{Adhyaya
| document_id  = BGT
| document_id  = BGT
Line 15: Line 14:
}}
}}


{{Bhashyam
{{Uvacha|सञ्जय उवाच}}
| verse_id = BGT_C02_V01
| id      = BGT_C02_V01_uvaaca
| text    =
सञ्जय उवाच
}}


{{VerseBlock
{{VerseBlock
Line 31: Line 25:
}}
}}


{{Bhashyam
{{Uvacha|श्री भगवानुवाच}}
| verse_id = BGT_C02_V02
| id      = BGT_C02_V02_uvaaca
| text    =
श्री भगवानुवाच
}}


{{VerseBlock
{{VerseBlock
Line 56: Line 45:
}}
}}


{{Bhashyam
{{Uvacha|अजुर्न उवाच}}
| verse_id = BGT_C02_V04
| id      = BGT_C02_V04_uvaaca
| text    =
अजुर्न उवाच
}}


{{VerseBlock
{{VerseBlock
Line 116: Line 100:
}}
}}


{{Bhashyam
{{Uvacha|सञ्जय उवाच}}
| verse_id = BGT_C02_V09
| id      = BGT_C02_V09_uvaaca
| text    =
सञ्जय उवाच
}}


{{VerseBlock
{{VerseBlock
Line 142: Line 121:
}}
}}


{{Bhashyam
{{Uvacha|श्रीभगवानुवाच}}
| verse_id = BGT_C02_V11
| id      = BGT_C02_V11_uvaaca
| text    =
श्रीभगवानुवाच
}}


{{Bhashyam
{{Bhashyam
Line 799: Line 773:
}}
}}


{{Bhashyam
{{Uvacha|अर्जुन उवाच}}
| verse_id = BGT_C02_V53
| id      = BGT_C02_V53_uvaaca
| text    =
अर्जुन उवाच
}}


{{Bhashyam
{{Bhashyam
Line 840: Line 809:
}}
}}


{{Bhashyam
{{Uvacha|श्रीभगवानुवाच}}
| verse_id = BGT_C02_V55
| id      = BGT_C02_V55_uvaaca
| text    =
श्रीभगवानुवाच
}}


{{Bhashyam
{{Bhashyam

Revision as of 19:08, 10 April 2026

द्वितीयोऽध्यायः

तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।विषीदन्तमिदं वाक्यमुवाच मधुसूदनः॥१ ॥


सञ्जय उवाच
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन॥२ ॥


श्री भगवानुवाच
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप॥३ ॥


कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन॥४ ॥


अजुर्न उवाच
गुरूनहत्वा हि महानुभावान्श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।


न चैतद्विद्मः कतरन्नो गरीयोयद्वा जयेम यदि वा नो जयेयुः ।


कार्पण्यदोषोपहतस्वभावःपृच्छामि त्वा धर्मसम्मूढचेताः ।


न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिंद्रियाणाम् ।


एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः ।न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह॥९ ॥


सञ्जय उवाच
तमुवाच हृषीकेशः प्रहसन्निव भारत ।सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः॥१० ॥


अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः॥११ ॥


श्रीभगवानुवाच
ज्ञानिनो अर्जुनस्येषन्मोहप्रकारनिरूपणम्
प्रकर्षेण जानन्तीति प्रज्ञाः, तदवादः प्रज्ञावादः । प्राज्ञमतविरुद्धवादं वदसि । कथम् ? गतासून् ॥ ११ ॥
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।न चैव न भविष्यामः सर्वे वयमतः परम्॥१२ ॥


बन्धुस्नेहादि्ध त्वया स्वधर्मनिवृत्तिः क्रियते । तत्र देहनाशभयात् किं वा चेतननाशभयात्? देहस्य सर्वथा विनाशित्वान्न तत्र भये प्रयोजनम् । न च चेतननाशभयात् । तस्याविनाशित्वादेव । न तावत्परमचेतनस्य मम नाशोस्ति । एवमेव तवान्येषां च ।'नित्यो नित्यानां चेतनश्चेतनानाम् एको बहूनां यो विदधाति कामान् ॥ इत्यादिश्रुतेः ।'स्वदेहयोगविगमौ नाम जन्ममृती पुरा ।इष्येते ह्येव जीवस्य मुक्तेर्न तु हरेः क्वचित् ॥ इति स्कान्दे ।ईश्वरस्यापि युद्धगतत्वान्मोहात् तस्याप्युभयविधानित्यत्वशङ्काप्राप्तौ तदपि निवार्यते न त्वेवाहमिति । यद्यप्येषा शङ्कार्जुनस्य नास्ति । तथापि प्राप्तलोकोपकारार्थं भगवता निवार्यते । एकान्ते कथयन्नपि व्यासरूपेण तदेव लोके प्रकाशयिष्यति हि ॥१२ ॥
देहिनोस्मिन् यथा देहे कौमारं यौवनं जरा ।तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति॥१३ ॥


मम स्वकीयदेहान्तरप्राप्तिरपि नास्तीति दर्शयितुं देहिन इति विशेषणम् । भवदादीनां सा भविष्यतीत्यपि शोको न कर्तव्यः । देहस्येदानी- मप्यन्यथात्वदर्शनात् ॥ १३ ॥
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।आगमापायिनोनित्यास्तांस्तितिक्षस्व भारत॥१४ ॥


तददर्शनादिनिमित्तं सोढव्यमित्याह - मात्रास्पर्शा इति । विषयसम्बन्धाः ॥ १४ ॥
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।समदुःखसुखं धीरं सोमृतत्वाय कल्पते॥१५ ॥


फलमाह । यं हीति । न केवलमव्यथामात्रेणामृतत्वं किन्तु पुरुषम् । 'पुरु ब्रह्म गुणाधिक्यात् तज्ज्ञानात्पुरुषः स्मृतः । इति प्रवृत्ते । पुरुसरणात् पुरुष इत्यर्थः ॥१५ ॥
नासतो विद्यतेभावो नाभावो विद्यते सतः ।उभयोरपि दृष्टोन्तस्त्वनयोस्तत्त्वदर्शिभिः॥१६ ॥


न च युद्धात्परलोकदुःखमिति शोकः । असत्कर्मणः सकाशात् भावो नास्ति सत्कर्मणः सकाशात् अभावो नास्तीति नियतत्वात् ।'सद्भाववाचिनः शब्दाः सर्वे ते सुखवाचकाः ।अभाववाचिनः शब्दाः सर्वे ते दुःखवाचकाः ॥ इति शब्दनिर्णये ।'सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ इति वक्ष्यमाणत्वात् ।(गीता. १७-२६)'असन्नेव स भवति, असद्ब्रह्मेति वेद चेत् इत्यादेश्च ।अन्तो निर्णयः । न चाविद्यामानविद्यमानयोरुत्पत्तिनाशनिषेधकोयं श्लोकः । प्रत्यक्षविरोधात् । सन्निति व्यवह्रियमाणमेव पदार्थस्वरूपमुत्पत्तेः प्राङ्ग्नाशोत्तरं च नास्तीति सर्वलोको व्यवहरति । न च विपर्यये किञ्चिन्मानम् । इदं तु वाक्यमन्यथासिद्धम् ।'आद्यन्तयोः सर्वकार्यमसदेवेति निश्चितम् ।यद्यसन्न विशेषोत्र जायते कोत्र जायते ॥व्यक्तावपि समं ह्येतदनवस्थान्यथा भवेत् ।एवं नाशेपि बोद्धव्यमतोसन्नेव जायते ॥तथाप्यभेदानुभवात् कार्यकारणयोः सदा ।भेदस्य चाविशेषेण देहोगात् क्षितितामिति ॥ व्यवहारो भवेद्यस्माद्बल्येवानुभवः सदा ॥ इति ब्रह्मतर्के ।न च सदसद्विलक्षणं किञ्चिदस्तीत्यत्र किञ्चिन्मानम् । न चासतः ख्यात्ययोगात् सतो बाधायोगादुभयविलक्षणं भ्रान्तिविषयम् । असतः ख्यात्ययोगादिति वदतोसतः ख्यातिरभून्न वा ? यदि नाभूत् न तत्ख्यातिनिराकरणम् । यद्यभूत् तथापि । न चासतोसत्वेन भ्रान्तौ सत्वेन च ख्यातिर्नास्तीत्यत्र किञ्चिन्मानम् । असद्व्यवहारलोपप्रसङ्गाच्च । यदविद्यमानं रूपं तस्य सत्त्वेन प्रतीतेरेव भ्रान्तित्वाच्च । अनिर्वचनीयत्वपक्षेपि सदिदं रजतमित्यविद्यमानसत्त्वप्रतीतिं विना न हि भ्रान्तित्वम् । भ्रान्तिसत्त्वाङ्गीकारेप्यभ्रान्तं सदिदं रजतमित्यविद्यमानसत्वप्रतीतौ हि प्रवर्तते । तस्मादुभयविलक्षणं न किञ्चित् ।'विश्वं सत्यम् । 'यच्चिकेत सत्यमित् । 'कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः इत्यादिश्रुतेश्च ॥१६ ॥
अविनाशि तु तद् विदि्ध येन सर्वमिदं ततम् ।विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति॥१७ ॥


यद्यपि नित्यत्वं जीवस्याप्यस्ति । तथापि सर्वप्रकारेणाविनाशित्वं विष्णोरेवेति तुशब्दः ।'अनित्यत्वं देहहानिर्दुःखप्राप्तिरपूर्णता ।नाशश्चतुर्विधः प्रोक्तस्तदभावो हरेः सदा ।तदन्येषां तु सर्वेषां नाशाः केचिद् भवन्ति हि ॥ इति महावाराहे ।'देशतः कालतश्चैव गुणतश्च त्रिधा ततिः ।सा समस्ता हरेरेव न ह्यन्ये पूर्णसद्गुणाः ॥ इति परमश्रुतिः ॥१७ ॥
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।अनाशिनोप्रमेयस्य तस्माद् युद्ध्यस्व भारत॥१८ ॥


शरीरिणां तु देहहान्यादिनाशो विद्यत एव । 'येन सर्वमिदं ततम् इति तस्यैव लक्षणकथनात् न जीवानां देशतो गुणतश्च पूर्णता । अनिच्छया देहहान्यादेरेव दुःखावाप्तिः सिद्धा । तस्मादनाशिनोप्रमेयस्य विष्णोः पूजार्थं युद्ध्यस्व । तत्प्रसादाधीनत्वाद् दुःखनिवृत्तेः सुखस्य च ।'ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।तेषामहं समुद्धर्ता (गीता १२-६) इत्यादेः ।जीवपक्षे 'नित्यस्योक्ताः इत्युक्तत्वात् 'अनाशिनः इति पुनरुक्तिः । 'अविनाशि, येन सर्वमिदं ततम् इत्युक्तस्यैव 'अनाशिनोप्रमेयस्य इति प्रत्यभिज्ञानाच्च । 'इमे देहाः इति विशेषणान्नित्यश्चिदानन्दात्मकः स्वरूपभूतो देहो मुक्तानामपि विद्यत इति ज्ञायते ।'न वर्तते यत्र रजस्तमस्तयोः सत्वं च मिश्रं न च कालविक्रमः ।न यत्र माया किमुतापरे हरे- रनुव्रता यत्र सुरासुरार्चिताः ॥ श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।सर्वे चतुर्बाहव उन्मिषन्मणि - प्रवेकनिष्काभरणाः सुवर्चसः ॥ प्रवालवैडूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् ।भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ॥ विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रावलिभिर्यथा नभः ॥ इति हि भागवते ।चिदानन्दशरीरेण सर्वे मुक्ता यथा हरिः ।भुञ्जते कामतो भोगांस्तदन्तर्बहिरेव च ॥ इति परमश्रुतिः । न च जीवेश्वरैक्यं मुक्तावपि ।'इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।सर्गेपि नोपजायन्ते प्रलये न व्यथन्ति च । (गीता, १४-२) 'यो वेद निहितं गुहायां परमे व्योमन् ।सोश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता ।'एतमानन्दमयमात्मानमुपसङ्क्रम्य ।इमान् लोकान् कामान्नी कामरूप्यनुसञ्जरन् ।एतत्सामगायन्नास्ते ।'सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः ।किल्बिषस्पृत्पितुषणिर्ह्येषामरं हितो भवति वाजिनाय ।'ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु ।ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्वः ।'परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते 'स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ।'तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ।'मुक्ताः प्राप्य परं विष्णुं तद्देहं संश्रिता अपि ।तारतम्येन तिष्ठन्ति गुणैरानन्दपूर्वकैः ।भूपा मनुष्यगन्धर्वा देवाः पितर एव च ।आजानेयाः कर्मदेवास्तत्त्व(रूपाः)देवाः पुरन्दरः ।शिवो विरिञ्चिरित्येते क्रमाच्छतगुणोत्तराः ।मुक्तावपि तदन्ये ये भूपाच्छतगुणावराः ।न समो ब्रह्मणः कश्चिन्मुक्तावपि कथञ्चन ।ततः सहस्रगुणिता श्रीस्ततः परमो हरिः ।अनन्तगुणितत्वेन तत्समः परमोपि न ।'अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ।कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधीन्द्रायेन्द्रो परिस्रव ।इत्यादि मोक्षानन्तरमपि भेदवचनेभ्यः । न च 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् ।'यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति ।'न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते ।'अविनाशित्वान्न तु तद्द्वितीयमस्ति । ततोन्यद्विभक्तं यत्पश्येत् ।'परमं ब्रह्म वेद ब्रह्मैव भवति ।'तत् त्वमसि 'अहं ब्रह्मास्मि इत्यादिवाक्यविरोधः ।'सञ्ज्ञानाशो यदि भवेत्किमुक्त्या नः प्रयोजनम् ।मोहं मां प्रापयामास भवानत्रेति चोदितः ।याज्ञवल्क्यः प्रियामाह नाहं मोहं ब्रवीमि ते ।भूतजज्ञानलोपः स्यान्निजं ज्ञानं न लुप्यते ।न च ज्ञेयविनाशः स्यादात्मनाशः कुतः पुनः ।स्वभावतः पराद्विष्णोर्विश्वं भिन्नमपि स्फुटम् ।अस्वातन्त्र्याद्भिन्नमिव स्थितमेव यदेदृशम् ।तदा घ्राणादिभोगः स्यात्स्वरूपज्ञानशक्तितः ।तदात्मानुभवोपि स्यादीश्वरज्ञानमेव च ।यदान्यं न विजानाति नात्मानं नेश्वरं तथा ।पुरुषार्थता कुतस्तु स्यात्तदभावाय को यतेत् तस्मात्स्वभावज्ञानेन भिन्ना विष्णुसमीपगाः ।भुञ्जते सर्वभोगांश्च मुक्तिरेषा न चान्यथा ।यन्न पश्येत्परो विष्णुर्द्वितीयत्वेन स स्वतः ।तद्द्वितीयं न भवति प्रादुर्भावात्मकं वपुः ।प्रधानपुरुषादन्यद्यत्तस्माद्भिन्नमीश्वरः ।विभक्तत्वेन नियतं यस्मात्पश्यति सर्वदा ।पश्यन्नेव यतो विष्णुस्तदभेदं न पश्यति ।चेतनाचेतनस्यास्य नाभेदोस्ति ततोमुना ।न हि ज्ञानविलोपोस्ति सर्वज्ञस्य परेशितुः ।ब्रह्माणि जीवाः सर्वेपि परब्रह्माणि मुक्तिगाः प्रकृतिः परमं ब्रह्म परमं महदच्युतः नैव मुक्ता न प्रकृतिः क्वापि हि ब्रह्मवैभवम् ।प्राप्नुवन्त्यपि तज्ज्ञानान्निजं ब्रह्मत्वमाप्यते ।>यद्यस्य परमेशि(श)त्वं तदा स्याद्दुःखिता कुतः ।दुःखी चेत्कुत ईशत्वमनीशो ह्येव दुःखभाक् ।कुतः सर्वविदोज्ञत्वं क्व भ्रमोप्यज्ञतां विना ।तस्मान्नैवेश्वरो जीवस्तत्प्रसादात्तु मुच्यते ।ओयत्वादहंनामा भगवान्हरिरव्ययः ।ब्रह्मासौ गुणपूर्णत्वादस्म्यसावसनान्मितेः ।असनादसिनामासौ तेजस्त्वात्त्वमितीरितः ।सर्वैः क्रियापदैश्चैव सर्वैर्द्रव्यपदैरपि ।सर्वैर्गुणपदैश्चैव वाच्य एको हरिः स्वयम् ।युष्मत्पदैः प्रातियोग्यात्तद्युतैश्च क्रियापदैः ।अस्मत्पदैरान्तरत्वात्क्रियार्थैश्च तदन्वयैः ।परोक्षत्वात्तत्पदैश्च मुख्यवाच्यः स एव तु ।सर्वान्वेदानधीत्यैव प्रज्ञाधिक्येन हेतुना श्वेतकेतुरहङ्कारात्प्रायशो नास्मि मानुषः ।देवो वा केशवांशो वा नैषा प्रज्ञान्यथा भवेत् ।एवं महत्त्वबुद्ध्यैव दर्पपूर्णोभ्यगात्पितुः ।सकाशमकृताचारं तं दृष्ट्वा स्तब्धमज्ञवत् ।पितोवाच कुतः पुत्र स्तब्धता त्वामुपागता ।प्रायो नारायणं देवं नैव त्वं पृष्टवानसि ।यस्मिन् ज्ञाते त्वविज्ञातज्ञानादीनां फलं भवेत् ।प्राधान्यात्सदृशत्वाच्च तदधीनमिति स्फुटम् ।तत्सृष्टं चेति विज्ञातं फलवदि्ध भवेज्जगत् ।स्वातन्त्र्येणास्य विज्ञानं मिथ्याज्ञानमनर्थकृत् ।यथाचैवैकमृत्पिण्डज्ञानादेः सदृशत्वतः ।मृण्मयं तदकार्यं च ज्ञातं मृदिति वै भवेत् ।यथैव मृत्तिकेत्यादिनित्यनामप्रवेदनात् ।वाचारब्धमनित्यं तु ज्ञातं तन्मूलमित्यपि ।एवं कारणभूतोसौ भगवान्पुरुषोत्तमः ।प्रधानश्च स्वतन्त्रश्च तन्मूलमखिलं जगत् ।तदाधारं विमुक्तौ च तदधीनं सदा स्थितम् ।स सूक्ष्मो व्यापकः पूर्णस्तदीयमखिलं जगत् ।तस्मात्तदीयस्त्वमसि नैव सोसि कथञ्चन ।यथा पक्षी च सूत्रं च नानावृक्षरसा अपि ।यथा नद्यः समुद्रश्च यथा वृक्षपरावपि ।यथा धानाः परश्चैव यथैव लवणोदके ।यथा पुरुषदेशौ च यथाज्ञज्ञानदावपि ।यथा स्तेनापहार्यौ च तथा त्वं च परस्तथा ।भिन्नौ स्वभावतो नित्यं नानयोरेकता क्वचित् ।एवं भेदोखिलस्यापि स्वतन्त्रात्परमेश्वरात् ।परतन्त्रं स्वतन्त्रेण कथमैक्यमवाप्नुयात् ।स जीवनामा भगवान्प्राणधारणहेतुतः ।उपचारेण जीवाख्या संसारिणि निगद्यते ।तदधीनमिदं सर्वं नान्याधीनः स ईश्वरः ।जीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।जीवभेदो मिथश्चैव जडजीवभिदा तथा ।जडभेदो मिथश्चेति प्रपञ्चो भेदपञ्चकः ।विष्णोः प्रज्ञामितं यस्माद्द्वैतं न भ्रान्तिकल्पितम् ।औतः परमार्थोसौ भगवान्विष्णुरव्ययः ।परमत्वं स्वतन्त्रत्वं सर्वशक्तित्वमेव च ।सर्वज्ञत्वं परानन्दः सर्वस्य तदधीनता ।इत्यादयो गुणा विष्णोर्नैवान्यस्य कथञ्चन ।अभावः परमद्वैते सन्त्येव ह्यपराणि तु ।विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।औतं ज्ञानिनां पक्षे न तस्माद्विद्यते क्वचिद् ।इत्यादिश्रुतिभ्योर्थान्तरस्यैवावगतत्वात् । एकपिण्डनामधेयेतिशब्दानां वैयर्थ्यं चान्यथा । न चैकविज्ञानेन सर्वविज्ञानं तत्पक्षे । न हि शुक्तिज्ञो रजतज्ञ इति व्यवहारः । नवकृत्वोपि भेद एव दृष्टान्तोक्तेश्च । तस्मादतत्त्वमसीत्येवोच्यते । ऐतदात्म्यमित्येतदात्मसम्बन्धि । तत्स्वामिकम् । त्वमपि तदैतदात्म्यमित्येतदात्मसम्बन्धि । तत्स्वामिकम् । त्वमपि तदैतदात्म्यमेवासि न सोसीति वा । तदिति लिङ्गसाम्यं चात्र । अविद्यमानमेवेश्वरं सृष्ट्यादिकं चाप्राप्तमेवात्मनो भिन्नत्वेन प्रापयित्वा तन्निषेधे कथं श्रुतेरुन्मत्तवाक्यत्वं न स्यात् ? अनुवादोपि 'यदिदं वदन्ति तन्न युज्यते इत्यादिवाक्यं परिहारे विशेषयुक्तिं च विना न दृष्टः । अतिप्रसङ्गश्चान्यथा । अभेदानुवादेन भेदोपदेशः किमिति न स्यात् ? सर्वशाखान्ते भेदोक्तेश्चैतदेव युक्तम् ।'नासंवत्सरवासिने प्रब्रूयात् नाप्रवक्त्र इत्याचार्या आचार्याः ।'अहं विश्वं भुवनमभ्यभवाम् ।'अनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति इति ब्रह्मविदो विदुः ।'नमो विष्णवे महते करोमि । 'पश्यन्त्यात्मन्यवस्थितम् ।इत्यादि । न चेश्वरस्तद्भेदो वा प्रत्यक्षादिसिद्धः । तत्पक्षे त्वैक्यादेरपि मिथ्यात्वात्स्वरूपस्य च सिद्धत्वाद्व्यर्थैव श्रुतिः । लक्षितस्वरूपस्यापि न स्वरूपाद्विशेषः । निर्विशेषत्वोक्तेः । मिथ्याविशेषोक्तौ चाप्रामाण्यं श्रुतेः । मिथ्यात्वं च मिथ्यैव तेषाम् । अतः सत्यत्वं सत्यं स्यात् । उपाधिकृतभेदेप्युपाधेर्मिथ्यात्वे त्वप्राप्तमेवोपाधिभेदं प्रापयित्वा पुनर्निषिद्ध्यत इति स एव दोषः । सत्योपाधिपक्षेपि हस्तपादाद्युपाधिभेदेपि भोक्तुरेकत्वदृष्टेरेकेनैवेश्वरेण सर्वोपाधिगतं सुखं दुःखं भुज्यतेत्येवमादयो दोषाः समा एव । अचेतनानामनुभवाभावान्न तत्साम्यम् । अतो जीवेश्वरयोर्भेद एवेति सिद्धम् ॥ १८ ॥
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥१९ ॥


य एनं जीवं वेत्ति हन्तारं स्वातन्त्र्येण । अन्यथा 'मया हतांस्त्वं जहि इत्यादिविरोधः । चेतनं प्रति य एनमिति परमात्मनोपि समम् ॥ १९ ॥
न जायते म्रियते वा कदाचि-न्ना()यं भूत्वा भविता वा न भूयः ।


जीवेश्वरयोर्नित्यत्वे मन्त्रवर्णोप्यस्तीत्याह । न जायते म्रियत इति । अयं ना परमपुरुषो भूत्वा विद्यमान एव देहसम्बन्धरूपेणापि भविता न । मरणं तु देहवियोग इति प्रसिद्धमेव । न हि घटादीनां मरणव्यवहारः । स्वरूपानाशः कैमुत्येनैव सिद्धः । अयं जीवोप्यजो नित्यश्च । अन्यथा पुनरुक्तेः । शाश्वतश्च । न कदाचिदस्वातन्त्र्यादिकं जीवस्वरूपं जहाति ।'अल्पशक्तिरसार्वज्ञं पारतन्त्र्यमपूर्णता ।उपजीवकत्वं जीवत्वमीशत्वं तद्विपर्ययः ।स्वाभाविकं तयोरेतन्नान्यथा स्यात्कथञ्चन ।वदन्ति शाश्वतावेतावत एव महाजनाः ॥ इति महाविष्णुपुराणे ।पुराण्यणति गच्छतीति पुराणः ॥२० ॥
वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।कथं स पुरुषः पार्थ कं घातयति हन्ति कम्॥२१ ॥


अविनाशिनं शरीरापायादिवर्जितम् । नित्यं स्वरूपतः । एनं परमेश्वरम् ।

'कर्तृत्वं तु स्वतन्त्रत्वं तदेकस्य हरेर्भवेत् । तच्चाव्ययं तस्य जानन् कथं कर्ता स्वयं भवेत् ॥ इति परमश्रुतिः ।

अन्यथाविनाशिनं नित्यमिति पुनरुक्तिः ॥२१ ॥
वासांसि जीर्णानि यथा विहायनवानि गृह्णाति नरोपराणि


जीवस्यापि शरीरसंयोगवियोगावेव जनिमृती यतस्ततो न दुःखकारणमित्याह । वासांसीति ॥ २२ ॥
'नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।नचैनं क्लेदयन्त्यापो न शोषयति मारुतः॥२३ ॥


कारणतोपि नेश्वरस्यान्यथात्वमित्याह - नैनं छिन्दन्तीति ॥२३॥
अच्छेद्योयमदाह्योयमक्लेद्योशोष्य एव च ।नित्यः सर्वगतस्थाणुरचलोयं सनातनः॥२४ ॥


अच्छेद्यत्वादिकं जीवस्यापि तत्सममित्याह - अच्छेद्योयमिति । नित्यं सर्वगते स्थितः अणुश्चायमिति सर्वगतस्थाणुः । सर्वगतो विष्णुस्तदधीनत्वादिकं तत्स्थत्वम् । हेतुतोपि तत्स्थत्वान्न चलतीत्यचलः । नादेन शब्देन सह वर्तत इति सनादन एव सनातनः ।'नित्यं सर्वगते विष्णावणुर्जीवो व्यवस्थितः ।न चास्य तदधीनत्वं हेतुतोपि विचाल्यते ।निषेधविधिपात्रत्वात्सनातन इति स्मृऽतः ॥ इति महाविष्णुपुराणे ।अच्छेद्योयमित्यादिपुनरुक्तिश्चान्यथा । यस्मिन्नयं स्थितः सोव्यक्ताचिन्त्यादिरूपः । एवं ज्ञातः परमेश्वरः सर्वदुःखनाशं करोतीति नानुशोचितुमर्हसि । 'तेषामहं समुद्धर्ता इत्यादेः ।'न त्वेवाहं जातु नासं न त्वम् इत्युभयोरपि प्रस्तुतत्वात् । देहिनः शरीरिणः देहीति विशेषितत्वाच्च जीवस्य तत्र तत्र ।'अविनाशि तु । 'येन सर्वमिदं ततम् । 'अनाशिनोप्रमेयस्य । 'न म्रियते । 'भूत्वा भविता न । 'अविनाशिनम् । 'अव्ययम् । 'अव्यक्तोयमचिन्त्योयमविकार्योयम् । इत्यादि परमात्मनश्च । न हि जीवेन ततं सर्वम् । न च मुख्यतोप्रमेयोसौ । न च न म्रियते । न चाविनाशिनं नित्यमिति नित्यत्वातिरिक्तमविनाशित्वं तस्य । न चाव्यक्तत्वमविकार्यत्वं च मुख्यम् । न च भूत्वा भविता वा नेति देहस्याप्यनुत्पत्तिः । परमात्मनस्तु देहवियोगादिकमपि नास्तीत्यविनाशि त्वित्यादिविशेषणम् । यस्मादेवं भूतस्तस्मात्स एव स्वतन्त्रः । तदधीनमन्यत्सर्वम् । अतः स एव सर्वपुरुषार्थदः । अतस्तत्पूजा सत्कर्मैव । अतस्तदर्थं युध्यस्व । अन्येषां त्वन्तवन्त एव देहाः । प्राकृतदेहिनश्च । अतोस्वतन्त्रत्वान्न हन्तुं तेषां सामर्थ्यम् । नित्यत्वान्न हन्यते च । तस्माद्धन्ता हत इति मन्यमानौ न विजानीतः । यस्मादयमेव परमेश्वरः शरीरवियोगरूपेणापि न म्रियते तत्संयोगरूपेणापि न जायते जीववत्कदापि । अतः स एव स्वतन्त्रत्वात्सर्वस्य हन्ता । जीवस्तु तेन शरीरे हन्यमाने स्वयं न हन्यत इत्येतावत् । अत एवमविनाशित्वादेः स्वातन्त्र्यात् सर्वकर्तारं परमात्मानं यो वेद स कथं घातयति हन्ति वा ? वाससो जरावत्स्वशरीरजरादावस्वातन्त्र्यदर्शनात्सर्वत्रास्वातन्त्र्यं ज्ञातव्यं जीवस्य । ईश्वरस्य तु देहस्यापि च्छेदादेरभावात्स्वातन्त्र्यम् । नैनं छिन्दन्तीति च्छेदनाद्यभावः साक्षादेव दर्शयितुं शक्यते स्वदेहस्येति वर्तमानापदेशः । छेदनादिकं त्वीश्वरो मोहाय मृषैव दर्शयति ॥ २४ ॥
अव्यक्तोयमचिन्त्योयमविकार्योयमुच्यते ।तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि॥२५ ॥


सर्वगतश्चेत्परमात्मा किमिति तथा न दृश्यत इत्यतो वक्ति - अव्यक्तोयमिति । कथमेतद्युज्यते ? अचिन्त्यशक्तित्वात् । न च सा शक्तिः कदाचिदन्यथा भवति । अविकार्यत्वात् । यानि यान्यस्य रूपाणि तानि सर्वाण्यप्येवं भूतानीति दर्शयितुमेनमयमित्यादिपृथग्वचनम् । जीवे तु सर्वजीवेष्वनुगमार्थम् । सर्वं चैतत् श्रुतिसिद्धम् ।'सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।ज्ञानज्ञानः सुखसुखः स विष्णुः परमोक्षरः । इति पैङ्गिश्रुतिः ।'ओहो देहवांश्चैकः प्रोच्यते परमेश्वरः ।अप्राकृतशरीरत्वाददेह इति कथ्यते ।शिरश्चरणबाह्वादिविग्रहोयं स्वयं हरिः ।स्वस्मान्नान्यो विग्रहोस्य ततश्चादेह उच्यते ।स्वयं स्वरूपवान्यस्माद्देहवांश्चोच्यते ततः ।शिरश्चरणबाह्वादिः सुखज्ञानादिरूपकः ।स च विष्णोर्न चान्योस्ति यस्मात्सोचिन्त्यशक्तिमान् ।देहयोगवियोगादिस्ततो नास्य कथञ्चन ।गुणरूपोपि भगवान् गुणभुक्च सदा श्रुतः ।अहमित्यात्मभोगो यत्सर्वेषामनुभूयते ।अभिन्नेपि विशेषोयं सदानुभवगोचरः ।विशेषोपि हि नान्योतः स च स्वस्यापि युज्यते ।नानवस्था ततः क्वापि परमैश्वर्यतो हरेः ।युक्तायुक्तत्वमपि हि यदधीनं सदेष्यते ।प्रमाणावगते तत्र कुत एव ह्ययुक्तता ॥ इत्यादिपरमश्रुतिः ।'गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का ।चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः ॥ इत्यादि च ऋग्वेदे सौपर्णशाखायाम् ।'एकमेवाद्वितीयं 'नेह नानास्ति किञ्चिन ।'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।'यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।एवं धर्मान् पृथक्पश्यंस्तानेवानुविधावति ।'मत्स्यकूर्मादिरूपाणां गुणानां कर्मणामपि ।तथैवावयवानां च भेदं पश्यति यः क्वचित् ।भेदाभेदौ च यः पश्येत्स याति तम एव तु ।पश्येदभेदमेवैषां बुभूषुः पुरुषस्ततः ।अभेदेपि विशेषोस्ति व्यवहारस्ततो भवेत् ।विशेषिणां विशेषस्य तथा भेदविशेषयोः ।विशेषस्तु स एवायं नानवस्था ततः क्वचित् ।प्रादुर्भावादिरूपेषु मूलरूपेषु सर्वशः ।न विशेषोस्ति सामर्थ्ये गुणेष्वपि कदाचन ।मत्स्यकूर्मवराहाश्च नृसिंहवटुभार्गवाः ।राघवः कृष्णबुद्धौ च कल्किव्यासैतरेयकाः ।दत्तो धन्वन्तरिर्यज्ञः कपिलो हंसतापसौ ।शिंशुमारो हयास्यश्च हरिः कृष्णश्च धर्मजः ।नारायणस्तथेत्याद्याः साक्षान्नारायणः स्वयम् ।ब्रह्मरुद्रौ शेषविपौ शक्राद्या नारदस्तथा ।सनत्कुमारः कामभवोप्यनिरुद्धो विनायकः ।सुदर्शनाद्यायुधानि पृथ्वाद्याश्चक्रवर्तिनः ।इत्याद्या विष्णुनाविष्टा भिन्नाः संसारिणो हरेः ।तेष्वेव लक्ष्मणाद्येषु त्रिष्वेवं च बलादिषु ।नरार्जुनादिषु तथा पुनरावेश उच्यते ।स्वल्पस्तु पुनरावेशो धर्मपुत्रादिषु प्रभोः ।एतज्जानाति यस्तस्मिन्प्रीतिरभ्यधिका हरेः ।सङ्करज्ञानिनस्तत्र पातस्तमसि च ध्रुवम् ॥ इत्यादि महावराहे ॥२५ ॥
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।तथापि त्वं महाबाहो नैनं शोचितुमर्हसि॥२६ ॥


तिष्ठतु तावदयं विस्तारः । यावन्मोक्षं जीवस्य जन्ममरणे स्वयमेव मन्यसे न तु नियमेन । तथापि तावन्मात्रेणापि ज्ञानेन शोचितुं नार्हसि ।'नित्यं सनातनं प्रोक्तं नित्यं नियतमेव च । इति शब्दनिर्णये ।अत्र तु नियतम् । 'जातस्य हि ध्रुवः इति प्रकाशनात् ॥२६ ॥
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।तस्मादपरिहार्येर्थे न त्वं शोचितुमर्हसि॥२७ ॥


तस्मान्नात्राश्चर्यबुदि्धः कर्तव्या ॥ २७-२८ ॥
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।अव्यक्तनिधनान्येव तत्र का परिदेवना॥२८ ॥


आश्चर्यवत् पश्यति कश्चिदेनमाश्चर्यवद् वदति तथैव चान्यः ।आश्चर्यवच्चैनमन्यः शृणोति


किं तर्ह्याश्चर्यो भगवानेवेत्याह । आश्चर्यवदिति । आश्चर्यमेव सन्तमेनमाश्चर्यवत्पश्यति न पुनरनाश्चर्यम् ।'गगनं गगनाकारं सागरः सागरोपमः । इत्यादिवत् ।'आश्चर्यो भगवान्विष्णुर्यस्मान्नैतादृशः क्वचित् ।तस्मात्तद्गोचरं ज्ञानं तद्गोचरवदेव तु ॥ इति ब्रह्मतर्के ।अनाश्चर्यवदप्यसुरादयः पश्यन्तीति कश्चिदिति विशेषणम् ॥२९ ॥
देही नित्यमवध्योयं देहे सर्वस्य भारत ।तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि॥३० ॥


देही कुतोवध्यः ? यस्मादयमीश्वरः सर्वस्य जीवस्य सूक्ष्मे स्थूले च देहे रक्षकत्वेनावस्थितः अत एवावध्यः । न स्वसामर्थ्यं कस्यापि ।'द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥इति हि भागवते ।'तत्र तत्र स्थितो विष्णुर्नित्यं रक्षति नित्यदा ।अनित्यदैवानित्यं च नित्यानित्ये ततस्ततः ।भावाभावनियन्ता हि तदेकः पुरुषोत्तमः ॥ इति पाद्मे ॥३० ॥
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।धर्म्यादि्ध युद्धाच्छ्रेयोन्यत् क्षत्रियस्य न विद्यते॥३१ ॥


यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्॥३२ ॥


अथ चेत् त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि॥३३ ॥


अकीर्तिं चापि भूतानि कथयिष्यन्ति तेव्ययाम् ।सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते॥३४ ॥


भयाद् रणादुपरतं मंस्यन्ते त्वां महारथाः ।येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्॥३५ ॥


अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः ।निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्॥३६ ॥


हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः॥३७ ॥


जित्वा स्वर्गं महीं च ।'ये युद्ध्यन्ते प्रधनेषु शूरासो ये तनुत्यजः इति श्रुतेः ॥३७-३८॥
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥३८ ॥


एषा तेभिहिता साङ्ख्ये बुदि्धर्योगे त्विमां शृणु ।बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि॥३९ ॥


सम्यक् ख्यातिर्ज्ञानं साङ्ख्यम् । युज्यतेनेनेति योगस्तदुपायः ।'सम्यक्तत्वदृशिः साङ्ख्यं योगस्तत्साधनं स्मृऽतम् । इति शब्दनिर्णये ।'ब्रह्मतर्कस्तर्कशास्त्रं विष्णुना यत्समीरितम् ।अक्षपादकणादौ च साङ्ख्ययोगौ च हैतुकाः ।बौद्धपाशुपताद्यास्तु पाषण्डा इति कीर्तिताः ।मीमांसा त्रिविधा प्रोक्ता ब्राह्मी दैवी च कार्मिकी ।ब्रह्मतर्कं च मीमांसां सेवेत ज्ञानसिद्धये ।वैदिकज्ञानवैरूप्यान्नान्यत्सेवेत पण्डितः ॥ इत्यन्यसाङ्ख्ययोगयोर्निषिद्धत्वान्नारदीये । साङ्ख्यस्य निरीश्वरत्वादुक्तत्वाच्चेश्वरस्य । साङ्ख्यैर्योगैश्च विहितहिंसाया अप्यनर्थहेतुत्वाङ्गीकारात् । अत्र तु युद्धविधानाच्च मोक्षार्थत्वेनैव कर्मबन्धं प्रहास्यसीति । परमसाङ्ख्ययोगयोश्चोक्तार्थत्वेनैव न विरोधः ॥३९ ॥
नेहाभिक्रमनाशोस्ति प्रत्यवायो न विद्यते ।स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥४० ॥


'प्रारम्भमात्रमिच्छा वा विष्णुधर्मे न निष्फला ।न चान्यधर्माकरणाद्दोषवान्विष्णुधर्मकृत् ॥ इत्याग्नेये ।'स्वोचितेनैव धर्मेण विष्णुपूजामृते क्वचित् ।नाप्रवृत्तिः प्रवृत्तिर्वा यत्र धर्मः स वैष्णवः ।एनं धर्मं च देवाद्या वर्तन्ते सात्त्विका जनाः ।एष कार्तयुगो धर्मः पाञ्चरात्रश्च वैदिकः ।तत्प्रीत्यर्थं विनान्यस्मै नोदबिन्दुं न तण्डुलम् ।दद्यान्निराशीश्च सदा भवेद्भक्तश्च केशवे ।नैतत्समेधिके वापि कुर्याच्छङ्कामपि क्वचित् ।जानीयात्तदधीनं च सर्वं तत्तत्त्ववित्सदा ।यथाक्रमं तु देवानां तारतम्यविदेव च ।एष भागवतो मुख्यस्त्रेतादिषु विशेषतः ।एष धर्मोतिफलदो विशेषेण पुनः कलौ ।एवं भागवतो यस्तु स एव हि विमुच्यते ।त्रैविद्यस्त्वपरो धर्मो नानादैवतपूजनम् ।तत्रापि विष्णुर्ज्ञातव्यः सर्वेभ्योभ्यधिको गुणैः ।समर्पयति यज्ञाद्यमन्ततस्त्वेव विष्णवे ।त्रैविद्यधर्मा पुरुषः स्वर्गं भुक्त्वा निवर्तते ।पुनः कुर्यात्पुनः स्वर्गं याति यावद्धरेर्वशे ।सर्वान्देवान्प्रविज्ञाय तत्कर्मैव सदा भवेत् ।सम्यक्तत्वापरिज्ञानादन्यकर्मकृतेरपि ।स्वर्गादिप्रार्थनाच्चैव रागादेश्चापरिक्षयात् ।सदा विष्णोरस्मरणात् त्रैविद्यो नाप्नुयात्परम् ।क्रमेण मुच्यते विष्णौ कर्माण्यन्ते समर्पयन् ।यदि सर्वाणि नियमाज्जन्मभिर्बहुभिः शुभैः ।परं विष्णुं न यो वेत्ति कुर्वाणोपि त्रयीक्रियाः ।नासौ त्रैविद्य इत्युक्तो वेदवादी स उच्यते ।वादो विवादः सम्प्रोक्तो वादो वचनमेव च ।वेदोक्ते विष्णुमाहात्म्ये विवादात्पठनादपि ।अथवा निरर्थकात्पाठाद्वेदवादी स उच्यते ।वेदवादरतो न स्यान्न पाषण्डी न हैतुकी ।तेभ्यो याति तमो घोरमन्धं यस्मान्न चोत्थितिः ।अनारम्भमनन्तञ्च नित्यदुःखं सुखोज्झितम् ।वव्रं यद्वेदगदितं तत्र यान्त्यसुरादयः ॥ इति ब्रह्मवैवर्ते ॥४० ॥
व्यवसायात्मिका बुदि्धरेकेह कुरुनन्दन ।बहुशाखा ह्यनन्ताश्च बुद्धयोव्यवसायिनाम्॥४१ ॥


'बुदि्धर्निर्णीततत्त्वानामेका विष्णुपरायणा ।बहुशाखा ह्यनन्ताश्च बुद्धयोव्यवसायिनाम् ॥ इति ब्रह्मवैवर्ते ॥४१ ॥
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।वेदवादरताः पार्थ नान्यदस्तीति वादिनः॥४२ ॥


कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति॥४३ ॥


भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।व्यवसायात्मिका बुदि्धः समाधौ न विधीयते॥४४ ॥


अव्यवसायबुदि्धः केषाम् ? यां वाचमविपश्चितः प्रवदन्ति । तयापहृतचेतसाम् । बुदि्धर्व्यवसायात्मकत्वेन समाधानेन वर्तते ।'यथावस्तु यथा ज्ञानं तत्साम्यात्सममीरितम् ।विषमं त्वन्यथाज्ञानं समाधानं समस्थितिः ।न तद्भवत्यसद्वाक्यैर्विषमीकृतचेतसाम् ।स्वर्गादिपुष्पवाद्येव वचनं यदचेतसाम् ।न मन्यन्ते फलं मोक्षं विष्णुसामीप्यरूपकम् ।फलदं च न मन्यन्ते तं विष्णुं जगतः पतिम् ।भोगैश्वर्यानुगत्यर्थं क्रियाबाहुल्यसन्तताम् ।बहुसंसारफलदामन्ते तमसि पातिनीम् ।यां वदन्ति दुरात्मानो वेदवाक्यविवादिनः ।तया सम्मोहितधियां कथं तत्त्वज्ञता भवेत् ॥ इति च ।'इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।नाकस्य पृष्ठे सुकृते तेनुभूत्वा इमं लोकं हीनतरं वा विशन्ति ॥ इति च आथर्वणश्रुतिः ।'वेदवादरतो न स्यान्न पाषण्डी न हैतुकी ॥इति हि भागवते । 'ये न जानन्ति तं विष्णुं याथातथ्येन संशयात् ।जिज्ञासवश्च नितरां श्रद्धावन्तः सुसाधवः ।निर्णेतॄणामभावेन केवलं ज्ञानवर्जिताः ।यैर्निश्चितं परत्वं तु विष्णोः प्रायो न यातनाम् ।ब्रह्महत्यादिभिरपि यान्त्याधिक्ये चिरं न तु ।ये तु भागवताचार्यैः सम्यग्यज्ञादि कुर्वते ।बहिर्मुखा भगवतो निवृत्ताश्च विकर्मणः ।दक्षिणातर्पितानां तु ह्याचार्याणां तु तेजसा ।यान्ति स्वर्गं ततः क्षिप्रं तमोन्धं प्राप्नुवन्ति च ।तदन्ये नैव च स्वर्गं यान्ति विष्णुबहिर्मुखाः॥ इति नारदीये ।॥ ४२-४४ ॥
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्॥४५ ॥


त्रैगुण्याख्यं विषं यापयन्ति अपगमयन्तीति त्रैगुण्यविषयाः ।

'आश्रित्य वेदांस्तु पुमांस्त्रैगुण्यविषहारिणः । निस्त्रैगुण्यो भवेन्नित्यं वासुदेवैकसंश्रयः ॥ इति च । 'सत्त्वं साधुगुणाद्विष्णुरात्मा सन्ततिहेतुतः ॥ इति च ।

सन्ततविष्णुस्मरणं नित्यसत्त्वस्थत्वम् । परमात्मा मम स्वामीति ज्ञानमात्मवत्त्वम् । तेनैक्यज्ञानं निवारयति । विरुद्धयोगक्षेमेच्छावर्जितः । अन्यथोत्थानादेरप्ययोगात् ॥४५ ॥
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः॥४६ ॥


'उद्रेकात्पातृराहित्यादनत्वाच्चाखिलस्य च ।

प्रलयेप्युदपानोसौ भगवान् हरिरीश्वरः । प्रकृतिर्ह्युदरूपेण सर्वमावृत्य तिष्ठति । प्रलयेतो लयं प्राहुः सर्वतः सम्प्लुतोदकम् ॥ इति च । 'यावत्प्रयोजनं विष्णोः सकाशात्साधकस्य च । धर्ममोक्षादिकं तावत्सर्ववेदविदो भवेत् । वेदार्थनिर्णयो यस्माद्विष्णोर्ज्ञानं प्रकीर्तितम् । ज्ञानात्प्रसन्नश्च हरिर्यतोखिलफलप्रदः ॥ इति च । सर्वतः सम्प्लुतोदकेप्युद्रिक्तः पालकवर्जितः । कालाद्यनश्च यो विष्णुस्तस्माद्यावत्फलं तावत्सर्ववेदेषु विशेषज्ञस्यैव भवतीत्यर्थः । सर्वे हि विष्णोरन्ये प्रलयकाले नोद्रिक्ताः । ये चोद्रिक्ता मुक्ता रमा च तेपि न पालकवर्जिताः, विष्णुपाल्यत्वात् । न च मुक्ताः कालादिचेष्टकाः । नचोद्रिक्तत्वं तेषां तद्वत् । अत उदपानो विष्णुरेव । प्रलये विशेषतोपि । 'आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनास । तम आसीत्तमसा गू•हमग्रे अप्रकेतं सलिलं सर्वमा इदम्

'आपो वा इदमग्रे सलिलम् आसीत् सलिल एको द्रष्टाद्वैतो भवति ॥ इत्यादि श्रुतिभ्यः ॥४६ ॥
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।मा कर्मफलहेतुर्भूर्मा ते सङ्गोस्त्वकर्मणि॥४७ ॥


कर्माधिकारिण एव त्वदादयो जीवाः । फलं तु मदायत्तमिति भावः । मा कर्मफलहेतुर्भूः नेश्वरोहमिति भावं कुरु ।'एष उ एव शुभाशुभैः कर्मफलैरेनं संयोजयति न स्वयं संयुक्तो भवति यदेनं कर्मफलैः संयोजयति न स्वयं संयुक्तो भवति तस्मादन्य एवासौ भगवान्वेदितव्य इति पैङ्गिश्रुतिः ॥४७ ॥
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते॥४८ ॥


सङ्गं फलस्नेहम् ॥ ४८ ॥
दूरेण ह्यवरं कर्म बुदि्धयोगाद् धनञ्जय ।बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः॥४९ ॥


बुद्धौ जातायामपि विष्णुमेव शरणमन्विच्छ ।'अज्ञानां ज्ञानिनां चैव मुक्तानां शरणं हरिः ।तं ये स्वैक्येन मन्यन्ते सर्वभिन्नं गुणोच्छ्रयात् ।कृपणास्ते तमस्यन्धे निपतन्ति न संशयः ।न तेषामुत्थितिः क्वापि नित्यातिशयदुःखिनाम् ।गुणभेदविदां विष्णोर्भेदाभेदविदामपि ।देहकर्मादिषु तथा प्रादुर्भावादिकेपि वा ।स्वोद्रिक्तानां तदीयानां निन्दां कुर्वन्ति येपि च ।सर्वेषामपि चैतेषां गतिरेषा न संशयः ॥ इति नारदीये ॥४९ ॥
बुदि्धयुक्तो जहातीह उभे सुकृतदुष्कृते ।तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्॥५० ॥


यथावद्विष्णुं ज्ञात्वा तदर्थत्वेन कर्मकरणमित्येतत्कर्मकौशलमेव योगः । भगवज्झानमेव बुदि्धः ॥ ५०, ५१ ॥
कर्मजं बुदि्धयुक्ता हि फलं त्यक्त्वा मनीषिणः ।जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्॥५१ ॥


यदा ते मोहकलिलं बुदि्धर्व्यतितरिष्यति ।तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च॥५२ ॥


श्रुतिविप्रतिपन्ना ते यथा स्थास्यति निश्चला ॥समाधावचला बुदि्धस्तदा योगमवाप्स्यसि॥ ५३ ॥


अर्जुन उवाच
निर्वेदं नितरां लाभम् ।'बुदि्धमोहो यदा न स्यादन्यथाज्ञानलक्षणः ।श्रोतव्यश्रुतसाफल्यं तदा प्राप्नोति मानवः ॥ श्रुतिमार्गं प्रपन्ना तु तदर्थज्ञाननिश्चला ।समाधानेन तु पुनरापरोक्ष्याच्च निश्चला ॥ विष्णौ प्राप्स्यति तद्योगं मुक्तो भूत्वा तदश्नुते ॥इति च पैङ्गिश्रुतौ विशेषेण प्रतिपन्ना ॥ ५२, ५३ ॥
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्॥५४ ॥


का भाषा ? कथं भाष्यते ? कैर्गुणैः ? समाधिस्थस्य विषमबुदि्धवर्जितस्य ॥ ५४ ॥
प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते॥५५ ॥


श्रीभगवानुवाच
'सर्वकामनिवृत्तिस्तु जानतो न कथञ्चन ।

अनिषिद्धकामितैवातो ह्यकामित्वमितीर्यते । अपरोक्षदृशोपि स्याद्यदा नास्त्यपरोक्षदृक् । क्वचिद्विरुद्धकामोपि यथायुद्ध्यद्धरो हरिम् । अतोनभिभवो यावद्दृशस्तावन्निगद्यते । स्थितप्रज्ञस्तथाप्यस्य कादाचित्क्यपि या दृशिः । नियमेनैव मोक्षाय भवेद्योग्या भवेद्यदि । अयोग्या भक्तिजाता चेत्क्रमान्मुक्त्यै भवेत्तथा ॥ इति च ।

आत्मनि विष्णौ, आत्मना विष्णुना । तत्प्रसादादेव तुष्टः ॥५५ ॥
दुःखेष्वनुद्विग्नमना सुखेषु विगतस्पृहः ।वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते॥५६ ॥


यः सर्वत्रानभिस्नेहस्तत्तत् प्राप्य शुभाशुभम् ।नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता॥५७ ॥


यदा संहरते चायं कूर्मोङ्गानीव सर्वशः ।इंद्रियाणींद्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता॥५८ ॥


विषया विनिवर्तन्ते निराहारस्य देहिनः ।रसवर्जं रसोप्यस्य परं दृष्ट्वा निवर्तते॥५९ ॥


रसो रागः ॥ ५९ ॥
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।इंद्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः॥६० ॥


तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।वशे हि यस्येंद्रियाणि तस्य प्रज्ञा प्रतिष्ठिता॥६१ ॥


ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते ।सङ्गात् सञ्जायते कामः कामात् क्रोधोभिजायते॥६२ ॥


क्रोधाद् भवति सम्मोहः सम्मोहात् स्मृऽतिविभ्रमः ।स्मृऽतिभ्रंशाद् बुदि्धनाशो बुदि्धनाशाद् प्र(वि)नश्यति ॥६३ ॥


संमोहान्मिथ्याज्ञानात् । ज्ञातमप्यन्यथा स्मर्यते । वाक्यार्थानामन्यथा स्मरणान्निर्णीतं ज्ञानमपि नश्यति ॥ ६२,६३ ॥
रागद्वेषवियुक्तैस्तु विषयानिंद्रियैश्चरन् ।आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति॥६४ ॥


शान्तिर्भगवन्निष्ठा । 'शमो मन्निष्ठता इति हि भागवते ॥६४-६६॥
प्रसादे सर्वदुःखानां हानिरस्योपजायते ।प्रसन्नचेतसो ह्याशु बुदि्धः पर्यवतिष्ठति॥६५ ॥


नास्ति बुदि्धरयुक्तस्य न चायुक्तस्य भावना ।न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्॥६६ ॥


इंद्रियाणां हि चरतां यन्मनोनुविधीयते ।तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि॥६७ ॥


तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।इंद्रियाणींद्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता॥६८ ॥


या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः॥६९ ॥


'देवेभ्योन्ये यदा ब्रह्म पश्यन्त्यन्यन्न दृश्यते ।निशायामिव सुव्यक्तं यथान्यैर्ब्रह्म नेयते ।आश्चर्यवस्तुदृग्यद्वद्व्यक्तमन्यन्न पश्यति ।ऐकाग्र्याद्वा सुखोद्रोकाद्देवाः सूर्यवदेव च ।प्रायशः सर्ववेत्तारस्तत्रापि ह्युत्तरोत्तरम् ॥ इति ब्रह्मतर्के ॥६९ ॥
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी॥ ७० ॥


'भुञ्जानोपि हि यः कामान् मर्यादां न तरेत्क्वचित् ।

समुद्रवद्धर्ममयीं नासौ कामी स उच्यते । केति कुत्सितवाची स्यात्कुत्सितं मानमेव तु । कामो मोक्षविरोधी स्यान्न सर्वेच्छाविरोधिनी ॥ इति च ।

न च सर्वेच्छाभावे जीवनं भवति । 'शान्तिर्मोक्षो यतो ह्यत्र विष्णुनिष्ठा भवेद्ध्रुवा इति च ॥७० ॥
विहाय कामान् यः सर्वान् पुमांश्चरति निःस्पृहः ।निर्ममो निरहङ्कारः स शान्तिमधिगच्छति॥७१ ॥


निषिद्धस्पृहाभावमात्रेण सर्वविषयान् विहाय ।

'अस्वरूपे स्वरूपत्वमतिरेव ह्यहङ्कृतिः ।

त्याज्या सर्वत्र ममता ज्ञात्वा सर्वं हरेर्वशे ॥ इति च ॥७१ ॥
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।स्थित्वास्यामन्तकालेपि ब्रह्म निर्वाणमृच्छति॥७२ ॥


॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगो नाम द्वितीयोध्यायः ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये द्वितीयोध्यायः ॥
ब्राह्मी ब्रह्मविषया । ज्ञानिनामप्यन्तकालेन्यमनसां प्रारब्धकर्मभावाज्जन्मान्तरम् । प्रारब्धकर्मनाशकाले नियमेन भगवत्स्मृऽतिर्भवति । ततो मोक्षश्च । 'यं यं वापि स्मरन् भावम् इति हि वक्ष्यति । बाणं शरीरम् ।

'अभावाज्जडदेहस्य विष्णुर्निर्बाण उच्यते ।

भिन्नदेहाभावतो वा स सहस्रशिरा अपि ॥ इति च ॥७२ ॥