ब्रह्मसूत्रभाष्यम्/C01/S02/A018: Difference between revisions
BS>ImportBot Initial import |
m 1 revision imported |
(No difference)
| |
Latest revision as of 10:10, 2 March 2026
अदृश्यत्वाधिकरणम्
अदृश्यत्वादिगुणेषु सर्वगतत्वं
ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ ॥ 24-55॥
अग्नाविष्ण्वोः साधारणस्य वैश्वानरशब्दस्य विष्णावेव प्रसिद्धात्म शब्देन विशेषणाद्वैश्वानरो विष्णुरेव ॥ 24 ॥
ॐ स्मर्यमाणमनुमानं स्यादिति ॐ ॥25-56॥
‘अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः’
इति स्मर्यमाणमत्रापि स एवोच्यत इत्यस्यानुमापकम् । समाख्यानात् । इतिशब्दः समाख्याप्रदर्शकः ॥ 25 ॥
ॐ शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात् पुरुषविधमपि चैनमधीयते ॐ ॥ 26-57 ॥
‘अयमग्निर्वैश्वानरः’‘वैश्वानरमृत आजातमग्निम्’ इत्यादिशब्दः ।
‘वैश्वानरे तद्दुतं भवति’ ‘हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः’ इत्याद्यग्निलिङ्गमादिशब्दोक्तम्।
‘येनेदमन्नं पच्यते’’तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्’ इत्यादिना पाचकत्वेनान्तः प्रतिष्ठानं च प्रतीयते । तस्मान्न विष्णुरिति चेन्न ।
‘अथ हेममात्मानमणोरणीयांसं परतः परं विश्वं हरिमुपासीतेति ।
सर्वनामा सर्वकर्मा सर्वलिङ्गः सर्वगुणः सर्वकामः सर्व धर्मः सर्वरूप इति’।
‘स य एतमेवमात्मानं विश्वं हरिमारादरमुपास्ते तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेषु देवेषु सर्वषुवेदेषु कामचारो भवति’
इति तत्तन्नामलिङ्गादिना तस्यैव दृष्ट्युपदेशान्महोपनिषदि ॥
अनात्तत्वादनात्मान ऊनत्वाद्गुणराशितः ।
अब्रह्माणः परे सर्वे ब्रह्मात्म विष्णुरेव हि’ ॥
इत्यादिना ‘को न आत्मा किं ब्रह्म’ इत्यारम्भाच्च अन्येषामसम्भवाद्विष्णुरेव वैश्वानरः ।
‘चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत’
इत्यादिना यः पुरुषाख्यो विष्णुरभहितस्तद्विधमेवात्र ‘मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मा’
इत्यादिनैनं वैश्वानरमधीयते । चशब्देन सकलवेदतन्त्रपुराणादिषु विष्णुपरत्वं पुरुषसूक्तस्य दर्शयति ।तथा च ब्राह्मे –
‘यथैव पौरुषं सूक्तं नित्यं विष्णुपरायणम् ।
तथैव मे मनो नित्यं भूयाद्विष्णुपरायणम्’ इति ॥
चतुर्वेदशिखायां च –
इति बृहत्संहितायां च
‘यथा हि पौरुषं सूक्तं विष्णोरेवाभिधायकम् ।
न तथा सर्ववेदाश्च वेदाङ्गानि च नारद’ इत्यादि ॥
॥इति नारदीयवचनान्नाभेदोक्तिविरोधः ॥ 26 ॥‘यस्माद्यज्जायते चाङ्गाल्लोकवेदादिकं हरेः ।
तन्नामवाच्यमङ्गं तद्यथा ब्रह्मादिकं मुखम्’
ॐ अत एव न देवता भूतं च ॐ ॥ 27-58॥
अग्निवैश्वानरादिशब्दस्तेजसि भूते अग्निदेवतायां च प्रसिद्धोऽप्यतः पूर्वोक्तहेतुत एवात्र न सा तच्चाभिधीयते ॥ 27 ॥
ॐ साक्षादप्यविरोधं जैमिनिः ॐ ॥ 28-59 ॥
नाग्न्यादयः शब्दा अग्न्यादिवाचकास्तथापि साक्षादेवानन्ययोगेन ब्रह्मवाचकैश्यब्दैः व्यवहारार्थमनभिज्ञानाच्चान्यत्र व्यवहारन्तीत्यभ्युपगमेऽविरोधं जैमिनिर्वक्ति ।
‘व्यासचित्तस्थिताकाशादवच्छिन्नानि कानिचित् ।
अन्ये व्ववहरन्त्येतान्यूरीकृत्य गृहादिवत्’ ॥
इति स्कान्दवचनान्न मतानां परस्परविरोधः ॥ 28 ॥
ॐ अभिव्यक्तेरित्याश्मरथ्यः ॐ ॥ 29-60 ॥
तत्र तत्र प्रसिद्धावप्यग्न्यादिषु ब्रह्मणोऽभिव्यक्तेरग्न्यादिसूक्तनियम इत्याश्मरथ्यः ॥ 29 ॥
ॐ अनुस्मृतेर्बादरिः ॐ ॥ 30-61 ॥
तत्र तत्रोक्तस्य विष्णोरग्न्यादिष्वनुस्मर्यमाणत्वात् तन्नियमः इति बादरिः ॥ 30 ॥
ॐ सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॐ ॥ 31-62 ॥
साक्षादप्यविरोधं वदन् जैमिनिः सूक्तादिनियममग्न्यादि सम्प्राप्त्या मन्यते।
‘तं यथा यथोपासते तदेव भवति’ इति दर्शयति ॥ 31 ॥
ॐ आमनन्ति चैनमस्मिन् ॐ ॥ 32-63 ॥
न ह्यन्योपासकोऽन्यं प्राप्नुत इति युज्यत इत्यत आह –
एनं विष्णुमस्मिन्नग्न्यादावामनन्ति । ‘योऽग्नौ तिष्ठन्’‘य एष एतस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषः’ इत्यादिना ॥ 32 ॥