Jump to content

Upadhikhandanam: Difference between revisions

From Anandamakaranda
Imported from pramati-sarvamoola XML (grantha.io importer v3)

Line 15: Line 15:

अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन ।

अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन । उपाधिभेदाद्धटत इति चेत् स स्वभावतः ॥2॥

उपाधिभेदाद्धटत इति चेत् स स्वभावतः ॥2॥

अज्ञानतो वा द्वैतस्य सत्यता स्वत एव चेत् ।

अज्ञानतो वा द्वैतस्य सत्यता स्वत एव चेत् । अनवस्थितिरज्ञानहेतौ वाऽन्योन्यसिद्धिता ॥3॥

अनवस्थितिरज्ञानहेतौ वाऽन्योन्यसिद्धिता ॥3॥

चक्रकापत्तिरथवा भेदश्चोपाधितः कुतः ।

चक्रकापत्तिरथवा भेदश्चोपाधितः कुतः । विद्यमानस्य भेदस्य ज्ञापको नैव कारकः ॥4॥

विद्यमानस्य भेदस्य ज्ञापको नैव कारकः ॥4॥

उपाधिर्दृष्टपूर्वो हि खेऽपि देशान्तरस्य सः ।

उपाधिर्दृष्टपूर्वो हि खेऽपि देशान्तरस्य सः । ज्ञापको विद्यमानस्य मूढबुद्धिव्यपेक्षया ॥5॥

ज्ञापको विद्यमानस्य मूढबुद्धिव्यपेक्षया ॥5॥

न चेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः ।

न चेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः । एकदेशेऽनवस्था स्यात् सर्वगश्चेन्न भेदकः ॥6॥

एकदेशेऽनवस्था स्यात् सर्वगश्चेन्न भेदकः ॥6॥

सुखदुःखादिभोगश्च स्वरूपैक्ये न भेदतः ।

सुखदुःखादिभोगश्च स्वरूपैक्ये न भेदतः । दृश्यो ह्युपाधिभेदेऽपि हस्तपादादिगो यथा ॥7॥

दृश्यो ह्युपाधिभेदेऽपि हस्तपादादिगो यथा ॥7॥

नानादेहगभोगानुसन्धानं योगिनो यथा ।

नानादेहगभोगानुसन्धानं योगिनो यथा । न चेद्भोगानुसन्धानं तदिच्छा योगिनः कुतः ॥8॥

न चेद्भोगानुसन्धानं तदिच्छा योगिनः कुतः ॥8॥

अनुसन्धानरहितदेहबाहुल्यमन्यथा ।

अनुसन्धानरहितदेहबाहुल्यमन्यथा । सिद्धमेव हि तत्पक्षे विशेषो योगिनः कुतः ॥9॥

सिद्धमेव हि तत्पक्षे विशेषो योगिनः कुतः ॥9॥

सिद्धौ हि कर्मभेदस्य स्यादुपाधिविभिन्नता ।

सिद्धौ हि कर्मभेदस्य स्यादुपाधिविभिन्नता । तत्सिद्धौ चैव तत्सिद्धिरित्यन्योन्यव्यपाश्रयः ॥10॥

तत्सिद्धौ चैव तत्सिद्धिरित्यन्योन्यव्यपाश्रयः ॥10॥

आत्मस्वभावभेदस्य विदोषत्वेन चाखिलः ।

आत्मस्वभावभेदस्य विदोषत्वेन चाखिलः । प्रत्यक्षादिविरोधाच्च दुष्टः पक्षोऽयमञ्जसा ॥11॥

प्रत्यक्षादिविरोधाच्च दुष्टः पक्षोऽयमञ्जसा ॥11॥

चेष्टालिङ्गेन सात्मत्वे परदेहस्य साधिते ।

चेष्टालिङ्गेन सात्मत्वे परदेहस्य साधिते । अन्यत्वं स्वात्मनस्तस्मात् सर्वैरेवानुभूयते ॥12॥

अन्यत्वं स्वात्मनस्तस्मात् सर्वैरेवानुभूयते ॥12॥

अज्ञता चाल्पशक्तित्वं दुःखित्वं स्वल्पकर्तृता ।

अज्ञता चाल्पशक्तित्वं दुःखित्वं स्वल्पकर्तृता । सर्वज्ञतादीशगुणविरुद्धा ह्यनुभूतिगाः ॥13॥

सर्वज्ञतादीशगुणविरुद्धा ह्यनुभूतिगाः ॥13॥

सार्वज्ञादिगुणा विष्णोः श्रुतिषु प्रतिपादिताः ।

सार्वज्ञादिगुणा विष्णोः श्रुतिषु प्रतिपादिताः ।  ‘सत्यः सो अस्य महिमे’(ऋ.सं.८.३.४)त्यादिवाक्यान्मृषा न च ॥14॥

‘सत्यः सो अस्य महिमे’(ऋ.सं.८.३.४)त्यादिवाक्यान्मृषा न च ॥14॥

न च वेदोक्तमिथ्यात्वे मानं तन्मानताऽपि न ।

न च वेदोक्तमिथ्यात्वे मानं तन्मानताऽपि न । अतोऽज्ञासम्भवादेव नाधिकार्यैक्यवादिनाम् ॥15॥

अतोऽज्ञासम्भवादेव नाधिकार्यैक्यवादिनाम् ॥15॥

अतो नाज्ञातमिति च विषयो विषयान्तरे ।

अतो नाज्ञातमिति च विषयो विषयान्तरे । अज्ञाभावात् फलं कस्य योगः शशनृशृङ्गयोः ॥16॥

अज्ञाभावात् फलं कस्य योगः शशनृशृङ्गयोः ॥16॥

दुर्घटत्वं भूषणं चेत् स्यादविद्यात्वमात्मनः ।

दुर्घटत्वं भूषणं चेत् स्यादविद्यात्वमात्मनः । अन्धन्तमोऽप्यलङ्कारो नित्यदुःखं शिरोमणिः ॥17॥

अन्धन्तमोऽप्यलङ्कारो नित्यदुःखं शिरोमणिः ॥17॥

अतो ‘परो मात्रये’(ऋ.सं.७.९९)ति पूर्वश्रुतिनिदर्शितः ।

अतो ‘परो मात्रये’(ऋ.सं.७.९९)ति पूर्वश्रुतिनिदर्शितः ।  ‘अन्यमीश’(श्वे.उ.४.७)मिति श्रुत्या भिन्नजीवदृशं गतः ॥ भिन्नत्वेनात्मसादृश्यदो ‘यदे’(आथ.उ.३.१.३)ति श्रुतेः सदा ॥18॥

‘अन्यमीश’(श्वे.उ.४.७)मिति श्रुत्या भिन्नजीवदृशं गतः ॥ भिन्नत्वेनात्मसादृश्यदो ‘यदे’(आथ.उ.३.१.३)ति श्रुतेः सदा ॥18॥

मायावादतमोव्याप्तमिति तत्त्वदृशा जगत् ।

मायावादतमोव्याप्तमिति तत्त्वदृशा जगत् । भातं सर्वज्ञसूर्येण प्रीतये श्रीपतेः सदा ॥19॥

भातं सर्वज्ञसूर्येण प्रीतये श्रीपतेः सदा ॥19॥

नमोऽमन्दनिजानन्दसान्द्रसुन्दरमूर्तये ।

नमोऽमन्दनिजानन्दसान्द्रसुन्दरमूर्तये । इन्दिरापतये नित्याऽनन्दभोजनदायिने ॥20॥

इन्दिरापतये नित्याऽनन्दभोजनदायिने ॥20॥

Revision as of 04:30, 29 April 2026

उपाधिखण्डनम्

उपाधिखण्डनम्

नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः । अशेषदोषरहितः प्रीयतां कमलालयः ॥1॥

अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन । उपाधिभेदाद्धटत इति चेत् स स्वभावतः ॥2॥

अज्ञानतो वा द्वैतस्य सत्यता स्वत एव चेत् । अनवस्थितिरज्ञानहेतौ वाऽन्योन्यसिद्धिता ॥3॥

चक्रकापत्तिरथवा भेदश्चोपाधितः कुतः । विद्यमानस्य भेदस्य ज्ञापको नैव कारकः ॥4॥

उपाधिर्दृष्टपूर्वो हि खेऽपि देशान्तरस्य सः । ज्ञापको विद्यमानस्य मूढबुद्धिव्यपेक्षया ॥5॥

न चेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः । एकदेशेऽनवस्था स्यात् सर्वगश्चेन्न भेदकः ॥6॥

सुखदुःखादिभोगश्च स्वरूपैक्ये न भेदतः । दृश्यो ह्युपाधिभेदेऽपि हस्तपादादिगो यथा ॥7॥

नानादेहगभोगानुसन्धानं योगिनो यथा । न चेद्भोगानुसन्धानं तदिच्छा योगिनः कुतः ॥8॥

अनुसन्धानरहितदेहबाहुल्यमन्यथा । सिद्धमेव हि तत्पक्षे विशेषो योगिनः कुतः ॥9॥

सिद्धौ हि कर्मभेदस्य स्यादुपाधिविभिन्नता । तत्सिद्धौ चैव तत्सिद्धिरित्यन्योन्यव्यपाश्रयः ॥10॥

आत्मस्वभावभेदस्य विदोषत्वेन चाखिलः । प्रत्यक्षादिविरोधाच्च दुष्टः पक्षोऽयमञ्जसा ॥11॥

चेष्टालिङ्गेन सात्मत्वे परदेहस्य साधिते । अन्यत्वं स्वात्मनस्तस्मात् सर्वैरेवानुभूयते ॥12॥

अज्ञता चाल्पशक्तित्वं दुःखित्वं स्वल्पकर्तृता । सर्वज्ञतादीशगुणविरुद्धा ह्यनुभूतिगाः ॥13॥

सार्वज्ञादिगुणा विष्णोः श्रुतिषु प्रतिपादिताः । ‘सत्यः सो अस्य महिमे’(ऋ.सं.८.३.४)त्यादिवाक्यान्मृषा न च ॥14॥

न च वेदोक्तमिथ्यात्वे मानं तन्मानताऽपि न । अतोऽज्ञासम्भवादेव नाधिकार्यैक्यवादिनाम् ॥15॥

अतो नाज्ञातमिति च विषयो विषयान्तरे । अज्ञाभावात् फलं कस्य योगः शशनृशृङ्गयोः ॥16॥

दुर्घटत्वं भूषणं चेत् स्यादविद्यात्वमात्मनः । अन्धन्तमोऽप्यलङ्कारो नित्यदुःखं शिरोमणिः ॥17॥

अतो ‘परो मात्रये’(ऋ.सं.७.९९)ति पूर्वश्रुतिनिदर्शितः । ‘अन्यमीश’(श्वे.उ.४.७)मिति श्रुत्या भिन्नजीवदृशं गतः ॥ भिन्नत्वेनात्मसादृश्यदो ‘यदे’(आथ.उ.३.१.३)ति श्रुतेः सदा ॥18॥

मायावादतमोव्याप्तमिति तत्त्वदृशा जगत् । भातं सर्वज्ञसूर्येण प्रीतये श्रीपतेः सदा ॥19॥

नमोऽमन्दनिजानन्दसान्द्रसुन्दरमूर्तये । इन्दिरापतये नित्याऽनन्दभोजनदायिने ॥20॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम् उपाधिखण्डनं समाप्तम् ॥