Padyamala: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 9: | Line 9: | ||
<div class="adhyaya-block" data-doc="PM" data-chap="1"> | <div class="adhyaya-block" data-doc="PM" data-chap="1"> | ||
</div> | </div> | ||
<div class="verse" id="PM_C01_V01" type="shloka" data-doc="PM"> | <div class="verse" id="PM_C01_V01" type="shloka" data-doc="PM"> | ||
Revision as of 20:35, 29 April 2026
- भावदीपिका — श्रीराघवेन्द्रतीर्थः
- भावप्रकाशः — श्रीनिवासतीर्थः
- भावविवरणम् — उमर्जी कृष्णाचार्यः
प्रणम्य श्रीपतिं सर्वान् गुरूंश्चाथ प्रवच्म्यहम् । यथामति हरेः पूजाविधिं वैष्णवसम्मतम् ॥ १ ॥
आदौ देवगृहे न्यस्य कलशान् सप्त पञ्च वा । आहरेत्तुलसीं दूर्वां पुष्पाण्यद्यतनानि च ॥ २ ॥
यथाकालोपपन्नानि स्वारामवनजान्यपि । अक्रीतान्यप्रदत्तानि चौर्याल्लब्धानि यानि च ॥ ३ ॥
शूद्राहृतानि वा भूमौ पतितानि तथैव च । एरण्डार्कजपत्रेषु चाहृतानि करे तथा । पटाहृतानि यानि स्युर्वर्जयेत्तानि यत्नतः ॥ ४ ॥
अर्घ्यपाद्यादिसम्भारान् यथाशक्ति विधाय च । प्रक्षाल्य पाणी पादौ चाप्याचम्य हरिवेश्मनः ॥ ६ ॥
पूर्वे नमो जयायाथ विजयायाथ दक्षिणे । श्रियै बलाय प्रबलायाथ प्रत्यक् श्रियैः नमः ॥ ७ ॥
नन्दायाथ सुनन्दाय श्रियै च कुमुदाय च । कुमुदाक्षायोत्तरे च द्वारपालांश्च पूजयेत् ॥ ८ ॥
तदनुज्ञामवाप्याथ ‘वायवायाहि दर्शत’ । अनेन वायुमन्त्रेण समुद्घाट्य कवाटकम् ॥ ९ ॥
कृत्वा तालत्रयं द्वारे देहलीमस्पृशन्विशेत् । दक्षिणाङ्घ्रिं पुरस्कृत्य ‘ह्यग्निनाग्निः समिध्यते’ ॥ १० ॥
अनेन वह्निमन्त्रेण दीपानुद्दीपयेत्ततः । ईक्षया पुष्पक्षेपेण पार्ष्णिघातत्रयेण च । दिव्यन्तरिक्षभूमिष्ठान्विघ्नानुच्चाटयेत्सुधीः ॥ ११ ॥
‘अपसर्पन्तु ये भूता’ इति मन्त्रं पठन्नपि । भूतानुच्चाट्य नाराचमुद्रया बन्धयेद्दिशम् ॥ १२ ॥
अपैवेत्यादि येभ्यश्च एवापित्र ऋचौ पठेत् । निवार्य मानुषं गन्धमेभिर्मन्त्रैस्तु पूजकः ॥ १३ ॥
कल्पयित्वा जवनिकां देवमात्मानमन्तरा । आरुह्य वेदिकां पश्चाद् ब्रह्मपारस्तवं पठेत् ॥ १४ ॥
‘आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् । कुरु घण्टारवं तत्र देवताह्वानलाञ्छनम्’ ॥ १५ ॥
अज्ञानाज्ज्ञानतो वाऽपि कांस्यघण्टां न वादयेत् ॥ १६ ॥
राक्षसानां पिशाचानां तद्देशे वसतिर्भवत् । तस्मात्सर्वप्रयत्नेन घण्टामावादयेत्ततः ॥ १७ ॥
ततो जवनिकां त्यक्त्वा निर्माल्यं विसृजेत्ततः । स्नानपात्रं तथा पीठं यथास्थानं निधाय च । सौवर्णं मण्टपं ध्यायेद्धेमरत्नोपमण्डितम् ॥ १८ ॥
अध्यासितासने स्वस्थोऽपक्रामन्त्विति पूर्वकान् । मन्त्रानुदीर्य भूतानि मुद्रया छोटिकाख्यया ॥ १९ ॥
उत्साद्यासनमन्त्रेण पृथिवीं प्रार्थयेत्ततः । आसने मण्डले चेन्दोः कूर्मस्कन्धेऽहमास्थितः ॥ २० ॥
कल्पयित्वेत्थमासीनो व्याहरेत् भूर्भुवःस्वरोम् । इत्यासनमुपस्पृश्य मण्डूकाय नमस्ततः । कूर्मायाथ वराहाय शेषयाथ नमस्ततः ॥ २१ ॥
नमः कालाग्निरुद्राय वज्राय च नमो नमः । सानुस्वारं चादिवर्णं प्रणवादिमुदीर्य च । नमोऽन्तमिति चैतेषु षट्कं चैव जपेद्बुधः ॥ २२ ॥
उक्तेषु वक्ष्यमाणेषु स्थानेष्वन्येषु सर्वशः । पूजाविधौ च देवानां पीठावरणयोर्वदेत् ॥ २३ ॥
तत्तन्नाम चतुर्थ्यन्तं प्रणवादि नमोऽन्तकम् । नमोऽस्त्राय फडित्युक्त्वा दिशो बध्वेषुमुद्रया ॥ २४ ॥
प्राकारावस्थितं वह्निं ध्यात्वा मुद्रां सुदर्शनीम् । दर्शयेदथ चेन्द्रादिदिक्षु बघ्नामि चाष्टसु ॥ २५ ॥
नमश्चक्राय स्वाहेति मन्त्रमेनमुदीरयेत् । ततस्तिथ्यादि सङ्कीर्त्य स्थितं देशं च संस्मरन् ॥ २६ ॥
‘अनन्तकल्याणगुणैकसिन्धुश्रीविष्णुना प्रेरितमानसोऽहम् । तस्यैव वीर्येण बलेन तेजसा सञ्जीवितस्वान्तवपुश्चिदिन्द्रियः ॥ २७ ॥
प्रीत्यर्थमस्यैव करोमि पूजाविधिं प्रदिष्टं खलु तन्त्रसारे । ब्रह्माण्डसाहस्रपतेर्दयालोर्भक्त्या यथाशक्ति यथैव सम्पत्’॥ २८ ॥
वाय्वग्निवरुणानां च बीजानि यरवाः क्रमात् । प्रत्येकं सम्पुटीकृत्य प्रणवेन च विन्दुना ॥२९ ॥
एभिः कार्यं क्रमात्षोढा करसन्धिषु शोधनम् । ततः सर्वान् गुरुन्नत्वा हृत्पद्माधिष्ठितं प्रभुम् ॥ ३० ॥
सुषुम्नामार्गतो नीत्वा विनिदध्यात्स्वमूर्धनि । ततश्च ब्रह्महत्येति ध्यायेत्स्वं पापपूरुषम् ॥ ३१ ॥
आनीय नाभिदेशेतं वायुबीजेन शोषयेत् । हृद्यग्निबीजतो दग्ध्वा भस्म वामनसा त्यजेत् ॥ ३२ ॥
वारुणेनाथ बीजेन शिरस्थामृतधारया । प्लावयेत्सर्वगात्राणि कृत्वाऽऽत्मानं ततो हृदि ॥ ३३ ॥
प्राणायामं ततः कृत्वा तत्त्वन्यासांस्ततः परम् । मातृकान्यासकान्कृत्वा प्राणानायम्य मूलतः ॥ ३४ ॥
अष्टाक्षरन्यासपूर्वं ध्यात्वो१३द्यद्भास्वदित्यथ । पूजाङ्गमिति मूलं च जपेदष्टोत्तरं शतम् ॥ ३५ ॥
पुनश्चाक्षरविन्यासं कृत्वा ध्यायेद्धरिं पुनः । ततः कृताञ्जलिर्भूत्वा निषुसीदेत्यृचं पठेत् ॥ ३६ ॥
‘आराध्यसे प्राणभृतां प्रणेत्रा प्राणाधिनाथेन समीरणेन । नारायण ज्ञानसुखैकपूर्ण स्वामिन्मम श्रीरमण प्रसीद ॥ ३७ ॥
बिम्बोऽसि प्रतिबिम्बोऽस्मि तव यद्यपि चान्तरम् । स्वामिन् निर्दोष मद्दोषं विरे(वे)चय नमोऽस्तु ते ॥ ३८ ॥
भगवन्यन्मया कर्म शुभं कारयसि प्रभो । तत्सर्वं विष्णुपूजाऽऽस्तु तव देवप्रसादतः’ ॥ ३९ ॥
सम्प्रार्थ्यैवं स्वबिम्बस्थं मुद्रया प्रार्थनाख्यया । कलशं पूजयेत् पश्चादाह्वयेद्देवताशतम् ॥ ४० ॥
मातृका एकपञ्चशच्चतुर्विंशतिमूर्तयः । केशवाद्यस्तथा विश्वतैजसप्राज्ञतुर्यकाः ॥ ४१ ॥
आत्मान्तरात्मपरमज्ञानात्मा वासुदेवकः । सङ्कर्षणश्च प्रद्युम्नोऽनिरुद्धो मत्स्यकच्छपौ ॥ ४२ ॥
क्रोडो नृसिंहः सवटू जामदग्न्यरघूद्वहौ । वासिष्ठयादवौ कृष्णावात्रेयो बुद्धकल्किनौ ॥ ४३ ॥
शिंशुमारश्चेति शतं मूलमूर्त्या समन्वितम् । आहूय पूजयेदेताः स्नानीयकलशे बुधः ॥ ४४ ॥
नैवेद्यप्रोक्षणार्थं च पञ्चपात्रप्रपूरणे । पानीयार्थं पृथक्चैकं कलशत्रितयं भवेत् ॥ ४५ ॥
पञ्चैते कलशाः प्रोक्ता गन्धार्थं द्वौ पुनः पृथक् । सम्भवे सप्त कलशाः पञ्च वाथ त्रयो द्वयम् ॥ ४६ ॥
असम्भवे च सर्वेषां भिन्नपात्राणि कारयेत् । एकस्माद्वाऽपि पश्चात्तं कलशं पूजयेद् बुधः ॥ ४७ ॥
इमं मे चाथ गङ्गे चेत्यादिमन्त्रानुदीरयेत् । सर्वक्षेत्रेति मन्त्रेण कलशं प्रार्थयेत्ततः ॥ ४८ ॥
शङ्खचक्रगदापद्मधेनुतार्क्ष्यादिमुद्रिकाः । प्रदर्श्य मूलमन्त्रं च द्विषड्वारं जपेत्ततः ॥ ४९ ॥
कलशोदकपूर्णं तु ततः शङ्खं प्रपूजयेत् । त्वं पुरेत्यादिकान् मन्त्रान् पठित्वा प्रार्थयेत्ततः ५० ॥
जपेत्त्रिः शङ्खगायत्रीं पुनः शङ्खादिमुद्रिकाः । दर्शयित्वाऽष्टवारं च मूलमन्त्रं जपेत्ततः ॥ ५१ ॥
पात्राण्यासादयेत्पूर्वं पञ्च पूजाविधौ सदा । अर्घ्यं वायुपदे प्रोक्तं नैर्ऋत्यां पाद्यमेव च ॥ ५२ ॥
ईशे त्वाचमनीयं च स्नानीयं चाग्निकोणके । मध्ये द्वे सर्वपात्राणां शुद्धतोयेन पूरयेत् ॥ ५३ ॥
एकं स्यान्मधुपर्केऽन्यत्पुनराचमने तथा । निक्षिपेन्द्गन्धतुलसीपुष्पादीनि यथाविधि ॥
तुलसीदलयुक्तेन शङ्खतोयेन पूजकः । पूजाद्रव्याणि सर्वाणि प्रोक्ष्य पीठं प्रपूजयेत् ॥ ५५ ॥
पूज्यश्च भगवान्नित्यमित्यध्याये यथाक्रमम् । श्रीमध्वगुरुणा प्रोक्तं पीठावरणपूजनम् ॥ ५६ ॥
सूत्रत्वात्तस्य बोधार्थं क्वचिद्वक्ष्यामि विस्तरम् । पीठपूजां विधायाथ २२तत्रावाह्येति सूत्रतः ॥ ५७ ॥
हरिमावाहयेद्भक्त्या तद्विधिः प्रोच्यतेऽधुना । अधोमुखं हृत्कमलं वायुबीजेन चोन्मुखम् ॥ ५८ ॥
कुर्यात्ततोऽस्य मुकुलं ज्ञानार्केण विकासयेत् । तत्कर्णिकास्थितं देवं नारायणमजं विभुम् ॥ ५९ ॥
उद्यद्भास्वदिति ध्यात्वा सपुष्पतुलसीकरः । कृताञ्जालिपुटो भूत्वा आत्मेत्येकामृचं पठेत् ॥ ६० ॥
मूलमन्त्रं ततो जप्त्वा यद्यात्मार्थं प्रपूजयेत् ॥ ६१ ॥
‘एह्येहि मम हृत्पद्मस्थितश्रीपुरुषोत्तम । आवाहयामि पीठे त्वां प्रतिमायां रमापते’ ॥ ६२ ॥
द्विरुच्चार्यैवमावाह्य तमावाहनमुद्रया । ततस्तु प्रार्थनामुद्रां विधाय प्रार्थयेद्धरिम् ॥ ६३ ॥
‘यागावसानपर्यन्तमत्र स्थित्वा जनार्दन । भक्तस्य मम पूजां त्वं गृहीत्वा पाहि मां विभो’ ॥ ६४ ॥
सम्प्रार्थ्यैवं स्वबिम्बख्यं मुद्रा आवाहनादिकाः । षण्मूलमन्त्रपूर्वं तु तं तमर्थमुदीरयेत् ॥ ६५ ॥
आवाहनं स्थापनं च सान्निध्यं सन्निरोधनम् । संमुखीकरणं चैव ह्यवगुण्ठनमेव च ॥ ६६ ॥
प्रदर्श्यैताश्च षण्मुद्राः स्नानार्थं प्रार्थयेत्ततः । परार्थं यदि पूजा स्यात्सूर्याग्न्यन्तर्गतं हरिम् ॥ ६७ ॥
आवाह्य पूर्ववत्कार्यं सर्वमावाहनाकम् । एहि श्रीभगवन्विष्णो स्नानार्थं मज्जनालयम् ॥६८ ॥
सम्प्रार्थ्यैवमिदं विष्णुरित्यृचा पादुकार्पणम् । स्नानालयं समायान्तं ध्यात्वा नारायणं प्रभुम् ॥६९ ॥
स्थापयेत्स्नानपीठे तं भद्रं कर्णेभिरित्यृचा । पुनस्तत्रापि षण्मुद्राः कुर्यादावाहनादिकाः ॥ ७० ॥
ततोऽर्घ्यं मूलमन्त्रेण पाद्यमाचमनीयकम् । मधुपर्कं ततो दद्यात्पुनराचमनं ततः ॥ ७१ ॥
आप्यायस्व दधिक्राव्णो घृतं मिमिक्ष इत्यृचः । मधुवाता तथा स्वादुरिति मन्त्रान्समूलकान् ॥ ७२ ॥
क्रमेणैतान्पठन्पञ्चामृतेन स्नापयेद्धरिम् । पयो दधि घृतं क्षौद्रं शर्करा पञ्चमामृतम् ॥ ७३ ॥
ततः शुद्धोदकस्नानं कारयेत्परमात्मनः । पौरुषं वैष्णवं घार्मं पवस्वेति त्रिवर्गकम् ॥ ७४ ॥
य इन्द्रोरेकवर्गश्च समुद्रादूर्मिरेव च । जितन्त इति च स्तोत्रं पठन्संस्नापयेद्धरिम् ॥ ७५ ॥
ततोऽङ्गमार्जनं वस्त्रं पीतं च परिधानकम् । ततः सर्वाङ्गभूषाश्च नूपुराद्याः किरीटकम् ॥ ७६ ॥
ध्यात्वैव भूषणं किञ्चिन्नवमप्यर्पयेत्सुधीः । यज्ञोपवीतं दत्वा तमासने चोपवेशयेत् ॥ ७७ ॥
अभिषेकात्पुरा वाऽपि पश्चाद्वा परमात्मनि । तत्त्वन्यासादि ध्यानान्तं कृत्वा पूजां समारभेत् ॥ ७८ ॥
आसनस्थं हरिं स्पृष्ट्वा मूलद्वादशकं जपेत् । अर्पयेद्गन्धपुष्पाणि मूलेन तुलसीं तथा ॥ ७९ ॥
ततश्चक्रायुधादीनि पूजयेत्क्रमशो दश । दुर्गा चक्राधिदेवी स्याच्छ्रीश्च शङ्खाधिदेवता ॥ ८० ॥
वायुर्गदाधिदेवः स्याद्भूमिः पद्माभिमानिनी । दुर्गैव खड्गदेवी स्याच्छार्ङ्गं चैव सरस्वती ॥ ८१ ॥
पञ्च प्राणाः पञ्च बाणा विरिञ्चः कौस्तुभात्मकः । श्रीरेव वनमालायां लक्ष्मीः श्रीवत्ससंस्थिता ॥ ८२ ॥
अथावरणपूजायां लक्ष्मीं वामे हरेर्यजेत् । धरां तु पश्चिमे पार्श्वे ततः पूर्वादिदिक्षु च ॥ ८३ ॥
क्रुद्धोल्काय महोल्काय वीरोल्काय नमस्ततः । द्यूल्काय च नमस्कुर्यादुदीच्यां दिशि च क्रमात् ॥ ८४ ॥
सहस्रोल्कायेति चतुर्नम अग्न्यादिकोणतः । पुनः पूर्वादिकाष्ठासु वासुदेवादिकान्यजेत् ॥ ८५ ॥
मायां जयां कृतिं शान्तिं यजेत्कोणेषु च क्रमात् । केशवाद्यास्ततो मूर्तीर्द्वादश क्रमतो यजेत् ॥ ८३ ॥
दिशि द्वे द्वे कोण एक ईशे दामोदरो भवेत् । सङ्कर्षणादिकृष्णान्ता मूर्तयो द्वादश क्रमात् ॥ ८७ ॥
मत्स्यादिमूर्तयोऽप्येवं द्वादशान्तं क्रमाद्यजेत् । ऐशान्यां विश्वरूपः स्यात्क्रमेणानेन पूजयेत् ॥ ८८ ॥
सर्वदिक्षु पुरश्चापि ह्यनन्तादीन् सभार्यकान् । इन्द्रादींश्च सपत्नीकान् परिग्रहयुतानपि ॥ ८९ ॥
पूजयेत्क्रमशो धीमान् स्वासु दिक्षु स्थितान् बहिः । पश्चात्पुरस्ताच्छेषं च विधिं चैव सभार्यकम् ॥ ९० ॥
पूजयित्वा ततः पूज्या द्वादशद्वारपालकाः । प्रथमो वज्रनाभश्च हरीशश्च ततः परम् ॥ ९१ ॥
तृतीयो गाङ्गतनयस्ततः शङ्खनिधीश्वरः । जयश्च विजयः पश्चाद्धाता सप्तमको मतः ॥ ९२ ॥
विधाता च ततो भद्रः सुभद्रोऽथामृतेश्वरः । विरूपाक्षोऽन्तिमश्चैव नमश्शब्देन पूजयेत् ॥ ९३ ॥
वनस्पत्युद्भवेत्यादिमन्त्रैर्मूलपुरस्सरैः । धूपं दत्वा ततो दीपं दद्यान्मूलमुदीरयेत् ॥ ९४ ॥
साज्यं त्रिवर्तिमन्त्रेण ततो नैवेद्यमर्पयेत् । देवस्याग्रे शुभं शोध्य श्रीबीजं तत्र संलिखेत् ॥ ९५ ॥
नैवेद्यमुपरिस्थाप्य शुद्धतोयेन प्रोक्षयेत् । सौवर्णैरिति मन्त्रेण मूलमन्त्रेण मन्त्रयेत् ॥ ९६ ॥
अमृतस्राविणीं धेनुं नैवेद्योपरि चिन्तयेत् । धेनुमुद्रां प्रदर्श्योच्चां सुरभ्यै नम इत्यपि ॥ ९७ ॥
हुंफडन्तं सह स्वाहेत्युक्त्वा मुद्रां सुदर्शनीम् । गारुडीं चाथ सन्दर्श्य गृहीत्वाऽथ करे जलम् ॥ ९८ ॥
परिषिञ्चामि सत्यं त्वर्तेनेति च क्रमाद्वदेत् । परितः सिञ्चयेत्तोयं तत आपोशनं क्षिपेत् ॥ ९९ ॥
‘सुधारसं सुविपुलमापोशनमिदं तव । गृहाण कलशानीतं यथेष्टमुपभुज्यताम् ॥ १०० ॥
इति मन्त्रमुदीर्याथ देवदक्षिणहस्तके । लक्ष्म्या प्रदीयमानं च सुधारसमयं शुभम् ॥ १०१ ॥
आपोशनमिदं ध्यात्वाऽमृतोपस्तरणमसि । इत्युक्त्वाऽऽपोशनोच्छिष्टं जलं पात्रान्तरे क्षिपेत् ॥ १०२ ॥
ततः प्राणात्मने पूर्वमुक्त्वा नारायणाय च । स्वाहान्तमिति पञ्चैता आहुतिः क्रमशो वदन् ॥ १०३ ॥
शङ्खतोयं क्षिपेत्पात्रे प्रत्याहुत्येकपात्रकम् । मधुवाता तथा स्वादु भोजं त्वेति पठेदृचः ॥ १०४ ॥
पानीयमर्पयेत्पश्चात्ततो जवनिकां क्षिपेत् । भुञ्जानं चिन्तयन्मूलं जपेदष्टोत्तरं शतम् ॥ १०५ ॥
उत्तरापोशनं पश्चादमृतापिधानमसि । इत्युक्त्वाऽपोशनोच्छिष्टजलं पात्रान्तरे क्षिपेत् ॥ १०६ ॥
वामे गण्डूषपात्रं स्यात्तत्र गण्डूषमर्पयेत् । हस्तप्रक्षालनं दत्वा पश्चादाचमनं क्षिपेत् ॥ १०७ ॥
मूलेन पुष्पत्रितयमर्पयित्वा ततो वदेत् । ‘पूगीफलं सखदिरचूर्णकर्पूरसंयुतम् ॥ १०८ ॥
नागवल्लीदलैर्युक्तं ताम्बूलं गृह्यतां विभो’ । इति ताम्बूलकं दद्यान्नाकस्येति च दक्षिणाम् ॥ १०९ ॥
जयत्यादि पठन्मन्त्रान्पुनर्धूपं समर्पयेत् । अर्चतेत्यादिकानन्मन्त्रान्पठन्नीराजयेद्धरिम् ॥ ११० ॥
पुष्पाण्यष्टौ समार्प्याथ मूलमन्लेण वैष्णवः । वेदमन्त्रैश्च पौरणैरर्पयेत्कुसुमाञ्जलिम् ॥ १११ ॥
चामरं दर्पणं छत्रं वाहनादि निवेदयेत् । महाराजोपचारांश्च गीतवादित्रनृत्यकान् ॥ ११२ ॥
सर्वं निवेदयेद्भक्त्या मूलमन्त्रेण साधकः । ततः शुद्धेन तोयेन शङ्खमापूर्य मुद्रिकाः ॥ ११३ ॥
धेन्वादीः सम्पदर्श्याथ तोयं शङ्खगतं स्पृशेत् । अष्टवारं जपेन्मूलं भ्रामयेत्त्रिः प्रदक्षिणम् ॥ ११४ ॥
शङ्खोदकं तु तत्पात्रे स्थापयित्वा पृथक् सुधीः । प्रदक्षिणनमस्कारान्सूक्तपाठं ततश्चरेत् ॥ ११५ ॥
आरुह्य वेदिकां पश्चात्पूजासाद्गुण्यकारकम् । मूलमन्त्रं हरिं ध्यायन् जपेदष्टोत्तरं शतम् ॥ ११६ ॥
रमाब्रह्मादिदेवानां दत्वा तीर्थादिकं बलिम् । तत्त्वन्यासान् मातृकाश्च पुनर्मूर्तौ समाचरेत् ॥ ११७ ॥
पुनर्ध्यात्वा हरिं देवमात्मा देवेत्यृचं पठेत् । तत आवाहनीं मुद्रां व्युत्क्रमेण विधाय च ॥११८ ॥
एह्येहीति पुनः प्रोच्य पुनरावहयेद्धृदि । तथैव परपूजायां रव्यादौ तं निधापयेत् ॥ ११८ ॥
‘याचेऽहं त्वां हृषीकेश नमामि पुरुषोत्तम । हृदि मे कुरु संवासं श्रिया सह जगत्पते ॥११९ ॥
इति प्रार्थ्य हरिं पश्चाद्विदध्यात्तत्त्वमातृकाः । ध्यात्वा समर्पयेद्विष्णुं यस्य स्मृत्येति मन्त्रतः ॥ १२० ॥
तीर्थप्रसादगन्धादीन् दत्वा विष्णुपराय च । ततः स्वयं तु गृह्णीयाद्भक्त्या नत्वा हरिं स्मरन् ॥ १२१ ॥
पद्यपाठे मनुष्याणां श्रमो नातिभवेदिति । तन्त्रसारोक्तपूजायां पद्यमालोयमीरिता । अनेन भगवान् विष्णुः प्रीतो भवतु सर्वदा ॥ १२२ ॥
प्रमादतो निरोधाद्वा हरेः पूजा भवेन्न चेत् । पठनात्पद्यमालायाः नरः पूजाफलं लभेत् ॥ १२३ ॥
इति श्रीजयतीर्थार्यभिक्षुणा रचिता सती । तन्त्रसारोक्तपूजानुसारिणी पद्यमालिका ॥ १२४ ॥