Jump to content

Tantrasarasangraha: Difference between revisions

From Anandamakaranda
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)

Line 4: Line 4:

== प्रथमाध्यायः ==
== प्रथमाध्यायः ==

Line 677: Line 675:

== द्वितीयोध्यायः ==
== द्वितीयोध्यायः ==

Line 900: Line 896:

== तृतीयोध्यायः ==
== तृतीयोध्यायः ==

Line 2,324: Line 2,318:

== चतुर्थोध्यायः ==
== चतुर्थोध्यायः ==

Latest revision as of 20:49, 29 April 2026

तन्त्रसारसङ्ग्रहः

प्रथमाध्यायः

जयत्यब्जभवेशेन्द्रवन्दितः कमलापतिः । अनन्तविभवानन्दशक्तिज्ञानादिसद्गुणः ॥1॥

विधिं विधाय सर्गादौ तेन पृष्टोब्जलोचनः । आह देवो रमोत्सङ्गवलिसत्पादपल्लवः ॥2॥

अहमेकोखलिगुणो वाचकः प्रणवो मम । अकाराद्यतिशान्तान्तः सोयमष्टाक्षरो मतः ॥3॥

स विश्वतैजसप्राज्ञतुरीयात्मान्तरात्मनाम् । परमात्मज्ञानात्मयुजां मद्रूपाणां च वाचकः ॥4॥

तद्रूपभेदाः पञ्चाशन्मूर्तयो मम चापराः । पञ्चाशद्वर्णवाच्यास्ता वर्णास्तारार्णभेदिताः ॥5॥

द्विरष्टपञ्चकचतुःपञ्चेत्येवाष्टवर्गगाः । अज आनन्द इन्द्रेशावुग्र ऊर्ज ऋतम्बरः ॥6॥

ऋॄघलृशौ लॄजिरैकत्मैर ओजोभृदौरसः । अन्तोर्धगर्भः कपलिः खपतिर्गरुडासनः ॥7॥

घर्मो ङसारस्चार्वाङ्गश्छन्दोगम्यो जनार्दनः । झटितारिर्ञमष्टङ्की ठलको डलको ढरी ॥8॥

णात्मा तारस्थमो दण्डी धन्वी नम्यः परः फली । बली भगो मनुर्यज्ञो रामो लक्ष्मीपतिर्वरः ॥9॥

शान्तसंवित् षड्गुणश्च सारात्मा हंसळाळुकौ । पञ्चाशन्मूर्तयस्त्वेता ममाकारादलिक्षकाः ॥10॥

नारायणाष्टाक्षरश्च ताराष्टाक्षरभेदवान् । आद्यैस्तारचतुर्वणैर्भिन्ना व्याहृतयः क्रमात् ॥11॥

अनिरुद्धादिकास्तासां देवता व्युत्क्रमेण वा । ताश्चतुर्मूर्तयस्त्वेव द्वादशार्णपदोदिताः ॥12॥

नारायणाष्टाक्षराच्च व्याहृतिभ्यस्तथैव च । विभेदो द्वादशार्णानां केशवाद्याश्च देवताः ॥13॥

नारायणाष्टाक्षराच्च व्याहृतित्रिगुणात् पुनः । वेदमाता च गायत्री द्विगुणा द्वादशाक्षरात् ॥14॥

चतुर्विशन्मूतयोस्याः कथिता वर्णदेवताः । तद्भेदः पौरुषं सूक्तं वेदाः पुरुषसूक्तगाः ॥15॥

वैदिकास्सर्वशब्दाश्च तस्मात् सर्वाभिधोस्म्यहम् । पञ्चाशद्वर्णभिन्नाश्च सर्वशब्दा अतोपि च ॥16॥

ऋषिश्च देवतैकोहं तारादीनां विशेषतः । छन्दो मदीया गायत्री ताराष्टाक्षरयोर्मता ॥17॥

उद्यद्भास्वत्समाभासश्चिदानन्दैकदेहवान् । चक्रशङ्खगदापद्मधरो ध्येयोहमीश्वरः ॥18॥

लक्ष्मीधराभ्यामाश्लिष्टः स्वमूर्तिगणमध्यगः । ब्रह्मवायुशिवाहीशविपैः शक्रादिकैरपि ॥19॥

सेव्यमानोधिकं भक्त्या नित्यनिःशेषशक्तिमान् । मूर्तयोष्टावपि ध्येयाश्चक्रशङ्खवराभयैः । युक्ताः प्रदीपवर्णाश्च सर्वाभरणभूषिताः ॥20॥

तादृग्रूपाश्च पञ्चाशज्ज्ञानमुद्राभयोद्यताः । टङ्की दण्डी च धन्वी च तत्तद्युक्तस्तु वामतः ॥21॥

वासुदेवादिकाः शुक्लरक्तपीतासितोज्ज्वलाः । शङ्खचक्रगदाब्जेतः प्रथमो मुसली हली ॥22॥

सशङ्खचक्रस्त्वपरस्तृतीयः शार्ङ्गबाणवान् । सशङ्खचक्रस्तुर्यस्तु चक्रशङ्खासिचर्मवान् ॥23॥

केशवो मधुसूदनः सङ्कर्षणदामोदरौ । सवासुदेवप्रद्युम्नाः दक्षोच्चकरशङ्खिनः ॥24॥

विष्णुमाधवानिरुद्धपुुरुषोत्तमाधोक्षजाः । जनार्दनश्च वामोच्चकरशङ्खिनः ॥25॥

गोविन्दश्च त्रिविक्रम्ूससश्रीधरहृषीकपाः । नृसिंहश्चाच्युतश्चैव वामाधःकरशङ्खिनः ॥26॥

वामनः सनारायणः पद्मनाभ उपेन्द्रकः । हरिः कृष्णश्च दक्षाधःकरे शङ्खधरा मताः ॥27॥

शङ्खचक्रगदापद्मधराश्चैते हि सर्वशः । क्रमव्युत्क्रमपद्मादिगदादिव्युत्क्रमस्तथा ॥ अर्धक्रमः सान्तरश्च षट्सु षट्स्वरिपूर्विणाम् ॥28॥

वर्णानां देवतानां च नित्यत्वाच्च क्रमः स्वतः । व्यक्तिक्रमं ब्रह्मबुद्धावपेक्ष्य क्रम उच्यते ॥29॥

समासव्यासयोगेन व्याहृत्यादीनां चतुष्टयम् । सत्यं चाङ्गानि तारस्य प्रोच्यन्तेष्टाक्षरस्य च ॥30॥

क्रुद्धमहावीरद्युल्कसहस्रसहितोल्ककाः । चतुर्थ्यन्ताः हृदादीनि पृथग्रूपाणि तानि च ॥31॥

विष्णोरेवात्यभेदेपि तदैश्वर्यात् तदन्यवत् । चक्रशङ्खवराभीतिहस्तान्येतानि सर्वशः ॥32॥

मूलरूपसवर्णानि कृष्णवर्णा शिखोच्यते । चतुर्विंशन्मूर्तयश्च मूलरूपसवर्णकाः ॥33॥

आदिवर्णत्रयं नाभिहृच्छिरस्सु यथाक्रमम् । न्यसनीयं च तद्वर्णदेवताध्यानपूर्वकम् ॥34॥

पज्जानुनाभिहृदयवाङ्नासानेत्रकेषु च । अष्टाक्षराणां न्यासः स्यात् व्याहृत्यादीनां प्रजापतिः ॥35॥

मुनिश्छन्दस्तु गायत्री देवता भगवान् हरिः । उद्यदादित्यवर्णश्च ज्ञानमुद्राभयोद्यतः ॥36॥

तारेण व्याहृतीभिश्च ज्ञेयान्यङ्गानि पञ्च च । नाभिहृत्केषु सर्वेषु चतस्रो व्याहृतीर्न्यसेत् ॥37॥

द्वादशार्णस्य जगती च्छन्दोन्यत्तारवत् स्मृतम् । अच्छवर्णोभयवरकरो ध्येयोमितद्युतिः ॥38॥

पदैर्व्यस्तैः समस्तैश्च ज्ञेयान्यङ्गानि पञ्च च । अष्टाक्षराणां स्थानेषु बाह्वोरूर्वोश्च विन्यसेत् ॥39॥

विश्वामित्रस्तु सन्ध्यार्थे तदन्यत्र प्रजापतिः । मुनिर्देवस्तु सवितृनामा स्रष्टृत्वतो हरिः ॥40॥

प्रोद्यदादित्यवर्णश्च सूर्यमण्डलमध्यगः । चक्रशङ्खधरोङ्कस्थदोर्द्वयो ध्येय एव च ॥41॥

सताराश्च व्याहृतयो गायत्र्यङ्गानि पञ्च च । दोःपत्सन्धिषु साग्रेषु नाभिहृन्मुखेषु च ॥42॥

वर्णन्यासश्च कर्तव्यस्तारवन्निखलिं स्मृतम् । पञ्चाशदक्षराणां च पुंसूक्तस्यापि सर्वशः ॥43॥

अनुष्टुभश्च त्रिष्टुप् च छन्दोस्य त्रिष्टुभोपि वा । विष्णुशब्दश्चतुर्थ्यन्तो हृदयेन षडक्षरः ॥44॥

तारवत् सर्वमस्यापि श्यामो ध्येयो हरिः स्वयम् । वर्णा एव षडङ्गानि षणयोर्भेदयोगतः ॥45॥

पज्जानुनाभिहृन्नासाकेषु न्यासश्च वर्णशः । एते तु सर्वमन्त्राणां मूलमन्त्रा विशेषतः ॥46॥

एतज्ज्ञानात् समस्तं च ज्ञानं स्याच्छब्दगोचरम् । एतज्जपात् समस्तानां मन्त्राणां जापको भवेत् ॥47॥

पूज्यश्च भगवान् नित्यं चक्राब्जादिकमण्डले । हृदये वा चले वापि जले वा केवले स्थले ॥48॥

अष्टाक्षरेण सम्पूज्य प्रथमं देवतां पराम् । मध्ये सव्ये गुरूंश्चैव दक्षिणे सर्वदेवताः ॥49॥

पुनः सव्ये सर्वगुरूनाग्नेयादिषु च क्रमात् । गरुडं व्यासदेवं च दुर्गां चैव सरस्वतीम् ॥50॥

धर्मं ज्ञानं च वैराग्यमैश्वर्यं चैव कोणगान् । तदन्तः पूर्वदिक्पूर्वमधर्मादींश्च पूजयेत् ॥51॥

अपूजिता अधर्मादिदातारस्ते तथाभिधाः । निर्ऋतिश्चैव दुर्गा च कामो रुद्रश्च देवताः ॥52॥

यमवायुशिवेन्द्राश्च ज्ञेया धर्मादिदेवताः । परमः पुरुषो मध्ये शक्तिराधाररूपिणी ॥53॥

कूर्मोनन्तश्च पृथिवी क्षीरसागर एव च । श्वेतद्वीपो मण्टपश्च दिव्यरत्नमयो महान् ॥54॥

पद्ममेतत्त्रयं देवी रमैव बहुरूपिणी । सूर्यसोमहुताशाश्च पद्मे श्रीस्त्रिगुणात्मिका ॥55॥

आत्मान्तरात्मपरमज्ञानात्मानश्च मूर्तयः । विमलोत्कर्षिणी ज्ञाना क्रिया योगा तथैव च ॥56॥

प्रह्वी सत्या तथेशानानुग्रहा चेति शक्तयः । अष्टदिक्षु च मध्ये च स्वरूपाण्येव ता हरेः ॥57॥

ततोनन्तं योगपीठस्वरूपं पूजयेद्धरेः । तत्रावाह्य हरिं चार्घ्यं पाद्यमाचमनीयकम् ॥58॥

मधुपर्कं पुनश्चाचां स्नानं वासो विभूषणम् । उपवीतासने दत्वा गन्धपुष्पे तथैव च ॥59॥

लक्ष्मीधरे यजेत्तत्र पार्श्वयोरुभयोर्हरेः । हृदयादींस्तथेन्द्रादिदिक्ष्वस्त्रं कोणकेषु च ॥60॥

वासुदेवादिकान् दिक्षु केशवादींस्ततः परम् । मत्स्यं कूर्मं वराहं च नारसिंहं च वामनम् ॥61॥

भार्गवं राघवं कृष्णं बुद्धं कल्किनमेव च । अनन्तं विश्वरूपं च तद्बहिः पूजयेत् क्रमात् ॥62॥

अनन्तब्रह्मवाय्वीशान् वीशं चाग्रे प्रपूजयेत् । वारुणीं चैव गायत्रीं भारतीं गिरिजामपि ॥63॥

कोणेषु वीन्द्रवामे च सौपर्णीं पूजयेदपि । इन्द्रादीन् शेषविध्यन्तान् सभार्यान् सपरिग्रहान् ॥64॥

धूपदीपौ ततो दत्वा नैवेद्यं मूलमन्त्रतः । अनेन क्रमयोगेन जुहुयात् संस्कृतेनले ॥65॥

पुष्पाञ्जलिश्च होमश्च मूलेनाष्टोत्तरं शतम् । सकृत् सकृत् पुष्पमन्यैर्होमस्तस्य चतुर्गुणः ॥66॥

विसर्जयित्वा नैवेद्यं मूलेन त्रिः समर्च्य च । धूपदीपौ पुनर्दत्वा पुनर्मूलेन पूर्ववत् ॥67॥

अर्चयित्वा पुनर्ध्यात्वा जपेदष्टोत्तरं शतम् । पुनर्ध्यायेद्धरिं सर्वदेवदेवेश्वरं प्रभुम् ॥68॥

जपध्यानहुतार्चादीनेवं यः कुरुते सदा । धर्मार्थकाममोक्षाणां भाजनं स्यात् स एव हि ॥69॥

सर्वोत्तमं हरिं ज्ञात्वा य एवं भक्तिपूर्वकम् । जपध्यानादिभिर्नित्यं पूजयेन्नास्य दुर्लभम् ॥70॥

भक्तिं कृत्वान्यदेवेषु ब्रह्मरुद्रादिकेष्वपि । सर्वोत्कर्षमविज्ञाय विष्णोर्याति तमो ध्रुवम् ॥71॥

न यज्ञा न च तीर्थानि नोपवासव्रतानि च । दैवतानि च सर्वाणि त्रातुं तं शक्नुयुः क्वचित् ॥72॥

हरिर्हि सर्वदेवानां परमः पूर्णशक्तिमान् । स्वतन्त्रोन्ये तद्वशा हि सर्वेतः स जगद्गुरुः ॥73॥

ब्रह्मादयश्च तद्भक्त्या भागिनो भोगमोक्षयोः । तस्माज्ज्ञेयश्च पूज्यश्च वन्द्यो ध्येयः सदा हरिः ॥74॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते तन्त्रसारसङ्ग्रहे प्रथमोध्यायः

द्वितीयोध्यायः

यस्य कस्यापि मन्त्रस्य न्यासः पञ्चाशदक्षरैः । वीर्यदः केभितो वक्त्रमक्षिकर्णेषु नासयोः ॥1॥

गण्डयोरोष्ठयोर्दन्तपङ्क्योर्मूर्धनि वाचि च । दोःपत्सन्धिषु साग्रेषु पार्श्वयोः पृष्ठगुह्ययोः ॥2॥

तुन्दे च हृदि धातूनां सप्तके प्राणजीवयोः । सक्षकारान् न्यसेद्वर्णान् नृसिंहः क्षस्य देवता ॥3॥

जपे न्यासे च विहितः क्षोक्षराणां सदान्ततः । प्राणायामो रेचयित्वा पूरयित्वा च कुम्भके ॥4॥

तारैस्त्रिद्वादशावृत्तैद्य्वेकद्वादशकेन वा । तत्तन्मन्त्रेण वा कार्यो गायत्र्या दशतारकैः ॥5॥

आदावेव जपे कुर्याच्छोषणं दहनं प्लुतिम् । वाय्वग्निवारुणैर्बीजैर्ध्यात्वा तन्मण्डले हरिम् ॥6॥

एकपञ्चाशद्वर्णानां चतुर्विंशतिमूर्तयः । आत्माद्या वासुदेवाद्या विश्वाद्या मत्स्यकच्छपौ ॥7॥

कोलो नृसिंहः सवटुर्जामदग्न्यरघूद्वहौ । वासिष्ठयादवौ कृष्णावात्रेयो बुद्धकल्किनौ ॥8॥

शिंशुमारश्चेति शतं कलाः कलशनामकाः । एताभिः सहितां मूलमूर्तिं कुम्भोदके सुधीः ॥9॥

पूर्वोक्तविधिनाभ्यर्च्य प्रतिमां शिष्यमेव च । स्नापयेत् पूर्वमर्चायां जपोनूनः सहस्रतः ॥10॥

मूलमन्त्रस्य चाङ्गानां न्यासः स्नानादनन्तरम् । प्रतिमायां सन्निधिकृच्छिष्ये माहात्म्यकृद्भवेत् ॥11॥

कलशः कीर्तिमायुष्यं प्रज्ञां मेधां श्रियं बलम् । योग्यतां पापहानिं च पुण्यवृद्धिं च साधयेत् ॥12॥

उपसर्गेषु जातेषु दैवभूतात्महेतुषु । आयुषे वाथ शान्त्यै वा श्रिये वा पुण्पवृद्धये ॥13॥

योग्यतायै मन्त्रसिध्यै विष्णोः प्रीत्यर्थमेव वा । जुहुयात् सहस्रमयुतं लक्षं कोटिमथापि वा ॥14॥

पूर्ववत्संस्कृते वह्नौ ध्यात्वा देवं जनार्दनम् । कृत्वा त्रिमेखलं कुण्डं चतुर्विंशाङ्गुलोच्छ्रितम् ॥15॥

तावत्खातं चतुष्कोणमुच्छ्रितं द्वादशैव वा । द्य्वङ्गुलं त्र्यङ्गुलं वापि चतुरङ्गुलमेव वा ॥16॥

विस्तारो मेखलानां स्यादन्त्या वा चतुरङ्गुला । चतुर्विंशाङ्गुलं वा तद्विस्तारो द्वादशैव वा ॥17॥

अश्वत्थपत्राकृतिः स्यान्मूलतो द्वादशाङ्गुला । योनिः खाते च विनता प्रविष्टा द्य्वङ्गुलं तथा ॥18॥

तदात्मनि हरिं ध्यात्वा कुण्डे देवीं श्रियं तथा । विष्णुवीर्यात्मकं वह्निं निक्षिपेत् प्रणवेन हि ॥19॥

कुर्यात् क्रियाः षोडश च व्याहृतीभिः पृथक् पृथक् । वह्नेस्तद्गहरेः प्रीतिं कुर्वन् द्रव्यैर्यजेत्ततः ॥20॥

आज्येन वा पायसेन समिद्भिः क्षीरिणामथ । तलिैर्वाथ तण्डुलैर्वापि मधुरैस्त्रिभिरेव वा ॥21॥

ब्रह्मवृक्षसमिद्भिर्वा समिद्भिर्वामृतोद्भवैः । अमृताः समिधो ज्ञेयाः सर्वत्र चतुरङ्गुलाः ॥22॥

एवमेव तु दीक्षायामाज्येनैवाहुतिक्रिया । पूजा च कार्या विधिवत् पूर्वं सर्वहुतेष्वपि ॥23॥

गुरवे दक्षिणां दद्यात् लक्षे लक्षे शतं सुधीः । आत्मनैव कृते होमे शक्तितो गुरुदक्षिणाम् ॥24॥

तृतीयोध्यायः

प्रतिष्ठां कारयन् विष्णोः कुर्यात् सुप्रतिमां बुधः । लोहैर्वा शलिया दार्वा मृदा वापि यथाक्रमम् ॥1॥

षण्णवत्यङ्गुलां योग आसीनामथवा स्थिताम् । शयानां वा मुमुक्षूणां व्याचक्षाणां निजां स्थितिम् ॥2॥

मुखादूर्ध्वं द्य्वङ्गुलोच्चां नवाङ्गुललसन्मुखाम् । सुवृत्तत्र्यङ्गुलग्रीवामा स्तनाच्च षडङ्गुलाम् ॥3॥

पञ्चादशाङ्गुलां नाभेरा सार्धदशकाङ्गुलाम् । वृषणादामूलतश्च सार्धद्य्वङ्गुलमायताम् ॥4॥

तावदा गुदतो दीर्घां चैत्यादाष्टादशाङ्गुलाम् । तथा द्य्वङ्गुलचैत्यां च द्वाविंशज्जङ्घया युताम् ॥5॥

आरभ्य गुल्फमध्यं च सहार्धचतुरङ्गुलाम् । षडङ्गुलोच्चप्रपदां सार्धद्य्वङ्गुलमेव च ॥6॥

प्रपदोच्चयुतामन्ते द्य्वङ्गुलप्रपदोच्छ्रयाम् । त्र्यङ्गुलद्य्वङ्गुलामर्धहीनमध्याङ्गुलामपि ॥7॥

त्रिपदाङ्गुलहीनान्यां ततस्तादृशतत्पराम् । पादोनोच्चाङ्गुष्ठनखां तदर्धतदनन्तराम् ॥8॥

क्रमशः पादहीनान्यां रक्तपादनखां शुभाम् । विस्तारः प्रपदस्यापि षडङ्गुल उदाहृतः ॥9॥

अङ्गुष्ठपरिणाहस्तु चतुरङ्गुल ईरितः । त्र्यङ्गुलं तु तदन्यस्य व्रीह्यार्धोनाः क्रमात् पराः ॥10॥

दशङ्गुलं जङ्घमूलं मध्यं तु त्र्यङ्गुलाधिकम् । सप्तादशाङ्गुलं तूर्ध्वं जानुरष्टादशाङ्गुलः ॥11॥

ऊर्वन्तोपि तथा ज्ञेयो मध्यं द्विर्द्वादशाङ्गुलम् । चतुरङ्गुलाधिकं मूलं गुह्यं सार्धचतुष्टयम् ॥12॥

सार्धत्रयं परीणाहाद् वृषणं चतुरङ्गुलम् । सप्ताङ्गुलं परीणाहात् वृत्तं प्रोक्तं समस्तशः ॥13॥

अष्टत्रिंशाङ्गुलं कट्याः परीणाह उदाहृतः । सुवृत्तत्वं तथा श्रोण्योः पीनत्वं च समस्तशः ॥14॥

विस्तारश्च तथा कट्याः सुप्रतिष्ठितता पदोः । कट्याश्चैवाङ्गुलाधिक्यं नाभेरध उदाहृतम् ॥15॥

नाभिः सार्धाङ्गुलश्चैव गम्भीरोर्धाङ्गुलोन्नतः । वृत्तः प्रदक्षिणश्चैव द्विचत्वारिंशदङ्गुलम् ॥16॥

मध्यं स्तने परीणाहः षडङ्गुलमतोधिकः । एकोनविंशाङ्गुलं तदुरोविस्तारलक्षणम् ॥17॥

पादोनमङ्गुलं चैव भुजाभ्यां सह सार्धकम् । अंसयोर्विस्तृतिश्चैव पृथगष्टाङ्गुला मता ॥18॥

सप्ताङ्गुलोच्छ्रयः कक्षादुपरि स्कन्धयोर्मतः । अष्टत्रिंशाङ्गुलञ्चैव हस्तयोर्मानमुच्यते ॥19॥

अष्टादशाङ्गुलो बाह्वोः परिणाह उदाहृतः । क्रमादूनं तदन्ते च सार्धाष्टाङ्गुलमीरितम् ॥20॥

साङ्गुलस्तु तलः सार्धनवाङ्गुल उदाहृतः । समं तदुभयं ज्ञेयं तथैव तलविस्तृतिः ॥21॥

अर्धाङ्गुलोन्नता मध्या द्वयोः सार्धाङ्गुलोन्नता । कनिष्ठिकायास्तस्यास्तु व्रीहिमात्राधिकः परः ॥22॥

सार्धत्रयपरीणाहौ मध्यज्येष्ठावुदाहृतौ । अन्यौ व्रीहितदर्धोनावन्या सार्धद्वयाङ्गुला ॥23॥

पादोनान्तपरीणाहाः सर्वे ज्येष्ठां विना स्मृताः । वक्षोविस्तारसदृशऋ परिणाहो गलस्य च ॥24॥

ललाटकुक्षिकण्ठास्तु दीर्घरेखात्रयान्विताः । वृत्तो गलो बाहवश्च स्तनावङ्गुलयस्तथा ॥25॥

रक्तास्तलनखाश्चैव नेत्रान्तोधर एव च । उत्तरोष्ठश्च जिह्वा च नखौ पादोनकाङ्गुलौ ॥26॥

अर्धाङ्गुलौ तथा मध्यावन्येष्टांशक्रमोनकाः । नासिकया अधस्ताच्च नासिका च रराटिका ॥27॥

समा मानेन नासाया उच्चत्वेनैव मापने । अर्धाङ्गुलधिकं सर्वं मुखस्य तु भविष्यति ॥28॥

चतुरङ्गुलं तथैवास्यं सार्धव्रीह्यधरं स्मृतम् । उत्तरं व्रीहिमात्रं तु तदूर्ध्वं चाधरोपमम् ॥29॥

सार्धाङ्गुलमधः प्रोक्तमधरादध एव च । आस्यपार्श्वद्वयं प्रोक्तमाकर्णात्तु षडङ्गुलम् ॥30॥

सप्ताङ्गुलं नासिकायाः पार्श्वमा कर्णतः स्मृतम् । सपादाङ्गुमुच्चा च नासिका परिकीर्तिता ॥31॥

अर्धाङ्गुले पुटे तस्या मध्यं च समुदाहृतम् । नासिका व्रीहिविस्तारा चक्षुषी चाङ्गुलत्रये ॥32॥

अङ्गुलं चैव विस्तीर्णे फुल्लेर्धं च तदन्यथा । चतुरङ्गुलौ भ्रुवौ चैव तथार्धाङ्गुलविस्तृतौ ॥33॥

असंहतौ च निबिडौ तथा पक्ष्म सुनीलकम् । कर्णौ च त्र्यङ्गुलौ सार्धद्वयविस्तारसंयुतौ ॥34॥

सकुण्डलं तावदेव विवरं सम्प्रकीर्तितम् । तथा द्य्वङ्गुलविस्तारो लताभ्यां सह कथ्यते ॥35॥

कर्णपूरयुतौ कर्णावुत्पलाभ्यां च संयुतौ । नीलालकसहस्रेण युक्तं तन्मुखपङ्कजम् ॥36॥

ललाटं सुविशालं च तथा सार्धनवाङ्गुलम् । विस्तारो मूध्नि वृत्तं च शिरः छत्राकृतिः स्मृतम् ॥37॥

दीर्घाश्च कुञ्चिताग्राश्च नीलाश्च केशा हरेर्मताः । मुखमानेन चैवोच्चं किरीटं केशवस्य हि ॥38॥

कुण्डले मकराकारे वक्षश्चैव सकौस्तुभम् । सश्रीवत्सं दक्षिणतः पीनतुङ्गमुदाहृतम् ॥39॥

हारग्रैवेयसहितमुपवीतयुतं तथा । बाहवश्च सकेयूरकङ्कणाङ्गदमुद्रिकाः ॥40॥

समध्यबन्धं मध्यं च नितम्बे पीतमम्बरम् । काञ्चीगुणश्च पदयोर्नूपुरे चातिसुस्वने ॥41॥

अङ्गुलीयानि च पदोः कृतिभिः साधु कारयेत् । सोत्तरीयं च चक्राद्यैरायुधैश्च समन्वितम् ॥42॥

अनुन्नतैरविरलैर्दन्तैर्युक्तं च सुस्मितम् । समदृष्टियुतं कार्यं श्लक्ष्णं चैव मनोहरम् ॥43॥

प्रतिमार्थं व्रजन्पञ्चध्वनिभिमङ्गलैर्युतः । गत्वा शुचिस्थलं तत्र शलिां चैव परीक्षयेत् ॥44॥

ध्वनिभेदेन विज्ञाय शलिां गर्भवतीं त्यजेत् । मूलमन्त्रं जपन् विष्णुं ध्यायंस्तिष्ठेदुपोषितः ॥45॥

वार्क्षी चेद्यज्ञवृक्षस्य सारेणैव तु कारयेत् । बलिदानं च सङ्क्षेपविधानेनैव कथ्यते ॥46॥

अस्य सङ्क्षेपशास्त्रत्वान्न विस्तारविरोधिता । दत्वोपहारं हरये तद्भूतेभ्यो बलिं हरेत् ॥47॥

प्राच्येभ्यो विष्णुभूतेभ्य इत्याद्यखलिदिक्षु च । आदाय विष्णुभूतेभ्यो लोकपेभ्यस्तथा हरेः ॥48॥

अनुज्ञामुद्धरेद् वृक्षं शलिां वा प्रतिमाकृते । प्रतिमां पिण्डिकां पीठं शलिाभिस्तु त्रिजातिभिः ॥49॥

स्वरस्थूलत्वभेदेन पुंस्त्र्याद्या जातिभिः शलिाः । पुंशलिा प्रतिमार्थं तु स्त्रीशलिां पीठक्लृप्तये ॥50॥

वेदमङ्गलघोषेण वाद्यैस्तत्प्रतिमां हरेत् । प्रागुदक्प्रवणे देशे कुर्याद्देवालयं सुधीः ॥51॥

रामावृते दक्षिणतः पश्चाद्गिर्यग्र एव वा । मध्ये वा ग्रमापुरयोर्विशाले सुशुचौ तथा ॥52॥

ऐशानीं दिशमेकां तु विनोदकविवर्जिते । जलाशयस्य मध्ये वा शलिावृक्षादिवर्जिते ॥53॥

श्मशानादिकदेशानां विदूरे सुमनोहरे । किष्कुद्वादशतोनूनं कुर्याद्देवालयस्थलम् ॥54॥

द्विगुणं चतुर्गुणं वापि शतकिष्कुप्रमाणकम् । कृत्वा भूशोधनं सम्यक् सार्धपुंमानतस्त्वधः ॥55॥

केशाङ्गारस्थिवल्मीकलोष्टाश्मादिविवर्जिते । हरिं तत्रापि सम्पूज्य बलिं दत्वा च पूर्ववत् ॥56॥

मृद्दारुशैलैर्लोहैर्वा कुर्याद्देवालयं दृढम् । दीर्घाश्च कलमास्तिस्रस्तिर्यगष्टयवोदराः ॥57॥

अङ्गुल्या मध्यरेखायाः समा लक्षणतः स्मृताः । स्वाङ्गुल्या मध्यरेखा तु प्रतिमादिषु लक्षणम् ॥58॥

ह्रस्वमध्योच्चभेदेन तत्तन्मानं समस्तशः । प्रादेशहस्तपुरुषमानं सामान्यलक्षणम् ॥59॥

प्रतिमाध्यर्धकं द्वारमूर्ध्वमध्यं च विस्तृतिः । प्रतिमार्धप्रमाणेन पीठस्योच्चत्वमिष्यते ॥60॥

उन्नतिः पिण्डिकायास्तु चतुरङ्गुलमानतः । त्र्यङ्गुलं द्य्वङ्गुलं वापि गृहान्तःप्रतिमासमम् ॥61॥

उच्चं पर्यक् च क्रमश उच्चत्वं मध्यतः स्मृतम् । तावदुच्चं बहिश्चैव यद्येकशिखरं भवेत् ॥62॥

अर्धोच्चमथवापि स्यादधस्तात् प्रतिमोन्नतम् । ततो द्विगुणमानं वा सार्धप्रतिममेव वा ॥63॥

शिखान्तरे तु प्रतिमामानं तद्गल उच्यते । तत्त्रिपादं तदर्धं वा तदध्यर्धमथापि वा ॥64॥

वर्तुलं पद्मसदृशं हस्तिपृष्टसमं तथा । चतुरस्रं चाष्टकोणं विमानं परिकीर्तितम् ॥65॥

प्रतिमाया दशगुणं विंशद्गुणमथापि वा । वर्तुलं शिखरं त्वेकं किरीटाकृतिमद्भवेत् ॥66॥

सभयापि समेतं वा पृथक्सभमथापि वा । द्विसभं त्रिसभं वापि सगोपुरमथापि वा ॥67॥

प्राकारवृत्तयुक्तं वा सप्तप्राकारमेव वा । सद्मवृत्तं किष्कुमात्रं बहिर्वा चतुरस्रकम् ॥68॥

ततः परं किष्कुमात्रं सभाया अन्तरं यदि । ततस्तावत् तृतीयायाः सार्धमेव ह्युदाहृतम् ॥69॥

किष्कुत्रयं च शक्राद्यैः स्थानं तद्वृत्ततः स्मृतम् । ततस्तु मण्टपं कुर्यात् प्रतिष्ठायाः सुलक्षणम् ॥70॥

पूजयेद्वास्तुपुरुषस्योपरिस्थांस्तु सर्वदा । देवान् ब्रह्मादिकान् वास्तुर्वराहस्य हरेः सुतः ॥71॥

पातितो दैवतैर्भूमौ चतुरस्राकृतिः स्थितः । कृत्वाष्टकाष्टकोष्ठानि मध्ये ब्रह्मा चतुष्टये ॥72॥

पूज्यो द्वये द्वये शक्रो यमो वरुण एव च । सोमश्च पूज्याः कोणेषु वह्न्याद्याः कोणदेवताः ॥73॥

पुनस्त्रये त्रये कामं धातारं सविधातृकम् । स्कन्दं च पूजयेत् कोणे सूर्यं चैव विनायकम् ॥74॥

कालं कुबेरं च बहिः प्रत्येकं दिक्षु पूजयेत् । हारिं हरिं गभीरं च गाहनं गहनं गुहम् ॥75॥

भानुमङ्गारकं चैव पूर्वस्यां दिशि पूजयेत् । दारुणं विदरिं द्योतं प्रद्योतं द्योतनं हरिम् ॥76॥

मृत्युं शनैश्चरं चैव दक्षिणस्यां प्रपूजयेत् । पुष्करं क्षरणं क्षारिं विक्षणं क्षोभणं क्षणम् ॥77॥

चार्वङ्गं भार्गवं चैव पश्चिमायां प्रपूजयेत् । चारं विचारं प्रचरं सञ्चारं चरणं चरम् ॥78॥

बृहस्पतिं बुधं चैवाप्युत्तरस्यां प्रपूजयेत् । एवमेव विमानस्य कृतेः प्रागपि पूजयेत् ॥79॥

सप्तपर्णमयं साधु कारयेन्मण्डपं ततः । सप्तहस्तं द्विषड्ढस्तमथवा द्विगुणं ततः ॥80॥

चतुर्गुणं वा सम्यक् तु चतुरस्रं सहाजिरम् । अन्यच्च मण्टपं दीर्घं पञ्चहस्तं तु कारयेत् ॥81॥

त्रिचतुष्कोष्ठकं तत्र मध्ये प्रागायतं शुभम् । कारयेन्मण्डलं साधु हस्तमात्रं तु विस्तृतम् ॥82॥

तत्र द्वादशपात्राणि स्थापयेत् पालिकादिकम् । पालिकास्तु चतुर्विंशत्यङ्गुलोच्छ्रयसंयुताः ॥83॥

अष्टादशाङ्गुलाश्चैव तथा पञ्चमुखा इति । द्वादशाङ्गुलकाश्चैव शरावाः पश्चिमानुगाः ॥84॥

तत्र विष्णुं चतुर्मूर्तिं पूजयेद्भक्तितस्त्रिशः । सप्तधान्यानि तेष्वेव पूरयेदङ्कुरार्थतः ॥85॥

तत्र नित्यं बलिं दद्याद्विष्णवे दशरात्रकम् । ब्रह्मशङ्करगीर्वाणपितृगन्धर्वयक्षकैः ॥86॥

भूतैश्च पायसेनैव तथा पद्माक्षतेन च । अन्नापूपेन पुष्पान्नैरन्नलाजाक्षतैरपि । सक्तुभिश्च क्रमेणैव देवान्तं पायसेन वा ॥87॥

तदैव प्रतिमायाश्च कारयेदधिवासनम् । पञ्चगव्ये सप्तरात्रं क्षिप्त्वा पुरुषसूक्ततः ॥88॥

वेदांश्च चतुरः सम्यक् पारयेयुर्द्विजोत्तमाः । प्राच्यादिद्वारगौ द्वौ द्वावेकैकं तु दशावराः ॥ यथालब्धं यथावित्तमथवा विष्णुतत्पराः ॥89॥

त्रयोदशात्र कुण्डानि परितः कारयेद् बुधः । उक्तलक्षणयुक्तानि प्रधानं त्वग्निकोणके । साक्षात्तु कोणगाद्धस्तमात्रमन्तरतः सुधीः ॥90॥

आज्याहुतिं तेषु कुर्यात् प्रत्येकं लक्षसङ्ख्यया । प्रत्येकमयुतं वापि प्रधाने लक्षसङ्ख्यकम् ॥91॥

अर्धं तदर्धमथवा मूलमन्त्रेण मन्त्रवित् । पञ्चविंशतितत्वार्थे प्रधाने जुहुयात् पुरः ॥92॥

प्रत्येकं तु सहस्रं वा प्रत्येकं शतमेव वा । शतं पुरुषसूक्तेन गायत्र्या च सहस्रकम् । कृत्वा जलाधिवासं च पूर्वं वा पञ्चगव्यतः ॥93॥

चक्राब्जं भद्रकं वापि मण्टपे मण्डलं शुभम् । पद्मं वृत्तत्रयं चक्रं राशयो वीथिका तथा ॥94॥

शोभोपशोभिकाश्चैव चक्राब्जस्य तु लक्षणम् । चतुरस्रं विना चक्रं विशेषो भद्रके स्मृतः ॥95॥

सहस्रमर्धं पादं वा कलशांस्तत्र पूजयेत् । शतं तदर्धं पादं वा वित्ताभावे निगद्यते ॥96॥

क्वाथेन क्षीरवृक्षाणां तथा पञ्चामृतैरपि । पञ्चगव्येन शुद्धेन जलेन च पृथक् पृथक् ॥97॥

पूरयेत् कलशान् मध्यं शुद्धोदेनैव पूरयेत् । ब्राह्मस्यैव चतुर्दिक्षु गन्धोदानां चतुष्टयम् ॥98॥

चतुर्दले सिते पद्मचतुष्के मण्डले स्थिते । पूर्वादिक्रमयोगेन रसक्वाथशुभोदकान् ॥99॥

गन्धांश्च स्थापयेत् पञ्चगव्यं शुद्धान्तरे न्यसेत् । पृथक् चतुर्दलं पद्मं रक्तं कृत्वाल्पकं सुधीः ॥100॥

पञ्चाशत्वे तु गन्धोदं सर्वमध्ये निधापयेत् । ब्राह्मस्य पुरतस्त्वेकं शार्वं संस्थापयेद् बृहत् ॥101॥

अष्टदिक्ष्वष्टपद्मेषु पञ्चकं पञ्चकं न्यसेत् । अनेन क्रमयोगेन कलशा अखिला अपि ॥102॥

तत्तद्द्रव्यमयास्तत्र तत्र स्थाप्यास्तु बाह्यतः । तदैवाङ्कुरपात्राणि परितस्तत्र विन्यसेत् ॥103॥

कुशोदकं च कार्पूरं कौङ्कुमं चान्दनं तथा । तुहिनोदं हरिद्रोदमौशीरं कोष्ठसार्षपम् ॥104॥

नदीसङ्गमजं चैव ताडाकं कौप्यमेव वा । निर्झरोदमिति प्रोक्ता विशेषकलशास्त्विमे ॥ शुद्धोदद्वयमप्येतन्महातीर्थसमुद्भवम् ॥105॥

चतुर्विंशतिमूर्तीनां वर्णमूर्तीस्तथापरः । आवाहयेच्छतत्वे तु क्रमव्युत्क्रमतस्तु ताः ॥106॥

वर्णमूर्तीः पुनश्चैव द्विचतुर्वारमेव च । सहस्रकलशादित्वे जपेन्मन्त्रांश्च शक्तितः ॥107॥

ततस्तु पञ्चघोषैश्च वेदघोषैस्तथादरात् । आनीय प्रतिमां स्नानं कारयेत् प्रणवेन तु ॥108॥

मन्त्रैः पुरुषसूक्तान्तैः विश्वतश्चक्षुषा तथा । पुनश्चाष्टाक्षरेणैव प्रणवेन च भक्तितः ॥109॥

स्नापयित्वा गन्धजलैर्गन्धपुष्पादिभिः पुनः । अलङ्कृत्य स्थापयेत्तु प्रतिमां प्रणवेन तु ॥110॥

जपेदष्टाक्षरं मन्त्रं तत्तन्मूर्तिमनुं तथा । अष्टोत्तरशतं मन्त्री ध्यायेत् तेजोमयीं पुनः ॥111॥

प्रतिमां प्रतिमान्तस्थां तन्मध्ये परमं वपुः । चिदानन्दरसं पूर्णगुणसम्पूर्णमुत्तमम् ॥112॥

पञ्चविंशतितत्त्वानां देवतास्तदनन्तरम् । स्थापयेत् प्रतिमामध्ये परितः केशवस्य तु ॥113॥

तत्रात्वाहार्षसूक्तं च घर्मसूक्तं च वैष्णवम् । सूक्तं च विश्वकर्मीयं पौरुषं सूक्तमेव च ॥114॥

जप्त्वा चैव निजं मन्त्रं पुनरष्टाक्षरं सुधीः । प्रणवं च जपेद्विष्णुं ध्यायन्नुत्तमरूपिणम् ॥115॥

ततस्तु कलशैर्बाह्यक्रमेणैव जनार्दनम् । स्नापयेदुक्तमन्त्रैस्तु मध्यमं प्रणवेन तु ॥116॥

अष्टार्णेन निजेनापि तथा पुरुषसूक्ततः । आवाहनं च स्नपनं पञ्चगव्येन मध्यवत् । पूर्वाद्युत्तरपर्यन्तः कलशक्रम उच्यते ॥117॥

जप्त्वा पुनश्च तन्मन्त्रान् पूजयेच्च विधानतः । द्वारलोकपतिभ्यश्च बलिं दत्वा यथाक्रमम् ॥118॥

वस्त्ररत्नहिरण्याद्यैरलङ्कृत्य विभूतितः । गुरवे दक्षिणां दद्यात् कोटिं लक्षं सहस्रकम् ॥119॥

शतमर्धं तदर्धं वा निःस्वो भक्त्या क्षमापयेत् । तदर्धमृत्विजां चैव तदर्धं पारणाकृताम् ॥120॥

आश्वभ्यः आश्वपाकेभ्यो दद्यादन्नं समस्तशः । पुरस्तात्परतश्चैव सप्तरात्रं निरन्तरम् ॥121॥

सुवर्णरजतवस्त्ररत्नाद्यैरागताभ्यागतानपि । पूजयेच्छक्तितो भक्त्या प्रीयतां भगवानिति ॥122॥

गीतनृत्यैश्च वाद्यैश्च पुराणैरितिहासकैः । सूक्तैर्मङ्गलघोषैश्च वैदिकैर्दिनसप्तकम् ॥123॥

नयेत् ततो महाराजविभूत्यावभृथं सुधीः । कारयेद् देवदेवस्य स्वाध्यायैर्गीतनृत्तकैः ॥124॥

महानदीसङ्गमे तु तीर्थे चातिप्रशस्तके । स्नापयेत् पूर्ववन्मन्त्रैः पुंसूक्तान्तैः स्मरन् हरिम् ॥125॥

ततः पूर्ववदागत्य प्रवेश्य पुरुषोत्तमम् । पूजयित्वा विधानेन दत्वा दानानि शक्तितः ॥126॥

गुरुं च भक्त्या सम्पूज्य स्वीकुर्यादाशिषस्ततः । शतप्रस्थादनूनं तु नैवेद्यं पायसोत्तरम् ॥127॥

दिनेष्वेतेषु दातव्यं सघृतं ससितादिकम् । पश्चादपि यथाशक्ति पूजा कार्या हरेः सदा ॥128॥

जीर्णालयोद्धृतौ चैव तत्त्वमन्त्रान् स्वकं तथा । प्रतलिोमेन जप्त्वैव मूर्ती सङ्कोचयेद्धरिम् ॥129॥

उक्तेनैव विधानेन तदर्धविभवैः सुधीः । पादमात्रैरपि हरिं स्नापयित्वा यथोदितम् ॥130॥

एतेनैव विधानेन कृत्वा देवालयं पुनः । स्नापयेत् पुण्डरीकाक्षं द्विगुणेन प्रवाहणात् ॥131॥

विभवेनानुलोमेन जपेन्मन्त्रान् पुनस्तथा । आराधयेज्जगन्नाथं ध्यायन् भक्त्या यथोदितम् ॥132॥

यात्रापि पूर्ववत् तत्राप्युत्सवेषु च सर्वशः । कलशोक्तविधानेन पूजा बलिहृतिस्तथा ॥133॥

उत्सवेषु सदा कार्या कलशश्चोत्सवादनु । यात्रा स्नानं च कर्तव्यं सम्यगुक्तविधानतः ॥134॥

चोरचण्डालपतितश्वोदक्यादिप्रवेशने । शवाद्युपहतौ चैव पूजाविच्छेदने तथा ॥135॥

स्नपनोक्तेन मार्गेण प्रायश्चित्तकृतिः स्मृता । सर्वत्र विष्णुगायत्र्या होमः स्यादयुतावरः ॥136॥

नावाव्याद्याभिधानानु विग्रहे धीमहे तथा । प्रचोदयात् तृतीयाधस्तन्नो गायत्रिनामिका ॥137॥

दुर्गाशिवस्कन्दसूर्यविनायकमुखानपि । स्थापयेदुक्तमार्गेण तत्तन्मन्त्रैः स्मरन् हरिम् ॥138॥

गोलकद्वितयं विष्णोस्त्रितयं वापि कीर्तिमान् । अन्यदेवप्रतिष्ठासु तदन्तश्चिन्तयेद्धरिम् ॥139॥

विष्णुस्मृतिविहीना तु पूजा स्यादासुरी तथा । गृह्णन्ति देवता नैतां ततः स्याद्देशविप्लवः ॥ व्याधिचोरादिभिस्तस्मादन्तर्ध्येयो हरिः सदा ॥140॥

विष्णुभक्तिविहीनस्य गतिः स्यान्न तु शुभा क्वचित् । भक्तस्याप्यन्यदेवेषु तस्माद् ध्येयो हरिः सदा ॥141॥

संस्मृतो भगवान् विष्णुः सर्वमङ्गलमङ्गलः । समस्ताभीष्टदायी स्यात् तेन ध्येयोखिलैर्जनैः ॥142॥

पुरुषोव्यक्तं च महानहङ्कारो मनस्तथा । दशेन्द्रियाणि शब्दाद्याः भूतेताः पञ्चविंशतिः ॥143॥

तत्त्वाख्याः कालमाये च नियतिर्मतिरेव च । विद्या कला प्रवृत्तिश्च द्वात्रिंशत्तत्त्वसङ्ग्रहः ॥144॥

स्पूर्त्तिः संवित् प्रतिष्ठा च शक्तिरित्यपराणि च । महालक्ष्मीस्वरूपाणि ह्येकादश विदो विदुः । विष्णोरपि हि रूपाणि तन्नाम्नैकादशैव तु ॥145॥

प्रधानोपमवर्णानि द्विभुजान्यप्यशेषतः । कृताञ्जलिपुटान्येव प्रधानं तं हरिं प्रति ॥146॥

सर्वाण्येतानि तत्त्वानि ब्रह्मा तु पुरुषः स्मृतः । महांश्चाव्यक्तनाम्नी तु ब्रह्माणी सम्प्रकीर्तिता ॥147॥

एवं वायुरपि ज्ञेयो भारती चापि तत्त्रयम् । रुद्रोहङ्कार उद्दिष्टः स्कन्देन्द्रौ मन उच्यते ॥148॥

अहङ्कारः शेषवीन्द्रावपि विद्वद्भिरीरितौ । दिग्वायुसूनुसूर्याश्च वरुणश्चाश्विनावपि ॥149॥

वह्निदक्षाविन्द्रसूनुर्मित्रश्चैव मनुस्तथा । इन्द्रियाख्याः शब्दनामा बृहस्पतिरुदाहृतः ॥150॥

अन्ये तु सूनवो वायो रुद्रस्यापि प्रकीर्तिताः । एतेषु भगवान् विष्णुः प्रधानतनुरेव तु ॥151॥

ध्येयः परात्मनोर्मध्ये तत्त्वनाम तदर्थयोः । जपे न्यासे नमोन्तस्तु स्वाहान्तो होमकर्मणि ॥152॥

त्रिचतुष्षड्दशावृत्तिरेतेषां तु हुतादिके । न्यासोङ्गुलीषूरुबाहुमध्येषु व्युत्क्रमे स्मृतः ॥ क्रमे विपर्ययेणात्र शक्त्यादित्वं प्रकीर्तितम् ॥153॥

ऋषिच्छन्दोदेवताङ्गध्यानानुक्तौ प्रधानवत् । ज्ञेया मन्त्राः समस्तास्ते पृथङ्मोक्षादिदायकाः ॥154॥

तन्त्रमार्गास्तु हरिणा ह्यसङ्ख्याः कीर्तिता अपि । तेष्वयं सुगमो मार्गः सफलश्चानुतिष्ठताम् ॥155॥

यावतो ह्यननुष्ठाने कर्मपूर्तिर्न विद्यते । तावत् समस्तं कथितं ह्यस्मिंस्तन्त्रे यथाविधि ॥156॥

प्रीयतेनेन मार्गेण पूजितो मुक्तिदो भवेत् । कामदश्च स्वभक्तानां भगवान् पुरुषोत्तमः ॥157॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते तन्त्रसारसङ्ग्रहे तृतीयोध्यायः

चतुर्थोध्यायः

अथ विष्णूदिते तन्त्रसारे मन्त्रगणो हि यः । उदितः सङ्ग्रहेणासावुच्यतेखलिसाधनः ॥1॥

याष्टमस्तूयुतोन्तेन समेतश्चैव भूभृतः । बीजं नमश्च भगवान् सोद्देश्यो रूपसंयुतः ॥2॥

स एव तादृशो लोकत्रयपालो भुवःपतेः । भावं मे देहि दान्ते तु दापय स्वाहया युतः ॥3॥

मनुस्तस्यापररस्तारबीजोद्देशनमोयुतः । नमः सोद्देशभगवान् महाशब्दयुतश्च सः ॥ तादृशः स्वाहया युक्तो वराहस्यापरो मनुः ॥4॥

श्यामः सुदर्शनदराभयसद्वरेतो भूम्या युतोखलिनिजोक्तपरिग्रहैश्च । ध्येयो निजैश्च तनुभिः सकलैरुपेतः कोलो हरिः सकलवाञ्छितसिद्धयेजः ॥5॥

वैष्णवानां मुनिबर्‌रह्मा मन्त्राणां वर्णभेदतः । ज्ञेयं छन्दो देवतैकस्तत्तद्रूपो हरिः परः ॥6॥

प्रणवेन स्वनाम्ना च भूधरेण परात्मना । सर्वज्ञसर्वशक्तिभ्यां षडङ्गानि विदो विदुः ॥7॥

ज्ञानैश्वर्यप्रभानन्दतेजःशक्तिभिरेव वा । पूर्णात्ममध्यगैः सर्ववैष्णवाङ्गान्यथो विदुः ॥8॥

तिष्टोदादिस्वजायायाः कारणं स्वाहया युतः । श्रीकरोष्टाक्षरो मन्त्रो गरुडारूढसंस्मृतिः ॥9॥

द्विर्भीषय त्रासय च प्रमर्दय तथैव च । प्रध्वंसयाथो रक्षेति पञ्चाङ्गश्चेत्युदाहृतः ॥10॥

क्रूरं वीरं बृहद्विष्णुं दीप्यन्तं विश्वतोमुखम् । पुंमृगेन्द्रं भयकरं शुभं मृत्योश्च मारकम् । नमामि स्वयमित्येष द्वात्रिंशार्णो मनुर्हरेः ॥11॥

द्विर्जयस्योपरि निजं सोद्देशं सर्ववित् तथा । महातेजो बलं वीर्यं तादृशं स्वाहया युतम् ॥ चतुर्विंशाक्षरो मन्त्रो निखलिेष्टप्रदायकः ॥12॥

विद्महे धीमहे पूर्वं स्वयं चैव महाबलः । प्रेरयेत्तन्न इत्येतन्मध्येनन्तः प्रकीर्तितः ॥13॥

पादैर्व्यस्तैः समस्तैश्च पदैश्चाङ्गं प्रकीर्तितम् । पूर्वयोस्तत्र पूर्वं तु सर्वज्ञेन षडङ्गकम् ॥ तृतीयं तु द्विरावृत्तैः पादैरङ्गसमन्वितम् ॥14॥

ध्यायेन्नृसिंहमुरुवृत्तरवित्रिनेत्रं जानुप्रसक्तकरयुग्ममथापराभ्याम् । चक्रं दरं च दधतं प्रियया समेतं तिग्मांशुकोट्यधिकतेजसमग्र्यशक्तिम् ॥15॥

सर्वेष्वपि हि मन्त्रेषु द्य्वाद्यनन्तान्तबाहुकः । चेतनान्तस्थमारभ्य सर्वगान्तस्थरूपवान् ॥16॥

अनन्तरूपो ध्येयोत्र स्वगुरूक्तानुसारतः । यथायोग्यं यथाशक्ति तत्तदायुधभूषणः ॥17॥

शङ्खचक्रगदापद्मखड्गखेटाः सशार्ङ्गकाः । शरो मुसलवज्रौ च हलः पाशाङ्कुशौ तथा ॥18॥

शूलं च भिण्डिपालश्च पट्टशोग्निर्वराभये । तर्कमुद्राक्षमाला च पुस्तकं च विदारणम् ॥ इत्यादीन्यखिलान्येव विष्णोश्चिन्त्यानि बाहुषु ॥19॥

वियत्स इति युग्मार्णो विपरीतश्च स स्मृतः । स सर्गहीनो वेतश्च बिन्दुहीनोत्तरस्तथा ॥20॥

त्रय एते महामन्त्राः पुरुषार्थचतुष्टये । कल्पवृक्षाः प्रिया विष्णोर्विशेषज्ञानदायकाः ॥21॥

तैरेव तु द्विरावृत्तैरङ्गमेषां प्रकीर्तितम् । श्वासरूपो जपो नित्यमुभयोर्विद्वदज्ञयोः ॥22॥

एकविंशत्सहस्रात्मा सषट्शतमहर्निशम् । अर्पणीयो हरौ नित्यं प्रातर्योगो महानयम् ॥23॥

अशेषदोषदहनस्तत्त्वज्ञानप्रदायकः । अष्टैश्वर्यप्रदश्चैव कृतादौ समुपासताम् ॥ तारयोगोप्येवमेव ब्रह्मादावेव वर्तते ॥24॥

ध्यायेद्रवीन्दुकरमिन्दुसहस्रलक्षकान्तिं प्रियासहितमास्थितमिन्दुबिम्बे । शङ्खारिदोर्द्वयमुदर्कमहेन्दुबिम्बात् संसिच्यमानममृतेन रमाधिनाथम् ॥25॥

अन्त्यस्य रक्तवर्णो वा ध्येयो विष्णुः सनातनः । विद्युद्वर्णोथवा ध्येयः शक्त्येतः पञ्चमन्त्रयुक् ॥26॥

अष्टाक्षरो महामन्त्रः तैरेवाङ्गैः समन्वितः । अन्त्यध्यानयुतश्चैव निःशेषपुरुषार्थदः ॥27॥

मूलं नः प्रतिषेधश्च सोद्देशो भगवानपि । विष्णुर्भोज्याधिपः स्वाहायुक्तोष्टादशवर्णकः ॥28॥

अङ्गानि तत्पदैरेव मन्त्रचिन्तमणिः स्वयम् । यथेष्टभक्षभोज्यादिदाता मुक्तिप्रदायकः ॥29॥

ध्यायेत् सुशुक्लमरविन्ददलायताक्षं सौवर्णपात्रदधिभोज्यमथामृतं च । दोर्भ्यां दधानमखिलैश्च सुरैः समेतं शीतांशुमण्डलगतं रमया समेतम् ॥30॥

अमृतं स्वयमुद्देशयुक्तः सहृदयो मनुः । सतारोष्टाक्षरोङ्गानि पदैर्व्यस्तैः समस्तकैः ॥31॥

उद्यद्रविप्रभमरीन्द्रदरौ गदां च ज्ञानं च बिभ्रतमजं प्रियया समेतम् । विश्वावकाशमभितः प्रतिभासयन्तं भासा स्वया स्मरत विष्णुमजादिवन्द्यम् ॥32॥

त्रिविक्रमश्च सोद्देशो विश्वरूपश्च तत्परः । धीविदौ च महे विष्णुस्तन्नः प्रेरणमध्यगः ॥33॥

स्वयमुद्देशसंयुक्तः तदाद्यर्णपुरःसरः । सनतिः षडक्षरो मन्त्री वर्णैरङ्गक्रिया मता ॥34॥

अङ्गारवर्णमभितोण्डबहिःप्रभाभिर्व्याप्तं परश्वधधनुर्धरमेकवीरम् । ध्यायेदजेशपुरुहूतमुखैस्तुवद्भिरावीतमात्मपदवीं प्रतिपादयन्तम् ॥35॥

श्यामं रवीन्द्वमितदीधितिकान्तियुक्तं ज्ञानं शरं च दधतं प्रियया समेतम् । स्वात्मस्वरूपममितं हनुमन्मुखेषु सन्दर्शयन्तमजितं स्मरतोरुगीर्भिः ॥36॥

निजगोत्रं तु सोद्देशं पूर्वाक्षरपुरःसरम् । नत्यन्तं तारपूर्वं च मनुरष्टाक्षरो मतः ॥37॥

ते च बीजे बीजभूते धर्मादीनामशेषतः । एते विजयदा मन्त्रा ज्ञानमोक्षप्रदायकाः ॥ हिरण्यरत्नराज्यादिसमभीष्टसुरद्रुमाः ॥38॥

कृष्णो गोविच्च कामेतः सोद्देशो बल्लवीजनः । प्रियश्च तादृशस्वाहायुक्तोष्टादशवर्णकः ॥ पदैरङ्गानि सम्प्रीतिकाममोक्षप्रदो मनुः ॥39॥

ध्यायेद्धरिन्मणिनिभं जगदेकनाथं सौन्दर्यसारमरिशङ्खवराभयानि । दोर्भिदधानमजितं सरसं च भैष्मीसत्यासमेतमखलिप्रदमिन्दिरेशम् ॥40॥

सकामः स्वयमुद्देशी नत्यन्तोयं षडक्षरः । तदादिरपि सवेष्टचिन्तमणिरुदाहृतः ॥41॥

दृष्टार्थ एव मन्त्राणां कलौ वीर्यं तिरस्कृतम् । तत्राप्यद्दीप्तवीर्या हि मन्त्रा अत्र प्रकीर्तिताः ॥ वासिष्ठवृष्णिप्रवरमन्त्रास्तत्रापि वीर्यदाः ॥42॥

स्वयं वेदपदारूढः पूर्ववर्णपुरःसरः । नत्यन्तोष्टाक्षरो मन्त्रो प्रियो विज्ञानगोपतेः ॥43॥

व्याख्याश्रीसर्वविज्ञानकवितादिगुणप्रदः । वादे विजयदो नित्यं यथा युद्धे नृकेसरी ॥44॥

विज्ञानरोचिः परिपूरितान्तर्बाह्यण्डकोशं हरितोपलाभम् । तर्काभयेतं विधिशर्वपूर्वगीर्वाणविज्ञानदमानतोस्मि ॥45॥

ज्ञानानन्दपुरःपूर्णो विद्महे धीमहे तथा । तन्नः प्रेरणमध्ये तु व्यासो मन्त्राधिपाधिपः ॥46॥

आदिबीजं स्थिरादोषज्ञानबीजं विमुक्तिदम् । सर्वपापक्षयकरं सर्वव्याधिविनाशनम् ॥47॥

ध्यायेच्छशाङ्कशतकोट्यतिसौख्यकान्तिं संसिच्यमानममृतोरुघटैः सुरेशैः । वर्णाभिमानिभिरजेशमुखैः सहैव पञ्चाशता प्रतिगिरन्तमशेषविद्याः ॥48॥

सोद्देशस्तु स्वयं दीर्घपूर्वाद्यार्णो नमोयुतः । सर्वविद्याप्रदोष्टार्णः प्रतिवादिजयप्रदः ॥ विमुक्तिसाधनः कीर्तिबुद्धिस्थैर्यप्रदः सदा ॥49॥

वन्दे तुरङ्गवदनं शशिबिम्बसंस्थं चन्द्रावदातममितात्मकरैः समन्तात् । अण्डान्तरं बहिरपि प्रतिभासयन्तं शङ्खाक्षपुस्तकसुबोधयुताब्जबाहुम् ॥50॥

नस्तो मुखादपि निरन्तरमुद्गिरन्तं विद्या अशेषत उताब्जभवेशमुख्यैः । संसेव्यमानमतिभक्तिभरावनम्रैर्लक्ष्म्यामृतेन सततं परिषिच्यमानम् ॥51॥

स्वयमुद्देशवान् पूर्ववर्णपूर्वो नमोयुतः । सतारोष्टाक्षरश्चैव नवार्णश्च मनू स्मृतौ ॥52॥

प्रोद्यद्दिवाकरसमानतनुं सहस्रसूर्योरुदीधितिभिराप्तसमस्तलोकम् । ज्ञानाभयाङ्कितकरं कपलिं च दत्तं ध्यायेदजादिसमितिं प्रतिबोधयन्तम् ॥53॥

अधृष्यताज्ञानमोक्षप्रदौ भक्तेष्विमौ सदा । सूक्तं दीर्घतमोदृष्टं विष्णोर्नु कं इति प्रभोः ॥54॥

सर्वार्थदं गार्त्समदं यो जात इति चापरम् । वासिष्ठं च परो मात्रयेति ज्ञानविमुक्तिदम् ॥55॥

भौवनीयं सर्वकाममोक्षदं य इमेत्यपि । एवमेवाखिला वेदा ज्ञातव्या विष्णुतत्पराः ॥56॥

स्वदृष्टं सूक्तमखलिं कामदं हरितुष्टिदम् । वाचोम्भृण्याः श्रियोङ्गानि श्रीर्लक्ष्मीर्मेन्दिरा रमा ॥57॥

कौशेयपीतवसनामरविन्दनेत्रां पद्मद्वयाभयवरोद्यतपद्महस्ताम् । उद्यच्छतार्कसदृशीं परमाङ्कसंस्थां ध्यायेद्विधीशनुतपादयुगां जनित्रीम् ॥58॥

लज्जाबीजं च तद्बीजं तस्या एवाभिधायकम् । पाशाङ्कुशौ रक्तवस्त्रे लज्जाबीजं विशिष्यते ॥59॥

अमध्ययुग्मस्वरगतेनैवाङ्गमुदाहृतम् । सत्ताबीजं च दुर्बीजं तद्वदेव प्रकीर्तितम् ॥60॥

वर्णः श्यामो विशेषोत्र ताम्बूलं नीलमुत्पलम् । शङ्खचक्रौ तर्जनश्च शूलमित्यपरत्र च ॥61॥

नमोन्तं स्वेन सहितस्तदेवान्यो मनुः स्मृतः । दुर्गा त्रिष्टुप् कश्यपोक्ता तत्र वर्णोग्निवत् स्मृतः ॥62॥

त्रिनेत्रत्वं च दुर्गायाः प्रायः सर्वत्र कथ्यते । पादैः समस्तेन तथा षड्वर्णेनाङ्गमुच्यते ॥63॥

रमाया एव रूपाणि त्वेतानि हि विदो विदुः । मुख्यतो जामद्ग्यस्तु देवतास्य मनोः स्मृतः ॥64॥

हिरण्यगर्भसूक्तं च भृगुदृष्टं प्रकीर्तितम् । ब्रह्मधातृविरिञ्चाजपाद्मैरङ्गमुदाहृतम् ॥65॥

ध्यायेन्निषण्णमजमच्युतनाभिपद्मे प्रोद्यद्दिवाकरसमूहनिकाशमग्र्यम् । मातृप्रकारकरमुत्तमकान्तिमद्भिर्वक्त्रैः सृजन्तमखिलैः परमार्थविद्याः ॥66॥

स्वयमुद्देशनतिमांस्तस्य पञ्चाक्षरो मनुः । स्वयमेवापरोष्टार्णस्तादृशः सम्प्रकीर्तितः ॥67॥

बळाद्यं भृगुणा दृष्टं प्राणाग्नेः सूक्तमुच्यते । प्राणाद्यैः पञ्चभिस्तस्याप्यङ्गान्युक्तानि सूरिभिः ॥68॥

उद्यद्रविप्रकरसन्निभमच्युताङ्के स्वसीनमस्य नुतिनित्यवचःप्रवृत्तिम् । ध्यायेद् गदाभयकरं सुकृताञ्जलिं तं प्राणं यथेष्टतनुमुन्नतकर्मशक्तिम् ॥69॥

प्राणाद्याः पञ्चमन्त्राश्च तस्य देवस्य वाचकाः । उच्यते हरिरप्येतैः साक्षान्नारायणादिकः ॥70॥

ब्रह्माण्याः अपि भारत्या गौरीर्यस्त इति श्रुतौ । मन्त्रौ दीर्घतमोदृष्टौ सर्वाभीष्टप्रदायकौ ॥71॥

उद्यद्दिवाकरसमूहनिभां स्वभर्तुरङ्केस्थितामभयसद्वरबाहुयुग्माम् । मुद्रां च तत्त्वदृशये वरपुस्तकं च दोर्युग्मकेन दधतीं स्मरतात्मविद्याम् ॥72॥

पादैर्व्यस्तैः समस्तैश्च तदङ्गानि विदो विदुः । स्वयमुद्देशनत्यन्तो मन्त्रौ द्वावपरौ तयोः ॥73॥

मन्त्राः ह्येते हरेः प्रीतिदायकाः सर्वकामदाः । इष्टं देवं हरिः साक्षाल्लक्ष्मीर्भाग्यस्य देवता ॥ गुरुब्रह्मात्र वायुर्वा विद्यादेव्यौ प्रकीर्तिते ॥74॥

तस्मादेते प्रिया विष्णोरन्तरङ्गतया सदा । ज्ञेयाश्चैव प्रपूज्याश्च विष्णोः प्रीतिमभीप्सता ॥75॥

उद्देशनतियुङ्मन्त्रः स्वयमेव शिवस्य तु । वर्णैरेतैस्तदङ्गानि वामदेवो मुनिः स्मृतः ॥ पङ्क्तिशब्दार्थविज्ञाने न हि छन्दसि संशयः ॥76॥

ध्येयः पञ्चमुखो रुद्रः स्फटिकामलकान्तिमान् । विद्युच्छुभ्रासितरजःश्यामान्यस्य मुखानि च ॥ जटावबद्धेन्दुकलः प्रियायुङ् नागभूषणः ॥77॥

मन्त्रेष्वेतेषु सर्वेषु वाच्यस्तारेण केशवः । अन्तर्यामितया ध्येयः सर्वदेवेषु सर्वदा ॥78॥

स एव वनितालिङ्गः पार्वत्याः मनुरुच्यते । गौरी वराभयकरा ध्येया पीताम्बरा च सा ॥79॥

स्वयमुद्देशनत्यन्तः पूर्वपूर्वः षडक्षरः । सनत्कुमारदृष्टोयं मन्त्रः शेषस्य कामदः ॥80॥

दधानो हलसौनन्दौ श्वेतवर्णः कृताञ्जलिः । सहस्रमूर्धाद्वितीयकर्णभूषः प्रियायुतः ॥ वनमाली नीलवासा ध्येयो विष्णोस्तु पृष्ठतः ॥81॥

व्यस्तपक्षितारौ च स्वाहान्तो गारुडो मनुः । कश्यपोस्य मुनिर्ध्येयो सुधापूर्णं हिरण्मयम् ॥82॥

दधानः कुम्भमभयं पीतशुक्लारुणो हरित् । कृष्णश्चाजानुतो नाभेः कण्ठात् कादन्त एव च ॥83॥

प्रियायुक् पुरतो विष्णोः पक्षतुण्डसमन्वितः । जङ्गमस्थावरविषहृदयं सर्वकामदः ॥84॥

मन्त्राश्च लोकपालानां नमोन्तः सर्वकामदाः । पीतरक्तासितश्वेतरक्तशुक्लाश्च वर्णतः ॥85॥

सप्रियाः साभया वज्रशक्तिदण्डासिपाशिनः । गदाकुमुदशूलर्ष्टिखङ्गिनो भूषणोज्ज्वलाः ॥86॥

अग्निश्च स्वयमुद्देशी सनमः स्कन्दवाचकः । कौशिकोस्य मुनिर्वह्निवर्णः षण्मुख उज्ज्वलः । धनुःशक्तिधरो ध्येयो कामदो भयनाशनः ॥87॥

ह्रस्वः कृपालुः सेतश्च स्वयमन्यः स्वयं तथा । सतारोष्टाक्षरः सौरः क्रमव्युत्क्रमतः पदैः ॥88॥

अङ्गानि पद्मयुगलधरो ध्येयोरुणो रविः । सर्वव्याधिहरः श्रीदो वृष्टिदोयं मनुः स्मृतः ॥89॥

मोनयदासाप्रप्रक्षि व्यत्यस्तो विघ्नराण्मनुः । रक्ताम्बरो रक्ततनू रक्तमाल्यानुलेपनः ॥90॥

महोदरो गजमुखः पाशदन्ताङ्कुशाभये । बिभ्रद्ध्येयो विघ्नहरः कामदस्त्वरया ह्ययम् ॥91॥

तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तीः प्रबोधयन् । एक एव महाशक्तिः कुरुते सर्वमञ्जसा ॥92॥

स्वयमुद्देशवान् पूर्वपूर्वो हृदयसंयुतः । धान्वतरो महामन्त्रः संसृतिव्याधिनाशनः ॥ अत्रोक्तसर्वमन्त्राणां नायकोपलसन्निभः ॥93॥

चन्द्रौघकान्तिममृतात्मकरैर्जगन्ति सञ्जीवयन्तममितात्मसुखं परेशम् । ज्ञानं सुधाकलशमेव च सन्दधानं शीतांशुमण्डलगतं स्मरतात्मसंस्थम् ॥94॥

मूर्धि स्थितादमुत एव सुधां स्रवन्तीं भ्रूमध्यगाच्च तत एव च तालुसंस्थात् । हार्दाच्च नाभिसदनादधरस्थिताच्च ध्यात्वाभिपूरिततनुर्दुरितानि हन्यात् ॥95॥

अज्ञानदुःखभयरोगमहाविषाणि योगोयमाशु विनिहन्ति सुखं च दद्यात् । उन्मादविभ्रमहरः परश्च सान्द्रस्वानन्दमेव पदमापयति स्म नित्यम् ॥96॥

ध्यात्वैव हस्ततलगं स्वमृतं स्रवन्तं देवं स यस्य शिरसि स्वकरं निधाय । आवर्तयेन्मनुमिमं स च वीतरोगः पापादपैति मनसा यदि भक्तिनम्रः ॥97॥

शतं सहस्रमयुतं लक्षं वारोगसङ्क्षयात् । इममेव जपेन्मन्त्रं साधूनां दुःखशान्तये ॥98॥

ज्वरदाहादिशान्त्यर्थं तर्पयेन्मनुनामुना । ध्यात्वा हरिं जले सप्तरात्राज्जूर्तिर्विनश्यति ॥99॥

अयुतामृतसमिद्धोमाद् गोघृतक्षीरसंयुतात् । सर्वरोगा विनश्यन्ति विमुखो न हरेर्यदि ॥100॥

भूताभिचारशान्त्यर्थमपामार्गाहुतिक्रिया । द्विगुणामृतया पश्चात् केवलेन घृतेन वा ॥101॥

आयुर्विवृद्धये नित्यं जन्मनक्षत्र एव वा । चतुश्चतुर्भिदूर्वाभिः क्षीराज्याक्ताभिरिष्यते ॥102॥

सर्वक्रिया हरौ भक्ते हरिभक्तैः स्वनुष्ठिताः । गुरुभक्तैः सदाचारैः फलन्त्यद्धा न चान्यथा ॥103॥

ब्रह्मान्ताः गुरवश्चैव सम्प्रदायप्रवर्तकाः । तत्तद्गुणानुसारेण पूज्याः मान्याश्च सर्वशः ॥104॥

सर्वेभ्योभ्यधिका भक्तिर्विष्णौ स्यादतिनिश्चला । लक्ष्मीब्रह्मादिषु ततः क्रमेण स्यात् सुभाविता । एवं विद्याः फलिष्यन्ति नान्यथा तु कथञ्चन ॥105॥

शुभान् ध्यायन्ति ये कामान् गुरुदेवप्रसादजान् । इतरानात्मपापोत्थांस्तेषां विद्या फलिष्यति ॥106॥

मुक्तावपि च संसारे नात्मनो विष्णुना क्वचित् । ब्रह्मरुद्रादिभावं वा साम्यं वाधिक्यमेव वा ॥107॥

अतद्वशत्वमथवा यः स्मरेत् स तु सिद्धिभाक् । नान्यथा सिद्धिमाप्नोति कल्पकोटिशतैरपि ॥108॥

स्मृत्वा गुरुं पूर्वगुरुमादिमूलगुरू तथा । देवतां वासुदेवं च विद्याभ्यासी तु सिद्धिभाक् ॥109॥

अवज्ञाता गुरूणां च देवतानां न सिद्ध्यति । प्रयाति च तमो घोरं मन्त्रावज्ञाकृदेव च ॥110॥

यस्तारतम्यवेत्ता स्याद् गुरूणां देवतास्वपि । भक्तिमान् गुरुदेवेषु तद्भक्तेषु च सिद्ध्यति ॥111॥

गुरुदेवप्रतीपानां विमुखास्तत्प्रिये रतः । अकामक्रोधलोभश्च न चिरात् सिद्धिमाप्नुयात् ॥112॥

सकामेभ्योमितगुणा याकामैस्तु कृता क्रिया । तस्मादकाम एवालं भजेद्विष्णुं सनातनम् ॥113॥

अयं मे हस्त इति च मन्त्रः पूर्वोक्तवत्स्मृतः । अत्रोक्तास्तु क्रियाः सर्वमन्त्रेष्वप्युपलक्षणम् ॥114॥

विजयस्तम्भनादीनि नारसिंहैर्विशेषतः । जामदग्न्यैश्च कार्याणि राघवैर्यादवैरपि ॥ वाराहैः स्तम्भनं क्षिप्रं श्रीकराऋ कथिताः पुरा ॥115॥

बहुबाहुं महाकायमुद्युक्तं चोद्यतायुधम् । स्मरन् विजयमाप्नोति स्तम्भनादींश्च कारयेत् ॥116॥

वसुपूर्णकरं रत्नपर्वतस्थं विभावयन् । वसुसिद्धिमवाप्नोति सेव्यमानजादिभिः ॥ श्रिया विभूतिभिर्युक्तं भावयन् भूतिमाप्नुयात् ॥117॥

यद्यन्मनोगतं तस्य तत्तदाप्नोत्यसंशयम् । तथा तथा हरिं ध्यायन् क्रियास्तास्ताश्च साधयन् ॥118॥

श्रिये पद्मानि जुहुयात् सम्प्रीत्या उत्पलानि च । शरान् जयाय जुहुयादभिमन्त्र्य प्रयोजयेत् ॥119॥

विद्यायै मन्त्रितं वारि वचां वा तुलसीमपि । ब्राह्मीं घृतं सुवर्णं वा शतावृत्त्या तु नित्यशः ॥120॥

अकुर्वंश्च क्रिया भक्त्या निरपेक्षो भजन् हरिम् । सर्वमेतदवाप्नोति विशेषेण न संशयः ॥121॥

सृष्टिस्थितलयन्यासाः प्रातलिोम्यानुलोमतः । स्थित्यन्ता एव वर्णानां श्रेष्ठा एव चतुर्दश ॥ संहृत्यन्ता मोक्षिणान्ते एकविंशतिरेव वा ॥122॥

पादहृत्केषु नाभ्यास्ययुक्तं च सललाटकम् । सनासिकादृग्जान्वोश्च सश्रोत्रं सोरुकं तथा ॥123॥

सोरस्कश्च सकण्ठं च सभुजद्वयमेव च । सगण्डयुग्मं सालीकं सतुण्डं क्रोडकं तथा ॥124॥

समूलं च सगुह्यं च सपार्श्वद्वयमेव च । सदोर्द्वयं व्यापकं च गलपार्श्वद्वयं तथा ॥125॥

ककुत्स्तनद्वयेनापि पृष्ठभागेन सर्वशः । न्यासो यथाक्रमं प्रोक्तो मन्त्रेष्वेतेषु कृत्स्नशः ॥126॥

प्रतिमायामात्मनि च न्यासोयं सन्निधानकृत् । बीजान्तःसाध्यमध्यं च विभक्तदलमन्त्रयुक् ॥127॥

वर्णानुप्रातलिोम्येन वृत्तं भूपुरसंयुतम् । बीजसन्दृब्धकोणं च यन्त्रं रक्षादिसाधनम् ॥128॥

समं तत्सर्वमन्त्रेषु जप्तं धार्यं तु वा भुवि । विलिख्य मण्डले वा तत्पूजयेद्धरिमञ्जसा ॥129॥

प्रतिमालक्षणैर्यावद्युक्त आचार्य उत्तमः । सर्ववित्तपसा युक्त आज्ञाशक्तियुतो हरेः ॥130॥

यावद्भक्तो यथा लब्धैर्गुणैर्युक्तोथ वैष्णवः । गुरुः सत्सम्प्रदायज्ञस्तारतम्येन सिद्धिदः ॥131॥

उत्तमादुत्तमा सिद्धिर्धर्ममोक्षेषु स्फुटम् । तस्मादुत्तम आचार्ये लब्धे नातोवरं व्रजेत् ॥132॥

एकस्य शिष्यतां प्राप्य तदाज्ञां न विना समम् । अवरं वा व्रजेदुच्चगुणश्चेन्नैव दुष्यति ॥133॥

विशेषतो गुणश्च स्यादेवेष्वप्येवमेव हि । तस्मादुत्तममाचार्यं देवेशं चाश्रयेद्धरिम् ॥134॥

अपरोक्षदृशेरेव यस्मान्मोक्षो न चान्यथा । अपरोक्षदृशिश्चैव श्रवणान्मननादनु ॥ सम्यङ्निश्चिततत्त्वस्य निदिध्यासनया भवेत् ॥135॥

द्विविधा सा च सम्प्रोक्ता विष्णुशास्त्रावमर्शनम् । एकं ध्यानं हरेसन्यच्चत्वार्यङ्गानि तस्य च ॥ यमश्च नियमश्चासा प्राणायाम इतीरितः ॥136॥

अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । यमाः शौचं तपस्तुष्टिः स्वाध्यायो हरिपूजनम् ॥ नियमा वीरपद्मे च स्वस्तिकाद्यानि चासनम् ॥137॥

रेचकः पूरकश्चैव कुम्भश्च त्रिधा स्मृतः । प्राणायामः स्मृतिं विष्णोर्विना नियम उच्यते ॥138॥

अधीतिस्मृतियुक्तो हि निदिध्यासनमेव हि । प्राणायामेपि विष्णोर्यत्स्मरणं ध्यानमेव हि ॥139॥

आसा शौचं प्राणायामो निष्परिग्रहपूर्वकाः । तपआद्याः क्रमात् सर्व उत्तरोत्तरतोधिकाः ॥ सर्वस्माच्छ्रवणाद्यास्तु मुख्या मुक्तिप्रसाधने ॥140॥

अज्ञस्य श्रवणं श्रेष्ठमयुक्तेर्मननं तथा । ध्यानं निश्चिततत्त्वस्य तस्माच्छास्त्रावमर्शनम् ॥141॥

वरं दशगुणं तस्मात् व्याख्यैकस्य शतोत्तरा । अपरोक्षदृशाप्येषा कर्तव्या विष्णुतुष्टिदा ॥142॥

य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥143॥

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥144॥

शौचासने त्वङ्गमात्रं न पृथङ्धर्मकारणम् । प्राणायामादयस्तुष्टिपर्यन्ता द्विगुणाधिकाः ॥145॥

स्वाध्यायो कोटिगुणस्ततोनन्तगुणा हरेः । पूजातस्त्रिगुणं ध्यानमिति धर्मक्रमः स्मृतः ॥146॥

ऊर्वोरधः पदोरूर्ध्वं त्रिभागेनेति च त्रिधा । आसनत्रयमुद्दिष्टं मन्त्रस्मरणपूर्वकम् ॥147॥

द्विगुणोत्तरं रेचकादि षोडशादिक्रमेण तु । मात्राणां ह्रस्ववर्णस्य कालो मात्रेति शब्द्यते ॥148॥

क्रमेणैवाभ्यसेन्मात्रावृद्धिमेकाग्रधीः पुनः । रेचयित्वा दक्षिणतः पूरयित्वा च वामतः ॥ कुम्भकश्च सुषुम्नायां विष्णुं वायुं च संस्मरेत् ॥149॥

मूलाधारं समारभ्य त्वामूर्धानमृजुस्थिता । मध्ये सुषुम्ना विज्ञेया वज्रिकार्या प्रकाशिनी ॥150॥

वैद्युता ब्रह्मनाडीति सैव पञ्चप्रभेदिनी । पृष्ठवामाग्रदक्षान्तर्भेदास्तेषु च क्रमेण तु ॥151॥

हरिर्नीलः सितः पिङ्गो लोहितश्चात्र केशवः । प्रद्युम्नादिस्वरूपेण ध्येयः सिद्धिमभीप्सता ॥152॥

मूले च नाभौ हृदयेन्द्रयोनिभ्रूमध्यमूर्धि द्विषडन्तकेषु । चतुःषडष्टद्विचतुर्द्विषट्कदलेषु पद्मेषु सितारुणेषु ॥ पञ्चात्मकोसौ भगवान् सदैव ध्येयो हृदन्तान्यरुणानि तानि ॥153॥

त्रिकोणवह्नौ च षडश्रवायौ द्विस्तावदस्ररविवृत्तशशित्रिवह्नौ । वृत्ते विधावपि विचिन्त्यमिदं दशार्ध रूपं सितं तदखिलं हृदयात् परस्थम् ॥154॥

इडा च पिङ्गला चैव वज्रिका धारिणी तथा । सुषुम्नायाश्चतुर्दिक्षु व्रजिकाद्यासु तत्र च ॥ चतुर्मूर्तिः स भगवान् हृदये संव्यवस्थितः ॥155॥

द्वासप्ततिसहस्राणि नाड्योन्यास्तु प्रधानतः । बृहतीसहस्रस्पर्शानामृचां वाच्योत्र केशवः ॥156॥

रूपाणां लक्षणं तेषां रहस्यत्वान्न कथ्यते । विष्णुना ब्रह्मणे प्रोक्तं ग्रन्थसङ्कोचतस्तथा ॥157॥

खण्डस्मृतिर्धारणा स्यादखण्डा ध्यानमुच्यते । अप्रयत्नात् समाधिश्च दर्शनं चिरयानया ॥ अथवा सततं शास्त्रविमर्शेन भविष्यति ॥158॥

परमस्नेहसंयुक्तयथार्थज्ञानतो भवेत् । सा भक्तिरिति विज्ञेया साधनं भोगमोक्षयोः ॥159॥

मुख्यमेषैव नान्यत् स्यात् सर्वं व्यर्थं तया विना । सैकाप्यभीष्टफलदा मोक्षो दर्शनयुक्तया ॥160॥

दर्शनं तु तया हीनं व्यर्थमन्यत् किमुच्यते । योग्यं तु दर्शनं नैव तया हीनं भविष्यति ॥161॥

आनन्दचित्सदितिपूर्वगुणैः समस्तैर्मर्त्यादिभिर्विधिपरैर्भगवान् क्रमेण । ध्यातोधिकैरधिगुणोधिकमेव सौख्यं मुक्तौ ददाति सततं परमस्वरूपः ॥162॥

निर्दोषाखलिसम्पूर्णगुणेन हरिणा स्वयम् । ब्रह्मणे कथितात् तन्त्रसारादुद्धृत्य सादरम् ॥ आनन्दतीर्थमुनिना कृतो ग्रन्थोयमञ्जसा ॥163॥

ग्रन्थोयं पाठमात्रेण सकलाभीष्टसिद्धिदः । किमु ज्ञानादनुष्ठानादुभयस्मात् पुनः किमु ॥164॥

यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् । वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥165॥

अशेषदोषोज्झितपूर्णसद्गुणं सदा विशेषापगतोरुरूपम् । नमामि नारायणमप्रतीपं सदा प्रियेभ्यः प्रियमादरेण ॥166

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते तन्त्ररासङ्ग्रहे चतुर्थोध्यायः ।