Jump to content

ब्रह्मसूत्रभाष्यम्/C01/S03/A021: Difference between revisions

From Anandamakaranda
BS>ImportBot
Initial import
 
m 1 revision imported
 
(No difference)

Latest revision as of 10:10, 2 March 2026

अक्षराधिकरणम्

अदृश्यत्वादिगुणा विष्णोरुक्ताः’ अदृष्टं द्रष्ट्रश्रुतं श्रोतृ’ इत्यादिना । ‘अहं सोममाहनसं भिभर्मि’ इत्यादेस्तस्यापि सम्भवान्मध्यमाक्षरस्योक्ता इत्यतो ब्रूते –


ॐ अक्षरमम्बरान्तधृतेः ॐ ॥ 10-73 ॥


‘एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’ इत्यम्बरान्तस्य सर्वस्य धृतेर्ब्रह्मैवाक्षरम् ।


‘य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा’ ‘भर्ता सन् भ्रियमाणो बिभर्ति । एको देवो बहुधा निविष्टः । यदा भारं तन्द्रयते स भर्तुम् । पराऽस्य भारं पुनरस्तमेति’ । ‘यस्मिन्निदं सञ्च वि चैदि सर्वं यस्मिन् देवा अधि विश्वे निषेदुः’ इत्यादि श्रुतेः ।



ॐ सा च प्रशासनात् ॐ ॥ 11-74 ॥


सा च धृतिः प्रशासादुच्यते ।’ एतस्य वा अक्षरस्य प्रशासने गार्गी सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ इत्यादिना । तच्च प्रशासनं विष्णोरेव ।


‘सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि’ । चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीरवीविपत्’ इत्यादिश्रुतेः ।


‘एकः शास्ता न द्वितीयोऽस्ति शास्ता’।

यो हृच्छयस्तमहमिह ब्रवीमि’

‘न केवलं मे भवतश्च राजन् स वै बलं बलीनां चापरेषाम्’इत्यादेश्च ॥ 11 ॥


ॐ अन्यभावव्यावृत्तेश्च ॐ ॥ 12-75 ॥


‘अस्थूलमनणु’ इत्यादिना स्थूलाण्वादीनामन्यवस्तुस्वभावानां व्यावृत्तेश्च।


‘अस्थूलोऽनणुरमध्यमो मध्यमोऽव्यापको व्यापको योऽसौ हरिरादिरनादिरविश्वो विश्वः सगुणो निर्गुणः’ इत्यादेर्विष्णोरेव ते धर्माः ।