Padyamala/Vyakhya/Bhavadipika: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |

| Line 5: | Line 5: | ||

== प्रथमः भङ्गः == | == प्रथमः भङ्गः == | ||

नमोऽगणितकल्याणगुणपूर्णाय विष्णवे।सत्याशेषजगज्जन्मपूर्वकर्त्र मुरद्विषे ।। 1 ।।

{{Teeka |

{{Teeka | ||
| Line 25: | Line 17: | ||

अथाऽतो ब्रह्मजिज्ञासेति भगवता सूत्रकृता जिज्ञासाहेतुभूतस्य गुणपूर्णत्वस्य सम्भावकतया जन्माद्यस्य यत इति द्वितीयसूत्रेण जगज्जन्मादिकर्तृत्वं लक्षणमभिहितम्। तच्च जगत्सत्यतामन्तरेण वास्तवं न भवति। सा च न परोदीरितजगन्मिथ्यात्वप्रमाणानामाभासताव्युत्पादनेन विनोपपद्यत इति तदर्थमिदं प्रकरणमारभमाणे भगवाञ्जयतीर्थाचार्य-वर्योऽविगीत शिष्टाचारपरम्पराप्राप्तं प्रारिप्सितपरिमाप्त्यादि प्रयोजनकं सूत्रद्वयोक्तगुणविशिष्टभगवन्नतिरूपं मङ्गलमादावाचरति।। नम इति। मुरद्विषे विष्णवे नम इत्यन्वयः। नमः स्वस्ति स्वाहेत्यादिना चतुर्थी। अगणितैः केनाप्यसङ्ख्यातैः कल्यामगुणैर्ज्ञानानन्दबलैश्वर्यादिभिः पूर्णायेत्यनेन विष्णुवाचकब्रह्मशब्दार्थः कथितः। पूर्णपदेन च प्रत्येकं गुणानां निरवधिकत्वमाह। सत्त्वादीनां श्रुत्यादौ गुणत्वेन प्रसिद्धेर्दुःखद्वेषादीनां मतान्तरे गुणत्वेन परिगणनाच्च तद्व्यदासाय कल्याणेति विशेषणम्। सत्यस्य परमार्थसतोऽशेषजगतो जन्मैव पूर्वं येषां स्थित्यादिनां तेषां कर्त्र इत्यर्थः। ननु जगतो मिथ्यात्वात्कथं तस्य जन्मादीत्यत उक्तं। सत्येति।। तच्च साधयिष्यत इति भावः। एतेनास्य ग्रन्थस्य सूत्रद्वयोक्तार्थसमर्थनार्थत्वेन तदेकदेशत्वात्तद्विषयादिनैव प्रेक्षावत्प्रवृत्त्यङ्गं विषयादिमत्त्वं सिद्धमिति सूचितं भवति। ननु जगज्जन्मपूर्वकर्त्र इत्यत्र कथं जन्मपूर्वाणां कर्तेति षष्ठीसमासः। कर्तृशब्दस्य तृजन्तत्वे तृजकाभ्यां कर्तरीति षष्ठीसमासनिषेधात्। तृन्नन्तत्वे च, न लोकाव्ययनिष्ठाखलर्थतृनामिति षष्ठ्या एव निषेधादिति चेत्। इत्थम्। तृजन्तत्वे याजकादित्वेन वा शेषषष्ठीत्वेन वा षष्ठीसमासः। तृन्नन्तत्वे च श्रितादिषु गमिगम्यादीनामुपसङ्ख्यानमित्युक्तेर्द्वितीयातत्पुरुषो बोध्यः।

मूलम्--ननु कथं सत्यता जगतोऽङ्गीकाराधिकारिणी। विमतं मिथ्या दृश्यत्वाज्जडत्वात् परिच्छिन्नत्वाच्छुक्तिरजतवदित्यनुमानविरोधादिति। मैवम्। मिथ्यात्वानिरुक्तेः।

{{Teeka |

{{Teeka | ||
| Line 42: | Line 27: | ||

ननु विमतेरपि ब्रह्मासत्प्रातिभासिकसाधारण्या अपि सम्भवेन विमतिविषयत्वमति प्रसक्तम् न पक्षतावच्छेदकं भवितुमर्हति। किञ्च धर्मितावच्छेदकमगृहीत्वा विमतिविषयत्वमेव दुर्ग्रहमिति तद्ग्रहणस्यावश्यकत्वेनप्रथमोपस्थितत्वेन तदेव पक्षतावच्छेदकत्वेन निर्देशार्हं न विमति विषयत्वमिति चेत्। सत्यम्। ब्रह्मासत्प्रातिभासिकान्यत्वं वा सप्रकारकज्ञानाबाध्यत्वे सत्यसद्विलक्षणत्वे सति ब्रह्मान्यत्वं वाऽवच्छेदकं सम्भवति। विमतिश्च तदवच्छेदेनानतिप्रसक्ता। तथाऽपि तद्विषयत्वमेव लाघवात्पक्षतावच्छेदकं न त्वन्यद्नौरवादिति विमतमित्येवोक्तम्। एवं विमतं सत्यमित्यादिसिद्धान्तानुमानेष्वपि पक्षनिर्देशाभिप्रायो बोध्यः। दृश्यत्वात् दृग्विषयत्वादित्यर्थः।। शुक्तिरजतवदिति। शुक्त्यध्यस्तरजतवदित्यर्थः। पूर्वपक्षं प्रतिक्षिपति ।। मैवमिति । कुत इत्यतः प्रथमप्राप्तत्वात्प्रतिज्ञांशं तावद्दुदूषयिषुः साध्यस्य दुर्वचत्वादित्याह।। मिथ्यात्वेति। निर्दोषमिथ्यात्वनिर्वचनासम्भवादित्यर्थः। तथा चाप्रसिद्धविशेषणमनुमामिति भावः।

मूलम्-तत्किमनिर्वचनीयत्वं वा असत्त्वं वा सद्विविक्तत्वं वा प्रमाणाविषयत्वं वा अप्रमाणविषयत्वं वा अविद्यातत्कार्ययोरन्यरत्वं वा स्वात्यन्ताभावसमानाधिकरणतया प्रतीयमानत्वं वा। नाद्यः। विकल्पासहत्वात्।।

{{Teeka |

{{Teeka | ||