ब्रह्मसूत्रभाष्यम्/C01/S04/A039: Difference between revisions
BS>ImportBot Initial import |
m 1 revision imported |
(No difference)
| |
Latest revision as of 10:10, 2 March 2026
सर्वेव्याख्याताधिकरणम्
ॐ एतेन सर्वे व्याख्याता व्याख्याताः ॐ ॥ 29-135 ॥
एतेन सर्वे शून्यादिशब्दा अपि व्याख्याताः ।
इति महोपनिषदि।‘एष ह्येव शून्य एष ह्येव तुच्छ एष ह्येवाभाव एष ह्येवाव्यक्तोऽदृश्योऽचिन्त्यो निर्गुणश्च’
‘शमूनं कुरुते विष्णुरदृश्यः सन् परः स्वयम् ।
तस्माच्छून्यमिति प्रोक्तस्तोदनात्तुच्छ उच्यते ॥
नैष भावयितं योग्यः केनचित् पुरुषोत्तमः ।
अतोऽभावं वदन्त्येनं नाश्यत्वान्नाश इत्यपि ॥
एतेन तदधीनत्वाद्युक्तयुक्तिसमुदायेन ।
इति वराहसंहितायाम् ॥ 29 ॥‘अवधारणार्थं सर्वस्याप्युक्तस्याध्यायमूलतः ।
द्विरुक्तिं कुर्वते प्राज्ञा अध्यायान्ते विनिर्णये’