Jump to content

Sadacharasmriti

From Anandamakaranda
Revision as of 17:55, 20 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
सदाचारस्मृतिः


यस्मिन् सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो याति परं जयति सोऽच्युतः॥ १॥


स्मृत्वा विष्णुं समुत्थाय कृतशौचो यथाविधि । धौतदन्तः समाचम्य स्नानं कुर्याद् विधानतः॥ २॥


उद्धृतेति मृदाऽऽलिप्य द्विषडष्टषडक्षरैः ।

त्रिर्निमज्याप्यसूक्तेन प्रोक्षयित्वा पुनस्ततः ।

मृदाऽऽलिप्य निमज्य त्रिस्त्रिर्जपेदघमर्षणम्॥ ३॥


स्रष्टारं सर्वलोकानां स्मृत्वा नारायणं परम् ।

यतश्वासो निमज्याप्सु प्रणवेनोत्थितस्ततः ।

सिञ्चन् पुरुषसूक्तेन स्वदेहस्थं हरिं स्मरन्॥ ४॥


वसित्वा वास आचभ्य प्रोक्ष्याचम्य च मन्त्रतः । गायत्र्या चाञ्जलिं दत्वा ध्यात्वा सूर्यगतं हरिम्॥ ५॥


मन्त्रतः परिवृत्याथ समाचम्य सुरादिकान् । तर्पयित्वा निपीड्याथ वासो विस्तृत्य चाञ्जसा॥ ६॥


अर्कमण्डलगं विष्णुं ध्यात्वैव त्रिपदीं जपेत् । सहस्रपरमां देवीं शतमध्यां दशावराम्॥ ७॥


आसूर्यदर्शनात्तिष्ठेत् ततस्तूपविशेत वा ।

पूर्वां सन्ध्यां सनक्षत्राम् उत्तरां सदिवाकराम् ।

उत्तरामुपविश्यैव वाग्यतः सर्वदा जपेत्॥८॥


ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः । केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः॥९॥


गायत्र्यास्त्रिगुणं विष्णुं ध्यायन्नष्टाक्षरं जपेत् ।

प्रणम्य देवान् विप्रांश्च गुरूंश्च हरिपार्षदान् ।

एवं सर्वोत्तमं विष्णुं ध्यायन्नेवार्चयेद्धरिम्॥ १०॥


ध्यानप्रवचनाभ्यां च यथायोग्यमुपासनम् ।

धर्मेणेज्यासाधनानि साधयित्वा विधानतः ।

स्नात्वा सम्पूजयेद्विष्णुं वेदतन्त्रोक्तमार्गतः॥ ११॥


वैश्वदेवं बलिं चैव कुर्यान्नित्यं तदर्पणम् ।

इष्टं दत्तं हुतं जप्तं पूर्तं यच्चात्मनः प्रियम् ।

दारान् सुतान् प्रियान् प्राणान् परस्मै सन्निवेदयेन्॥ १२॥


भुक्तशेषं भगवतो भृत्यातिथिपुरस्सरः ।

भुञ्जीत हृद्गतं विष्णुं स्मरंस्तद्गतमानसः ।

आचम्य मूलमन्त्रेण कोष्ठं स्वमभिमन्त्रयेत्॥ १३॥


वेदशास्त्रविनोदेन प्रीणयन् पुरुषोत्तमम् । अहःशेषं नयेत्सन्ध्याम् उपासीताथ पूर्ववत्॥ १४॥


यामात्परत एवाथ स्वपेद्ध्यायन् जनार्दनम् । अन्तराले ततो बुद्‍ध्वा स्मरेत बहुशो हरिम्॥ १५॥


कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतस्स्वभावम् । करोति यद्यत्सकलं परस्मै नारायणायेति समर्पयेत्तत्॥ १६॥


द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥ १७॥


उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥ १८॥


यस्मात्क्षरमतीतोहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥ १९॥


यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत॥ २०॥


इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुद्‍ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत॥ २१॥


रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः । ब्रह्मा मामाश्रितो नित्यं नाहं कञ्चिदुपाश्रितः॥ २२॥


ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः॥ २३॥


ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः॥ २४॥


द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च । विष्णुभक्तिपरो दैवो विपरीतस्तथासुरः॥२५॥


स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् । सर्वे विधिनिषेधाः स्युरेतयोरेव किङ्कराः॥२६॥


धर्मो भवत्यधर्मोऽपि कृतो भक्तैस्तवाच्युत । पापं भवति धर्मोऽपि यो न भक्तैः कृतो हरेः॥२७॥


मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । नित्यं भवेच्च मन्निष्ठो बुभूषुः पुरुषस्सदा॥२८॥


एष नित्यः सदाचारो गृहिणो वनिनस्तथा । वैश्वदेवं बलिं दन्तधावनं चाप्यृते वटोः॥२९॥


एवमेव यतेः स्वीयवित्तेन तु विना सदा । मूलमन्त्रैः सदा स्नानं विष्णोरेव च तर्पणम्॥३०॥


विशेषो निष्क्रिययतेरजलाञ्जलिना तथा । तर्पणं तु हरेरेव यतेरन्यस्य चोदितम्। समिद्धोमो वटोश्चैव स्मृत्वा विष्णुं हुताशने॥३१॥


सर्ववर्णाश्रमैर्विष्णुरेक एवेज्यते सदा । रमाब्रह्मादयस्तस्य परिवारत एव तु॥३२॥


कविं पुराणमनुशासितारम् अणोरणीयांसमनुस्मरेद् यः । सर्वस्य धातारमचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात्॥३३॥


वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचिन्त्य धीरः नामानि कृत्वाभिवदन् यदास्ते॥ ३४॥


धाता पुरस्ताद्यमुदाजहार शक्रः प्रविद्वान्प्रदिशश्चतस्रः । तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते॥ ३५॥


आनन्दतीर्थमुनिना व्यासवाक्यसमुद्धृतिः । सदाचारस्य विषये कृता सङ्क्षेपतः शुभा॥ ३६॥


अशेषकल्याणगुणनित्यानुभवसत्तनुः । अशेषदोषरहितः प्रीयतां पुरुषोत्तमः॥ ३९॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिता सदाचारस्मृतिः समाप्ता॥