Nakha/Vyakhya/BalabodhiniNakha
नखस्तुति-टीका — बालबोधिनी
पान्त्वस्मान् पुरुहूतवैरिबलवन्मातङ्गमाद्यद्घटाकुम्भोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिताः । श्रीमत्कण्ठीरवास्यप्रततसुनखरादारितारातिदूरप्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता (नाकिवृन्दैः) भूरिभागैः॥1॥
त्रैलोक्यस्तम्भशम्भ्वादिहृद्गुहावासिनं सदा । षड्वर्गदन्तिसन्दोहकृन्तनं नृहरिं भजे।। १ ।।
लक्ष्मीकान्त समन्ततोऽपि(वि)कलयन्नैवेशितुस्ते समं पश्याम्युत्तमवस्तु दूरतरतोपास्तं रसो योष्टमः । यद्रोषोत्करदक्षनेत्रकुटलिप्रान्तोत्थिताग्निस्फुरत्खद्योतोपमविस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः ॥2॥
‘‘सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यं नैवचान्यत्र सत्यम्’’ इति श्रुतेः सकलसच्छास्त्रमुख्यतात्पर्यार्थभूतं श्रीनृहरेः समाभ्यधिकराहित्यलक्षणं सर्वोहमत्वं मुमुक्षुणा सर्वावस्थास्ववश्यं प्रतिपत्तव्यमित्यतः सप्रमाणं तत्प्रतिपादयंस्तौति लक्ष्मीकान्तेति ।। हे लक्ष्मीकान्त लक्ष्म्या वल्लभ श्रीनृसिंह । ईशितुः सर्वस्वामिनः ते तव सदृशं वस्तु समन्ततोऽपि सर्वत्र जगतीत्यर्थः । कलयन् मनसा प्रमाणैर्वा विचारयन्नहं न पश्याम्येव । ‘‘द्यशिर् प्रेक्षण’’ इत्यस्माल्लट् । अनेन च नृहरिसदृश्वस्त्वभावे योगिश्रेष्ठात्मप्रत्यक्षलक्षणं दर्शितम् । तर्ह्युत्तमं वस्तु किञ्चिदस्ति किमित्यत आह - उत्तमवस्त्विति । योऽत्यन्तासत्वेन प्रसिद्धः । अष्टानां पूरणोऽष्टमः । ‘‘तस्य पूरणे डट्’’ इति डटो ‘नान्तादसङ्ख्यादेर्मडि’ति माडागमः । रसः स इव । उत्तमं च तत् वस्तु च उत्तमवस्तु श्रीनृसिंहादुत्तमपदार्थ इत्यर्थः । अतिशयेन दूरं दूरतरं तस्मादिति दूरतरतः । अतिदूरादेवेत्यर्थः । अपास्तं निरस्तम् । मधुर लवणक्तिाम्लकटुकषायभेदेन षड्रसा एव प्रसिद्धा लोकवेदयोः । न तु सप्तम एव रसः । षड्रसातिरिक्तस्य रसस्य शशविषाणायितत्वात् । अष्टमस्तु रसः सुतरामेवाप्रसिद्धो यथा, तथा श्रीनृसिंहसदृश एव देवो नास्ति । तदुत्तमो देवस्तु सुतरां नास्तीति भावः । ननु ब्रह्मादय समा वा उत्तमा वा किं न स्युरित्यत आह यद्रोषोत्करेत्यादि । ब्रह्मेशशक्रोत्कराः ब्रह्मणश्च ब्रह्माणश्च ईशाश्च रुद्रास्ते च शक्राश्च तेषामुत्कराः समूहा अतीताद्यनन्तब्रह्मादे समस्तदेवासुरादिजगत्समुदाया इत्यर्थः । रोषणां क्रोधानामुत्करः समूहो यस्मिन् दक्षनेत्रे तद्रोषोत्करं तच्च तद्दक्षनेत्रं च दक्षिणनेत्रं च । यस्य नृसिंहस्य रोषोत्करदक्षनेत्रं यद्रोषोत्करदक्षनेत्रं तस्यः यः कुटिलो वक्रः प्रान्तः पर्यन्तभागोऽपाङ्गप्रदेश इत्यर्थः । तस्मादुत्थितः संहारकाले उत्पन्नो योऽग्निस्तस्य स्फुरन्तो ज्वलन्तः खद्योतानुपमा येषां ते खद्योतानामुपमाः तादृशा ये विष्फुलिङ्गा वह्निकणस्तैर्भसिता भस्मीकृताः ।। अनेन च श्रीनृसिंहादुत्तमवस्त्वभावे श्रुत्यनुसारिणी युक्तिः प्रमाणत्वेन दर्शिता भवति । तथा च ब्रह्मादिदेवानामुत्पत्तिस्थितिसंहृत्यादेः श्रीनृसिंहकटाक्षावलोकन मात्राधीनत्वेन तदधीनत्वात्तेषां न तद्दास्यं तदसमत्वं वेति सर्वोत्तमत्वात्स एव सर्वदा श्रेयोऽर्थिभिर्ध्येय इत्यशेषमतिमङ्गलम् ।। ननु ‘‘सृष्टृत्वेन हि स्रज्यानां प्रवेशो ब्रह्मणो लय’’ इत्यनुव्याख्याने देवानां स्वोत्तमेषु लयः श्रूयते । ततः कथं नृसिंहसंहार्यत्वमि’’ति चेत्सत्यं, देवानां लयस्तावद्द्विधः । अणद्बहिरन्तश्चेति । तत्र ‘स्रष्टुष्वेवही’त्युक्तस्य लयस्य ब्रह्माण्नाशानन्तर भावित्वेन बाह्यतत्वविषयत्वात् । अस्य च लयस्याण्डान्तरविषयत्वेनाविरोधात् ।। ननु तथापि ‘‘सङ्कर्षणश्च स बभूव पुनः सुनित्यसंहारकारणवपु’’रिति तात्पर्यनिर्णयविरोधः ।। तथा दुर्गारुद्रादिस्वोत्तमसंहार्यत्व प्रतिपादक ‘‘विश्वस्थितिप्रलयसर्गमहाविभूतिवृत्तिप्रकाशनियमावृत्तिबन्धमोक्षाः । यस्या अपाङ्गलवमात्रत ऊर्जिता सा श्रीर्यत्कटाक्षबलवत्यजितं नमामि’’ शक्रोग्रदीधितिहिमाकरसुर्यसुनुपूर्वं निहत्य निखिलं यदपाङ्गलेषम् । आश्रित्य नृत्यति शिवः प्रकटोरुशक्तिरित्यादि वाक्यविरोधश्च स्यादिति चेन्न । अणन्तर्ब्रह्मादिदेवानामनेकरूपाणां सत्वात् । तेषु च केषाञ्ञ्चिद् रूपाणां सङ्कर्षणनाश्यत्वस्य केषाञ्चिन्नृसिंहनाश्यत्वस्य दुर्गारुद्रादिस्वोत्तम नाश्यत्वस्य विवक्षितत्वेनाविरोधात् । अत एव भागवते - ‘‘अग्नावन्ये धारणया दग्ध्वा देहं परं पदम् । यान्ति देवाः समस्ताश्च तेषामन्या तनुर्हरिः । नृसिंहरूपी सर्वेषां हत्वा ताभिरलङ्कृतः । नृत्यते प्रलयो देवः’’ इति देवरूपविशेषणं नृसिंहसंहार्यत्वमुक्तमिति न कोऽपि विरोधः इति सर्वमनवद्यम् ।। इति श्रीनखस्तुतिव्याख्या श्रीविश्वपतितीर्थविरचिता बालबोधिनी सम्पूर्णा ।।