Padyamala/Vyakhya/Bhavaprakashaha
भावप्रकाशः
अध्याय 1
नमोऽगणितकल्याणगुणपूर्णाय विष्णवे। सत्याशेषजगज्जन्मपूर्वकर्त्र मुरद्विषे ।। 1 ।।
श्रीरामं हनुमत्सेव्यं श्रीकृष्णं भीमसोवितम्। श्रीव्यासं मध्वसंसेख्यं समस्ताभीष्टदं भजे ।। 1 ।।
श्रीमदानन्दतीर्थर्यचरणावाश्रयेऽनिशम्। रुद्रादिसर्वविबुधैः संसेव्याविष्टदौ सताम् ।। 2 ।।
अक्षोब्यतीर्थकरजान् व्यासरामपदार्चकान्। वन्दे ग्रन्थार्थविज्ञप्त्यै जयराजमुनीनहम् ।। 3 ।।
यैरहं शुकवत्सम्यक् शिक्षितोऽस्मि कृपालुभिः। तान्वन्दे यादवाचार्यान्वेदेशमुनिसेवकान् ।। 4 ।।
अथैतत्कृपया श्रीनिवासाख्यायुतसूरिणा। प्रकाश्यते मया वादावली सम्यग्यथामति ।। 5 ।।
मूलम्--ननु कथं सत्यता जगतोऽङ्गीकाराधिकारिणी। विमतं मिथ्या दृश्यत्वाज्जडत्वात् परिच्छिन्नत्वाच्छुक्तिरजतवदित्यनुमानविरोधादिति। मैवम्। मिथ्यात्वानिरुक्तेः।
मूलम्-तत्किमनिर्वचनीयत्वं वा असत्त्वं वा सद्विविक्तत्वं वा प्रमाणाविषयत्वं वा अप्रमाणविषयत्वं वा अविद्यातत्कार्ययोरन्यरत्वं वा स्वात्यन्ताभावसमानाधिकरणतया प्रतीयमानत्वं वा। नाद्यः। विकल्पासहत्वात्।।
अध्याय 2
निर्वचनशब्दात्तस्सम्बन्धीत्यर्थे छप्रत्यये तस्येयादेशे निर्वचनीयमिति भवति। तदीयं मदीयमित्यादिवत्। निर्वचनसम्बन्धित्वं चात्र तद्विषयत्वं विवक्षितम्। तथा चार्निर्वचनीयत्वं नाम निर्वचनविषयत्वाभावः। तत्र किं विशेषणभूतं यन्निर्वचनं वच परिभाषण इति धातेर्नितरामुक्तिस्तद्विरहोऽभिप्रेत उत तद्विषयरूपनिर्वाच्यविरह इति विकल्पयति।। निर्वचनविरह इत्यादिना।। व्यवहारेति।। इदं रूप्यमित्यादिव्यवहारेत्यर्थः। तथा च व्यवहारस्यैवाभावे व्यवहारविषयत्वाभ्युपगमो विरुद्व इति भावः। तथा च लक्षणस्यासम्भव इति ज्ञातव्यम्। द्वितीये निर्वाच्यत्वं किं विवक्षितं सत्त्वमसत्त्वं वा यद्विरहोऽनिर्वाच्यत्वमित्याशयेन विकल्प्य दूषयति।। द्वितीय इत्यादिना।। ब्रह्मण इति।। निर्वचनविषयरूपासत्त्वविरहस्य ब्रह्मण्यपि सत्त्वादित्यर्थः। सदसद्वैलक्षण्यमित्यत्र सच्च तदसच्च सदसत्तद्वैलक्षण्यमिति विवक्षितम्। यद्वा सच्चासच्च सदसती द्वन्द्वान्न्ते श्रूयमाणो वैलक्षण्यशब्दः प्रत्येकमभिसम्बध्यते। तथा च सद्वैलक्षण्यमसद्वैलक्षण्यमित्युभयवैलक्षण्यं विवक्षितमिति विकल्प्याद्ये सदेकस्वभावस्य जगतः सदसद्रूपतानङ्गीकारत्तद्वैलक्षण्यसाधने सिद्धसाधनतेत्याह।। तदेति। तर्हित्यर्थः। द्वितीयं शङ्कते।। अथेति। प्रस्तुतदोषः सिद्धसाधनता। सद्वैलक्षण्यसाधने सद्ब्रह्म तद्वैलक्षण्याभ्युपगमात्सिद्धसाधनता। असद्वैलक्षण्यसाधनेऽपि तद्वैलक्षण्यस्याप्यस्माभिरप्यभ्युपगमात्सिद्धसाधनतैवेत्यर्थः।। एतेनेति। सच्च तदसच्च सदसत्तत्त्वानधिकरणत्वं विवक्षितं चेत्तर्हि सदेकस्वभावस्य जगतः सदसत्त्वानभ्युपगमात्तदनधिकरणत्वसाधने सिद्धसाधनता। सच्चासच्च सदसती। द्वन्द्वान्ते श्रूयमाणस्त्वप्रत्ययः प्रत्येकमभिसम्बध्यते। तथा च सत्वानधिकरणत्वमसत्त्वानधिकरणत्वमिति प्रत्येकमुभयानधिकरणत्वसाधने सत्त्वं ब्रह्मत्वं तदनधिकरणत्वस्यासत्त्वानधिकरणत्वस्य च जगतोऽस्माभिरप्यभ्युपमात्सिद्धसाधनत्वमिति प्रस्तुतदूषणेनेत्यर्थः । शङ्कते।। प्रत्येकमिति। सत्त्वेन प्रकारेण विचारागोचरत्वे सत्यसत्त्वेन प्रकारेण विचारागोचरत्वमित्यर्थः। विचारपदवीं विचारमार्गं न गाहते न प्राप्नोतीति यावत्। तथा च सत्त्वेन विचारागोचरत्वमसत्त्वेन च विचारागोचरत्वरूपमनिर्वचनीयत्वमेव मिथ्यात्वमभिप्रेतमिति भावः।।
तादृशवस्तुन इति। सत्त्वेन विचारागोचरस्यासत्त्वेन विचारागोचरस्य वस्तुन इत्यर्थः।। नियतत्वेनेति। परस्परविरुद्धयोरन्यतरनिषेधस्यान्यतरविधिनाऽन्तरीयकत्वादित्यर्थः।। उभयविरहितत्वमिति। सत्त्वासत्त्वोभयविरहितत्वं सदसद्वैलक्षण्यमिति यावत्। प्राप्तमित्यर्थः।
तथा सतीति।। सत्त्वासत्त्वयोर्दुर्निरूपत्वाज्जगति ते न स्त इत्यभिप्राये सतीत्यर्थः। तस्य जगतः।
तदुपपादयति।। यथा खलु सत्त्वासत्त्वे भवन्मत इति। तदभावोऽनिर्वचनीयत्वाभावो ध्रुवो नियतः स्यात्। जगत इति शेषः। इत्यादीत्यादिपदेन सत्त्वविरहे चासत्त्वमित्यस्य ग्रहणम्। व्याप्त्यसिद्धेरिति। उभयत्र दृष्टान्ताभावादिति भावः। तथा च नियतत्वेनेति प्रागुक्तमसदिति भावः। आत्मादावित्यादिपदेन शशविषाणाद्यसद्ग्रहणम्। तथा चासत्त्वविरहे सत्त्वमित्यत्रात्मा दृष्टान्तः सत्त्वविरहे चासत्त्वमित्यत्र शशविषाणादिकं दृष्टन्त इति भावः।
किं तदात्मत्वमिति। यत्सत्त्वे प्रयोजकत्वेनोच्यत इत्यर्थः।। घटादिव्यावृत्तेति। घटाद्यवृत्तित्वे सत्यात्मवृत्तिजातिरात्मत्वमित्यर्थः। आत्मवृत्तिधर्म आत्मत्वमित्युक्ते प्रमेयत्वादावतिव्याप्तिः स्यादतो जातिरित्युक्तम्। तथात्वे सत्ताद्रव्यत्वयोरतिव्याप्तिः स्यादतः सत्यन्तम्। तावत्युक्ते शशविषाणादावतिव्याप्तिः स्यादतो विशेष्यभागः। बुद्धिसुखदुःखेच्छादवतिव्याप्तिपरिहाराय जातिपदमिति द्रष्टव्यम्। तल्लक्ष्यत्वमात्मपदलक्ष्यत्वम्।। जातेरयोगादिति। अनेकानुगतत्वाभावेन नित्यमेकमनेकानुगतं सामान्यमिति तल्लक्षणाभावान्नात्मत्वं जातिरिति भावः।। कल्पितेति। कल्पितानां विशिष्टात्मनामित्यर्थः। तथा चानेकानुगतत्वप्राप्त्या युक्तमात्मत्वस्य जातित्वमिति भावः।। अनुपाधित्वादिति। पक्षैकदेशाव्यावृत्तत्वेन साधनव्यापकत्वान्नात्मत्वस्योपाधित्वमिति भावः। तथा च जगत्सन्न भवति। अनात्मत्वादित्येवमुपाधिव्यावृत्त्या साध्यव्यावृत्तिसाधनरूपसत्प्रतिपक्षोन्नयने भागासिद्धिरिति भावः।।
साध्याविशिष्टत्वादिति। साध्येनाविशिष्टत्वादविलक्षणत्वात्तदभिन्नत्वादित्यर्थः। असत्त्वविरहेण सत्त्वे साध्ये सत्त्वरूपात्मत्वस्योपाधित्वोक्तावुपाधेः साध्याभेदः स्पष्टः। न हि स्वस्मिन्स्वयमेवोपाधिः प्रयोज्यप्रयोजकभावस्य भेदव्याप्तत्वादित्यर्थः।
नासत्त्वस्येति। अर्शआद्य जन्तत्वमङ्गीकृत्यासत्त्ववत इत्यर्थो द्रष्टव्यः। भवितृप्रधानो वा निर्देशः। तथा चासत इत्यर्थः। शुक्तिरजतादेर्बाध्यत्वं नात्र रजतमित्यादिबाधक प्रत्ययाधीनं दृष्टं तदिहाप्यसतः शशविषाणादेर्बाध्यत्वे प्रतियोग्यधिकरणतया प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रत्ययरूपबाधकेन भाव्यम्। न च तद्युज्यते। असतः प्रतिपन्नोपाधेरेवाभावेनोक्तबाधकप्रत्ययाभावादिति स्वयमेवोक्तत्वादिति भावः।। पक्षैकदेशेति। असत्त्वविरहरूपसाधनवति पक्षैकदेशवृत्तिज्ञाने ज्ञानत्वरूपात्मत्वव्यावृत्त्यभावेन साधनव्यापकत्वादित्यर्थः।। आत्मनीति।। शुद्धात्मनश्चिन्मात्रत्वेन ज्ञानरूपत्वेन ज्ञानाधारत्वाभावाल्लक्षणस्यासम्भव इत्यर्थः। उपाधेरात्मनि साध्याव्यापकतेति ज्ञातव्यम्।
पननु नासम्भवो विशिष्टात्मनो ज्ञानाधारत्वादिति चेत्। तर्हि तस्य पक्षनिक्षिप्तत्वेन ज्ञानधारत्वरूपात्मत्वव्यावृत्त्यभावेन साधनव्यापकत्वादित्याह।। तद्वत इति। ज्ञानाधारत्वरूपात्मत्ववतो विशिष्टस्येत्यर्थः। उपरि दृश्यत्वनिरुक्तिभङ्गे।। आत्मनीति।। चिदात्मनः शब्दवाच्यत्वेन तत्तच्छब्दप्रवृत्तिनिमित्तगुणवत्त्वप्राप्त्या केवलो निर्गुणश्चेति श्रुतिविरोधापत्तेः समस्तशब्दलक्ष्यत्वमेव तस्याङ्गीकृतं न वाच्यत्वम्। तथा चात्मपदवाच्यत्वरूपात्मलक्षणस्य चिदात्मन्यसम्भव इत्यर्थः।। पक्षाव्यावृत्तेरिति। आत्मपदलक्ष्यत्वस्य केवलान्वयित्वेन सर्वत्रापि पक्षे सत्त्वेन साधनव्यापकत्वादित्यर्थः।
अध्याय 3
ननु व्यतिरेकिधर्मत्वादिति हेतुर्विशिष्यतेऽतो न प्रमेयत्वादावनैकान्तिकत्वमित्यत आह।। अविरुद्धत्वमिति। सहानवस्थानरूपविरोधाभावः सहावस्थानमित्यर्थः।
ननु विरोधः परस्परविरहव्याप्यत्वरूपः परस्परविरहरूपश्च प्रसिद्धः। अत्र चाविरुद्धत्वं यदि परस्परविरहव्याप्यत्वाभावस्तदा गोत्वाश्वत्वादौ साध्याव्यापकता। तयोर्महिष्यादिनिष्ठत्यन्ताभावप्रतियोगित्वेऽपि परस्परविरहव्याप्यत्वात्। यदि च परस्परविरहरूपत्वाभावस्तदा रूपतद्ध्वंसादौ साध्याव्यापकता। तयोर्वाय्वादिनिष्ठात्यन्ताभावप्रतियोगित्वेऽपि परस्परविरहरूपत्वादिति चेन्न। तथा च परस्परविरहरूपत्वाभावस्यैव विवक्षितत्वाद्विरहश्चात्यन्ताभावः। तथा च परस्परात्यन्ताभावानात्मकत्वमुपाधिरिति न कश्चिद्दोषः। नन्वेवं सति साधनव्यापकोऽयमुपाधिः। अनिर्वचनीयरूपतृतीयकोट्यङ्गीकारवादिनो मम मते सत्त्वासत्त्वयोरपि परस्परात्यन्ताभावानात्मकत्वादिति चेन्न। अनिर्वचनीयार्थाप्रतीतेः प्रागविरोधाप्रतीतेः। तथा चानिर्वचनीयरूपतृतीयकोटिसिद्धौ सत्त्वासत्त्वयोरविरोधसिद्ध्या उपाधेः साधनव्यापकत्वसिद्धिस्तत्सिद्धौ निर्दुष्टानुमानेनानिर्वचनीयार्थसिद्धिरित्यन्योन्याश्रयः स्यादिति भावः। अत्र व्यतिरेकिधर्मत्वादिति हेतोर्घटत्वे व्यभिचारश्च द्रष्टव्यः। पटनिष्ठस्य घटत्वप्रतियोगिकात्यन्ताभावस्यैकत्वेन द्वित्वावच्छिन्नात्यन्ताभाव प्रतियोगित्वभावेन साध्याभावात्।
अध्याय 4
ननु सद्विविविक्तत्वं नाम सत्ताजातिमद्भिन्नत्वमतः सत्ताजात्यनधिकरणत्वरूपः सत्ताविरहः सद्विविक्तत्वमिति कथं युक्तमिति चेत्। उच्यते। यत्र यत्प्रतियोगिकान्योन्याभावस्तत्र तत्प्रतियोगितावच्छेदकात्यन्ताभाव इत्येवं तत्प्रतियोगिकान्योन्याभावस्य तत्प्रतियोगितावच्छेदकात्यन्ता भावव्याप्तत्वेन जगति सत्ताजातिमद्विविक्तत्वोक्तौ तत्प्रतियोगिता वच्छेदकीभूता सत्ताजातिमतत्वकोटिनिविष्टा या सत्ताजातिः तदनधिकरणत्वरूपः सत्ताजातिविरहो लभ्यत एव। यथा वायौ रूपवदन्योन्याभावोक्तौ प्रतियोगितावच्छेदकीभूतरूपत्वकोटि निविष्टरूपात्यन्ताभावोऽपि लभ्यते तद्वदिति द्रष्टव्यम्। यद्वा परजातिविरह इत्यस्य सत्ताजातिमद्भिन्नत्वमेवार्थतया विवक्षितमिति न कश्चित्क्षुद्रोपद्रवः।
सच्छब्दार्थो ब्रह्मेत्यभिप्रेत्य तद्विविक्तत्वं नामाब्रह्मत्वमित्युक्तम्। ब्रह्मभिन्नत्वमित्यर्थः। सदबाध्यत्वमित्यभिप्रेत्याबाध्येतरत्वं वेत्युक्तम्।। तेनापीति। तथा चापसिद्धान्त इति भावः। सन्मात्रविलक्षणं चेत्सिद्धसाधनता ब्रह्मवैलक्षण्याङ्गीकारादिति तत्त्वोद्योतं मनसि निधायाह।। सिद्धसाधनत्वादिति।। ब्रह्मेतरत्वेति। अबाध्यं ब्रह्म तदितरत्वाभ्युप गमेनेत्यर्थः।
अनादीति। ब्रह्मण्यतिव्याप्तिवारणाय विलाप्येत्युक्तम्। जीव ईशो विशुद्धा चिद्भेदस्तस्यास्तयोर्द्वयोः। अविद्या तच्चितोर्योगः षडस्माकमनादयः।। इति वचनात्।
अनादिभूतचैतन्याविद्यासम्बन्धे सम्बन्धिन्यामविद्यायां निवृत्तायां स्वत एव निवृत्तमानेऽतिव्याप्तिवारणाय विज्ञानपदम्। तस्य च न विज्ञानविलाप्यत्वं साक्षात्किन्तु ज्ञानजन्याज्ञाननिवृत्तिविलाप्यत्वमेव। इह च साक्षादेव विज्ञानविलाप्यत्वं विवक्षितमिति नातिव्याप्तिः। भावरूपत्वे सति विलाप्यत्वं प्रपञ्चे शुक्तिरूप्ये उत्तरज्ञाननिवर्त्ये पूर्वज्ञाने चातिव्याप्तमतोऽनादीति। अनादित्वे सति विज्ञानविलाप्यत्वं ज्ञानप्राग भावेऽतिव्याप्तमतो भावरूपत्वे सतीत्युक्तमित्यवधेयम्।। भ्रमेति । उपादानत्वं मृत्पिण्डादावतिव्याप्तमतो भ्रमपदम्। भ्रम एवातिव्याप्तिवारणायोपादानपदम्। आकाशादावनिर्वाच्यत्व सद्भावेऽप्यनादित्वरूपविशेषणाभावान्नातिव्याप्तिरित्याशङ्कते।। ब्रह्मव्यतिरिक्तस्येति।। असम्भव इति। अविद्याया अपि ब्रह्मव्यतिरिक्तत्वेनानादित्वगर्भलक्षणाभावादसम्भव इत्यर्थः।
भ्रमरूपज्ञानस्याविद्योपादानकत्वेन मिथ्यात्वाङ्गीकारेऽनुभवविरोधं चाह।। एतावन्तं कालमिति।। रजतमभादिति। रजतदज्ञानं ममासीदित्यर्थः। अयं चानुभवस्तार्किकमतेऽनुव्यवसायरूपः। अस्मन्मते तुसाक्षिरूपस्तेन च भ्रमरूपो ज्ञानस्वरूपस्यासीदिति सत्तावगाहनादित्यर्थः। नन्वासीदित्यनेन ज्ञानस्य सत्त्वं न विषयीक्रियते किन्नामासद्वैलक्षण्यमात्रमेवेत्याशङ्कते।। अनिर्वचनीयस्यापीति। सदसद्वैलक्षण्यस्यापीत्यर्थः।। अभावेति। न भवतीत्यभावोऽसन् तद्विलक्षणतयेत्यर्थः। असद्वैलक्षण्यमात्रेण सत्त्वानुसन्धाने चेति न्यायामृतोक्तेः।। तथात्वेनेति। सत्त्वेनेत्यर्थः।। स्वरूपसत एवेति। रजतज्ञानं स्वरूपत एवासीदित्यनुसन्धीयते नासद्वैलक्षण्यमात्रेणेत्यर्थः। इदमुपलक्षणम्। असद्वैलक्षण्यमात्रेणासीदित्यनुसन्धाने सद्वैलक्षण्येन नासीदित्यप्यनुसन्धानापातात्। रजतस्याप्यसद्विलक्षणत्वेनैतावन्तं कालं रूप्यमासीदित्यप्यनुसन्धानापातादित्यपि द्रष्टव्यम्। नन्वारोपितस्याप्यर्थस्यासीदिति सत्त्वं क्वचिदनुसन्धीयत एव। आदर्शे मुखस्य स्फटिके लौहित्यस्यारोपितत्वेनैतावन्तं कालं ग्रीवास्थमेव मुखमिहादर्शे आसीत्। स्फटिकश्च लौहित आसीदित्यनुसन्धानदर्शनादित्याशङ्कते। एतावन्तं कालमिति।। नैवमिति। आसीदित्यनुसन्धानमात्रेण सत्यत्वमित्यर्थः।।
अनुसन्धानान्तर इति। इहादर्शे मुखमासीदित्येवंरूपानुसन्धान इत्यर्थः। इदमुपलक्षणम्। अस्तु वा मुखमासीदित्यनुसन्धानम्। तथाऽपि मुखप्रतिबिम्बमासीदित्यर्थकत्वात्। स्फटिके लौहित्यस्यापि प्रतिबिम्बत्वात् । तथा च प्रतिबिम्बस्य छायादिवत्सत्यत्वेन तत्रासीदित्यनुसन्धनं युक्तमेवेति द्रष्टव्यम्। यथोक्तं न्यायामृते। एतावन्तं कालमिहादर्शे मुखमासीदित्यनुसन्धानं तु प्रतिबिम्बस्य छायादिवत्सत्यत्वादिति।। छ ।।
अध्याय 5
।। अविद्यायां चेति। चशब्दः प्रकृतत्वानुसन्धानार्थः। तदेव दर्शयति।। एवंविधायामिति। उक्तलक्षणलक्षितायामित्यर्थः। यद्वा वस्तुसिद्धेर्लक्षणप्रमाणाधीनत्वेन लक्षणासम्भवेन तदसिद्धिमुक्त्वा प्रमाणाभावेनापि तदसिद्धिं वक्तुं पृच्छति।। एवंविधायामविद्यायां प्रमाणं च किमिति। इत्येवं चशब्दो भिन्नक्रमेण योज्यः। यद्वा किमित्याक्षेपः। तथा च न केवलं किमपि लक्षणं नास्तीति किन्नाम प्रमाणं च किमस्ति न किमपीत्यर्थः। एतदसहमानस्तत्त्वप्रदीपोक्तमनुमानप्रमाणमाशङ्कते।। देवदत्तप्रमेति। देवदत्तगतप्रमेत्यर्थः।। तत्स्थेति। देवदत्तगतेत्यर्थः। अतिरेकिणोऽतिरिक्तस्य। मात्वात्प्रमात्वात्। अविगीतप्रमा यज्ञदत्तप्रमा। अत्र पक्षे प्रागभावातिरिक्तानाद्यज्ञानमादाय साध्यसिद्धिर्दृष्टान्ते तु देवदत्तीय प्रमाप्रागभावातिरिक्तयज्ञदत्तीयप्रमाप्रागभावमादायेति द्रष्टव्यम्। दृष्टन्त इव पक्षेऽपि साध्यपर्यवसानेनार्थान्तरशङ्का तु बाधादेव तु न युक्ता। अत्र प्रमामात्रपक्षीकारे यज्ञदत्तप्रमाया अपि प्राप्त्या तस्यां च देवदत्तगतप्रमाप्रागभावातिरिक्तानादिभूतयज्ञदत्त प्रमाप्रागभावनिवर्तकत्वस्य सिद्धत्वात्सिद्धसाधनता स्यादतो देवदत्तप्रमेत्युक्तम्। साध्ये तत्स्थे देवदत्तगतेति विशेषणत्यागेऽप्रसिद्धिः स्यात्। दृष्टान्तभूतयज्ञदत्तप्रमायाम बावातिरिक्तानादिनिवर्तकत्वस्य प्रतिवादिनोऽसम्मतत्वात्। अतो देवदत्तगतेत्युक्तम्। देवदत्तगतानादेर्ध्वंसिकेत्येवोक्तौ देवदत्तप्रमाया देवदत्तगतानादिभूतस्वप्रागाभावनिवर्तकत्वेन सिद्धसाधनता स्यादतः प्रमाप्रागभावातिरिक्तेत्युक्तम्। अनादिपदत्यागे देवदत्तप्रमाया देवदत्तगत प्रमाप्रागभावातिरिक्तपूर्वप्रमाया निवर्तकत्वेन तादृशप्रमाप्राग भावातिरिक्तमिथ्याज्ञाननिवर्तकत्वेन वा सिद्धसाधनता वारणायानादीत्युक्तम्। पूर्वप्रमामिथ्याज्ञानयोरनादित्वाभावान्नोक्तदोषः।। घटोऽयमिति। दृष्टान्तभूते घटान्तरे एतद्धटप्रागभावातिरिक्त स्वप्रागभावनिवर्तकत्वेन साध्यपर्यवसानम्। एवमेव पक्षे साध्यपर्यवसानेनार्थान्तरता तु बाधादेव न शङ्क्या। तथा चैतद्धटनिवर्त्यो घटप्रागभावातिरिक्तोऽप्यनादिभूतः पदार्थः कश्चित्सिध्येदिति भावः।। आभासेत्यादि। पूर्वोक्तानुमानस्येति शेषः। अप्राप्तदूषणप्राप्तिर्योगः प्राप्तदूषणपरिहारलक्षणं क्षेमः। तथा च पूर्वोक्तानुमानस्याभासानुमानेन समानौ योगक्षेमौ यस्य तत्तथोक्तं त्त्वादित्यर्थः। तत्त्वप्रदीपोक्तानुमानान्तरमप्याभासानुमानसमानयोगक्षेमत्वेनैव निरस्तमित्याह।। एतेनेति।। विगीतो भ्रम इति। विमतः प्रपञ्चभ्रम इत्यर्थः।। एतज्जनकेति। पक्षीभूतजगद्भ्रमजनकं यदबाध्यत्वं तदतिरिक्तोपादानक इत्यर्थः। बाध्योपादानक इति फलितार्थः। एतज्जनकाबाध्यातिरिक्तत्वं नामैतज्जनकाबाध्यभिन्नत्वमिदं चविशिष्टस्यैतज्जनकाभाध्यस्याभावरूपम्। इदं च दृष्टान्तभूतः सम्प्रतिपन्नो यो रूप्यभ्रमस्तदुपादाने शुक्त्यज्ञानेऽबाध्यत्वरूपविशेष्यस्य सत्त्वेऽप्येतज्जनकत्वरूपविशेषणाभावेन पक्षीभूतभ्रमजनके त्वज्ञाने एतज्जनकत्वरूपविशेषणस्य सत्त्वेऽप्यबाध्यत्वरूपविशेष्याभावेन विशिष्टाभावोऽनुगतः। पक्षेऽपि दृष्टान्त इव न विशेषणाबावमादाय विशिष्टाभावसिद्धिः। पक्षीभूतभ्रमस्य यदुपादानं तस्य पक्षभूतभ्रमजनकतया तत्रैतज्जनकातिरिक्तत्वस्य बाधितत्वात्। पक्षीभूतभ्रमेऽबाध्यातिरिक्तं बाध्यं यदज्ञानं तदुपादानकत्वमादाय साध्यसिद्धिः। दृष्टान्तभूतभ्रमे तु पक्षीभूतभ्रमजनकातिरिक्तशुक्त्यज्ञानोपादनकत्वामादायेति विवेकः। बाध्योपादानक इत्येवोक्ते दृष्टान्तेऽप्रसिद्धिः स्यात्। रूप्योपादाने शुक्त्यज्ञाने बाध्यत्वस्य प्रतिवाद्यसम्मतत्वादतो नञ्द्वयगर्भं साध्यं कृतम्। तच्च विशेषणाभावेनोक्तरीत्या दृष्टान्तेऽस्तीति न दोष इत्यवधेयम्।
इदमप्याभाससमानयोगक्षेमत्वेन निरस्तम्। तथा हि। अयं घट एतज्जनकाबाध्यभिन्नोपादानको घटत्वाद्धटान्तरवत्। घटान्तरोपादानेऽबाध्यत्वरूपविशेष्यस्य सत्त्वेऽकप्येतज्जनकत्वरूपविशेषणस्याभावेन पक्षीभूतघटोपादाने एतज्जनकत्वरूपविशेषणस्य सत्त्वेऽप्यबाध्यत्वरूपविशेष्याभावेन विशिष्टाभावस्य पक्षदृष्टान्तयोः सद्भावादिति भावः। यद्वैतेनेति वक्ष्यमाणसत्प्रतिपक्षत्वपरामर्शः। तत्प्रकारश्च विगीतो भ्रम एतज्जनकाबाध्यातिरिक्तोपादानको विभ्रमत्वात्सम्मतवदिति न्यायामृतोक्तरीत्या द्रष्टव्यः। तत्र दृष्टान्तीकृतभ्रमोपादानभूते शुक्त्यज्ञाने ज्ञाननिवर्त्यत्वारव्यबाध्यत्वरूप विशेष्यसद्भावेऽप्येतज्जनकत्वरूपविशेषणाभावेन पक्षीभूतप्रपञ्चब्रमजनके चाज्ञाने एतज्जनकत्वरूपविशेषणसद्भावेऽपि बाध्यत्वरूपविशेषस्यास्मद्रीत्याऽभावेन विशिष्टाभावोऽनुगत इति द्रष्टव्यम्। देवदत्तप्रमापक्षकानुमानस्याभाससाम्यमुक्त्वा बाधं चाह।। अनादित्वेति। योऽनादिभावः स न निवर्तत इत्यस्ति व्याप्तिः। अन्यथा ब्रह्मणोऽपि निवर्त्यत्वापत्तेः। तथा चाज्ञानस्याप्यनादिभावत्वेनानिवर्त्यत्वे सिद्धे देवदत्तगतप्रमाया अनादिभूताज्ञाननिवर्तकत्वे साध्ये बाध इत्यर्थः। पूर्वानुमाने देवदत्तगतप्रमाया देवदत्तगतप्रमाप्रागभावतिरिक्ताज्ञान निवर्तकत्वं पर्यवसितम्। तद भावसाधनेन सत्प्रतिपक्षत्वं चाह।। देवदत्तप्रमेति।। एतत्प्रमेति। घटादिप्रमेत्यर्थः। अनादेरज्ञानस्येत्यर्थः। अन्यथा सम्प्रतिपन्नाया यज्ञदत्तप्रमाया देवदत्तगतघटप्रमाप्राग भावातिरिक्तानादिभूतस्वगतघटप्रमाप्रागभावनिवर्तकत्वेन साध्यवैकल्यं स्यादिति द्रष्टव्यम्।
अध्याय 6
अथाविद्यायांविवरणकारोक्तमनुमानमाशङ्कते।। अथ प्रमाणज्ञानमिति। अत्र विवादगोचरापन्नेति पूरणीयम्। अन्यथा वेदान्तजन्यद्वितीयादिज्ञानमादाय बाधः स्यात्। तस्यापि प्रथमज्ञानरूपवस्तुपूर्वकत्वेऽपि तस्य स्वविषयप्रकाशत्वेन स्वविषयावरणत्वाभावाद्बाधः। स्यादिति द्रष्टव्यम्। हेतौ धारावाहिकद्वितीयादिज्ञानेषु व्यभिचारवारणायाप्रकाशितमिति। दृष्टान्ते सौरालोकप्रदेशस्थितदीपप्रभाव्यावृत्त्यर्थमन्धकार इति। द्वितीयादिप्रभासु साधनवैकल्यपरिहाराया प्रथमेत्युक्तम्। तथा च विवादगोचरापन्नं वेदान्तरूपं प्रमाणजन्यं चरमसाक्षात्काररूपं प्राथमिकं ज्ञानमित्यर्थः। साध्ये स्वशब्देन पक्षीभूतं प्रमाणज्ञानं ग्राह्यम्। साध्यस्थविशेषणानां कृत्यं दर्शयति।। अत्र चेत्यादिना। स्वजनकसामग्र्या स्वोत्पादकादृष्टादिरूपया। अदृष्टेन स्वप्रतिबन्धकादृष्टेन।। अर्थान्तरेति। विषयगताज्ञातत्वमादायेति शेषः। यथोक्तं न्यायमृते। स्वप्रागभावं स्वोत्पादकादृष्टं स्वप्रतिबन्धकादृष्टं विषयगतमज्ञातत्वं च व्युदसितुं साध्ये विशेषणानीति। अयमर्थः। अत्र स्वविषयावरणेत्याद्येवोक्ते प्रमाणज्ञानप्रागभावरूपवस्त्वन्तर पूर्वकत्वमादायार्थान्तरता स्यात्। तस्यापि स्वविषयावरणत्वात्। ननु प्रमाणज्ञानप्रागभावस्य स्वशब्दोक्तप्रमाणज्ञानविषयीभूतब्रह्मावरकत्वं कथम्। अभावस्यावरकत्वानङ्गीकारादिति चेत्। सत्यम्। अत्र स्वविषयावरणशब्देन स्वसत्तादशायां कार्यानुत्पादकप्रयोजकत्वस्यैव विवक्षितत्वात्। एवञ्च प्रमाणज्ञानप्रागभावस्यापि स्वसत्तादशायां कार्यानुत्पादकप्रयोजकत्वेन स्वविषयावरणत्वात्। आत्मनिष्ठत्वेन प्रमाणज्ञानसमानदेशत्वात्। स्वनिवर्त्यवाच्च। ननु प्रमाणज्ञानप्रागभावस्य कथं प्रमाणज्ञाननिवर्त्यत्वम्। प्रमाणज्ञाननिवर्त्यत्वं नाम स्वजन्यध्वंसप्रतियोगित्वमेव हि स्वनिवर्त्यत्वम्। न हीदं प्रमाणज्ञानप्रागभावे युक्तम्। अभावाभावस्य भावत्वेन प्रतियोगिन एव प्रागभावध्वंसरूपत्वेन प्रमाणज्ञानस्यैव प्रमाणज्ञानप्रागभावध्वंसरूपतया स्वस्य स्वजन्यत्वाभावादिति चेत्। सत्यम्। अभावाभावो भावव्याप्य इति मते प्रागभावनिवृत्तेः। प्रतियोग्यन्यत्वात्। प्रमाणज्ञानजन्यध्वंस प्रतियोगित्वरूपं स्वनिवर्त्यत्वं प्रमाणज्ञानप्रागभावेऽस्त्येवातः स्वप्रागभावव्यतिरिक्तेत्युक्तम्। स्वविषयावरणपदत्यागे प्रमाणज्ञानोत्पादकादृष्टरूपवस्त्वन्तरपूर्वकत्वमादायार्थान्तरता स्यात्। तस्यापि स्वप्रागभावव्यतिरिक्तत्वात्। अदृष्टस्य फलनाश्यत्वेन प्रमाणज्ञानोत्पादकादृष्टस्य प्रमाणज्ञाननाश्यत्वात्। आत्मगतत्वेन प्रमाणज्ञानसमानदेशत्वाभावाच्चात उक्तं स्वविषयावरणेति। तस्योत्पत्त्यनुकूलत्वेन स्वसत्तादशायां कार्यानुत्पादकप्रयोजकत्व रूपस्वविषयावरणत्वाभावान्न तदादायार्थान्तरता। स्वनिवर्त्यपदत्यागे प्रमाणज्ञानोत्पत्तिप्रतिबन्धकादृष्टरूपस्त्वन्तरपूर्वकत्वमादायार्थान्तरता स्यात्। तस्यापि स्वप्रागभावव्यतिरिक्तत्वात्। स्वोत्पत्तिप्रतिबन्धकत्वादेव स्वसत्तादशायां प्रमाणज्ञानस्य कार्यानुत्पादकप्रयोजकत्वेन स्वविषयावरणत्वात्। आत्मनिष्ठत्वेन स्वदेशगतत्वाच्चात् ।।
उक्तं स्वनिवर्त्येति। लोके प्रतिबन्धकनिवृत्त्यनन्तरमेव कार्योत्पत्तिदर्शनेन कार्योत्पत्त्या प्रतिबन्धकनिवृत्त्यभावेन प्रमाणज्ञानोत्पत्तिप्रतिबन्धकादृष्टस्य प्रमाणज्ञाननिवर्त्यत्वाभावान्न तेनार्थान्तरता। स्वदेशगतपदत्यागे विषये ज्ञाततावदज्ञातताऽपि काचन तिष्ठति। एवञ्च विषयगताज्ञानत्वमादायार्थान्तरता स्यात्। तस्यापि स्वप्रागभावव्यतिरिक्तत्वात्स्वविषयावरणत्वात्स्वनिवर्त्यत्वाच्चात उक्तं स्वदेशगतेति। अज्ञातत्वस्य स्वदेशगतत्वाभावान्न तेनार्थान्तरतेति द्रष्टव्यम्। स्वदेशगतपदस्य कृत्यान्तरं दर्शयति।। आत्माश्रितेति। तथा चोद्देश्यसिद्ध्यर्थं चेदं विशेषणमिति भावः। वस्त्वन्तरं वस्तुविशेषः। हेतावालोकोत्पन्नप्रदीपप्रभायां व्यभिचारवारणायाप्रकाशितेत्युक्तम्।
ननु तत्रापि घटाद्यज्ञानरूपतथाविधवस्तुपूर्वकत्वमस्त्येवेति साध्यस्यापि सत्त्वान्न व्यभिचार इत्यत उक्तम् ।। जड इति।। जडविषय इत्यर्थः।। जडावरकेति यावत्। प्राप्तप्रकाशप्रतिबन्धरूपावरणकृत्याभावेन जडावरकाज्ञानानब्युपगमादिति भावः। यथोक्तम्। "अप्रकाशस्वरूपत्वाज्जडे ज्ञानं न मन्यत" इति।। हेतोरिति। अप्रकाशितार्थप्रकाशकत्वरूपहेतोरित्यर्थः। ननु स्वप्रागभावमादायार्थान्तरतापरिहाराय तद्विशेष्णं सार्थकमिति चेत्तत्राह।। स्वनिवर्त्येति।। स्वनिवर्त्यत्वं नाम स्वजन्यध्वंसप्रतियोगित्वं तत्प्रमाणज्ञानप्रागभावे नास्ति। कुत इत्यत आह।। न हीति भाव इति। प्रमाणज्ञान इति यावत्। तथा च प्रमाणज्ञानप्रागभावनिवृत्तेः स्वजन्यत्वं नास्तीति भावः।। भावोत्पत्तिरेवेति।। प्रतियोग्यापत्तिरेवेत्यर्थः।। प्रागभावनिवर्तिकेति।। प्रागभावविपत्तिनिवृत्तिरूपेत्यर्थः। तथा हि। प्रतियोग्यापत्तिरेव प्रागभावनाशः। कुत इति चेत्। प्रागभावनाशस्य प्रतियोगिसामग्रीजन्यत्वेन प्रतियोग्यात्मकत्वादिति भावः। नन्वेकसामग्रीजन्यत्वेन प्रागभावप्रतियोगिप्रागभावनिवृत्तेरभेदोक्तौ कटतन्तुरूपयोरप्यभेदः स्यात्तन्तुलक्षणैकसमवायिकारणजन्यत्वादिति चेन्न। एकसामग्रीजन्यत्वाभावात्। पटोत्पत्तौ तन्तुद्वय संयोगस्यासमवायिकारणत्वेन तन्तुरूपोत्पत्तौ तन्त्ववयवगतरूपस्या समवायिकारणत्वेन सामग्रीभेदात्। ननु प्रागभावध्वंसस्य प्रतियोगिसामग्रीजन्यत्वे सोपादानकत्वं स्यादिति चेन्न। इष्टपत्तेः। यत्र ध्वंसः प्रतियोगिभिन्नस्तत्र निरुपादानकत्वं प्रकृते च प्रागभावनिवृत्तिः प्रतियोग्यात्मिकैवेति सोपादानकत्वे दोषाभावात्। यथोक्तम्। प्रतियोग्यापत्तिरेवाभावविपत्तित्वस्य प्रागभावे दृष्टत्वादिति।
किञ्च प्रमाणज्ञानस्य स्वप्रागभावनिवर्तकत्वे वध्यघातकभावरूपविरोधः प्राप्तः। वध्यधातकभावविरोधश्च मूषकमार्जारवत्सहावस्थानसापेक्ष। तर्ह्यस्तु प्रमाणज्ञानस्यापि स्वप्रागभावेन सहावस्थिततया तन्निवर्तकत्वमिति चेत्तत्राह।। भावाभावयोरिति।। प्रतियोगितदभावयोरित्यर्थः।। विरोधादिति। भावाभावयोर्हि परस्परप्रतिक्षेपरूपतया साक्षाद्विरोधस्तद्द्वारा जन्ययोस्तज्ज्ञानयोर्वाक्ययोरिति स्थितिः। तयोश्च सहावस्थाने लोके विरोधवार्तैवोच्छिद्येत। सर्वविरोधामानां तन्मूलकत्वादिति भावः।
तस्य ज्ञानाभावविषयतयोपपत्तेरिति। एतावन्तं कालं दुःखं नावेदिषं शुक्तिरूप्यं नावेदिषमित्यादिवन्न किञ्चिदहमवेदिषमिति परामर्शसिद्धसौषुप्तिकानुभवस्यापि ज्ञानाभावविषयकत्वमेव न भावरूपाज्ञानविषयकत्वम्। तथात्वे दुःखशुक्तिरूप्यादावपि भावरूपाज्ञानं कल्प्यं स्यादिति भावः। न चेष्टापत्तिः। अप्रकाशस्वरूपत्वेन मायिना तत्र तदनङ्गीकारादिति ज्ञातव्यम्। शङ्कते।। नन्विति।। बोधपराधीनत्वादिति। ज्ञानाधीनत्वादित्यर्थः। तदभावे धर्म्यादिज्ञानाभावे।
तस्याभावस्य। अयम्भावः। न किञ्चिदहमवेदिषमिति परामर्शबलेन सुषुप्तौ कल्प्यमानो ज्ञानाभावानुभवोऽहमज्ञ इति वा मयि ज्ञानं नास्तीति वेत्येवंरूपो वक्तव्यः। स न सम्भवति। तथा हि। सद्ब्यामधिकरणप्रतियोगिभ्यामभावो निरूप्यत इति वचनात्। धर्मिभूतात्मज्ञानं प्रतियोगिभूतज्ञानज्ञानं वाऽस्ति न वेति प्रष्टव्यम्। नेति पक्षे धर्मिप्रतियोगिज्ञानाभावादेवाभावज्ञानं न सम्भवति। आद्ये धर्मिप्रतियोगिज्ञानसद्भावादेव न ज्ञानाभावज्ञानं विरोधादिति। साक्षिणेति। तथा च धर्मिभूतात्मनः प्रतियोगिभूतस्य ज्ञानस्य च ज्ञानं साक्षिरूपमस्तीति युक्तं ज्ञानाभावज्ञानमिति भावः।
अध्याय 7
।। अभावमानेति। अनुपलब्धिरूपप्रमाणेत्यर्थः। सम्प्रतिपन्नवद्धटादिवत्। अत्र व्यतिरेकव्याप्तिमुपपादयति।। अभावो हीति।। अभावस्येति। अनुपलब्धिरूपषष्ठप्रमाणस्येत्यर्थः। भाट्टानां मतेऽनुपलब्धेः पृथक् प्रमाणत्वात्। व्यवहारे भट्टनय इत्यङ्गीकारादभावस्येत्युक्तम्। तार्किकरीत्याप्रत्यक्षस्येत्युक्तम्। स्वरूपासिद्धिपरिहाराय हेतुं साधयति।। अज्ञानं चेति।। माननिवर्त्यत्वादिति। वृत्तिरूपप्रमाणज्ञाननिवर्त्यत्वादित्यर्थः।। सम्प्रतिपन्नवदिति। मानप्रागभाववदित्यर्थः। यथा घटनिवर्त्यो घटप्रागभावो न घटगम्य एवं माननिवर्त्यो मानप्रागभावः प्रतियोगिभूतमानगम्यो मानं न भवतीति भावः।। अनुमानकथनेति। तस्य साध्यज्ञप्त्यर्थत्वादिति भावः।। एतन्मानेति।। अनुमानरूपमानेत्यर्थः।। फलेति। फलं चैतन्यं, तद्व्याप्यता तेन विशेषेणाप्यता प्राप्यता तद्विषयत्वं तदभावेऽपीत्यर्थः। तथा चाज्ञानस्य मानागम्यत्वं फलव्याप्यत्वाभावाभिप्रायेणोक्तमिति भावः।। वृत्तीति। एतदनुमानजन्यान्तः करणवृत्तिरूपज्ञानविषयत्वमात्रेणेत्यर्थः।। अनङ्गीकारादिति। चक्षुरादिगद्वारा बहिर्निर्गताया अन्तःकरणवृत्तेरज्ञाननिवर्तकत्वाङ्गीकारादितिं भावः। वृत्तिस्वरूपनिरूपणपरे स्वच्छेऽन्तःकरण इति श्लेके हरत्यज्ञानमित्युक्तत्वादिति ज्ञेयम्। माननिवर्त्यत्वहेतोः सोऽयं देवदत्त इति देवदत्तेऽतीतत्ववर्तमानत्वग्राहिणी प्रत्यभिज्ञा जायते। तथा च प्रत्यभिज्ञामुत्पाद्य विनष्टसंस्कारेऽयं देवदत्तः संस्कारवांस्तद्विषयकस्मृतिमत्त्वादित्येवं स्मृतिरूपकार्यानुमेयत्वेन मानगम्यत्वसद्भावाद्व्यभिचार इति भावः। पूर्वं न किञ्चिदहमवेदिषमिति परामर्शसिद्धसौषुप्तिकानुभवो भावरूपाज्ञाने मानमित्याशङ्क्य तस्य ज्ञानाभावविषयत्वमुक्तम्। इदीनीं प्रकारान्तरेण भावरूपाज्ञाने प्रमाणमाशङ्क्य निराकारोति। न चेति। सुषुप्त्युत्तरकाले त्वदुक्तमर्थन्न जानामीति व्यवहारस्तावद्भवति। व्यवहारश्च व्यवहर्तव्यज्ञानसाध्य इति सुषुप्तौ भावरूपाज्ञानसिद्धिः।
नन्वयमप्यनुभवो ज्ञानाभावविषयक इत्यशङ्कापरिहारायोक्तमत्यन्तसुषुप्ते सम्भाव्यमान इति। सुषुप्तेति भावे क्तः। तथा चात्यन्तसुषुप्ते मनआदिसर्वेन्द्रियोपरमरूपायां सुषुप्तौ ज्ञानाभावविषयत्वेनासम्भाव्यमान इत्यर्थः। तदुपपादनायोक्तमज्ञायमाने ज्ञायमाने वेति। धर्मिणि प्रतियोगिनि चेति शेषः। तथा हि। त्वदुक्तमर्थं न जानामीत्यनुभवस्य ज्ञानाभावविषयकत्वेऽभावज्ञानस्य धर्मिप्रतियोगिज्ञानसाध्यत्वाद्धर्मिभूतात्मज्ञानं प्रतियोगिभूतत्वदुक्तार्थज्ञानं चास्ति न वेति प्रष्टव्यम्। नेति पक्षे धर्मिप्रतियोगिज्ञानाभावादेवाभावज्ञानं न सम्भवति। आद्ये धर्मिप्रतियोगिज्ञानसद्भावादेव नाभावज्ञानं विरोधात्। साक्षिणा धर्मिप्रतियोगिज्ञानोपपत्तेरित्युक्तं समाधानमत्र न सम्भवति। धर्मिभूतात्मज्ञानस्य साक्षिणा सम्भवेऽपि प्रतियोगिभूतस्य बाह्यस्य त्वदुक्तार्थस्य साक्षिवेद्यत्वाभावादिति भावः।
ननु सामान्याकारेण त्वदुक्तमर्थमनूद्य न जानामीति व्यवहारान्यथाऽनुपपत्याऽस्य व्यवहारस्य भावरूपाज्ञानविषयकत्वं कुतो न कल्पनीयमिति चेत्तत्राह।। सामान्येति। विशेषार्थेति। विशेषार्थज्ञानाभावविषयकेत्यर्थः। तथा च त्वदुक्तमर्थं विशेषतो न जानामीत्येवं विशेषज्ञानविषयक एवायं व्यवहारो न भावरूपाज्ञानविषयक इति भावः। पुनःशङ्कते।। विशेषस्यापीति। विशेषाकारस्यापीत्यर्थः। विशेषाकारोऽप्यधिगतो न वा। आद्येऽधिगतत्वादेव न जानामीत्युक्ते स्ववचनव्याघातः। द्वितीये तु प्रतियोगिज्ञानाभावादेव न जानामीति तदभावज्ञानायोग इति भावः। अस्ति कश्चिदिति।। गुहायां किञ्चिदस्तीतिवदस्ति कश्चिद्विशेष इति। विशेषाकारस्यापि सामान्यतः साक्षिणा ज्ञातत्वेन प्रतियोगिज्ञानसद्भावाद्युक्तं न जानामीति व्यवहारस्य विशेषज्ञानाभावविषयकत्वमिति भावः।। पूर्वमिति। अविद्याप्रतीत्यपेक्षया पूर्वमित्यर्थः। अर्थोऽविद्याविषयभूतः।। प्रश्नायोग इति। ज्ञातश्चेज्ज्ञातत्वादेव त्वदुक्तमर्थं न जानामीति प्रश्नायोगः। अज्ञातश्चेत्सुतरां प्रश्नायोगः। अज्ञातस्यानुवादायोगादिति भावः। प्रश्नायोगो नास्तीति शङ्कते ।। अस्माकं त्विति। ज्ञाततया ज्ञानावच्छेदकत्वेन। अज्ञाततयाऽज्ञानावच्छेदकत्वेन। इति वचनादिति शेषः।। प्रमाणेति। अविद्यानिवर्तकान्तःकरणवृत्तिरूपप्रमाणज्ञानोदयात्प्रागित्यर्थः ।। अज्ञातत्वविशेषित इति। अज्ञातत्वविशिष्टोऽज्ञानावच्छेदकीभूत इत्यर्थः। भवतीत्यस्य पूर्वोत्तराभ्यां सम्बन्धः। अस्मिन्नर्थे स्वाचार्यवचनसम्मतिमाह।। अस्माकं त्विति। तथा चोक्तव्यवहारस्य भावरूपाज्ञानविषयकत्वेऽपि न कश्चिद्दोष इति भावः।।
साक्षिसिद्धतयेति। साक्षिविषयत्वेनेत्यर्थः। व्यवहारेति। यथा कथञ्चित्सिद्धत्वादेव न जानामीत्युक्तप्रश्नरूपव्यवहारायोगादित्यर्थः। पुनर्व्यवहारोपपत्तिं सङ्कते। साक्षिणेति। अज्ञानावच्छेदकतया साक्षिसिद्धेऽप्यर्थे त्वदुक्तमर्थं प्रमाणतो न जानामीत्यतस्तत्र किं प्रमाणमिति प्रमाणबुभुत्सायां प्रश्नरूपव्यवहारः सम्भवतीत्यर्थ-।। निष्फलत्वादिति। साक्षिरूपप्रमाणसिद्धत्वादेव तत्र प्रमाणबुभुत्साया निष्फलत्वादित्यर्थः। वयमपीत्यतः पूर्वं तद्वदिति शेषः।। तस्मादिति। लक्षणप्रमाणयोरभावादित्यर्थः। साक्षिसिद्धस्य त्वदुक्तार्थस्य। व्यवहारं न जानामीति व्यवहारम्। निरूपणगोचरतां निरूपणविषयतां नाचरति न प्राप्नोतीत्यर्थः।। कुत इति। जगदिति शेषः। वस्तुसिद्धेर्लक्षणप्रमाणाधीनत्वेनाविद्यायां तदभावेन तस्यापि निरूपयितुमशक्यत्वाज्जगतस्तत्कार्यत्वं कुत इत्यर्थः।। कुतस्तरामिति। अन्यतरत्वस्य तद्रूपमिथ्यात्वस्य।। सिध्यतीति। अप्रसिद्धविशेषणत्वादिति भावः।।
अध्याय 8
सिद्धान्तविरोध इति। अभावास्यावरकत्वायोगाज्जीव स्वरूपभूतानन्दाद्यावरकत्वान्यथाऽनुपपत्त्या भावरूपाज्ञानस्य सिद्धान्ते साधितत्वादिति भावः। न च भावरूपाज्ञानस्यावरकत्वे मानाभाव इति वाच्यम्। "प्रकृतिं स्वात्मसंश्लिष्टां गुणान्सत्त्वादिकानपि। कर्माणि सूक्ष्मदेहं च जायमाना हरेर्दृशिः।" दहेदित्यादिप्रमाणसिद्धत्वात्। न चात्र भावरूपाज्ञानं न श्रुयत इति वाच्यम्। सत्त्वादिगुणानामेव तथात्वात्। यथोक्तं सुधायाम्। ज्ञानिनां मोक्षदः स इत्यत्र भावरूपाविद्याविरोधित्वेनाविद्याया सत्त्वादिगुणात्मिकया प्रकृत्या परमेश्वरो जीवस्वरूपभूतानप्यानन्दीनाच्छादयतीति।। परन्यायेनेति। स्वसिद्धैः साधनं परसिद्धैर्दूषममिति भगवत्पादैरुक्तत्वादिति भावः।। न सप्तम इति। स्वात्यन्ताभावसमानाधिकरणतया प्रतीयमानत्वमिति सप्तमोऽपि न युक्त इत्यर्थः। अत्यन्ताभावप्रतियोगिपदेनेत्येवं पाठः। क्वचिदत्यन्ताभावपदेनेति पाठो दृश्यते। तत्र नामैकदेशे नामग्रहणमिति न्यायेनात्यन्ताभावप्रतियोगिपदेनेत्येवार्थो द्रष्टव्यः।। असत्त्वाभिप्राय इति। असत्त्वेऽभिप्रेते सतीत्यर्थः।। अपसिद्धान्त इति। असद्वैलक्षण्याङ्गीकारादिति भावः। नन्वस्य लक्षणस्य नासत्त्वे तात्पर्यं किन्तु तदतिरिक्ते सदसद्वैलक्षण्य रूपानिर्वचनीयत्वेऽतो नापसिद्धान्त इत्यत आह।। तदतिरिक्तस्येति।। अप्रसिद्धत्वादिति। तथा चानुमानस्याप्रसिद्ध-विशेषणत्वमित्यर्थः।। भावेति। भवतीति भावः स न, तद्वैलक्षण्यमित्यर्थः। तथा चास्य लक्षणस्यासत्त्व एव तात्पर्यमसत्त्वं च न निरुपारव्यत्वं किन्तु सद्वैलक्षण्यमेवेति नापसिद्धान्त इति भावः।।
तत एवेति। भावविलक्षणत्वादेव सद्विलक्षणत्वादेवेति यावत्।। असत्त्वापत्त्येति।। परस्पर विरोधयोरन्यतरनिषेधस्यान्यतरविधिनान्तरीयकत्वादिति भावः। तृतीयकोटेरद्याप्यप्रसिद्धत्वादिति हृदयम्। उक्तदोषोऽपसिद्धान्तरूपः। मिथ्यात्वानिरुक्तेरिति प्रतिज्ञातमुपपाद्योपसंहरति।। तस्मादिति ।। छ ।।
अध्याय 9
।। दृश्यत्वस्येति। बुद्ध्या विवेकेन निरुक्तिरित्यनुवर्तते। दृगिति। ज्ञानमित्यर्थः।। वृत्तिरूपेति। अन्तःकरणवृत्तिरूपेत्यर्थः।। चिद्रपेति। वृत्तिप्रतिबिम्बचैतन्याबिव्यक्ताधिष्ठानचैतन्यरूपेत्यर्थः। तदुपपादयति।। तस्यापीति। अन्यथा ब्रह्मज्ञानजननाय प्रवृत्तानां वेदान्तानां वैय्यर्थ्यं स्यादिति भावः। इदमुपलक्षणम्। ब्रह्मजिज्ञासा ब्रह्मजिज्ञासा ब्रह्मज्ञानमित्यादौ कर्मणि षष्ठी, आत्मा वा अरे द्रष्टव्य इत्यादौ इत्यादौ तव्यप्रत्ययादिश्च न स्यात्। तस्य कर्मणि स्मरणात्। ब्रह्म विचारयितुमारब्धयोर्गुरुशिष्ययोर्मौनं मौढ्यं च स्यादित्यपि द्रष्टव्यम्।
ननु वृत्तिविषयत्वं नाम वृत्तिजनितफलसम्बधित्वं विवक्षितम्। तदात्मनि नास्तीति न व्यभिचार इत्याङ्कते।। वृत्तिजनितेति।। घटादावपीति। ज्ञानविषयत्वातिरिक्तायां ज्ञाततायाम्प्रमाणाभावेन तस्यास्मन्मतेऽप्रामाणिकत्वात्। घटादावपि ज्ञानजनितज्ञाततालक्षण फलसम्बधित्वाभावात्स्वरूपासिद्धिः स्यादित्यर्थः।
स नास्त्येवेति। तथा च न व्यभिचार इति भावः।। सुषुप्ताविति। तत्र स्वरूपातिरिक्तस्याप्रतीतेरित्यर्थः। तथा च न व्यभिचार इति भावः।। तस्यापीति। सौषुप्तिकात्मानुभवस्यापीत्यर्थः।। विवादादिति। एतावन्तं कालं सुखमहमस्वाप्समित्युत्तरकालीनपरामर्शबलेन कालसुखावस्थानामपि तदानीं प्रतीयमानत्वसिद्धेर्नस्वरूपमात्रविषयकत्वं तस्येति व्यभिचारः स्यादेवेति भावः। प्रकारान्तरेण स्वप्रकाशत्वलक्षणमाशङ्कते।। अवेद्यत्वे सतीति।। व्याहतत्वेनेति। अवेद्यत्वेऽपरोक्षव्यवहारविषयत्वमेव न सम्भवति।। तद्व्यवहारेति। तद्विषयकज्ञानस्यैव हेतुत्वादिति भावः।
नन्ववेद्यत्वं नाम फलव्याप्यत्वमपरोक्षव्यवहारविषयत्वं तु वृत्तिव्याप्यत्वेन भविष्यतीति न व्याहतिरित्यत आह।। कथञ्चिदव्याहतत्वेऽपीति। फलं ज्ञातता व्यवहारो वा। नाद्यः। घटादावपि तदभावादसिद्धिः स्यात्। द्वितीये आत्मनोऽपि वेदान्तवृत्तिजन्यव्यवहारविषयत्वादनैकान्त्यमित्येवं फलव्याप्यत्वस्यानुपपन्नत्वात्कथञ्चिदित्युक्तम्।। विशेषणाभावेनेति। अपरोक्षव्यवहारविषयत्वरूपविशेष्यस्य सत्त्वमङ्गीकृत्यावेद्यत्वरूप विशेषणाभावेनेत्यर्थः। तथा चावेद्यत्वाभावे सत्यपरोक्षव्यवहारविषयत्वं दृश्यत्वमिति फलितोऽर्थः।। उत विशेष्याभावेनेति। विशेषणभूतमवेद्यत्वमङ्गीकृत्य विशेष्यभूतापरोक्षव्यवहारविषयत्वाभावेन धृश्यत्वनिर्वचनेऽवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वाभावो दृश्यत्वमिति फलितोऽर्थः।। अथोभयाभावेनेति। अवेद्यत्वाभावे सत्यपरोक्ष व्यवहारविषयत्वाभावो दृश्यत्वमिति फलितोऽर्थः। एवं सति तत्राद्य इत्यादिना वक्ष्यमाणदूषणं सुज्ञातं भवतीति द्रष्टव्यम्।। तस्य चेति। वेद्यत्वमात्रस्य ब्रह्मणि व्यभिचाररूपं दूषणमुक्तमित्यर्थः।। व्यर्थेति। व्यावर्त्याभावादिति भावः। तर्हि त्यज्यते तद्विशेषणमिति चेत्तत्राह।। विशेष्यासिद्धिश्चेतीति।। छ ।।
अध्याय 10
।। प्रमाणत इति। तथा च दृश्यत्वादित्यस्य प्रमितिविषयत्वादित्यर्थो द्रष्टव्यः।। भ्रान्त्या वेति। तथा च दृश्यत्वादित्यस्य भ्रान्तिविषयत्वादित्यर्थोऽवगन्तव्यः।। अन्यतरेति। आद्ये तवासिद्धिर्द्वितीयेऽस्माकमसिद्धिरित्यर्थः।। अनुमानाभाव इति। अनुमानोच्छेद इत्यर्थः।। धूमध्वजेति। धूम एव ध्वजो यस्य स धूमध्वजो वह्निरित्यर्थः। एतदिति देशकालयोर्विशेषणम्। पर्वतसम्बन्ध्येतत्कालसम्बन्धीत्यर्थः।। धूममात्रस्येति। एतद्देशकालानैतद्देशकालविशेषितधूमसामान्यस्येत्यर्थः।। अदूषणत्वादिति। त्वदीयविकल्पनिराकरणयोर्दूषणत्वाभावदित्यर्थः। धूमवत्त्वस्येति धूमवत्त्वं नाम धूमसंयोगरूपो धूमसम्बन्धः। तथा चैतद्देशकालसंलग्नो धूमसंयोगो हेतुरित्यादिरूपेणैव विकल्पः कर्तव्यो न तु धूमो हेतुरित्यादिरूपेण। तर्हि तथैव विकल्प्य दूषयिष्यामीति तु न युक्तम्। धूमसंयोगे एतद्देशकालसंयोगित्वरूपसंलग्नत्वस्य गुणे गुणानङ्गीकारेण बाधितत्वादिति भावः। प्रकारान्तरेण तदीयग्रन्थोक्तं विकल्पदूषणाभ्यां सर्वानुमानोच्छेदप्रसङ्गमाशङ्कते ।। तर्हीति। इत्यादीत्यादिपदेन ऋजुधूमो हेतुरित्यस्य ग्रहणम्। तथा च वक्रधूमस्य हेतुत्वे महानसे ऋजुधूमसद्भावदशायां साधनवैकल्यम्। ऋजुधूमस्य हेतुत्वे पर्वते वक्रधूमसद्भावदशायमसिद्धिरित्यर्थः। एतदपि पूर्वोक्तरीत्यैव निराकृतमित्याह।। तस्येति। वक्रत्वाद्यविशेषितस्य धूमसामान्यस्यैव हेतुत्वादित्यर्थः।। प्रकृतेऽपीति। प्रमाणभ्रान्त्यविशेषितं दृश्यत्वसामान्यमेव हेतुरस्त्वित्यर्थः।। अभावादिति। नभोनलिनवद्भ्रान्तिदृश्यस्यात्यन्तासत्त्वात्। प्रमाणभ्रान्त्यविशेषितं दृश्यत्वसामान्यमेव हेतुरित्यर्थः।। अभावादिति। न हि व्यक्त्यभावे सामान्यमस्तीति भावः। तदेवोपपादयति।। न हीति।। जलनभोनलिनयोरिति। जलनलिननभोनलिनयोरित्यर्थः। सरोजारविन्द गगनारविन्दयोरिति यावत्। तत्र नभोनलिनस्यैवात्यन्तासत्त्वादिति भावः।। उच्यत इतीति। व्यवह्रियत इत्यर्थः। असत्त्वे तस्य ज्ञानासम्भवेन व्यवहारायोगात्तस्य ज्ञानसाध्यत्वादिति भावः।। अवेहीति। जानीहीत्यर्थः। तथा च शुकबालादिव्यवहारवत्तत्र चित्रलिखितसिंहे सिंहशब्दव्यवहारवच्च ज्ञानाभावेऽपि भवतीत्यैपचारिको व्यवहार इति भावः। असतोऽपि ज्ञानविषयत्वस्यान्यत्रोपपादितत्वान्नोक्तदोष इत्यपि द्रष्टव्यम्। दृश्यत्वहेतोर्विरुद्धत्वं चाह।। दृश्यत्वस्येति। सन्मात्रवृत्तित्वादिति। मिथ्यात्वरूपसाध्यभावव्याप्तत्वादित्यर्थः।
ननु कथं दृश्यत्वस्य सन्मात्रवृत्तित्वं मिथ्याभूतेऽपि शुक्तिरजते दृश्यत्वस्य सत्त्वादित्याशङ्क्य निराकरोति।। न चेति। कुतो न चेत्यत आह।। तत्रेति। इदं रजतमिति भ्रमस्थल इत्यर्थः।। दृश्यत्वादिति। दृग्विषयत्वादित्यर्थः। यत्सन्निकृष्टेन करणेन यज्ज्ञानमुत्पद्यते स तस्य विषय इत्येवंरूपं विषयत्वं शुक्तिकाया मेवास्ति न रजते। असता सन्निकर्षायोगात्। अतो न रजते दृश्यत्वमस्तीति विरुद्धत्वकथनं युक्तमिति भावः।
ननु रजतसंविद इति।। विरोधादितीति। रजतज्ञानवानहमित्यनु व्यवसायरूपानुभवेन रजतसंविदो रजतविषयकत्वावगाहनाच्छुक्तिविषयत्वाङ्गीकारे तद्विरोध इत्यर्थः।। अनभ्युपगमादिति। असतो रजतस्य निरुक्तविषयताया अस्माभिरनभ्युपगमादित्यर्थः। स्वविषयेत्यतः पूर्वमिदं रजतमिति ज्ञानमिति शेषः। अन्याकारेण रजताकारेण रजतोल्लेखितयेति यावत्।। गृह्णातीति। दोषवशादिति शेषः। अत एवोक्तमन्यदन्यात्मनाऽवगाहत इत्यन्यथाख्यातिरिति। तथा च रजते दृश्यत्वाभावाद्युक्तं सन्मात्रवृत्तित्वमिति भावः। नन्वेवमपि रूप्ये दृगुल्लेख्यत्वेनापि दृश्यत्वमागतमिति शङ्कते।। नन्विति। तर्ह्यपि तथाऽपि दृग्विषयत्वाभावेऽपीत्यर्थः। रजतोऽपीति वा सम्बन्धः।। कथञ्चिदिति। रजतमितिव्यवह्रियमाणत्वरूपं यद्रजतोल्लिखित्वरूपं दृश्यत्वं तद्रजते।़प्यस्तीति भावः।। तस्य दृश्यत्वाभासत्वादिति। दृग्विषयत्वमेव हि मुख्यं दृश्यत्वं नेतरत्। तस्याबासत्वात्तादृशस्य रजते सद्भावेऽपि नास्माकं काचित्क्षतिरिति भावः। ननु तर्ह्याभासभूतमेव दृश्यत्वं हेतुरस्तु तथा च रजते मिथ्यात्वसामानाधिकरण्यसद्भावान्न विरुद्धत्वमित्यत आह।। तादृशस्येति।। अनन्वयादिति। असम्बन्धादित्यर्थः। आभासभूतदृश्यत्वस्य प्रपञ्चे मिथ्यात्वसाधनाय पक्षसम्बन्धितया हेतुत्वेनावक्तव्यत्वादिति यावत्। अयम्भावः। प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्वमसति शशविषाणादौ नास्तीति तावत्तव सम्मतम्। तस्य प्रतियोग्यधिकरणतया प्रतिपन्नोपाधेरेवाभावात्। तत्र प्रष्टव्यम्। शशविषणमस्तीति शब्दात्तदाकारं ज्ञानमुपजायते न वेति। नेति पक्षेऽनुभवविरोधः। आकाङ्क्षादिमच्छब्दस्य ज्ञानजनकत्वस्वाभाव्यात्। आद्ये तद्विषयत्वमेव हि ज्ञानस्य तदाकारत्वम्। यत्सन्निकृष्टकरणेनेत्यादिरूपं मुख्यं तद्विषयत्वं शशविषाणस्य न सम्भवति। असता सन्निकर्षायोगात्। अतस्तदुल्लेखित्वरूपामुख्यं यदाभासभूतं दृश्यत्वं तदेव तत्र वक्तव्यम्। तथा च तेनापि तत्र निरुक्तं मिथ्यात्वं साध्यं स्यादन्यथाऽऽभासदृश्यत्वस्य तत्र व्यभिचारापत्तेः। अतो मुख्य एव दृश्यत्वे हेतूकरणीये तस्य रजतेऽभावाद्युक्तं तस्य सन्मात्रवृत्तित्वमिति। दृष्टान्ते साधनवैकल्यं चाह।। किञ्चिति। दृश्यत्वं वक्तव्यमिति शेषः। कुत इत्यत आह।। अध्यस्ततयैवेति। प्रातिभासिकतयैवेत्यर्थः।। तत्सिद्धीति। रजतसिद्धीत्यर्थः। प्रातिभासिकस्थले रजताकाराविद्यावृत्तिरन्तरेव भवतीत्यङ्गीकारेण वृत्तिप्रतिबिम्बितचैतन्याभिव्यक्ताधिष्ठानचैतन्यरूपफलस्य तत्राभावेन तद्व्याप्यत्वाभावात्। तत्राविद्यावृत्त्यङ्गीकारेणान्तःकरणवृत्त्यभावेन तद्व्याप्यत्वस्याप्यभावादित्यर्थः।
रजते दृग्विषयत्वं नास्तीत्युक्त्वा तत्र दृगेव न सम्भवति कारणाभावादित्याह।। न चेति। न हीत्यर्थः। तत्प्रतीतौ रजतप्रतीतौ। उपायान्तरमिति। इन्द्रियभिन्नमनुमानादिरूपं कारणान्तरमित्यर्थः। तर्हिन्द्रियमेवास्तु तत्कारणमिति चेत्तत्राह।। सन्निकर्षाभावादिति। रजतस्य प्रातिभासिकत्वेन प्रतिभासमात्रशरीरतया ज्ञानात्पूर्वं सत्त्वाभावेनेन्द्रियसन्निकर्षो न सम्भवतीति नेन्द्रियेण तज्ज्ञानमित्यर्थः। तथा च ज्ञानात्पूर्वं रजतसिद्धाविन्द्रियसन्निकर्षसम्भवेन तज्ज्ञानसिद्धिः। तत्सिद्धौ तस्यप्रातिभासिकत्वेन प्रतिभासमात्ररजतसिद्धिरित्यन्योन्याश्रय इति भावः। अधिकं वक्तुमुक्तमेव दूषणं पुनराह।। आत्मनोऽपीति। तत्र हेतोरभावान्न व्यभिचार इत्याशङ्कते।। न चात्मेति।। आत्मान हि दृश्यत इत्यर्थः। आत्मा न दृश्यत इत्युक्ते कथं व्याहतिरित्यत आह।। न हीति। वाशब्द उपमायाम्। धर्मविधानमिति दृष्टान्तार्थं यथाऽज्ञाते धर्मिणि धर्मविधानं न सम्भवति। (यथाऽज्ञाते धर्मिज्ञानाभावेन तत्र दृश्यत्वमस्तीति विधानं न सम्भवति तथा तत्र दृश्यत्वं नास्तीति दृश्यत्वरूपधर्मनिषेधोऽपि न सम्भवतीत्यर्थ इति पाठान्तरम्)। एवमात्मरूपज्ञानाभावे तत्र दृश्यत्वं निषेधता धर्मिभूतात्मज्ञाने वक्तव्ये पुनर्न दृश्यत इत्युक्ते व्याहतिरिति भावः। आत्मनो दृश्यत्वेऽनुमानमप्याह।। आत्मेति।। अयं घट इति।। एतद्धटेति। पक्षीभूतघट इत्यर्थः। तथा चैतद्धटश्चात्मा चताभ्यामन्यद्यत्सर्वं जगत्तदन्यद्यद्दृश्यमात्मरूपं तदन्यत्वमादाय साध्यार्थपर्यवसानम्। अत्र यद्यप्येतद्धटात्मान्यान्यदृश्यं पक्षीकृते घटेऽपि तथाऽपि स्वान्यत्वं बाधितमित्यात्मनो दृश्यत्वसिद्धिर्दृष्टान्तभूते घटे एतद्धटात्मन्यान्यादृश्यभूतैद्धटात्मान्यत्वमादाय साध्योपपादनं कर्तव्यम्। एवमेव पक्षीभूते एतद्धट उपपादनं कर्तुं न शक्यते बाधात्। अतो दृश्यभूतात्मान्यत्वमादायैव पर्यवस्यतीत्यात्मनो दृश्यत्वसिद्धिरिति भावः।
ननु वेदान्तवाक्यजन्यज्ञानं ब्रह्मज्ञानं भविष्यत्येवं ब्रह्मणो ज्ञानं ब्रह्मज्ञानमित्यभ्युपगमादित्यत आह।। षष्ठ्यर्थस्येति। षष्ठ्यर्थसम्बन्धस्येत्यर्थः।। अनतिरेकादिति। त्वया च तदनङ्गीकारादिति भावः। वेदान्तजन्यपरोक्षज्ञानेनाविद्यानिवृत्त्य भावेऽप्यद्वैतसाक्षात्कारेण तन्निवृत्तिर्भविष्यतीत्याशङ्कते।। यद्वीति। श्रुतिमयेनेत्यादि। श्रवणात्मकेन ज्ञानेन तत्त्वं ब्रह्मस्वरूपमभिधाय धातूनामनेकार्थत्वान्मतं कृत्वेति यावत्। चिन्तामीमवस्थामवलम्बमानस्यान्तःकरणपरिणामभूतं वृत्तिरूपं यज्ज्ञानमात्मसाक्षात्काररूपं यज्ज्ञानमुपजायते तेनाविद्यानिवृत्तिर्भवेदित्यर्थः।। तथेति। आत्मसाक्षात्कारेणाविद्यानिवृत्त्यभ्युपगम इत्यर्थः।। दृश्यतयेति। दृश्यत्वप्राप्त्येत्यर्थः।। न दृश्यत्वमिति। तथा च हेतोरभावान्न व्यभिचार इति भावः।। दत्तोत्तरत्वादिति। फलं किं ज्ञातता व्यवहारो वेत्यादिना दत्तोत्तरत्वाद्दूषितत्वादिति भावः।।
विषयत्वाभावेऽपीति। आत्मनो ज्ञानविषयत्वाभावेऽपीत्यर्थः। तेनात्माकारज्ञानेन न च तदाकारम्।
आत्माकार इवेति। गवाकारो गवयवदिति भावः।। आत्माकार इवाकारो यस्येति वेति। घटात्वाकारो घट इतिवदिति भावः।। अनुपलम्भादिति। ज्ञानस्यान्तरत्वाज्ज्ञेयस्य चात्मनो बाह्यत्वेन तयोरेकाकारत्वाभावादिति भावः। नन्वात्मनिष्ठः सत्तारूप एवाकारो ज्ञानस्याप्यस्तीत्येवं ज्ञानज्ञेययोः सत्तयैकाकारत्वमस्तीत्याशङ्कते।। एकैवेति।। अनङ्गीकारादिति। अस्माभिः सत्तायाः प्रातिस्विकत्वाङ्गीकारादिति भावः।।
घटाकारमपीति। आत्मघटयोरपि सत्तयैकाकारत्वस्य सद्भावादित्यर्थः। दूषणान्तरमाह।। न द्वितीय इति। कुतो न द्वितीय इत्यत आत्माकार इवाकार इत्यत्र ज्ञाने आत्माकारेणात्यन्तसादृश्यं विवक्षितं सत्तया यत्किञ्चित्सादृश्यं वेति विकल्पं हृदि निधायाद्यं दूषयति।। अत्यन्तेति। ज्ञानस्यान्तरत्वादात्मनो बाह्यत्वादिति भावः। द्वितीयं दूषयति।। किञ्चिदिति।। अतिप्रसञ्जकत्वादिति। वेदान्तवाक्यजनित ज्ञानमात्माकारमेव कुतो घटाकारमपि किन्न स्यादित्यतिप्रसङ्ग इत्यर्थः।। साक्षादिति। घटस्य घटत्वमिवेत्यर्थः।। आधारेति। आकारो ह्याकारिणमाश्रयते न चात्मा तमाश्रयत इत्यर्थः। तद्विषयत्वमेव हि तदाकारत्वमिति मूलं मनसि निधायाह।। अत इति। तदेवग तदाकारत्वमेव।
ननु पारमार्थिकत्वादिविशेषणमपहाय सामान्याकारेण भेदमात्रं विवक्षित्वा स्वातिरिक्तेति प्रयोगः क्रियत इति नोक्तदोष इत्याशङ्क्य निराकरोति।। सामान्यत इति।। प्रागेव परास्तमिति। जलनलिननभोनलिनयोर्नलिनत्वसामान्यवत्पारामार्थिका विद्यकभेदयोर्भेदत्वसामान्यमेव नास्ति। आविद्यकभेदरूपव्यक्तेरेवाभावादिति प्रागेव परास्तप्रायमित्यर्थः।। व्यर्थविशेषणमिति। स्वव्यवहारे स्वातिरिक्तेति विशेषणमित्यर्थः। अस्तु वा स्वातिरिक्तेति विशेषणं तथाऽपि साधनकैकल्यं स्यादित्याह।। न चास्तीति। चशब्दो दूषणान्तरसमुच्चयार्थः।। ज्ञानेति। स्वातिरिक्तसंविदित्यर्थः। व्यवहाराय स्वव्यवहाराय । ननु शुक्तिरजतेऽपि स्वव्यवहारे स्वातिरिक्तसंवित्सापेक्षा कुतो नास्तीति चेत्तत्राह। अध्यस्ततयैवेति। प्रातिभासिकतयैवेत्यर्थः।। सिद्धीति। रजतसिद्धीत्यर्थः। तथा च रजतस्य प्रतिभासमात्रशरीरत्वेन स्वव्यवहारे स्वातिरिक्तसंवित्सापेक्षत्वाभावादिति भावः। दृग्व्यावर्तकत्वरूपदृश्यत्वस्यात्यन्तासति शशविषाणादावनैकान्त्यं चाह।। अत्यन्तासतीति। साध्यस्यापि सत्त्वान्न व्यभिचार इत्याशङ्क्य निषेधति।। न च तदपीति। अत्यन्तासदपीत्यर्थः। शुक्तिरजतवदत्यन्तासतोऽपि मिथ्यात्वाङ्गीकारे यदसत्तन्न प्रतीयते प्रतीयते चेदं रजतं तस्मान्नासतोऽपि मिथ्यात्वाङ्गीकारे यदसत्तन्न प्रतीयते प्रतीयते चेदं रजतं तस्मान्नासदित्येवं शुक्तिरजतादेरसद्वैलक्षण्यप्रतिपादनायासो व्यर्थः स्याद्रजतासतोरुभयोरपि मिथ्यात्वेन समानत्वादिति भावः। असतो मिथ्यात्वाङ्गीकारे दूषणान्तरं चाह।। न चेति। चशब्दो दूषणान्तरसमुच्चये। बाध्यत्वं बाध्यत्वरूपं मिथ्यात्वं कुतो न युज्यत इत्यत आह।। अप्रतीत्यङ्गीकारादिति। मिथ्यात्वं हि बाध्यत्वं तच्च प्रतिपन्नोपाधेस्त्रैकालिकनिषेधप्रतियोगित्वरूपं न चासतस्तद्युज्यते। प्रतियोग्यधिकरणतया प्रतिपन्नोपाधेरेवाभावेन कस्मिन्नपाधौ तस्य प्रतीत्यनङ्गीकारात्। अतो बाध्यत्वरूपमिथ्यात्वस्य तत्राभावादसत्यनैकान्त्यं स्यादेवेति भावः।
ननु न बाध्यत्वं मिथ्यात्वं किन्त्वनिर्वचनीयत्वं तदसत्यप्यस्तीति न व्यभिचार इत्याशङ्कक्य निषेधति।। नापीति। अनिर्वचनीयत्वरूपमिथ्यात्वमपि तस्यासतः कुतो नेत्यत आह।। तत्रेति। अनिर्वचनीये प्रमाणाभावेन तादृशमिथ्यात्वसाधनेऽनुमानस्याप्रसिद्धविशेषणत्वं स्यात्। तथा च बाध्यत्वरूपं एव मिथ्यात्वे साध्येऽसति तदभावेन व्यभिचारः सुस्थ इति भावः। यद्वा मिथ्यात्वं नामानिर्वचनीयत्वं तच्च सदसद्वैलक्षण्यं तच्चासति न सम्भवति। कुत इत्यत आह।। तत्रेति। असदसन्नेति प्रतीत्यभावेन तत्रासद्वैलक्षण्यसद्भावे प्रमाणाभावादनिर्वचनीयत्वरूपमिथ्यात्वस्यापि तत्राभावेनासत्यनैकान्त्यं सुस्थमिति भावः। उपलक्षणमेतत्। रजतवदसतोऽप्यनिर्वचनीयत्वे रजतस्यासद्वैलक्षण्यप्रतिपादानायासो व्यर्थः स्यादित्यपि द्रष्टव्यम्। दृश्यत्वदूषणसमाप्तावितिशब्दः ।। छ ।।
अध्याय 11
अध्याय 12
।साधकतां मिथ्यात्वसाधकताम्। अधि अधिकृत्य। नास्ति तत्साधको न भवतीति यावदित्यर्थः।। कालतो वेति। कालतः परिच्छिन्नत्वं नामानित्यत्वमित्यर्थः। वस्तुतः परिच्छिन्नत्वरूपतृतीयविकल्पमर्थतोऽनुवदति।। अन्योन्याभावेति। तथा च वस्त्वन्तरप्रतियोगिकान्योन्याभावाधिकरणत्वरूपं वस्तुतः परिच्छिन्नत्वं वेत्यर्थः। देशतः कालतः परिच्छिन्नत्वं प्रकृतिकालादिष्वभावाद्भागासिद्धमिति तत्त्वोद्योतवाक्यं मनसि निधायाह।। कालेति। आदिपदेन प्रकृते पञ्चाशद्वर्णानां च ग्रहणम्।। भागेऽसिद्धेरिति। कालादीनां व्याप्तत्वेन देशतः परिच्छिन्नत्वाभावादिति भावः।। अत एवेति। भागेऽसिद्धेरेवेत्यर्थः। कालादीनां नित्यत्वेन कालतः परिच्छिन्नत्वाभावादित्यर्थः। भागासिद्धिपरिहारं शङ्कते।। ब्रह्मव्यतिरिक्तमिति।। क्कचिन्निष्ठेति। किञ्चिन्निष्ठेत्यर्थः।। सर्वस्येत्यादि। ब्रह्मव्यतिरिक्तं सकलं किञ्चिद्रूपमधिष्ठानमधिकरणमभ्युपेयमित्यर्थः। कुत इत्यत आह।। अभावस्येति।। अधिष्ठानेति। अधिकरणज्ञानाधीनज्ञानत्वादित्यर्थः। सद्भ्यामधिकरणप्रतियोगिभ्यामभावो निरुप्यत इति वचनादिति भावः।। कथं न व्याघात इति। ब्रह्मव्यतिरिक्तस्य सकलस्यापि किञ्चिन्निष्ठाभाव प्रतियोगित्वेऽधिकरणभूतस्य किञ्चितोऽभावप्रतियोगित्वं नास्तीति प्राप्तम्। ब्रह्मव्यतिरिक्तसकलमध्येऽधिकरणभूतस्य किञ्चितोऽपि प्रविष्टत्वेनाभावप्रतियोगित्वमस्तीति प्राप्तम्। तथा च व्याघात इत्यर्थः। ननु ब्रह्मव्यतिरिक्तस्य किञ्चितोऽधिष्ठानत्वं नाभ्युपगम्यते येनोक्तरीत्या व्याघातः स्यात्किन्त्वित्यत आह।। सकलमपीति। तत्र ब्रह्मण्यध्यस्तत्वमभ्युपगमेन ब्रह्मरूपाधिष्ठानाभ्युपगमेन न व्याघात इत्यर्थः।। बाध्यतेत्यर्थः स्यादिति। देशतः परिच्छिन्नत्वं नाम ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वमित्युक्त्या प्रतिन्नोपाधौ निषेधप्रतियोगित्वरूपबाध्यत्वमेवार्थतयोक्तं स्यादित्यर्थः।। साध्याविशिष्टतयैवेति। बाध्यताया एव च मिथ्यात्वादिति भावः।।
दुष्टतापत्तिरिति। देशतः परिच्छिन्नत्वहेतोरित्यर्थः। अनित्यतोत्तरकालेऽसत्त्वम्। सादिता पूर्वकाले सत्त्वम्।। त्रिकालासत्वेति। त्रैकालिकसत्त्वप्रतिषेध इत्यर्थः।। एतादृशेति। अनित्यतादिरूपेत्यर्थः।। स एव दुरात्मा व्याघात इति। उत्तरकाले पूर्वकाले कालत्रये च कालस्य सत्त्वाभावोक्तौ सत्त्वाभावाधिकरणतया कालस्य सत्त्वप्राप्त्या पुनस्तन्निषेधे स एव दुरात्मा पापी व्याघातः स्यात् यो देशतः परिच्छेद उक्त इत्यर्थः।
ननु तत्रापि साध्यस्य सत्त्वान्न व्यभिचार इत्याशङ्क्य निरोकरोति।। तस्याश्चेति।। अनादित्वपरिभाषेति। जीव इशो विशुद्धा चिद्भेदस्तस्यास्तयोर्द्वयोः। अविद्या तच्चितोर्योगः षडस्माकमनादयः।। इत्यकार्यत्वापरनामकानादित्वपरिभाषासञ्ज्ञा लुप्येतेत्यर्थः।। तत्कारणस्येति। अविद्यायाः कार्यत्वाङ्गीकारे यत्कार्यं तत्सकारणकमिति व्याप्तेरविद्यायाः किञ्चित्कारणं वाच्यं तन्नास्तीत्यर्थः। कालपरिच्छिन्नत्वसाधकजडत्वहेतोः स्थलान्तरेऽपि व्यभिचारमाह।। पञ्चमप्रकारमिति। अविद्यानिवृत्तिरूपो मोक्षो न सन् अद्वैतभङ्गात्। नासन्प्रतीतिविरोधात्। न सदसद्विरोधात्। नापि सदसद्विलक्षणरूपोऽनिर्वाच्यः। प्रतियोगितदभावयोर्वैलक्षण्यस्यावश्यकत्वेनाविद्यायाः सदसद्विलक्षणत्वेन तन्निवृत्तिरूपमोक्षस्यापि तथात्वायोगादतः सदसद्विलक्षणविलक्षणरूपपञ्चमप्रकारमाचक्षते मायिन इति द्रष्टव्यम्। यथोक्तम्। न सन्नासन्न सदसन्नानिर्वाच्यश्च तत्क्षयः। यक्षानुरूपो बलिरित्याचार्याः प्रत्यपीपदन्निति। साध्याभावोपपादनाय नित्यतयाऽभ्युपगत इत्युक्तम्। साध्यस्यापि सत्त्वान्न व्यभिचार इत्याशङ्क्य निराकरोति।। तस्येति। अविद्याध्वंसरूपमोक्षस्येत्यर्थः। कालपरिच्छिन्नत्वेऽनित्यत्वे।। पुनरावृत्तिप्रसङ्ग इति। अविद्यास्तमयो मोक्षः स संसार उदाहृत इति वचनात्। अविद्यारूपसंसारस्य पुनःप्राप्तिः स्यादित्यर्थः। इतोऽपि ध्वंसस्य नित्यत्वाङ्गीकारो न युक्त इत्याह ।। न हीति। इन्द्रोऽपि क्षयं ध्वंसं क्षेप्तुम्। क्षिपु निरसने। निरसितुमनित्यं कर्तुं न क्षमो न समर्थः। तथात्वे प्रतियोग्युन्मज्जनापत्तेः। इति हेतोस्त्वया मनुष्यमात्रेण ध्वंसस्यानित्यत्वाङ्गीकृतावुन्मत्तवादस्तव स्यादित्यर्थः। तथा चाविद्यानिवृत्तिरूपमोक्षस्यानित्यत्वात्तत्र जडत्वहेतोर्व्यभिचारः सुस्थ इति भावः।। नेति नेतीत्यादिनेति। स एष आत्मा नेति नेतीत्यादिश्रुतिवाक्येनेत्यर्थः। स एष आत्मा परमात्मा पृथिवीवन्न जलादिवन्नेति श्रुत्यर्थः।। श्रुतत्वादिति। तथा च वस्तुतः परिच्छिन्नत्वहेतोर्ब्रह्मणि व्यभिचार इति भावः।। सोऽपि भेदे इति। यो ब्रह्मणि श्रुतो जगदन्योन्याभावरूपवस्तुतः परिच्छेदरूपो भेदः सोऽप्याविद्यकत्वान्मिथ्याभूत इत्यर्थः। तथा च हेतोरेवाभावान्न व्यभिचार इति भावः।।
तत्किमिति। येन तदभावान्न व्यभिचारः स्यादिति भावः। ओमिति चेत्तत्राह।। तथा सतीति ।।तदसिद्धिः स्यादिति। पारमार्थिको यो जगदन्योन्याभावरूपो भेदस्तदधि करणत्वरूपवस्तुतः परिच्छिन्नत्वरूपहेतोर्जगति त्वयाऽनङ्गीकारादसिद्धिः स्यादित्यर्थः।। विरुद्धता चेति। स एष आत्मा नेति नेतीत्यादिना श्रुतस्य जगदन्योन्याभावाधिकरणत्वरूपवस्तुतः। परिच्छिन्नत्वहेतोर्ब्रह्मणि मिथ्यात्वभावेनैव व्याप्ततया दृष्टत्वेन हेतोर्विरुद्धता च स्यादित्यर्थः।। छ ।।
अध्याय 13
।। बाधितविषयत्वादिति। बाधितसाध्यकविषयत्वादित्यर्थः।। कालात्ययापदिष्ट इति। दृश्यत्वादिहेतुसमुदाय इत्यर्थः। प्रश्नस्यासङ्गीपरिहारायाह।। या प्रत्यक्षगोचरेति।। सत्त्वमिति। सत्ताजातिरित्यर्थः।। विधिगम्यत्वमिति। विधिबुद्धिविषयत्वमित्यर्थः।। अबाध्यत्वमिति। कालत्रयाबाध्यत्वमित्यर्थः। कुतोन विरोध इत्यत आह।। तस्येति। प्रतिपन्नोपाधौ त्रैकालिकसत्यताप्रतिषेधो मिथ्यात्वमिति वदद्भिरस्माभिस्तस्य प्रत्यक्षगृहीतस्याद्यपञ्चकान्यतररूपस्य सत्त्वस्यानिराकरणादित्यर्थः। तथात्व एव ह्यस्माकं प्रत्यक्षविरोधः स्यादिति भावः।।
अयोगादिति। तस्य वर्तमानमात्रग्राहित्वेन कालत्रयाबाध्यत्वरूपसत्त्वग्राहकत्वाभावादिति भावः। तर्हि सन्घट इत्यादिप्रत्यक्षेण घटादिसत्त्वं गृह्यत इति प्रवादस्य का गतिरित्यत आह।। तस्मादिति। तस्मादबाध्यत्वरूपसत्त्वस्य प्रत्यक्षागोचरत्वात्। तथा च मायाविनिर्मितान्तरिक्षगतगन्धर्वनगरसत्त्वावगाहिप्रत्यक्षवज्जगत्सत्यत्वाव गाहिप्रत्यक्षमप्यप्रामाणिकमिति भावः।
तदानीमबाध्यताग्रहणेनैवेति। वर्तमानकालीनसत्ताग्रहणेनैवेत्यर्थः।। तत्सिद्धेरिति। त्रैकालिकसत्ताप्रतिषेधाभावसिद्धेरित्यर्थः। अयं भावः। यदा प्रत्यक्षं वर्तमानकालसत्तां गृह्णाति तदा त्रैकालिकसत्ताप्रतिषेधाभावं गृह्वात्येव। यदा वर्तमानकालसत्तां गृह्णाति तदा त्रैकालिकसत्ताप्रतिषेधाभावं गृह्वात्येव। यदा वर्तमानकाले सत्ता तदा त्रैकालिकसत्ताप्रतिषेधाभाव इत्येवं वर्तमानकालीनसत्तायास्त्रैकालिकसत्ताप्रतिषेधाभावव्याप्यत्वात्। यथाऽऽहुः स्वकाले ह्यस्तितां गृह्णन्साक्षात्कारस्त्रिकालगम्।प्रतिषेधं निरुन्धानो गृह्णात्येव ह्यबाध्यताम्।। इति। अन्यथा वह्निरनुष्ण इत्यत्रापि प्रतियोगिभूतौष्ण्यग्राहिप्रत्यक्षस्य साक्षाद्ग्राह्याभावावगाहित्वेन विरोधित्वं सर्वसम्मतं तदपि न स्यात्। तत्राप्यनुमानेन त्रैकालिकौष्ण्याभावः। साध्यते। स्पार्शनप्रत्यक्षेण तु वर्तमानकालीनमेवौष्ण्यं गृह्यते। तथा च त्रैकालिकानौष्ण्भावव्याप्यभूतैककालीनौष्ण्याग्राहकत्वेनैव स्पार्शनप्रत्यक्षस्य विरोधित्वं न साक्षादिति वक्तुं शक्यत्वात्। वस्तुतस्तु साक्षाद्ग्राह्याभावावगाहित्वेनैव विरोधित्वम्। न च प्रत्यक्षगृहीतैककालीनसत्तायास्त्रैकालिकसत्ता प्रतिषेधाभावरूपत्वाभावात्कथमेतदिति वाच्यम्। स्यादिदं यदि सार्वकालिकी सार्वदैशिकी या या सत्ता तत्प्रतिषेधो बाध इत्येवं देशकालयोरपि निषेध्यकोटौ प्रवेशः स्यान्न चैवं किन्तु सर्वस्मिन्देशे सर्वस्मिन्काले च या सत्ता तत्प्रतिषेध इत्येवमधिकरणकोटावेव। तथा च सत्ताप्रतिषेधमात्रस्यैव बाध्यत्वेन प्रत्यक्षेण च सत्तामात्रस्यैव गृहीतत्वेन साक्षाद्ग्राह्याभावावगाहित्वेनैव विरोधित्वम्। एतदेवाभिप्रेत्योक्तं तच्चेन्नोत्तरगोचरमित्यनुव्याख्यानावतारिकावसरे भक्तितपादीयसुधायाम्। घटादिसत्ताप्रतिषेधरूपस्य बाधस्यतत्सत्ताग्राहिण प्रत्यक्षेण विरोधावश्यम्भावादिति। निपुणतरमेतदुपपादितमस्मदाचार्यैस्तट्टिपण्यां तत्रैवानुसन्धेयम्।।
गृह्यत इतीति। प्रत्यक्षेणेत्यर्थः। तथा च तत्रापि तेन त्रिकालाबाध्यत्वं सिध्येदिति भावः।।निरपवादादिति। निर्बाधप्रत्यक्षात्सिध्यतीत्यर्थः।
न बाध्यत इति। किन्तु प्रबलप्रत्यक्षेणैव बाध्यत इत्यर्थः।। तत्पादोपजीविन इति। प्रत्यक्षपादोपजीविन इत्यर्थः। धर्मिलिङ्गव्याप्त्यादिग्राहकत्वेन प्रत्यक्षस्यानुमानं प्रत्युपजीव्यत्वादिति भावः।। वराकस्येति। रण्डापुत्रस्येत्यर्थः। वराको विधवासुत इत्यमरोक्तेः। तर्कस्यानुमानस्य।। तद्बाधकत्व इति। प्रत्यक्षबाधकत्वे का वार्तेत्यन्वयः। तथा च प्रत्यक्षबाधकत्वं केवलतर्कस्य न सम्भवतीति भावः। यथोक्तम्। न हि प्रत्यक्षसिद्धमन्येन केनापि बाध्यं दृष्टमिति।
ननु प्रत्यक्षसिद्धमप्यनुमानबाध्यं दृष्टमित्याशङ्कते।। नभ इति। मलिनता नैल्यम्। आकलयद्विषयीकुर्वत्। अमूर्तेति भावप्रधानो निर्देशः। इयत्तावच्छिन्नपरिमाणयोगित्वाभावोऽमूर्तत्वं विभुत्वमिति यावत्। तथा च नीलं नभ इति प्रत्यक्षं नभो न नीलं विभुत्वात्कालादिवदित्यनुमानबाध्यं दृष्टमित्यर्थः।। आप्तवाक्यादिनेति। नभो नीलं नेत्याप्तवाक्येनेत्यर्थः। आदिपदेन नभोनैल्यावगाहिप्रत्यक्षग्रहणम्। तथा च तत्रापि विभुत्वानुमानमूलभूताप्तवाक्यादिनैव बाधो नानुमानेन राजगौरवेण राजभृत्येनामात्य इवानुमानं तत्र बाधकमिति चोच्यत इति भावः। यथोक्तम्। दुर्बलस्य प्रमाणस्य बलवानाश्रयो चोच्यत इति भावः। यथोक्तम्। दुर्बलस्य प्रमाणस्य बलवानाश्रयो यदा तदाऽपि विपरीतत्वमिति।। यदा च पुनरिति। नीलं नभ इति प्रत्यक्षानन्तरं यदा स्वयमेव नभो न नीलं विभुत्वादित्यनुमिमीते तदा तत्र तन्मूलाप्तवाक्यादेरभावादनुमानमेव बाधकमिति वक्तव्यमिति भावः। माऽस्तु तत्राप्तवाक्यमात्रेण बाधः। अपि तु विभुत्वस्य नैल्याभावनिरूपितव्याप्तिग्राहकत्वेन यत्प्रबलं भवत्प्रत्यक्षं साक्षितन्मूलकानुमानमेव तत्र बाधकमित्याशयेनाह।। यदा च पुनरिति। तस्मादनुमानात्। अध्यवसायोऽनैल्याध्यवसायः। अत एव प्रागाप्तवाक्यादिनैवेत्युक्तमिति ज्ञातव्यम्।
जरद्गवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति भद्रकाणि। तं ब्राह्मणी पृच्छति पुत्रकामा राजन्रुमायां लशुनस्य कोऽर्थः।।
इति जरद्गववाक्यम्। आदिपदेन शङ्खः कदल्यां कदली च भेर्यां भेर्यां महच्चाविरभूद्विमानमिति वाक्यं ग्राह्यम्। जगत्प्रत्यक्षस्य भ्रमत्त्वसाधकप्रत्यक्षत्त्वं किमाभासभूतं विवक्षितमुत प्रमाणभूतमथवोभयसाधारणं ज्ञानत्वमात्रम्। नाद्यः। अस्माभिर्जगत्प्रत्यक्षस्याभासत्वानङ्गीकारात्स्वरूपासिद्धिः स्यात्। न द्वितीयः। दृष्टन्तभूते गन्धर्वनगरप्रत्यक्षे प्रमाण त्वाभावेन साधनवैकल्यापत्तेः। न तृतीयः सत्यज्ञानादिवाक्यजन्ये ब्रह्मणः सत्यत्वादिविषयके ज्ञाने व्यभिचारः स्यादित्याह।। किञ्चेत्यादिना ।। छ ।।
अध्याय 14
मिथ्यात्वानुमानस्यागमविरोधं चाह।। विश्वं सत्यमितीति।। निर्बीजत्वादिति। विश्वं सत्यमित्यादिश्रुतेर्व्यावहारिकसत्यता प्रतिपादकत्वकल्पनाया निर्बीजत्वादित्यर्थः। ननु व्यावहारिकसत्यत्वस्य प्रपञ्चे केनाप्यनङ्गीकृतत्वेन तं प्रति तत्प्रतिपादनस्य सार्थकत्वादित्यत आह।। न हीति। लौकिको मूर्खो वैदिको विद्वान्। व्यावहारिकसत्यतामर्थ क्रियाकारित्वादिरूपम्।। नाभ्युपैतीति। येन तं प्रति तत्प्रतिपादनं सार्थकं स्यादिति भावः। ननु विश्वं सत्यमित्यादिश्रुत्या पारमार्थिकसत्यत्व प्रतिपादनमपि व्यर्थं तस्यापि सर्वैरङ्गीकृतत्वादित्यत आह।। वादिप्रसिद्धमिति। मायावादिसमयसिद्धमिथ्यात्वनिषेधं हृदि निधायेत्यर्थः। समयानां प्रवाहतोऽनादित्वात्तत्प्राप्तप्रतेषेधः श्रुत्या कर्तुं युक्त एव। अनादिकालतो वृत्ताः समया हि प्रवाहत इत्युक्तत्वादिति भावः। ननु लौकिकवैदिकाभ्युपगमसिद्धाऽपि व्यवहारिकी सत्ता श्रुत्या प्रतिपाद्यतां को दोष इति चेन्न। तथात्वेऽपूर्वताभङ्गः स्यात्। कुत इत्यत आह।। अप्राप्त इति। प्रमाणान्तराप्राप्तेऽर्थे तत्प्रतिपादने क्रियमाणे सतीति यावत्। शास्त्रमर्थवत्। सार्थकं भवत्यपूर्वतालाभादित्यर्थः। अन्यथा ज्ञातज्ञापकत्वेन शास्त्रस्यानुपादेयत्वं स्यादिति भावः।
ननु नेह नानाऽस्ति किञ्चनेति श्रुत्येह ब्रह्मणि किञ्चन किमपि नास्तीति विश्वमिथ्यात्वं प्रतिपाद्यते मिथ्यात्वं च सत्ताप्रतिषेधरूपं प्रतिषेधश्च प्रतियोगिप्रसक्तिपूर्वकः। तथा च विश्वं सत्यमित्यादिवाक्यं नेह नानाऽस्ति किञ्चनेति श्रुतिप्रतिषेध्यं यद्विश्वसत्यत्वं तत्समर्पकतया तत्प्रसञ्जकतया विश्वसत्यतामनुवदति। तथा च निषेधायानुवादरूपत्वान्न विश्वं सत्यमित्यादिवाक्यस्य स्वार्थे तात्पर्यमित्याशङ्कते।। नेह नानेति। वैपरीत्यस्यापि वक्तुं सुवचत्वादित्याह।। तथा सतीति।। वचनविधानसिद्ध्यर्थमिति। वचनेन सत्यत्वविधानसिद्ध्यर्थमिति भावः। तथा च विश्वं सत्यमित्यादिना विश्वस्य सत्यत्वं विधातुं नेह नानेत्यादिना तन्मिथ्यात्वमनूद्यत इत्यपि स्यात्। तथा च नेह नानेति श्रुतेरपि न स्वार्थे तात्पर्यमिति भावः।
भ्रमानुपपत्त्येति। लोके निरधिष्ठानभ्रान्तेरभावेनाधिष्ठानाभावे भ्रमाद्यनुपपत्तेर्जगद्भ्रामाधिष्ठानत्वं ब्रह्मणो वक्तव्यम्। लोके चाधिष्ठानं सत्यमेव दृष्टम्। अधिष्ठानं च सदृशं तथ्यवस्तुद्वयं विना न भ्रान्तिर्भवति क्वापीति वचनात्। तथा च ब्रह्म सत्यं जगदारोपाधिष्ठानत्वाच्छुक्तिवदित्यनुमानेन ब्रह्मसत्यतायाः सिद्धत्वेन तदनुवादित्वं सत्यज्ञानादिवाक्यस्य युक्तमिति भावः।। विश्वसत्यत्वेति। विश्वं सत्यमित्यादिवाक्यं विश्वसत्यत्वानुवादरूपमिति वदतेत्यर्थः।। प्रामाणिकतेति। प्रमाणान्तरसिद्धतेत्यर्थः।। तत्प्रमाणेति। माऽस्तु विश्वं सत्यमित्यादिवाक्यविरोधो मिथ्यात्वानुमानस्य किन्तु विश्वं सत्यमिति श्रुतेरनुवादकत्वसिद्ध्यर्थं विश्वं सत्यमित्यस्य यत्प्रमाणसिद्धत्वमङ्गीक्रियते तेनैव प्रमाणेन विरोधः स्यादित्यर्थः। विश्वस्य प्रामाणिकत्वाङ्गीकारे बाधकान्तरमाह।। निषेध्यस्येति। स्वेन मायावादिना। तथा च निषेध्यस्य विश्वसत्यत्वस्य प्रमाणसिद्धत्वं न वक्तव्यमिति भावः।। लोकेति।। विश्वं सत्यमिति श्रुतिः प्रमाणसिद्धं विश्वसत्यत्वमनुवदतीति नोच्यते। किन्तु लोकसिद्धं यद्विश्वसत्यत्वं तदेवानुवदतीत्युच्यत इत्यर्थः।। दत्तोत्तरत्वादिति। लोकानां तत्सत्यत्वं येन प्रमाणेन सिद्धं तद्विरोध एव मिथ्यात्वानुमानस्य स्यादिति दत्तोत्तरत्वादित्यर्थः।। तथैवेति। यथा लोके भ्रान्तिसिद्धं विश्वसत्यत्वं विश्वं सत्यमित्यादिवाक्येनानूद्यत इत्युच्यते तथैव शून्यवादिभ्रान्तिसिद्धब्रह्मसद्भावो ब्रह्मसत्यत्वमसदेवेदमग्र इति निषेधाय सत्यज्ञानादिवाक्येनानूद्यत इति स्यादित्यर्थः। अनुवादोऽपि यदिदं वदन्ति तन्न युज्यत इति वाक्यपरिहारे विशेषयुक्तिं च विना न दृष्ट इति गीतातात्पर्यं मनसि निधायाह।। तस्मादिति।। यद्वदन्तीत्यादिवचनमिति। यद्वदन्ति तन्न युज्यत इति वचनमित्यर्थः। अप्रयोजकत्वादिति। न हि कोऽपि लोकेऽर्थक्रियाकारित्वरूपं व्यावहारिकसत्यत्वं नाभ्युपैति। येन तं प्रति तत्प्रतिपादनं सार्थकं स्यादिति भावः।।
उदितमिति। विश्वं सत्यमिति वाक्येनेत्यर्थः।। अस्तीति। मिथ्यात्वानुमानस्य विश्वं सत्यमित्यादिश्रुतिविरोधोऽस्त्येवेत्यर्थः।। छ ।।
अध्याय 15
अध्याय 16
मिथ्यात्वानुमानस्य प्रत्यक्षागमविरोधमुक्त्वाऽनुमानविरोधं चाह।। विप्रतिपन्नमिति। वियदादिकमित्यर्थः। प्रमाणदृष्टत्वादिति। प्रमाणजन्यज्ञानविषयत्वादित्यर्थः। नन्वबाध्यत्वरूपसत्यत्वाख्यसाध्यस्य कुत्राप्यप्रसिद्धत्वादप्रसिद्धविशेषणत्वमनुमानस्येत्यत आह।। तस्याश्चेति। अबाध्यत्वरूपसत्यताया इत्यर्थः।। तात्त्विकप्रमाणेति। तत्त्वावेदकप्रमाणेत्यर्थः।। अतात्त्विकेति। अत्तत्त्वावेदकेत्यर्थः। तामेवासिद्धिमुपपादयाति।। प्रत्यक्षादीति।। तवासिद्धेरिति। प्रत्यक्षादिप्रमाणानां त्वया तत्त्वावेदकत्वानभ्युपगमादिति भावः।।
साधनविकलत्वं चेति। ब्रह्मणः स्वप्रकाशत्वेनावेद्यता प्रमाणजन्यज्ञानविषयत्वरूपप्रमाणदृष्टत्वाभावादिति भावः।
प्रामाणिकत्वातिरिक्तमिति। प्रमाणदृष्टत्वातिरिक्तमित्यर्थः।। इदमुच्यत इति। प्रामाणिकत्वं सत्यत्वमुच्यत इत्यर्थः।। प्रमाणाविषयस्यापीति। तथा च लक्षणस्य ब्रह्मण्यसम्भवः स्यादिति भावः। सत्यत्वस्य स्वरूपसत्यत्वरूपस्य ।। अन्यथेति। प्रपञ्चे प्रामाणिकत्वातिरिक्तसत्यत्वानङ्गीकार इत्यर्थः।। शशविषाणवदिति। शशविषाणादौ प्रमाणप्रवृत्तिर्नास्ति घटादौ तु साऽस्तीति तावत्प्रसिद्धम्। तत्कुल इति पृष्टे शशविषाणादौ प्रमाणप्रवृत्त्यवच्छेदकीभूतस्य सत्त्वस्याभावान्न तत्र प्रमाणं प्रवर्तते। घटादौ तु तद्भावात्तत्र प्रमाणं प्रवर्तत इत्युत्तरं वाच्यम्। तथा च प्रमाणप्रवृत्तियोग्यतावच्छेदकीभूतं सत्यत्वं प्रामाणिकत्वातिरिक्तमेवाङ्गीकार्यमिति न साध्याविशिष्टतेति भावः।। ब्रह्मण इति। सत्यस्यापीत्यर्थः।। प्रामाणिकत्वाभावादिति। अवेद्यत्वेन प्रमाणजन्यज्ञानविषयत्वरूपप्रमाणिकत्वाभावादित्यर्थः। यद्यपीदं साधनवैकल्यमात्मनि वृत्तिव्याप्यताया अभ्युपगमादिति प्राक् परिहृतम्। तथाऽपि प्रकारन्तरेणापि परिहर्तुं पुनराशङ्कितमित्यदोषः।। केवलव्यतिरेकित्वोपपत्तेरिति। तत्र च शुक्तिरजतादिकं दृष्टान्त इति भावः। तथा च प्रागन्वयित्वमङ्गीकृत्य साधनवैकल्यं परिहृतमिति द्रष्टव्यम्। ननु तर्हि व्यतिरेकेऽसाधारण्यं स्यात्। तथा हि। यत्र सत्यत्वाभावस्तत्र प्रामाणिकत्वाभाव इति व्यतिरेकव्याप्तौ प्रामाणिकत्वाभावरूपसाध्यवत्त्वेन सपक्षभूते ब्रह्मणि सत्यत्वाभावरूपहेतोरवर्तमानत्वादित्यत उक्तमसाधारण्यस्य दूषणत्वाभावपक्ष इति। आसाधारणस्यासाधारणानैकान्तिकस्य। नित्यव्यावृत्तगन्धवत्त्वाद्भूः किमनित्या वाऽनित्यव्यावृत्तगन्धवत्त्वाद्भूः किं नित्येतिवत्सत्त्वव्यावृत्तिप्रामाणिकत्ववत्त्वात्किं प्रपञ्चो मिथ्योत मिथ्याभूतरजतादिव्यावृत्तप्रामाणिकत्ववत्त्वात्किं प्रपञ्चः सत्य इति सांशयिकत्वेन साध्यनिश्चयप्रतिबन्धकतयाऽसाधारणानैकान्तिकत्वस्य दूषणत्वं वक्तव्यम्। तत्र यद्येककोटौ विशेषदर्शनावतारस्तर्ह्यनुमितिर्भवत्येवेति नासाधारण्यस्य दोषत्वम्। एवञ्च प्रकृते सत्यत्वाभावे शशविषाणाद्यविशेषापत्त्या प्रमाणप्रवृत्त्ययोगेन प्रमाणप्रवृत्तियोग्यतावच्छेदकत्वेन सत्यत्वस्यैव सिद्धिरित्यनुकूलतर्करूपविशेषदर्शनेन सत्यत्वस्यैव सिद्ध्या सन्देहानुपपत्तौ सत्यत्वानुमितेरेवोत्पत्त्याऽसाधारण्यस्यादोषत्वेन केवलव्यतिरेकित्वोपपत्तेरित्यर्थः। यथोक्तं मणौ प्रत्यक्षखण्डे सुवर्णतैजसवादे। संशयः सत्प्रतिपक्षो वाऽसाधारण्यस्य दूषकतायां द्वारं तदिह विशेषदर्शनादसम्भवीत्यसाधारण्यं न दोषायेति। पूवमन्वयिनि साधनवैकल्यशङ्कायां केवलव्यतिरेकित्वमङ्गीकृत्य समाधानमुक्तमिदानीं साधनवैकल्यशङ्कैव त्वया न कर्तुं शक्यत इत्याह।। ब्रह्मणश्चेति।। असत्त्वप्रसङ्ग इति। तथा च तदसिद्धिप्रसङ्गो वस्तुसिद्धेर्मानाधीनत्वादिति भावः। यथाऽऽहुः पदार्थविदः। मानाधीना मेयसिद्धिरिति। ब्रह्मणः प्रामाणिकत्वाभावे शशविषाणवदसिद्धिःक स्यादिति तर्के प्रामाणिकत्वाभावेऽपि तत्सिद्धिः सम्भवतीत्यप्रयोजकतामाशङ्कते।। स्वतःसिद्धत्वादिति ।। नेतीति। असत्त्वप्रसङ्गे नेत्यर्थः। अनभ्युपगमेवोपपादयति।। न हीति। स्वस्मिन्स्वविषये कारकताज्ञापकता निर्विशेषवादिना परेण कर्तृत्वकर्मत्वयोरेकत्र विरोधेनानङ्गीकारादिति भावः।।
अन्यथेति। प्रामाणिकत्वाभावेऽपि स्वतः सिद्धत्वाङ्गीकार इत्यर्थः।। एवं सिद्धिः स्यादिति। ब्रह्मवत्स्वेनैव सिद्धिः स्यादित्यर्थः।। प्रमाणाभाव इति। ब्रह्मणोऽप्रामाणिकत्वे शशविषाणवदसत्त्वोपपत्त्या तदसिद्धिः स्यादिति प्रसङ्गस्येत्यर्थः।
पक्षसमत्वादिति। वासनामयस्यापि स्वाप्नकामिनीसम्भोगादेरप्यर्थक्रियाकारित्वेन सत्यत्वसाधनादित्यर्थः। तथाऽपि कुतो न व्यभिचार इत्यत आह ।। न हीति। पक्षसदृशे सन्दिग्धसाध्यवत्त्वेन पक्षतुल्ये निश्चितसाध्याभाववत्त्वाभावेन विपक्षत्वाभावादिति भावः। स्थलान्तरे व्यभिचारमाशङ्कते ।। रज्जुभुजङ्गादाविति। भुजाभ्यां गच्छतीति भुजङ्गः। भुजङ्गः सर्पदासयोरित्यभिधानात्। रज्जवारोपितभुजङ्ग इत्यर्थः। आदिपदेन शुक्तिरजतादिकं च ग्राह्यम्। तत्र भयकम्पादिरूपार्थक्रियाकारित्वेऽपि सत्यत्वाभावादिति भावः। तज्ज्ञानस्यैवेति। रज्जुसर्पादिज्ञानस्यैवेत्यर्थः। सत्यसर्पस्थलेऽपि सत्यपि सर्पे तदज्ञाने भयाद्यजननाज्ज्ञानस्यैवार्थक्रियाकारित्वं दृष्टम्। तथेहापि ज्ञानस्यैवार्थक्रियाकारित्वं तर्हि ज्ञान एव व्यभिचार इति न वाच्यम्। एतावन्तं कालं सर्पभ्रम आसीदित्यनुभवबलेन ज्ञानस्वरूपस्य सत्यत्वेन साध्यस्यापि सत्त्वान्न व्यभिचार इति भावः। यथोक्तम्।
सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम्। तदेवार्थक्रियाकारि तत्सदेवार्थकारकमिति।
रज्जोरेवेति। न सर्पस्येत्यर्थः। विशेषणत्वे व्यावर्तकत्वे। अतिप्रसङ्गभञ्जकत्वेऽङ्गीकृते सतीत्यर्थः। अयम्भावः। अर्थक्रियाकारित्वहेतो रज्जुसर्पे न व्यभिचारः। तस्य भयकम्पादिजनकत्वाभावेन हेतोरेवाभावात्। ननु तर्हि भयकम्पादेरकारणकत्वप्रसङ्ग इति चेन्न। रज्जोरेव तत्कारणत्वात्। तर्हि सर्वरज्जूनामपि भयादिजनकत्वं स्यादिति चेन्न। सर्पतया ज्ञाताया एव रज्जोस्तज्जनकत्वाङ्गीकारात्। ज्ञातं लिङ्गं करणमितिवदिति सर्पज्ञानस्यैव भयकम्पादिजनकत्वादित्युक्तमपि समाधानमङ्गीकुर्म इत्याशयेनाह।। सर्पाजन्यत्वाच्चेति। अयम्भावः। अर्थक्रियाकारित्वहेतोर्न रज्जुसर्पे व्यभिचारः। तत्र तज्ज्ञानस्यैवार्थक्रियाकारित्वेन भयकम्पादेः सर्पाजन्यत्वेन तत्र हेतोरेवाभावात्। न चार्थाविशेषितज्ञानस्य भयकम्पादिजनकत्वे सकलज्ञानानामपि तज्जनकत्वप्रसङ्गादर्थ विशेषितस्यैव तज्जनकत्वे वाच्ये विशिष्टस्य यद्भवति तद्विशेषणस्यापि तद्भवतीति न्यायेन सर्पस्यापि तज्जनकत्वं प्राप्तमिति पुनस्तत्रैव व्चभिचार इति वाच्यम्। अस्य न्यायस्य चित्रगुमानय कुरूणां क्षेत्रं कर्षति, गुरुणां टीकां लिखति, काशीनिवासी समागत इत्यादौ व्यभिचारित्वेन दुष्टत्वादिति। दृष्टान्ते साधनवैकल्यमाशङ्कते।। आत्मनीति। तस्यात्मनः।। निखिलेति। सकलजगज्जननादिरूपार्थक्रियाकारणत्वेनेत्यर्थः।। श्रुतिशतेति। शतशब्दो बहुवचनः। स इदं सर्वमसृजत, यतो वा इमानि भूतानि जायन्ते, अक्षरात्सम्भवतीह विश्वमित्यादिबहुश्रुतिसमधिगतत्वादित्यर्थः। तथा च न साधनवैकल्यमिति भावः।।
सोऽपीति। सकलजगज्जननरूपार्थक्रियकारित्वेन श्रुतिशत समधिगतोऽप्यात्माऽस्माभिर्मिथ्यात्वानुमाने वियदादिविश्वमिव पक्षे निक्षिप्तस्तथा च तस्य सत्यत्वाभावेन साध्यवैकल्यापत्त्या न तस्य भवदनुमाने दृष्टान्तत्वं युक्तमित्यर्थः। चेदित्यन्तरं तर्हीति शेषः। महायानिको बौद्धः। बौद्धविशेषेण शून्यवादिना हि शून्यमेव तत्त्वमित्यङ्गीकृत्यात्मादेः सर्वस्य मिथ्यात्वमङ्गीकृतम्। त्वयाऽपि तथाऽङ्गीकारे शून्यवादिसकाशाद्वैलक्षण्यं मायावादिनस्तव न स्यादिति भावः। शून्यवादिपक्षपाताभावेन तद्वैलक्षण्यं ममास्तीत्याशङ्कते।। तदतिरिक्तात्मेति। श्रुतिशताम्नातजगत्कारणत्वविशिष्टसगुणब्रह्मव्यतिरिक्तस्यात्मनो निर्गणस्य ब्रह्मणोऽङ्गीकारात्। शून्यवादिना चेत्थमनङ्गीकारान्नैव शून्यवादिपक्षपातेन मम तत्साम्यमित्यर्थः।। तदतिरिक्तस्यापीति। निखिलजगत्कारणत्वादि विशिष्टसगुणब्रह्मव्यतिरिक्तं यन्निर्गुणं तदपि जगज्जन्मादिकारणत्वरूपविशेषणविशिष्टमेव। यत्तदद्रेश्यमग्राह्यमित्याद्युक्त्वाऽक्षरात्सम्भवतीहमिति श्रुत्याऽक्षरस्य जगज्जन्मादिकारणत्वाभिधानात्। अक्षरशब्दवाच्यस्य त्वन्मते निर्गणत्वात्तथा च तस्यापि पक्षनिक्षिप्तत्वेन मिथ्यात्वप्राप्त्या शून्यवादिपक्षपात एव तवेति न तद्वैलक्षण्यं तवेत्यर्थः। इतोऽपि सगुणनिर्गुणभेदेन ब्रह्मद्वैविध्यमङ्गीकृत्य शून्यवादिवैलक्षण्यमभिलषता त्वयाऽकामेनापि सकलप्रपञ्चजन्मादिकारणत्वरूपार्थक्रियाकारित्वं निर्गुणस्य ब्रह्मणोऽङ्गीकर्तव्यमेवेत्याह।। किञ्चेति। विशिष्टस्यात्मनः सगुणब्रह्मणः।। अर्थक्रियेति। तत्कारणत्वेनेत्यर्थः।। आत्मांशस्येति। विशिष्टस्यात्मनोंऽशस्य तदन्तर्गतस्य निर्गुणरूपविशेष्यांशस्येत्यर्थः। साऽर्थक्रिया। तत्कारित्वमिति यावत्। कथं न स्यादिति। दण्ड्यानयने देवदत्तानयनस्याप्यनुभवसिद्धत्वादित्यर्थः। तथा च शून्यवादिवैलण्यायार्थ क्रियाकारिणोऽप्यात्मनः सत्यत्वेऽङ्गीकार्ये साध्यवैकल्याभावेन युक्तं तस्य दृष्टान्तत्वमिति भावः।
अध्याय 17
मिथ्यात्वानुमानस्योपाधित्वमप्याह।। दोषगम्यत्वमिति। दोषसहकृतेन्द्रियगम्यत्वं तज्जन्यज्ञानविषयत्वमित्यर्थः। उपाधिश्चिते। मिथ्यात्वोपेते रजते साध्यव्यापकत्वाद्दृश्यत्वोपेते प्रपञ्चे तदभावेन साधनाव्यापकत्वाच्चेत्यर्थः।
ननु साधनव्यापकोऽयमुपाधिः। न च प्रपञ्चस्य दोषगम्यत्वे विवाद इति वाच्यम्। प्रपञ्चो दोषगम्यो दृश्यत्वादेरित्येवं दृश्यत्वादिना प्रपञ्चेऽपि तत्साधनादित्याशङ्क्य परिहरति।। न चेति। कुतो न चेदित्यत आह।। मिथ्यात्वसाधन इवेति। यथा दृश्यत्वेन मिथ्यात्वे साध्ये दोषगम्यत्वमुपाधिरेवं दृश्यत्वेन दोषगम्यत्वे साध्येऽत्रापि मित्यात्वमुपाघधिरिति दोषप्रसक्तेः। तथा च परस्परोपाधिभावेनानुमानं दुष्टमिति भावः। यद्वा दृश्यत्वेन मिथ्यात्वे साध्ये यथा ब्रह्मणि व्यभिचाररूपो दोषो युक्त एवं दृश्यत्वेन दोषगम्यत्वे साध्येऽत्रापि ब्रह्मणि व्यभिचाररूपदोषप्रसक्तेरित्यर्थः। तथा च ब्रह्मणि दृश्यत्वे सत्यपि दोषगम्यत्वाभावेन व्यभिचारापत्त्या दृश्यत्वेन दोषगम्यत्वस्य प्रपञ्चे साधयितुमशक्यतया साधनाव्यापकत्वेन युक्तं तस्योपाधित्वमिति भावः ।। छ ।।
अध्याय 18
पूर्वमविद्यातत्कार्ययोरन्यतरत्वं वा मिथ्यात्वमिति विकल्पस्य केयमविद्या नामेत्यादिना लक्षणप्रमाणाभावेनाविद्यां निराकृत्य तस्मान्नाविद्या निरूपणगोचरतामाचरतीति कुतस्तत्कार्यं कुतस्तरां चाविद्यातत्कार्ययोरन्यतरत्वस्य साध्यता सिध्यता सिध्यतीति दूषणमुक्तम्। इदानीमेतादृशमिथ्यात्वसाधने साध्यवैकल्यरूपदोषान्तरं चाह।। अनिर्वचनीयत्वाविद्येति।। तत्कार्यत्वेति। अविद्योपादानकत्वरूपतत्कार्यत्वेत्यर्थः। अविद्याया मिथ्यात्वे तत्कार्येऽव्याप्त्यापत्तेः। अविद्याकार्यत्वस्य मिथ्यात्वेऽविद्यायाम व्याप्त्यापत्तेरननुगमपरिहारायान्यतरेत्युक्तम्। नन्वेतादृशमिथ्यात्वसाधने सत्यभूताविद्याशब्दप्रकृतिकार्यत्वस्य प्रपञ्चेऽस्माभिरङ्गीकारादर्थान्तरता स्यादतस्तत्परिहारायानिर्वचनीयेत्यविद्याविशेषणमुक्तम्।। साध्यविकलत्वं चेति। शुक्तिरजतस्यात्यन्तासत्त्वेन निरुपादानकतयाऽविद्योपादानकत्वरूप तत्कार्यत्वाभावादित्यर्थः। ननु परिशेषेणानिर्वचनीयाविद्याकार्यत्वं प्रपञ्चे शुक्तिरजते च सिध्यति। तथा हि। प्रपञ्चः शुक्तिरजतं वा सकारणकं कादाचित्कत्वादङ्कुरादिवत्। व्यतिरेकेण ब्रह्मवदित्यनुमानेन प्रपञ्चशुक्तिरजतयोः सकारणकत्वे सिद्धे तत्कारणं सदसद्वा। नाद्यः। सत्यस्य ब्रह्मवत्क्रियावेशशून्यस्य कारणत्वायोगात्। न द्वितीयः। सकलसामर्थ्यविधुरस्य शशविषाणवत्कारणत्वानुपपत्तेरित्येवं परिशेषेण कारणत्वस्य सदसत्त्वयोर्निषेधे सदसद्विलक्षणनिर्वचनीयाविद्याकार्यत्वेन परिशेषेण सिद्ध्यतीति नोक्तदोष इति शङ्कते।। नन्वित्यादिना।। व्याप्त्यभावादिति। कदाचित्प्रतीयमाने ब्रह्माणि सकारणत्वाभावात्। तार्किकरीत्या संयुक्तसमवायादिरूपसन्निकर्षसद्भावदशायामेव कदाचित्प्रतीयमानघटत्वरूपत्वादिजातौ च नित्यतया सकारणकत्वाभावेन व्यभिचारादिति भावः।।
असिद्धत्वादिति। विश्वं सत्यं वशे विष्णोर्नित्यमेव प्रवाहतः। अनाद्यनन्तं जगदेतदीदृक् प्रवर्तत इत्यादि वाक्यैर्जगत्प्रवाहस्यानादित्वावगमेन कदाचिदुत्पन्नत्वाभावाद्धेतोरसिद्धिः स्यात्। तथा शुक्तिरजतस्याप्यत्यनतासत्त्वेन कदाचिदुत्पन्नत्वाभावाद्दृष्टन्ते हेतोरसिद्धिः स्यात्। साधनवैकल्यं स्यादिति यावदित्यर्तः।। त्रिविधोऽपीति। दृश्यत्वजडत्वपरिच्छिन्नत्वरूपत्रिविधोऽप्यनुमानप्रयोग इत्यर्थः।। छ ।।
अध्याय 19
परार्थानुमानस्य शब्दरूपत्वात्प्रयोग इत्युक्तम्। दृशत्वानुमानस्य तर्कपराहतिं चाह।। किं च यदीत्यादिना। स्यादित्यनन्तरं तर्हीति शेषः।। कल्प्यमानेति। आरोप्यमाणेत्यर्थः।। प्रसज्येतेति। अधिष्ठानञ्च सदृशं तथ्यवस्तुद्वयं विना। न भ्रान्तिर्भवति क्वापीति वचनादिति भावः। तथा च सत्यजगद्द्वयाङ्गीकारप्रसङ्ग इति वाक्यशेषः। न चारोप्यस्यात्यन्तासत्त्वेन निर्धर्मिकत्वात्कथं तत्सादृश्यमधिष्ठानप्रधानयोरपेक्षितमित्युच्यत इति चेन्न। आरोप्यस्य यत्किञ्चित्प्रतियोगिकसादृश्यानाश्रयत्वेऽपि किञ्चिन्निष्ठसादृश्यप्रतियोगित्वसम्भवात्। प्रतियोगित्वस्य च रूपादिवद्धर्मिसत्तासापेक्षत्वाभावात्। परमते घटत्वादिजातिवदस्मन्मते सादृश्यमखण्डमेव। यथोक्तं सुधायाम्। सादृश्यं हि पदार्थान्तरमिति। पदार्थान्तरमखण्डमिति तदर्थः। न तु तद्गतं भूयोधर्मवत्त्वरूपं येनारोप्यस्यासतो निर्धर्मकत्वात्कथं तद्गतं भूयोधर्मवत्त्वरूपं सादृस्यमधिष्ठानप्रधानयोरुच्यत इति शङ्कानवकाश इति द्रष्टव्यम्। इष्टापत्तिरिति चेत्तत्राह।। न चेति। अधिष्ठानत्वेन प्रधानत्वेन च सत्यद्वयं तावदपेक्षितम्। अधिष्ठानप्रधानयोश्चारोप्यसादृश्यमपेक्षितम्। तथा चारोप्यजगत्सदृशमधिष्ठानं प्रधानं च जगदेवेति वाच्यम्। जगत एव जगता सादृश्यसम्भवादन्यस्य च तदसम्भवादतो जगद्द्वयमपेक्षितम्। न च तदङ्गीकारस्तव युक्त इत्यर्थः। कुतो न युक्त इत्यत आह।। पिण्याकेति। तैलयन्त्रखण्डिततिलादेः सकाशात्तैलनिष्पत्त्यनन्तरं यत्पिष्ठमवशिष्टते तत्पिण्याकमित्युच्यते। गतस्येति कर्मणि षष्ठी। गतं प्रतीत्यर्थः। तत्त्वनिर्णयटीकानुसारेण खारित्यतः पूर्वं पिशाचस्येति पूरणीयम्। कर्तरि चेयं षष्ठी। पिशाचकर्तृकखारीपरिमिततैलदानप्रतिज्ञावदित्यर्थः। खारीति परिमितिविशेषस्य सञ्ज्ञा। खारि द्रोणी निकुञ्चक इत्यभिधानात्।। अधिकापातादिति। स्वापेक्षितापेक्षयाऽप्यधिकस्यापातादित्यर्थः। यथा केनचित्पिण्याकं देहीति याचिते सति तं प्रति पिण्याकेन खारीपरिमिततैलन्दास्यमिति केनचित्पिशाचेन प्रतिज्ञाते सति पिण्याकयाचकस्य यथाऽधिकलाभो जातस्तद्वत्परिदृस्यमानस्यैकस्य जगतः सत्यत्वमपेक्ष्यमाणं मां प्रत्यस्य जगतो भ्रान्तिकल्पितत्ववचनेनोक्तरीत्या सत्यभूतजगद्द्वयलाभेनापेक्षिता दप्यधिकलाभो मम जात इत्यविवेकितया पिशाचतुल्यो भवानिति भावः। दृश्यत्वानुमानस्य व्यापकनिवृत्त्या व्याप्यनिवृत्तिरूपप्रमाणविरोधश्च स्यादित्याह।। किञ्चेति। कुतो नास्तीत्यत आह।। सत्यजगद्द्वयेति। तथात्वे गौरवं स्यादिति भावः।।
अस्यैवेति। भ्रान्तिकल्पिततया त्वयोच्यमानस्यास्यैव परिदृश्यमानस्येत्यर्थः।। प्रमाणविरोध इति। अनुमानरूपप्रमाणविरोध इत्यर्थः। अनुमानप्रयोगप्रकारं दर्शयति।। तथा चेति। अप्रयोजकतापरिहाराय विपक्षे बाधकतर्कमाह।। विपक्षे त्विति।
तदैवेति। स्वप्नावस्थायामेवेत्यर्थः। विद्युदादिवदिति शेषः। अतो न प्रागूर्ध्वमुपलम्भप्रसङ्ग इति भावः। विद्युदादिवत्सम्भावितत्वमप्यङ्गीकृत्याह।। किञ्चैवमिति। स्वाप्नपदार्थानां तदैवोत्पद्यविनष्टत्वाङ्गीकार इत्यर्थः। उपादानानि स्वाप्नघटादिपदार्थोपादानानि मृदादीनि। निमित्तानि दण्डादीनि। एतान्स्वाप्नान् गजतुरजादिरथान्। अन्तर्देहान्तः। बहिर्देहात्। अल्पदेशे देहान्तःस्थेऽल्पावकाशे। महतां स्थूलानां गजतुरगादीनाम्।। असम्भवादिति। तथात्वे देहविदारणं स्यादिति भावः।। उपरतत्वादिति। विषयज्ञानजननव्यापारविनिर्मुक्तत्वादित्यर्थः।। बहिरस्वातन्त्र्यादिति। मनसः स्वातन्त्र्येण बाह्येन्द्रियानधिष्ठानत्वेन बहिःपदार्थविषयकज्ञानजनकत्वाभावादित्यर्थः। मनो हि बाह्येन्द्रियाधिष्ठानेनैव बाह्यपदार्थज्ञानं जनयति नान्यथेत्यनुभवसिद्धम्। इन्द्रियाणि च तदोपरतानीति भावः। हेमन्ते हेमन्तर्तौ, वसन्तं वसन्तर्तुम्।। न च तत्र तयोरिति। काश्यां मधुराया हेमन्ते वसन्तस्य च सम्भवो नेत्यर्थः। भिन्नदेशयोर्भिन्नकालयोश्च सहावस्थानस्य विरुद्धत्वादिति भावः।
ननु स्वाप्नपदार्थानामात्मैवाधिष्ठानमस्तीति चेत्तत्राह।। आत्मन इति। स्वप्नपदार्थाद्भेदेनेत्यर्थः। लोके ह्यधिष्ठानमारोप्याभिन्नतयैव प्रतीयत इत्यनुभवसिद्धम्। न चात्र तथा प्रतीतिरस्तीत्याह।। न हीति। तदा स्वप्नावस्थायाम्। अस्तीति।। तथा च निरधिष्ठानत्वहेतोः स्वाप्नपदार्थेषु व्यभिचारः सुस्थ इति भावः।। अविमर्शसुन्दरमिति। विमर्शो विचारस्तदभाव एव सुन्दरं न तु विमर्शे कृते सतीत्यर्थः। तेषां स्वाप्नपदार्थानाम्। तेनाकल्पितत्वसाध्यसमर्थनेन।। न विरोध इति। आरोपितत्व एव ह्यधिष्ठानापेक्षा न तु सत्यत्व इति भावः।
अध्याय 21
विपक्षे बाधकाभावादप्रयोजको दृश्यत्वहेतुरित्याह।। किञ्चेति।। प्रपञ्चस्य मिथ्यात्वं यदि न स्यात्तर्हि दृग्विषयत्वरूपं दृश्यत्वमेव न स्यात्सत्यत्वे दृग्दृश्ययोः सम्बन्धानिरूपणादिति हेतूच्छित्तिरेव बाधिकेत्यभिप्रेत्य सत्यत्वे दृग्दृश्ययोः सम्बन्धानुपपत्तिमुपपादयति।। सत्यत्व इति। प्रकाशेत ज्ञायेत। अत्र सर्वत्र प्रकाशशब्दो ज्ञानपर इत्यवगन्तव्यम्।। जडत्वादिति। जगतोऽस्वप्रकाशस्वरूपत्वादिति भावः।। प्रकाशान्तरेणेति। वृत्तिज्ञानख्येनेत्यर्थः। संयोगसमवाययोरसम्भवाद्विषयविषयिभावस्य च दुर्निरूपत्वदिति भावः। अस्त्वसम्बद्धस्यापि प्रकाशनमित्यत आह।। असम्बद्धस्येति।। अतिप्रसङ्गादिति। काशीस्थघटस्याप्यत्र प्रकाशः स्यादिति भावः। मिथ्यात्वे त्वाध्यासिकसम्बन्धसद्भावात्प्रकाशः सम्भवतीत्याह।। असत्त्वे त्विति। मिथ्यात्वे त्वित्यर्थः।। चित्प्रकाशेति। अधिष्ठानचैतन्यरूपप्रकाशेत्यर्थः।। अधिष्ठानेत्यादि। आध्यासिकसम्बन्धेनेत्यर्थः। प्रकाशः प्रकाशस्वरूपः।। अनभ्युपगमादिति। जडस्य जगतः प्रकाशरूपत्वप्रकाशाश्रयत्वयोरनभ्युपगमादित्यर्थः। चैतन्यमधिष्ठानचैतन्यम्।। चैतन्याविषयत्वेऽपीति। चैतन्यरूपप्रकाशाविषयत्वेऽपीत्यर्थः।। बाधकाभावादिति। सत्यत्वे कथं प्रकाशतेत्यस्य कथं चैतन्यरूपप्रकाशविषयः स्यात्। चैतन्यरूपप्रकाशविषयो न स्यादिति यावदित्यर्थः। तथा च सत्यस्यापि चैतन्यरूपप्रकाशविषयत्वे बाधकाभावेन तर्के इष्टापत्तिरिति भावः। ननु चैतन्यरूपप्रकाशाविषयत्वे घटादिव्यवहार एव न स्यात्। व्यवहारस्य व्यवहर्तव्यज्ञानसाध्यत्वादित्येवं व्यवहारानुपपत्तिरेव बाधिका। ततश्च तदन्यथाऽनुपपत्त्या चित्प्रकाशविषयत्वमङ्गीकार्यमिति नेष्टापत्तिरित्यतोऽन्यथैवोपपत्तिमाह।। वृत्तीति। वृत्तिरूपज्ञानविषयत्वेनेत्यर्थः।
ननु चक्षुरादिजन्यवृत्त्यविषये सुखादौ कथं व्यवहारः स्यादित्यत आह।। चैतन्यस्यापीति। साक्षिरूपचैतन्यस्यापीत्यर्थः।। स्वाभाविकमिति।। विषयकत्वमिति शेषः। सुखादिविषयकत्वमित्यर्थः। तथा च सुखादेः साक्षिविषयत्वेन व्यवहारः सम्भवतीति भावः। नन्वसङ्गो ह्ययं पुरुष इति श्रुत्या साक्षिचैतन्यस्यासङ्गत्वावगमात्कथं तस्य सुखादिविषयसम्बन्ध इत्यत आह।। असङ्गश्रुतिस्त्विति। असङ्गत्वश्रुतिस्त्वित्यर्थः।। पापादीति। न तु सुखादिविषयसम्बन्धाभाववादिनीत्यर्थः।
ननु कथं तदनिरूपणं, ज्ञानजन्यफलाधारत्वं वा तत्प्रतीतिविषयत्वयोग्यत्वं वा विषयत्वमिति चेन्न। ज्ञानजन्यफलं ज्ञातता तदाधारत्वमतीतानागतयोर्न सम्भवति। असति धर्मिणि धर्मजननायोगेन तत्र तदाधारत्वासम्भवेनातीतानागतज्ञानयोर्निविषयत्वोपपत्तेः। न द्वितीयः। आत्माश्रयादित्याशङ्क्याह।। ज्ञानजन्येत्यादि।। नास्ति चेदिति। उक्तदूषणेनानुगतं न सम्भवति चेदित्यर्थः।। प्रतिनियतमेवेति। यत्सन्निकृष्टेन करणेन यज्ज्ञानं जायते स तस्य विषय इति प्रतिनियत एव ज्ञातताया असम्भवेन ज्ञानजन्यं फलं दुर्निरूपमिति चेत्तत्राह।। व्यवहारोऽपीति। तत्तद्योग्यमेव ज्ञानजन्यं फलं व्यवहारः किन्न स्यादित्यन्वयः। तथा च व्यवहार एव ज्ञानजन्यं फलं भविष्यतीति भावः।
ननु पटव्यवहारस्य कथं घटज्ञानजन्यफलत्वमिति मन्दाशङ्कापरिहाराय तत्तद्योग्यमेवेत्युक्तम्। तत्तज्ज्ञानजन्यत्वयोग्यमेवेत्यर्थः। तथा च पटज्ञानजन्यत्वयोग्यं फलं पटव्यवहार एवेत्यर्थः।। तस्मादिति। विपक्षे बाधकाभावेनाप्रयोजकत्वादित्यर्थः।। छ ।।
अध्याय 22
परार्थानुमानस्य शब्दरूपत्वात्प्रयोग इत्युक्तम्। दृशत्वानुमानस्य तर्कपराहतिं चाह।। किं च यदीत्यादिना। स्यादित्यनन्तरं तर्हीति शेषः।। कल्प्यमानेति। आरोप्यमाणेत्यर्थः।। प्रसज्येतेति। अधिष्ठानञ्च सदृशं तथ्यवस्तुद्वयं विना। न भ्रान्तिर्भवति क्वापीति वचनादिति भावः। तथा च सत्यजगद्द्वयाङ्गीकारप्रसङ्ग इति वाक्यशेषः। न चारोप्यस्यात्यन्तासत्त्वेन निर्धर्मिकत्वात्कथं तत्सादृश्यमधिष्ठानप्रधानयोरपेक्षितमित्युच्यत इति चेन्न। आरोप्यस्य यत्किञ्चित्प्रतियोगिकसादृश्यानाश्रयत्वेऽपि किञ्चिन्निष्ठसादृश्यप्रतियोगित्वसम्भवात्। प्रतियोगित्वस्य च रूपादिवद्धर्मिसत्तासापेक्षत्वाभावात्। परमते घटत्वादिजातिवदस्मन्मते सादृश्यमखण्डमेव। यथोक्तं सुधायाम्। सादृश्यं हि पदार्थान्तरमिति। पदार्थान्तरमखण्डमिति तदर्थः। न तु तद्गतं भूयोधर्मवत्त्वरूपं येनारोप्यस्यासतो निर्धर्मकत्वात्कथं तद्गतं भूयोधर्मवत्त्वरूपं सादृस्यमधिष्ठानप्रधानयोरुच्यत इति शङ्कानवकाश इति द्रष्टव्यम्। इष्टापत्तिरिति चेत्तत्राह।। न चेति। अधिष्ठानत्वेन प्रधानत्वेन च सत्यद्वयं तावदपेक्षितम्। अधिष्ठानप्रधानयोश्चारोप्यसादृश्यमपेक्षितम्। तथा चारोप्यजगत्सदृशमधिष्ठानं प्रधानं च जगदेवेति वाच्यम्। जगत एव जगता सादृश्यसम्भवादन्यस्य च तदसम्भवादतो जगद्द्वयमपेक्षितम्। न च तदङ्गीकारस्तव युक्त इत्यर्थः। कुतो न युक्त इत्यत आह।। पिण्याकेति। तैलयन्त्रखण्डिततिलादेः सकाशात्तैलनिष्पत्त्यनन्तरं यत्पिष्ठमवशिष्टते तत्पिण्याकमित्युच्यते। गतस्येति कर्मणि षष्ठी। गतं प्रतीत्यर्थः। तत्त्वनिर्णयटीकानुसारेण खारित्यतः पूर्वं पिशाचस्येति पूरणीयम्। कर्तरि चेयं षष्ठी। पिशाचकर्तृकखारीपरिमिततैलदानप्रतिज्ञावदित्यर्थः। खारीति परिमितिविशेषस्य सञ्ज्ञा। खारि द्रोणी निकुञ्चक इत्यभिधानात्।। अधिकापातादिति। स्वापेक्षितापेक्षयाऽप्यधिकस्यापातादित्यर्थः। यथा केनचित्पिण्याकं देहीति याचिते सति तं प्रति पिण्याकेन खारीपरिमिततैलन्दास्यमिति केनचित्पिशाचेन प्रतिज्ञाते सति पिण्याकयाचकस्य यथाऽधिकलाभो जातस्तद्वत्परिदृस्यमानस्यैकस्य जगतः सत्यत्वमपेक्ष्यमाणं मां प्रत्यस्य जगतो भ्रान्तिकल्पितत्ववचनेनोक्तरीत्या सत्यभूतजगद्द्वयलाभेनापेक्षिता दप्यधिकलाभो मम जात इत्यविवेकितया पिशाचतुल्यो भवानिति भावः। दृश्यत्वानुमानस्य व्यापकनिवृत्त्या व्याप्यनिवृत्तिरूपप्रमाणविरोधश्च स्यादित्याह।। किञ्चेति। कुतो नास्तीत्यत आह।। सत्यजगद्द्वयेति। तथात्वे गौरवं स्यादिति भावः।।
अस्यैवेति। भ्रान्तिकल्पिततया त्वयोच्यमानस्यास्यैव परिदृश्यमानस्येत्यर्थः।। प्रमाणविरोध इति। अनुमानरूपप्रमाणविरोध इत्यर्थः। अनुमानप्रयोगप्रकारं दर्शयति।। तथा चेति। अप्रयोजकतापरिहाराय विपक्षे बाधकतर्कमाह।। विपक्षे त्विति।
तदैवेति। स्वप्नावस्थायामेवेत्यर्थः। विद्युदादिवदिति शेषः। अतो न प्रागूर्ध्वमुपलम्भप्रसङ्ग इति भावः। विद्युदादिवत्सम्भावितत्वमप्यङ्गीकृत्याह।। किञ्चैवमिति। स्वाप्नपदार्थानां तदैवोत्पद्यविनष्टत्वाङ्गीकार इत्यर्थः। उपादानानि स्वाप्नघटादिपदार्थोपादानानि मृदादीनि। निमित्तानि दण्डादीनि। एतान्स्वाप्नान् गजतुरजादिरथान्। अन्तर्देहान्तः। बहिर्देहात्। अल्पदेशे देहान्तःस्थेऽल्पावकाशे। महतां स्थूलानां गजतुरगादीनाम्।। असम्भवादिति। तथात्वे देहविदारणं स्यादिति भावः।। उपरतत्वादिति। विषयज्ञानजननव्यापारविनिर्मुक्तत्वादित्यर्थः।। बहिरस्वातन्त्र्यादिति। मनसः स्वातन्त्र्येण बाह्येन्द्रियानधिष्ठानत्वेन बहिःपदार्थविषयकज्ञानजनकत्वाभावादित्यर्थः। मनो हि बाह्येन्द्रियाधिष्ठानेनैव बाह्यपदार्थज्ञानं जनयति नान्यथेत्यनुभवसिद्धम्। इन्द्रियाणि च तदोपरतानीति भावः। हेमन्ते हेमन्तर्तौ, वसन्तं वसन्तर्तुम्।। न च तत्र तयोरिति। काश्यां मधुराया हेमन्ते वसन्तस्य च सम्भवो नेत्यर्थः। भिन्नदेशयोर्भिन्नकालयोश्च सहावस्थानस्य विरुद्धत्वादिति भावः। ननु स्वाप्नपदार्थानामात्मैवाधिष्ठानमस्तीति चेत्तत्राह।। आत्मन इति। स्वप्नपदार्थाद्भेदेनेत्यर्थः। लोके ह्यधिष्ठानमारोप्याभिन्नतयैव प्रतीयत इत्यनुभवसिद्धम्। न चात्र तथा प्रतीतिरस्तीत्याह।। न हीति। तदा स्वप्नावस्थायाम्। अस्तीति।। तथा च निरधिष्ठानत्वहेतोः स्वाप्नपदार्थेषु व्यभिचारः सुस्थ इति भावः।।
अविमर्शसुन्दरमिति। विमर्शो विचारस्तदभाव एव सुन्दरं न तु विमर्शे कृते सतीत्यर्थः। तेषां स्वाप्नपदार्थानाम्। तेनाकल्पितत्वसाध्यसमर्थनेन।। न विरोध इति। आरोपितत्व एव ह्यधिष्ठानापेक्षा न तु सत्यत्व इति भावः।
अध्याय 24
oअयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी अवयवित्वात्पटान्तरवदित्यनुमानमाशङ्क्य निराकरोति।। अस्य पटस्येति। अवयवित्वमंशित्वम्। आदिपदेन पटत्वरूपहेतुसङ्ग्रहः। पटान्तररूपदृष्टान्तान्तरसङ्ग्रहश्च।। निष्प्रतियोगिकत्वेनेति। अप्रामाणिकात्यन्तासत्प्रतियोगिकत्वेनेत्यर्थः।। बाधितमिति। पक्षीभूतस्य पटस्य प्रामाणिकत्वेनात्यन्ताभावप्रतियोगित्वाभावात्तत्साधनं बाधितमित्यर्थः। तदेवोपपादयति।। कार्यकारणयोरिति।। अकार्यत्वस्येति। सर्वथाऽकार्यत्वादेतत्तन्तुकार्यो न भवतीति सिध्यतीति भावः। अन्यकार्यत्वस्येति। विशेषनिषेधः शेषविध्यनुज्ञापक इति न्यायादिति भावः।। अर्थान्तरत्वमिति। मिथ्यात्वालाभादिति भावः।।
एवं प्रयोगाभावेनेति। तेषां नित्यत्वेनोपादानाभावात्तन्निष्ठात्यन्ताभावप्रतियोगित्वसाधनं न सम्भवतीत्यर्थः ।। छ ।।
अध्याय 25
असत्त्वमित्यादि। एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगीति साधनेन पटस्यासत्त्वमापाद्यते। सत्त्वे पर्यवसानं क्रियत इति यावत्। उतैतत्तन्तुषु पटसंसर्गो नास्तीति तत्संसर्गनिषेधो वा क्रियत इत्यर्थः।। स(त्व)द्दर्शनेति। सन्पट इत्यादिसत्त्वावगाहिप्रत्यक्षविरोधादित्यर्थः।। निषिध्यत इति। अत्यन्ताभावप्रतियोगीत्यनेनेत्यर्थः।। नासत्त्वमिति। तथा च न प्रत्यक्षविरोध इति भावः।। तन्निषेध इति। परस्परविरुद्धयोरन्यतर निषेधस्यान्यतरविधिनान्तरीयकत्वेन सतत्वनिषेधेऽसत्त्वस्य ध्रौव्याद्ध्रुवत्वन्निश्चयादित्यर्थः। वैय्यर्थ्यमिति। एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगीत्यनेनैतत्तन्तुषु सत्तवमात्रनिषेधाभिप्राये विशिष्यैतत्तन्तुषु नास्तीति निषेधस्यव्यर्थत्वेनैतत्तन्तुनिष्ठपदवैय्यर्थ्यं स्यादित्यर्थः। ननु तन्त्वन्तरनिष्ठात्यन्ताभावप्रतियोगित्वेन सिद्धसाधनतापरिहारार्थत्वान्नैतत्तन्तुनिष्ठविशेषणवैय्यर्थ्यमित्याशङ्क्याह।। न चेति। प्रामाणिकप्रतियोगिकात्यन्ताभावस्यास्माभिरनङ्गीकारेणैतत्पटस्य प्रामाणिकतया तदत्यन्ताभावसम्भवेन तद्धटितसाध्यस्याप्रसिद्धिरित्याह।। एतत्पटेति।। दृष्टान्तोऽपीति। पटान्तरस्यापि प्रामाणिकततैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वाभावेन साध्यविकल इत्यर्थः। प्रत्युक्तो निराकृतः। दृष्टान्ते एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्व मनङ्गीकृत्य साध्यवैकल्योक्तावनिष्टमाशङ्कते।। नन्विति।। अत्यन्ताभावो न चेदिति। पटान्तरस्यैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं नास्तीत्यस्यैतत्तन्तुषु तदत्यन्ताभावो न चेदिति फलितोऽर्थः। पटः किन्न स्यादित्याक्षेपः। एतत्तन्तुषु पट एव स्यादित्यर्थः। परस्परविरुद्धयोरन्यतर निषेधस्यान्यतरविधिनान्तरीयकत्वादिति भावः। अत्र विकल्पयति।। किमत्रेति। एतत्तन्तुषु पटात्यन्ताभावो नास्ति चेत्पट एव स्यादित्यस्य पटसंसर्गः स्यादित्यर्थो वा पट एव स्यादित्यर्थो वेत्यर्थः।। न व्याप्तिसिद्धिरिति। यत्रैतत्तन्तुषु पटात्यन्ताभावाभावस्तत्रैतत्पटसंसर्ग इति व्याप्तौ दृष्टन्ताभावादित्यर्थः। यद्येतत्तन्तुषु पटसंसर्गात्यन्ताभावो नास्तीति स्यात्तर्ह्येव तत्रैतत्पटसंसर्गः स्यादित्यापादयितुं शक्यते परस्परविरुद्धयोरित्युक्तन्यायसम्भवात्। पटात्यन्ताभावो नास्ति चेत्तर्हि पटसंसर्गापादनमयुक्तमेव। उक्तव्याप्त्यनवकाशादिति भावः।। सिद्धसाधनमिति। इष्टापादनमित्यर्थः। एतत्तन्तुषु पटात्यन्ताभावाभावे पट एव स्यादित्युक्तेऽनिष्टाभावेनेष्टापादनरूपत्वात्तर्काभासोऽयम्। पटान्तरस्याप्येतत्तन्तुषु संयोगेन सत्त्वसम्भवादिति भावः। तस्मात्साध्यवैकल्यं स्यादेवेति हृदयम्। नाप्युत्तर इति। पटसंसर्गनिषेधः क्रियत इत्युत्तरो द्वितीयः पक्षो नेत्यर्थः।। सिद्धत्वादिति। कार्यकारणयोरभेदेन भेदगर्भसंसर्गाभावस्य सिद्धत्वेन सिद्धसाधनता स्यादित्यर्थः।। अंशित्वमपि नेति। अवयवित्वं नामांशित्वम्। तच्चांशित्वं नामावयवरूपांशित्वं तद्वित्त्वं च तत्कारणकत्वम्। तथा चैतत्पटस्यैतत्तन्तुनिष्ठजन्यत्वाभावे एतत्तन्तुकारणकत्वरूपावयवित्वापरपर्यायं यदंशित्वं तदपि न स्यादित्यसिद्धिः स्यादित्यर्थः। असिद्धिपरिहारं शङ्कते।। न तत्त्वत इति। परमार्थतोऽवयवकारणकत्वरूपमवयवित्वं नास्त्येव। तथा चातात्त्विकावयवित्वस्य हेतुत्वेन विवक्षितत्वान्न स्वरूपासिद्धिरिति भावः।। अस्माकमिति। उभयवादिसिद्धस्यैव हेतूकर्तव्यत्वादिति भावः।।
इह तन्तुष्विति। तथा च तन्तुषु पटनिष्ठत्वावगाहिप्रत्वक्षविरुद्धत्वात्तन्तुनिष्ठत्वाभावसाधकमयं पट इत्युक्तानुमानं प्रत्यक्षबाधितमित्यर्थः।।
अप्रतिबद्धप्रसरेणेति। स्पार्शनप्रत्यक्षाप्रतिबद्धत्वप्रसरेणेत्यर्थः। तथा च तत्राप्यनुमानेनैव प्रत्यक्षबाधोऽस्त्विति भावः। बाधपरिमोषोऽपलापोच्छेदः। तथा च कालात्ययापदिष्टमात्रोच्छेदः स्यादित्यर्थः। दहनशैत्यानुमानमेव प्रत्यक्षबाधितम्। औष्ण्यावगाहिस्पार्शनप्रामाण्यस्योभयवादिसम्प्रतिपन्नत्वात्। न चैवं प्रकृते। इह तन्तुषु पटसत्त्वावगाहिप्रत्यक्षप्रामाण्यस्योभयानभ्युपगमादतोऽत्रानुमानेनैव प्रत्यक्षबाधोऽस्त्वित्याशयेन शङ्कते।। उभयवादीति। प्रामाण्ये प्रामाण्योपेते जाग्रति सति।। प्रत्यक्षेति। तन्तुपटसत्त्वावगाहिप्रत्यक्षेत्यर्थः।। अनुमानेति। अयं पट इत्यनुमानेत्यर्थः। विरोधः कारणमिति वर्तते।। सममिति। तत्राप्यनुमानविरोधेन स्पार्शनप्रत्यक्षप्रामाण्यमप्युभयवादिसम्प्रतिपन्नं नेति वदाम इति सममित्यर्थः। दृष्टान्तं च न पश्याम इत्यन्वयः।
ननु नभोनैल्यप्रत्यक्षं विभुत्वानुमानबाध्यं दृष्टमिति तदेव दृष्टन्तो भविष्यतीत्यत आह।। नभोनीलिमेति। कुत इत्यत आह।। अनुमानस्येति। नभसो नीरूपित्व इति शेषः। एतदेवोपपादयति।। तथा हीत्यादिना। महत्त्वान्महत्परिमाणवत्त्वाद्विभूत्वादित्यर्थः। कालादिदृष्टान्तोऽपि द्रष्टव्यः।। न त्रयमपीति। नभो नीरूपं महत्त्वादगन्धवत्त्वात्स्पार्शनरहितत्वात्कालादिवदित्यनुमानत्रयमपि न युक्तमित्यर्थः। कुत इत्यत आभाससामानयोगक्षेमत्वादित्याह।। तत एवेति। महत्त्वादिहेतुत्रयादेवेत्यर्थः।। अशब्दत्वेति। शब्दगुणकत्वाभावप्रसङ्गादित्यर्थः। नभः शब्दगुणकं न भवति महत्त्वात्कालादिवदिति भावः।