Jump to content

Tattvaviveka

From Anandamakaranda
Revision as of 20:33, 29 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
तत्त्वविवेकः

स्वतन्त्रं परतन्त्रं च प्रमेयं द्विविधं मतम् । स्वतन्त्रो भगवान् विष्णुः निर्दोषाखलिसद्गुणः ॥1॥

द्विविधं परतन्त्रं च भावोऽभाव इतीरितः । पूर्वापरसदात्वेन त्रिविधोऽभाव इष्यते ॥2॥

भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक् । चेतनाचेतनश्चेति भावश्च द्विविधः स्मृतः ॥3॥

नित्यमुक्तश्च सृतियुक् परतन्त्रोऽपि चेतनः । द्विधैव श्रीर्नित्यमुक्ता सृतियुक्च द्विधा मतः ॥4॥

मुक्तोऽमुक्त इति ह्यत्र ब्रह्मान्ता उत्तरोत्तरम् । मुक्ताः शतगुणाः प्रोक्ताः रमा तेभ्योऽखिलैर्गुणैः ॥5॥

नित्यं बहुगुणोद्रिक्ता ततोऽनन्तगुणो हरिः । अमुक्तास्त्रिविधास्तत्र नीचमध्योच्चभेदतः ॥6॥

मुक्तियोग्यास्तत्र चोच्चा नित्यावर्तास्तु मध्यमाः । नीचा नित्यतमोयोग्या द्विधैवाचेतनं मतम् ॥7॥

नित्यानित्यत्वभेदेन देशः कालः श्रुतिस्तथा । भूतेन्द्रियप्राणगुणसूक्ष्मरूपं च नित्यकम् ॥8॥

एषां विकारोऽनित्यः स्यान्नित्या एव हि चेतनाः । गुणक्रियाजातिपूर्वा धर्मा सर्वेऽपि वस्तुनः ॥9॥

रूपमेव द्विधं तच्च यावद्वस्तु च खण्डितम् । खण्डिते भेद ऐक्यं च यावद्वस्तु न भेदवत् ॥10॥

खण्डितं रूपमेवात्र विकारोऽपि विकारिणः । कार्यकारणयोश्चैव तथैव गुणतद्वतोः ॥11॥

क्रियाक्रियावतोस्तद्वत् तथा जातिविशेषयोः । विशिष्टशुद्धयोश्चैव तथैवांशांशिनोरपि ॥12॥

य एतत्परतन्त्रं तु सर्वमेव हरेः सदा । वशमित्येव जानाति संसारात् मुच्यते हि सः ॥13॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः तत्त्वविवेकः ॥