Tantrasarasangraha/Moola

Revision as of 20:54, 16 June 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
तन्त्रसारसङ्ग्रहः — मूलम्

प्रथमाध्यायः

जयत्यब्जभवेशेन्द्रवन्दितः कमलापतिः ।
विधिं विधाय सर्गादौ तेन पृष्टोब्जलोचनः ।
अहमेकोखलिगुणो वाचकः प्रणवो मम ।
स विश्वतैजसप्राज्ञतुरीयात्मान्तरात्मनाम् ।
तद्रूपभेदाः पञ्चाशन्मूर्तयो मम चापराः ।
द्विरष्टपञ्चकचतुःपञ्चेत्येवाष्टवर्गगाः ।
ऋॄघलृशौ लॄजिरैकत्मैर ओजोभृदौरसः ।
घर्मो ङसारस्चार्वाङ्गश्छन्दोगम्यो जनार्दनः ।
णात्मा तारस्थमो दण्डी धन्वी नम्यः परः फली ।
शान्तसंवित् षड्गुणश्च सारात्मा हंसळाळुकौ ।
नारायणाष्टाक्षरश्च ताराष्टाक्षरभेदवान् ।
अनिरुद्धादिकास्तासां देवता व्युत्क्रमेण वा ।
नारायणाष्टाक्षराच्च व्याहृतिभ्यस्तथैव च ।
नारायणाष्टाक्षराच्च व्याहृतित्रिगुणात् पुनः ।
चतुर्विशन्मूतयोस्याः कथिता वर्णदेवताः ।
वैदिकास्सर्वशब्दाश्च तस्मात् सर्वाभिधोस्म्यहम् ।
ऋषिश्च देवतैकोहं तारादीनां विशेषतः ।
उद्यद्भास्वत्समाभासश्चिदानन्दैकदेहवान् ।
लक्ष्मीधराभ्यामाश्लिष्टः स्वमूर्तिगणमध्यगः ।
सेव्यमानोधिकं भक्त्या नित्यनिःशेषशक्तिमान् ।
तादृग्रूपाश्च पञ्चाशज्ज्ञानमुद्राभयोद्यताः ।
वासुदेवादिकाः शुक्लरक्तपीतासितोज्ज्वलाः ।
सशङ्खचक्रस्त्वपरस्तृतीयः शार्ङ्गबाणवान् ।
केशवो मधुसूदनः सङ्कर्षणदामोदरौ ।
विष्णुमाधवानिरुद्धपुुरुषोत्तमाधोक्षजाः ।
गोविन्दश्च त्रिविक्रम्ूससश्रीधरहृषीकपाः ।
वामनः सनारायणः पद्मनाभ उपेन्द्रकः ।
शङ्खचक्रगदापद्मधराश्चैते हि सर्वशः ।
वर्णानां देवतानां च नित्यत्वाच्च क्रमः स्वतः ।
समासव्यासयोगेन व्याहृत्यादीनां चतुष्टयम् ।
क्रुद्धमहावीरद्युल्कसहस्रसहितोल्ककाः ।
विष्णोरेवात्यभेदेपि तदैश्वर्यात् तदन्यवत् ।
मूलरूपसवर्णानि कृष्णवर्णा शिखोच्यते ।
आदिवर्णत्रयं नाभिहृच्छिरस्सु यथाक्रमम् ।
पज्जानुनाभिहृदयवाङ्नासानेत्रकेषु च ।
मुनिश्छन्दस्तु गायत्री देवता भगवान् हरिः ।
तारेण व्याहृतीभिश्च ज्ञेयान्यङ्गानि पञ्च च ।
द्वादशार्णस्य जगती च्छन्दोन्यत्तारवत् स्मृतम् ।
पदैर्व्यस्तैः समस्तैश्च ज्ञेयान्यङ्गानि पञ्च च ।
विश्वामित्रस्तु सन्ध्यार्थे तदन्यत्र प्रजापतिः ।
प्रोद्यदादित्यवर्णश्च सूर्यमण्डलमध्यगः ।
सताराश्च व्याहृतयो गायत्र्यङ्गानि पञ्च च ।
वर्णन्यासश्च कर्तव्यस्तारवन्निखलिं स्मृतम् ।
अनुष्टुभश्च त्रिष्टुप् च छन्दोस्य त्रिष्टुभोपि वा ।
तारवत् सर्वमस्यापि श्यामो ध्येयो हरिः स्वयम् ।
पज्जानुनाभिहृन्नासाकेषु न्यासश्च वर्णशः ।
एतज्ज्ञानात् समस्तं च ज्ञानं स्याच्छब्दगोचरम् ।
पूज्यश्च भगवान् नित्यं चक्राब्जादिकमण्डले ।
अष्टाक्षरेण सम्पूज्य प्रथमं देवतां पराम् ।
पुनः सव्ये सर्वगुरूनाग्नेयादिषु च क्रमात् ।
धर्मं ज्ञानं च वैराग्यमैश्वर्यं चैव कोणगान् ।
अपूजिता अधर्मादिदातारस्ते तथाभिधाः ।
यमवायुशिवेन्द्राश्च ज्ञेया धर्मादिदेवताः ।
कूर्मोनन्तश्च पृथिवी क्षीरसागर एव च ।
पद्ममेतत्त्रयं देवी रमैव बहुरूपिणी ।
आत्मान्तरात्मपरमज्ञानात्मानश्च मूर्तयः ।
प्रह्वी सत्या तथेशानानुग्रहा चेति शक्तयः ।
ततोनन्तं योगपीठस्वरूपं पूजयेद्धरेः ।
मधुपर्कं पुनश्चाचां स्नानं वासो विभूषणम् ।
लक्ष्मीधरे यजेत्तत्र पार्श्वयोरुभयोर्हरेः ।
वासुदेवादिकान् दिक्षु केशवादींस्ततः परम् ।
भार्गवं राघवं कृष्णं बुद्धं कल्किनमेव च ।
अनन्तब्रह्मवाय्वीशान् वीशं चाग्रे प्रपूजयेत् ।
कोणेषु वीन्द्रवामे च सौपर्णीं पूजयेदपि ।
धूपदीपौ ततो दत्वा नैवेद्यं मूलमन्त्रतः ।
पुष्पाञ्जलिश्च होमश्च मूलेनाष्टोत्तरं शतम् ।
विसर्जयित्वा नैवेद्यं मूलेन त्रिः समर्च्य च ।
अर्चयित्वा पुनर्ध्यात्वा जपेदष्टोत्तरं शतम् ।
जपध्यानहुतार्चादीनेवं यः कुरुते सदा ।
सर्वोत्तमं हरिं ज्ञात्वा य एवं भक्तिपूर्वकम् ।
भक्तिं कृत्वान्यदेवेषु ब्रह्मरुद्रादिकेष्वपि ।
न यज्ञा न च तीर्थानि नोपवासव्रतानि च ।
हरिर्हि सर्वदेवानां परमः पूर्णशक्तिमान् ।
ब्रह्मादयश्च तद्भक्त्या भागिनो भोगमोक्षयोः ।

द्वितीयोध्यायः

यस्य कस्यापि मन्त्रस्य न्यासः पञ्चाशदक्षरैः ।
गण्डयोरोष्ठयोर्दन्तपङ्क्योर्मूर्धनि वाचि च ।
तुन्दे च हृदि धातूनां सप्तके प्राणजीवयोः ।
जपे न्यासे च विहितः क्षोक्षराणां सदान्ततः ।
तारैस्त्रिद्वादशावृत्तैद्य्वेकद्वादशकेन वा ।
आदावेव जपे कुर्याच्छोषणं दहनं प्लुतिम् ।
एकपञ्चाशद्वर्णानां चतुर्विंशतिमूर्तयः ।
कोलो नृसिंहः सवटुर्जामदग्न्यरघूद्वहौ ।
शिंशुमारश्चेति शतं कलाः कलशनामकाः ।
पूर्वोक्तविधिनाभ्यर्च्य प्रतिमां शिष्यमेव च ।
मूलमन्त्रस्य चाङ्गानां न्यासः स्नानादनन्तरम् ।
कलशः कीर्तिमायुष्यं प्रज्ञां मेधां श्रियं बलम् ।
उपसर्गेषु जातेषु दैवभूतात्महेतुषु ।
योग्यतायै मन्त्रसिध्यै विष्णोः प्रीत्यर्थमेव वा ।
पूर्ववत्संस्कृते वह्नौ ध्यात्वा देवं जनार्दनम् ।
तावत्खातं चतुष्कोणमुच्छ्रितं द्वादशैव वा ।
विस्तारो मेखलानां स्यादन्त्या वा चतुरङ्गुला ।
अश्वत्थपत्राकृतिः स्यान्मूलतो द्वादशाङ्गुला ।
तदात्मनि हरिं ध्यात्वा कुण्डे देवीं श्रियं तथा ।
कुर्यात् क्रियाः षोडश च व्याहृतीभिः पृथक् पृथक् ।
आज्येन वा पायसेन समिद्भिः क्षीरिणामथ ।
ब्रह्मवृक्षसमिद्भिर्वा समिद्भिर्वामृतोद्भवैः ।
एवमेव तु दीक्षायामाज्येनैवाहुतिक्रिया ।
गुरवे दक्षिणां दद्यात् लक्षे लक्षे शतं सुधीः ।

तृतीयोध्यायः

प्रतिष्ठां कारयन् विष्णोः कुर्यात् सुप्रतिमां बुधः ।
षण्णवत्यङ्गुलां योग आसीनामथवा स्थिताम् ।
मुखादूर्ध्वं द्य्वङ्गुलोच्चां नवाङ्गुललसन्मुखाम् ।
पञ्चादशाङ्गुलां नाभेरा सार्धदशकाङ्गुलाम् ।
तावदा गुदतो दीर्घां चैत्यादाष्टादशाङ्गुलाम् ।
आरभ्य गुल्फमध्यं च सहार्धचतुरङ्गुलाम् ।
प्रपदोच्चयुतामन्ते द्य्वङ्गुलप्रपदोच्छ्रयाम् ।
त्रिपदाङ्गुलहीनान्यां ततस्तादृशतत्पराम् ।
क्रमशः पादहीनान्यां रक्तपादनखां शुभाम् ।
अङ्गुष्ठपरिणाहस्तु चतुरङ्गुल ईरितः ।
दशङ्गुलं जङ्घमूलं मध्यं तु त्र्यङ्गुलाधिकम् ।
ऊर्वन्तोपि तथा ज्ञेयो मध्यं द्विर्द्वादशाङ्गुलम् ।
सार्धत्रयं परीणाहाद् वृषणं चतुरङ्गुलम् ।
अष्टत्रिंशाङ्गुलं कट्याः परीणाह उदाहृतः ।
विस्तारश्च तथा कट्याः सुप्रतिष्ठितता पदोः ।
नाभिः सार्धाङ्गुलश्चैव गम्भीरोर्धाङ्गुलोन्नतः ।
मध्यं स्तने परीणाहः षडङ्गुलमतोधिकः ।
पादोनमङ्गुलं चैव भुजाभ्यां सह सार्धकम् ।
सप्ताङ्गुलोच्छ्रयः कक्षादुपरि स्कन्धयोर्मतः ।
अष्टादशाङ्गुलो बाह्वोः परिणाह उदाहृतः ।
साङ्गुलस्तु तलः सार्धनवाङ्गुल उदाहृतः ।
अर्धाङ्गुलोन्नता मध्या द्वयोः सार्धाङ्गुलोन्नता ।
सार्धत्रयपरीणाहौ मध्यज्येष्ठावुदाहृतौ ।
पादोनान्तपरीणाहाः सर्वे ज्येष्ठां विना स्मृताः ।
ललाटकुक्षिकण्ठास्तु दीर्घरेखात्रयान्विताः ।
रक्तास्तलनखाश्चैव नेत्रान्तोधर एव च ।
अर्धाङ्गुलौ तथा मध्यावन्येष्टांशक्रमोनकाः ।
समा मानेन नासाया उच्चत्वेनैव मापने ।
चतुरङ्गुलं तथैवास्यं सार्धव्रीह्यधरं स्मृतम् ।
सार्धाङ्गुलमधः प्रोक्तमधरादध एव च ।
सप्ताङ्गुलं नासिकायाः पार्श्वमा कर्णतः स्मृतम् ।
अर्धाङ्गुले पुटे तस्या मध्यं च समुदाहृतम् ।
अङ्गुलं चैव विस्तीर्णे फुल्लेर्धं च तदन्यथा ।
असंहतौ च निबिडौ तथा पक्ष्म सुनीलकम् ।
सकुण्डलं तावदेव विवरं सम्प्रकीर्तितम् ।
कर्णपूरयुतौ कर्णावुत्पलाभ्यां च संयुतौ ।
ललाटं सुविशालं च तथा सार्धनवाङ्गुलम् ।
दीर्घाश्च कुञ्चिताग्राश्च नीलाश्च केशा हरेर्मताः ।
कुण्डले मकराकारे वक्षश्चैव सकौस्तुभम् ।
हारग्रैवेयसहितमुपवीतयुतं तथा ।
समध्यबन्धं मध्यं च नितम्बे पीतमम्बरम् ।
अङ्गुलीयानि च पदोः कृतिभिः साधु कारयेत् ।
अनुन्नतैरविरलैर्दन्तैर्युक्तं च सुस्मितम् ।
प्रतिमार्थं व्रजन्पञ्चध्वनिभिमङ्गलैर्युतः ।
ध्वनिभेदेन विज्ञाय शलिां गर्भवतीं त्यजेत् ।
वार्क्षी चेद्यज्ञवृक्षस्य सारेणैव तु कारयेत् ।
अस्य सङ्क्षेपशास्त्रत्वान्न विस्तारविरोधिता ।
प्राच्येभ्यो विष्णुभूतेभ्य इत्याद्यखलिदिक्षु च ।
अनुज्ञामुद्धरेद् वृक्षं शलिां वा प्रतिमाकृते ।
स्वरस्थूलत्वभेदेन पुंस्त्र्याद्या जातिभिः शलिाः ।
वेदमङ्गलघोषेण वाद्यैस्तत्प्रतिमां हरेत् ।
रामावृते दक्षिणतः पश्चाद्गिर्यग्र एव वा ।
ऐशानीं दिशमेकां तु विनोदकविवर्जिते ।
श्मशानादिकदेशानां विदूरे सुमनोहरे ।
द्विगुणं चतुर्गुणं वापि शतकिष्कुप्रमाणकम् ।
केशाङ्गारस्थिवल्मीकलोष्टाश्मादिविवर्जिते ।
मृद्दारुशैलैर्लोहैर्वा कुर्याद्देवालयं दृढम् ।
अङ्गुल्या मध्यरेखायाः समा लक्षणतः स्मृताः ।
ह्रस्वमध्योच्चभेदेन तत्तन्मानं समस्तशः ।
प्रतिमाध्यर्धकं द्वारमूर्ध्वमध्यं च विस्तृतिः ।
उन्नतिः पिण्डिकायास्तु चतुरङ्गुलमानतः ।
उच्चं पर्यक् च क्रमश उच्चत्वं मध्यतः स्मृतम् ।
अर्धोच्चमथवापि स्यादधस्तात् प्रतिमोन्नतम् ।
शिखान्तरे तु प्रतिमामानं तद्गल उच्यते ।
वर्तुलं पद्मसदृशं हस्तिपृष्टसमं तथा ।
प्रतिमाया दशगुणं विंशद्गुणमथापि वा ।
सभयापि समेतं वा पृथक्सभमथापि वा ।
प्राकारवृत्तयुक्तं वा सप्तप्राकारमेव वा ।
ततः परं किष्कुमात्रं सभाया अन्तरं यदि ।
किष्कुत्रयं च शक्राद्यैः स्थानं तद्वृत्ततः स्मृतम् ।
पूजयेद्वास्तुपुरुषस्योपरिस्थांस्तु सर्वदा ।
पातितो दैवतैर्भूमौ चतुरस्राकृतिः स्थितः ।
पूज्यो द्वये द्वये शक्रो यमो वरुण एव च ।
पुनस्त्रये त्रये कामं धातारं सविधातृकम् ।
कालं कुबेरं च बहिः प्रत्येकं दिक्षु पूजयेत् ।
भानुमङ्गारकं चैव पूर्वस्यां दिशि पूजयेत् ।
मृत्युं शनैश्चरं चैव दक्षिणस्यां प्रपूजयेत् ।
चार्वङ्गं भार्गवं चैव पश्चिमायां प्रपूजयेत् ।
बृहस्पतिं बुधं चैवाप्युत्तरस्यां प्रपूजयेत् ।
सप्तपर्णमयं साधु कारयेन्मण्डपं ततः ।
चतुर्गुणं वा सम्यक् तु चतुरस्रं सहाजिरम् ।
त्रिचतुष्कोष्ठकं तत्र मध्ये प्रागायतं शुभम् ।
तत्र द्वादशपात्राणि स्थापयेत् पालिकादिकम् ।
अष्टादशाङ्गुलाश्चैव तथा पञ्चमुखा इति ।
तत्र विष्णुं चतुर्मूर्तिं पूजयेद्भक्तितस्त्रिशः ।
तत्र नित्यं बलिं दद्याद्विष्णवे दशरात्रकम् ।
भूतैश्च पायसेनैव तथा पद्माक्षतेन च ।
तदैव प्रतिमायाश्च कारयेदधिवासनम् ।
वेदांश्च चतुरः सम्यक् पारयेयुर्द्विजोत्तमाः ।
त्रयोदशात्र कुण्डानि परितः कारयेद् बुधः ।
आज्याहुतिं तेषु कुर्यात् प्रत्येकं लक्षसङ्ख्यया ।
अर्धं तदर्धमथवा मूलमन्त्रेण मन्त्रवित् ।
प्रत्येकं तु सहस्रं वा प्रत्येकं शतमेव वा ।
चक्राब्जं भद्रकं वापि मण्टपे मण्डलं शुभम् ।
शोभोपशोभिकाश्चैव चक्राब्जस्य तु लक्षणम् ।
सहस्रमर्धं पादं वा कलशांस्तत्र पूजयेत् ।
क्वाथेन क्षीरवृक्षाणां तथा पञ्चामृतैरपि ।
पूरयेत् कलशान् मध्यं शुद्धोदेनैव पूरयेत् ।
चतुर्दले सिते पद्मचतुष्के मण्डले स्थिते ।
गन्धांश्च स्थापयेत् पञ्चगव्यं शुद्धान्तरे न्यसेत् ।
पञ्चाशत्वे तु गन्धोदं सर्वमध्ये निधापयेत् ।
अष्टदिक्ष्वष्टपद्मेषु पञ्चकं पञ्चकं न्यसेत् ।
तत्तद्द्रव्यमयास्तत्र तत्र स्थाप्यास्तु बाह्यतः ।
कुशोदकं च कार्पूरं कौङ्कुमं चान्दनं तथा ।
नदीसङ्गमजं चैव ताडाकं कौप्यमेव वा ।
चतुर्विंशतिमूर्तीनां वर्णमूर्तीस्तथापरः ।
वर्णमूर्तीः पुनश्चैव द्विचतुर्वारमेव च ।
ततस्तु पञ्चघोषैश्च वेदघोषैस्तथादरात् ।
मन्त्रैः पुरुषसूक्तान्तैः विश्वतश्चक्षुषा तथा ।
स्नापयित्वा गन्धजलैर्गन्धपुष्पादिभिः पुनः ।
जपेदष्टाक्षरं मन्त्रं तत्तन्मूर्तिमनुं तथा ।
प्रतिमां प्रतिमान्तस्थां तन्मध्ये परमं वपुः ।
पञ्चविंशतितत्त्वानां देवतास्तदनन्तरम् ।
तत्रात्वाहार्षसूक्तं च घर्मसूक्तं च वैष्णवम् ।
जप्त्वा चैव निजं मन्त्रं पुनरष्टाक्षरं सुधीः ।
ततस्तु कलशैर्बाह्यक्रमेणैव जनार्दनम् ।
अष्टार्णेन निजेनापि तथा पुरुषसूक्ततः ।
जप्त्वा पुनश्च तन्मन्त्रान् पूजयेच्च विधानतः ।
वस्त्ररत्नहिरण्याद्यैरलङ्कृत्य विभूतितः ।
शतमर्धं तदर्धं वा निःस्वो भक्त्या क्षमापयेत् ।
आश्वभ्यः आश्वपाकेभ्यो दद्यादन्नं समस्तशः ।
सुवर्णरजतवस्त्ररत्नाद्यैरागताभ्यागतानपि ।
गीतनृत्यैश्च वाद्यैश्च पुराणैरितिहासकैः ।
नयेत् ततो महाराजविभूत्यावभृथं सुधीः ।
महानदीसङ्गमे तु तीर्थे चातिप्रशस्तके ।
ततः पूर्ववदागत्य प्रवेश्य पुरुषोत्तमम् ।
गुरुं च भक्त्या सम्पूज्य स्वीकुर्यादाशिषस्ततः ।
दिनेष्वेतेषु दातव्यं सघृतं ससितादिकम् ।
जीर्णालयोद्धृतौ चैव तत्त्वमन्त्रान् स्वकं तथा ।
उक्तेनैव विधानेन तदर्धविभवैः सुधीः ।
एतेनैव विधानेन कृत्वा देवालयं पुनः ।
विभवेनानुलोमेन जपेन्मन्त्रान् पुनस्तथा ।
यात्रापि पूर्ववत् तत्राप्युत्सवेषु च सर्वशः ।
उत्सवेषु सदा कार्या कलशश्चोत्सवादनु ।
चोरचण्डालपतितश्वोदक्यादिप्रवेशने ।
स्नपनोक्तेन मार्गेण प्रायश्चित्तकृतिः स्मृता ।
नावाव्याद्याभिधानानु विग्रहे धीमहे तथा ।
दुर्गाशिवस्कन्दसूर्यविनायकमुखानपि ।
गोलकद्वितयं विष्णोस्त्रितयं वापि कीर्तिमान् ।
विष्णुस्मृतिविहीना तु पूजा स्यादासुरी तथा ।
विष्णुभक्तिविहीनस्य गतिः स्यान्न तु शुभा क्वचित् ।
संस्मृतो भगवान् विष्णुः सर्वमङ्गलमङ्गलः ।
पुरुषोव्यक्तं च महानहङ्कारो मनस्तथा ।
तत्त्वाख्याः कालमाये च नियतिर्मतिरेव च ।
स्पूर्त्तिः संवित् प्रतिष्ठा च शक्तिरित्यपराणि च ।
प्रधानोपमवर्णानि द्विभुजान्यप्यशेषतः ।
सर्वाण्येतानि तत्त्वानि ब्रह्मा तु पुरुषः स्मृतः ।
एवं वायुरपि ज्ञेयो भारती चापि तत्त्रयम् ।
अहङ्कारः शेषवीन्द्रावपि विद्वद्भिरीरितौ ।
वह्निदक्षाविन्द्रसूनुर्मित्रश्चैव मनुस्तथा ।
अन्ये तु सूनवो वायो रुद्रस्यापि प्रकीर्तिताः ।
ध्येयः परात्मनोर्मध्ये तत्त्वनाम तदर्थयोः ।
त्रिचतुष्षड्दशावृत्तिरेतेषां तु हुतादिके ।
ऋषिच्छन्दोदेवताङ्गध्यानानुक्तौ प्रधानवत् ।
तन्त्रमार्गास्तु हरिणा ह्यसङ्ख्याः कीर्तिता अपि ।
यावतो ह्यननुष्ठाने कर्मपूर्तिर्न विद्यते ।
प्रीयतेनेन मार्गेण पूजितो मुक्तिदो भवेत् ।

चतुर्थोध्यायः

अथ विष्णूदिते तन्त्रसारे मन्त्रगणो हि यः ।
याष्टमस्तूयुतोन्तेन समेतश्चैव भूभृतः ।
स एव तादृशो लोकत्रयपालो भुवःपतेः ।
मनुस्तस्यापररस्तारबीजोद्देशनमोयुतः ।
श्यामः सुदर्शनदराभयसद्वरेतो भूम्या युतोखलिनिजोक्तपरिग्रहैश्च ।
वैष्णवानां मुनिबर्‌रह्मा मन्त्राणां वर्णभेदतः ।
प्रणवेन स्वनाम्ना च भूधरेण परात्मना ।
ज्ञानैश्वर्यप्रभानन्दतेजःशक्तिभिरेव वा ।
तिष्टोदादिस्वजायायाः कारणं स्वाहया युतः ।
द्विर्भीषय त्रासय च प्रमर्दय तथैव च ।
क्रूरं वीरं बृहद्विष्णुं दीप्यन्तं विश्वतोमुखम् ।
द्विर्जयस्योपरि निजं सोद्देशं सर्ववित् तथा ।
विद्महे धीमहे पूर्वं स्वयं चैव महाबलः ।
पादैर्व्यस्तैः समस्तैश्च पदैश्चाङ्गं प्रकीर्तितम् ।
ध्यायेन्नृसिंहमुरुवृत्तरवित्रिनेत्रं जानुप्रसक्तकरयुग्ममथापराभ्याम् ।
सर्वेष्वपि हि मन्त्रेषु द्य्वाद्यनन्तान्तबाहुकः ।
अनन्तरूपो ध्येयोत्र स्वगुरूक्तानुसारतः ।
शङ्खचक्रगदापद्मखड्गखेटाः सशार्ङ्गकाः ।
शूलं च भिण्डिपालश्च पट्टशोग्निर्वराभये ।
वियत्स इति युग्मार्णो विपरीतश्च स स्मृतः ।
त्रय एते महामन्त्राः पुरुषार्थचतुष्टये ।
तैरेव तु द्विरावृत्तैरङ्गमेषां प्रकीर्तितम् ।
एकविंशत्सहस्रात्मा सषट्शतमहर्निशम् ।
अशेषदोषदहनस्तत्त्वज्ञानप्रदायकः ।
ध्यायेद्रवीन्दुकरमिन्दुसहस्रलक्षकान्तिं प्रियासहितमास्थितमिन्दुबिम्बे ।
अन्त्यस्य रक्तवर्णो वा ध्येयो विष्णुः सनातनः ।
अष्टाक्षरो महामन्त्रः तैरेवाङ्गैः समन्वितः ।
मूलं नः प्रतिषेधश्च सोद्देशो भगवानपि ।
अङ्गानि तत्पदैरेव मन्त्रचिन्तमणिः स्वयम् ।
ध्यायेत् सुशुक्लमरविन्ददलायताक्षं सौवर्णपात्रदधिभोज्यमथामृतं च ।
अमृतं स्वयमुद्देशयुक्तः सहृदयो मनुः ।
उद्यद्रविप्रभमरीन्द्रदरौ गदां च ज्ञानं च बिभ्रतमजं प्रियया समेतम् ।
त्रिविक्रमश्च सोद्देशो विश्वरूपश्च तत्परः ।
स्वयमुद्देशसंयुक्तः तदाद्यर्णपुरःसरः ।
अङ्गारवर्णमभितोण्डबहिःप्रभाभिर्व्याप्तं परश्वधधनुर्धरमेकवीरम् ।
श्यामं रवीन्द्वमितदीधितिकान्तियुक्तं ज्ञानं शरं च दधतं प्रियया समेतम् ।
निजगोत्रं तु सोद्देशं पूर्वाक्षरपुरःसरम् ।
ते च बीजे बीजभूते धर्मादीनामशेषतः ।
कृष्णो गोविच्च कामेतः सोद्देशो बल्लवीजनः ।
ध्यायेद्धरिन्मणिनिभं जगदेकनाथं सौन्दर्यसारमरिशङ्खवराभयानि ।
सकामः स्वयमुद्देशी नत्यन्तोयं षडक्षरः ।
दृष्टार्थ एव मन्त्राणां कलौ वीर्यं तिरस्कृतम् ।
स्वयं वेदपदारूढः पूर्ववर्णपुरःसरः ।
व्याख्याश्रीसर्वविज्ञानकवितादिगुणप्रदः ।
विज्ञानरोचिः परिपूरितान्तर्बाह्यण्डकोशं हरितोपलाभम् ।
ज्ञानानन्दपुरःपूर्णो विद्महे धीमहे तथा ।
आदिबीजं स्थिरादोषज्ञानबीजं विमुक्तिदम् ।
ध्यायेच्छशाङ्कशतकोट्यतिसौख्यकान्तिं संसिच्यमानममृतोरुघटैः सुरेशैः ।
सोद्देशस्तु स्वयं दीर्घपूर्वाद्यार्णो नमोयुतः ।
वन्दे तुरङ्गवदनं शशिबिम्बसंस्थं चन्द्रावदातममितात्मकरैः समन्तात् ।
नस्तो मुखादपि निरन्तरमुद्गिरन्तं विद्या अशेषत उताब्जभवेशमुख्यैः ।
स्वयमुद्देशवान् पूर्ववर्णपूर्वो नमोयुतः ।
प्रोद्यद्दिवाकरसमानतनुं सहस्रसूर्योरुदीधितिभिराप्तसमस्तलोकम् ।
अधृष्यताज्ञानमोक्षप्रदौ भक्तेष्विमौ सदा ।
सर्वार्थदं गार्त्समदं यो जात इति चापरम् ।
भौवनीयं सर्वकाममोक्षदं य इमेत्यपि ।
स्वदृष्टं सूक्तमखलिं कामदं हरितुष्टिदम् ।
कौशेयपीतवसनामरविन्दनेत्रां पद्मद्वयाभयवरोद्यतपद्महस्ताम् ।
लज्जाबीजं च तद्बीजं तस्या एवाभिधायकम् ।
अमध्ययुग्मस्वरगतेनैवाङ्गमुदाहृतम् ।
वर्णः श्यामो विशेषोत्र ताम्बूलं नीलमुत्पलम् ।
नमोन्तं स्वेन सहितस्तदेवान्यो मनुः स्मृतः ।
त्रिनेत्रत्वं च दुर्गायाः प्रायः सर्वत्र कथ्यते ।
रमाया एव रूपाणि त्वेतानि हि विदो विदुः ।
हिरण्यगर्भसूक्तं च भृगुदृष्टं प्रकीर्तितम् ।
ध्यायेन्निषण्णमजमच्युतनाभिपद्मे प्रोद्यद्दिवाकरसमूहनिकाशमग्र्यम् ।
स्वयमुद्देशनतिमांस्तस्य पञ्चाक्षरो मनुः ।
बळाद्यं भृगुणा दृष्टं प्राणाग्नेः सूक्तमुच्यते ।
उद्यद्रविप्रकरसन्निभमच्युताङ्के स्वसीनमस्य नुतिनित्यवचःप्रवृत्तिम् ।
प्राणाद्याः पञ्चमन्त्राश्च तस्य देवस्य वाचकाः ।
ब्रह्माण्याः अपि भारत्या गौरीर्यस्त इति श्रुतौ ।
उद्यद्दिवाकरसमूहनिभां स्वभर्तुरङ्केस्थितामभयसद्वरबाहुयुग्माम् ।
पादैर्व्यस्तैः समस्तैश्च तदङ्गानि विदो विदुः ।
मन्त्राः ह्येते हरेः प्रीतिदायकाः सर्वकामदाः ।
तस्मादेते प्रिया विष्णोरन्तरङ्गतया सदा ।
उद्देशनतियुङ्मन्त्रः स्वयमेव शिवस्य तु ।
ध्येयः पञ्चमुखो रुद्रः स्फटिकामलकान्तिमान् ।
मन्त्रेष्वेतेषु सर्वेषु वाच्यस्तारेण केशवः ।
स एव वनितालिङ्गः पार्वत्याः मनुरुच्यते ।
स्वयमुद्देशनत्यन्तः पूर्वपूर्वः षडक्षरः ।
दधानो हलसौनन्दौ श्वेतवर्णः कृताञ्जलिः ।
व्यस्तपक्षितारौ च स्वाहान्तो गारुडो मनुः ।
दधानः कुम्भमभयं पीतशुक्लारुणो हरित् ।
प्रियायुक् पुरतो विष्णोः पक्षतुण्डसमन्वितः ।
मन्त्राश्च लोकपालानां नमोन्तः सर्वकामदाः ।
सप्रियाः साभया वज्रशक्तिदण्डासिपाशिनः ।
अग्निश्च स्वयमुद्देशी सनमः स्कन्दवाचकः ।
ह्रस्वः कृपालुः सेतश्च स्वयमन्यः स्वयं तथा ।
अङ्गानि पद्मयुगलधरो ध्येयोरुणो रविः ।
मोनयदासाप्रप्रक्षि व्यत्यस्तो विघ्नराण्मनुः ।
महोदरो गजमुखः पाशदन्ताङ्कुशाभये ।
तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तीः प्रबोधयन् ।
स्वयमुद्देशवान् पूर्वपूर्वो हृदयसंयुतः ।
चन्द्रौघकान्तिममृतात्मकरैर्जगन्ति सञ्जीवयन्तममितात्मसुखं परेशम् ।
मूर्धि स्थितादमुत एव सुधां स्रवन्तीं भ्रूमध्यगाच्च तत एव च तालुसंस्थात् ।
अज्ञानदुःखभयरोगमहाविषाणि योगोयमाशु विनिहन्ति सुखं च दद्यात् ।
ध्यात्वैव हस्ततलगं स्वमृतं स्रवन्तं देवं स यस्य शिरसि स्वकरं निधाय ।
शतं सहस्रमयुतं लक्षं वारोगसङ्क्षयात् ।
ज्वरदाहादिशान्त्यर्थं तर्पयेन्मनुनामुना ।
अयुतामृतसमिद्धोमाद् गोघृतक्षीरसंयुतात् ।
भूताभिचारशान्त्यर्थमपामार्गाहुतिक्रिया ।
आयुर्विवृद्धये नित्यं जन्मनक्षत्र एव वा ।
सर्वक्रिया हरौ भक्ते हरिभक्तैः स्वनुष्ठिताः ।
ब्रह्मान्ताः गुरवश्चैव सम्प्रदायप्रवर्तकाः ।
सर्वेभ्योभ्यधिका भक्तिर्विष्णौ स्यादतिनिश्चला ।
शुभान् ध्यायन्ति ये कामान् गुरुदेवप्रसादजान् ।
मुक्तावपि च संसारे नात्मनो विष्णुना क्वचित् ।
अतद्वशत्वमथवा यः स्मरेत् स तु सिद्धिभाक् ।
स्मृत्वा गुरुं पूर्वगुरुमादिमूलगुरू तथा ।
अवज्ञाता गुरूणां च देवतानां न सिद्ध्यति ।
यस्तारतम्यवेत्ता स्याद् गुरूणां देवतास्वपि ।
गुरुदेवप्रतीपानां विमुखास्तत्प्रिये रतः ।
सकामेभ्योमितगुणा याकामैस्तु कृता क्रिया ।
अयं मे हस्त इति च मन्त्रः पूर्वोक्तवत्स्मृतः ।
विजयस्तम्भनादीनि नारसिंहैर्विशेषतः ।
बहुबाहुं महाकायमुद्युक्तं चोद्यतायुधम् ।
वसुपूर्णकरं रत्नपर्वतस्थं विभावयन् ।
यद्यन्मनोगतं तस्य तत्तदाप्नोत्यसंशयम् ।
श्रिये पद्मानि जुहुयात् सम्प्रीत्या उत्पलानि च ।
विद्यायै मन्त्रितं वारि वचां वा तुलसीमपि ।
अकुर्वंश्च क्रिया भक्त्या निरपेक्षो भजन् हरिम् ।
सृष्टिस्थितलयन्यासाः प्रातलिोम्यानुलोमतः ।
पादहृत्केषु नाभ्यास्ययुक्तं च सललाटकम् ।
सोरस्कश्च सकण्ठं च सभुजद्वयमेव च ।
समूलं च सगुह्यं च सपार्श्वद्वयमेव च ।
ककुत्स्तनद्वयेनापि पृष्ठभागेन सर्वशः ।
प्रतिमायामात्मनि च न्यासोयं सन्निधानकृत् ।
वर्णानुप्रातलिोम्येन वृत्तं भूपुरसंयुतम् ।
समं तत्सर्वमन्त्रेषु जप्तं धार्यं तु वा भुवि ।
प्रतिमालक्षणैर्यावद्युक्त आचार्य उत्तमः ।
यावद्भक्तो यथा लब्धैर्गुणैर्युक्तोथ वैष्णवः ।
उत्तमादुत्तमा सिद्धिर्धर्ममोक्षेषु स्फुटम् ।
एकस्य शिष्यतां प्राप्य तदाज्ञां न विना समम् ।
विशेषतो गुणश्च स्यादेवेष्वप्येवमेव हि ।
अपरोक्षदृशेरेव यस्मान्मोक्षो न चान्यथा ।
द्विविधा सा च सम्प्रोक्ता विष्णुशास्त्रावमर्शनम् ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।
रेचकः पूरकश्चैव कुम्भश्च त्रिधा स्मृतः ।
अधीतिस्मृतियुक्तो हि निदिध्यासनमेव हि ।
आसा शौचं प्राणायामो निष्परिग्रहपूर्वकाः ।
अज्ञस्य श्रवणं श्रेष्ठमयुक्तेर्मननं तथा ।
वरं दशगुणं तस्मात् व्याख्यैकस्य शतोत्तरा ।
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
शौचासने त्वङ्गमात्रं न पृथङ्धर्मकारणम् ।
स्वाध्यायो कोटिगुणस्ततोनन्तगुणा हरेः ।
ऊर्वोरधः पदोरूर्ध्वं त्रिभागेनेति च त्रिधा ।
द्विगुणोत्तरं रेचकादि षोडशादिक्रमेण तु ।
क्रमेणैवाभ्यसेन्मात्रावृद्धिमेकाग्रधीः पुनः ।
मूलाधारं समारभ्य त्वामूर्धानमृजुस्थिता ।
वैद्युता ब्रह्मनाडीति सैव पञ्चप्रभेदिनी ।
हरिर्नीलः सितः पिङ्गो लोहितश्चात्र केशवः ।
मूले च नाभौ हृदयेन्द्रयोनिभ्रूमध्यमूर्धि द्विषडन्तकेषु ।
त्रिकोणवह्नौ च षडश्रवायौ द्विस्तावदस्ररविवृत्तशशित्रिवह्नौ ।
इडा च पिङ्गला चैव वज्रिका धारिणी तथा ।
द्वासप्ततिसहस्राणि नाड्योन्यास्तु प्रधानतः ।
रूपाणां लक्षणं तेषां रहस्यत्वान्न कथ्यते ।
खण्डस्मृतिर्धारणा स्यादखण्डा ध्यानमुच्यते ।
परमस्नेहसंयुक्तयथार्थज्ञानतो भवेत् ।
मुख्यमेषैव नान्यत् स्यात् सर्वं व्यर्थं तया विना ।
दर्शनं तु तया हीनं व्यर्थमन्यत् किमुच्यते ।
आनन्दचित्सदितिपूर्वगुणैः समस्तैर्मर्त्यादिभिर्विधिपरैर्भगवान् क्रमेण ।
निर्दोषाखलिसम्पूर्णगुणेन हरिणा स्वयम् ।
ग्रन्थोयं पाठमात्रेण सकलाभीष्टसिद्धिदः ।
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
अशेषदोषोज्झितपूर्णसद्गुणं सदा विशेषापगतोरुरूपम् ।