Padyamala/Moola

Revision as of 20:55, 16 June 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
पद्यमाला — मूलम्
प्रणम्य श्रीपतिं सर्वान् गुरूंश्चाथ प्रवच्म्यहम् ।
आदौ देवगृहे न्यस्य कलशान् सप्त पञ्च वा ।
यथाकालोपपन्नानि स्वारामवनजान्यपि ।
शूद्राहृतानि वा भूमौ पतितानि तथैव च ।
अर्घ्यपाद्यादिसम्भारान् यथाशक्ति विधाय च ।
पूर्वे नमो जयायाथ विजयायाथ दक्षिणे ।
नन्दायाथ सुनन्दाय श्रियै च कुमुदाय च ।
तदनुज्ञामवाप्याथ ‘वायवायाहि दर्शत’ ।
कृत्वा तालत्रयं द्वारे देहलीमस्पृशन्विशेत् ।
अनेन वह्निमन्त्रेण दीपानुद्दीपयेत्ततः ।
‘अपसर्पन्तु ये भूता’ इति मन्त्रं पठन्नपि ।
अपैवेत्यादि येभ्यश्च एवापित्र ऋचौ पठेत् ।
कल्पयित्वा जवनिकां देवमात्मानमन्तरा ।
‘आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् ।
अज्ञानाज्ज्ञानतो वाऽपि कांस्यघण्टां न वादयेत् ॥ १६ ॥
राक्षसानां पिशाचानां तद्देशे वसतिर्भवत् ।
ततो जवनिकां त्यक्त्वा निर्माल्यं विसृजेत्ततः ।
अध्यासितासने स्वस्थोऽपक्रामन्त्विति पूर्वकान् ।
उत्साद्यासनमन्त्रेण पृथिवीं प्रार्थयेत्ततः ।
कल्पयित्वेत्थमासीनो व्याहरेत् भूर्भुवःस्वरोम् ।
नमः कालाग्निरुद्राय वज्राय च नमो नमः ।
उक्तेषु वक्ष्यमाणेषु स्थानेष्वन्येषु सर्वशः ।
तत्तन्नाम चतुर्थ्यन्तं प्रणवादि नमोऽन्तकम् ।
प्राकारावस्थितं वह्निं ध्यात्वा मुद्रां सुदर्शनीम् ।
नमश्चक्राय स्वाहेति मन्त्रमेनमुदीरयेत् ।
‘अनन्तकल्याणगुणैकसिन्धुश्रीविष्णुना प्रेरितमानसोऽहम् ।
प्रीत्यर्थमस्यैव करोमि पूजाविधिं प्रदिष्टं खलु तन्त्रसारे ।
वाय्वग्निवरुणानां च बीजानि यरवाः क्रमात् ।
एभिः कार्यं क्रमात्षोढा करसन्धिषु शोधनम् ।
सुषुम्नामार्गतो नीत्वा विनिदध्यात्स्वमूर्धनि ।
आनीय नाभिदेशेतं वायुबीजेन शोषयेत् ।
वारुणेनाथ बीजेन शिरस्थामृतधारया ।
प्राणायामं ततः कृत्वा तत्त्वन्यासांस्ततः परम् ।
अष्टाक्षरन्यासपूर्वं ध्यात्वो१३द्यद्भास्वदित्यथ ।
पुनश्चाक्षरविन्यासं कृत्वा ध्यायेद्धरिं पुनः ।
‘आराध्यसे प्राणभृतां प्रणेत्रा प्राणाधिनाथेन समीरणेन ।
बिम्बोऽसि प्रतिबिम्बोऽस्मि तव यद्यपि चान्तरम् ।
भगवन्यन्मया कर्म शुभं कारयसि प्रभो ।
सम्प्रार्थ्यैवं स्वबिम्बस्थं मुद्रया प्रार्थनाख्यया ।
मातृका एकपञ्चशच्चतुर्विंशतिमूर्तयः ।
आत्मान्तरात्मपरमज्ञानात्मा वासुदेवकः ।
क्रोडो नृसिंहः सवटू जामदग्न्यरघूद्वहौ ।
शिंशुमारश्चेति शतं मूलमूर्त्या समन्वितम् ।
नैवेद्यप्रोक्षणार्थं च पञ्चपात्रप्रपूरणे ।
पञ्चैते कलशाः प्रोक्ता गन्धार्थं द्वौ पुनः पृथक् ।
असम्भवे च सर्वेषां भिन्नपात्राणि कारयेत् ।
इमं मे चाथ गङ्गे चेत्यादिमन्त्रानुदीरयेत् ।
शङ्खचक्रगदापद्मधेनुतार्क्ष्यादिमुद्रिकाः ।
कलशोदकपूर्णं तु ततः शङ्खं प्रपूजयेत् ।
जपेत्त्रिः शङ्खगायत्रीं पुनः शङ्खादिमुद्रिकाः ।
पात्राण्यासादयेत्पूर्वं पञ्च पूजाविधौ सदा ।
ईशे त्वाचमनीयं च स्नानीयं चाग्निकोणके ।
एकं स्यान्मधुपर्केऽन्यत्पुनराचमने तथा ।
तुलसीदलयुक्तेन शङ्खतोयेन पूजकः ।
पूज्यश्च भगवान्नित्यमित्यध्याये यथाक्रमम् ।
सूत्रत्वात्तस्य बोधार्थं क्वचिद्वक्ष्यामि विस्तरम् ।
हरिमावाहयेद्भक्त्या तद्विधिः प्रोच्यतेऽधुना ।
कुर्यात्ततोऽस्य मुकुलं ज्ञानार्केण विकासयेत् ।
उद्यद्भास्वदिति ध्यात्वा सपुष्पतुलसीकरः ।
मूलमन्त्रं ततो जप्त्वा यद्यात्मार्थं प्रपूजयेत् ॥ ६१ ॥
‘एह्येहि मम हृत्पद्मस्थितश्रीपुरुषोत्तम ।
द्विरुच्चार्यैवमावाह्य तमावाहनमुद्रया ।
‘यागावसानपर्यन्तमत्र स्थित्वा जनार्दन ।
सम्प्रार्थ्यैवं स्वबिम्बख्यं मुद्रा आवाहनादिकाः ।
आवाहनं स्थापनं च सान्निध्यं सन्निरोधनम् ।
प्रदर्श्यैताश्च षण्मुद्राः स्नानार्थं प्रार्थयेत्ततः ।
आवाह्य पूर्ववत्कार्यं सर्वमावाहनाकम् ।
सम्प्रार्थ्यैवमिदं विष्णुरित्यृचा पादुकार्पणम् ।
स्थापयेत्स्नानपीठे तं भद्रं कर्णेभिरित्यृचा ।
ततोऽर्घ्यं मूलमन्त्रेण पाद्यमाचमनीयकम् ।
आप्यायस्व दधिक्राव्णो घृतं मिमिक्ष इत्यृचः ।
क्रमेणैतान्पठन्पञ्चामृतेन स्नापयेद्धरिम् ।
ततः शुद्धोदकस्नानं कारयेत्परमात्मनः ।
य इन्द्रोरेकवर्गश्च समुद्रादूर्मिरेव च ।
ततोऽङ्गमार्जनं वस्त्रं पीतं च परिधानकम् ।
ध्यात्वैव भूषणं किञ्चिन्नवमप्यर्पयेत्सुधीः ।
अभिषेकात्पुरा वाऽपि पश्चाद्वा परमात्मनि ।
आसनस्थं हरिं स्पृष्ट्वा मूलद्वादशकं जपेत् ।
ततश्चक्रायुधादीनि पूजयेत्क्रमशो दश ।
वायुर्गदाधिदेवः स्याद्भूमिः पद्माभिमानिनी ।
पञ्च प्राणाः पञ्च बाणा विरिञ्चः कौस्तुभात्मकः ।
अथावरणपूजायां लक्ष्मीं वामे हरेर्यजेत् ।
क्रुद्धोल्काय महोल्काय वीरोल्काय नमस्ततः ।
सहस्रोल्कायेति चतुर्नम अग्न्यादिकोणतः ।
मायां जयां कृतिं शान्तिं यजेत्कोणेषु च क्रमात् ।
दिशि द्वे द्वे कोण एक ईशे दामोदरो भवेत् ।
मत्स्यादिमूर्तयोऽप्येवं द्वादशान्तं क्रमाद्यजेत् ।
सर्वदिक्षु पुरश्चापि ह्यनन्तादीन् सभार्यकान् ।
पूजयेत्क्रमशो धीमान् स्वासु दिक्षु स्थितान् बहिः ।
पूजयित्वा ततः पूज्या द्वादशद्वारपालकाः ।
तृतीयो गाङ्गतनयस्ततः शङ्खनिधीश्वरः ।
विधाता च ततो भद्रः सुभद्रोऽथामृतेश्वरः ।
वनस्पत्युद्भवेत्यादिमन्त्रैर्मूलपुरस्सरैः ।
साज्यं त्रिवर्तिमन्त्रेण ततो नैवेद्यमर्पयेत् ।
नैवेद्यमुपरिस्थाप्य शुद्धतोयेन प्रोक्षयेत् ।
अमृतस्राविणीं धेनुं नैवेद्योपरि चिन्तयेत् ।
हुंफडन्तं सह स्वाहेत्युक्त्वा मुद्रां सुदर्शनीम् ।
परिषिञ्चामि सत्यं त्वर्तेनेति च क्रमाद्वदेत् ।
‘सुधारसं सुविपुलमापोशनमिदं तव ।
इति मन्त्रमुदीर्याथ देवदक्षिणहस्तके ।
आपोशनमिदं ध्यात्वाऽमृतोपस्तरणमसि ।
ततः प्राणात्मने पूर्वमुक्त्वा नारायणाय च ।
शङ्खतोयं क्षिपेत्पात्रे प्रत्याहुत्येकपात्रकम् ।
पानीयमर्पयेत्पश्चात्ततो जवनिकां क्षिपेत् ।
उत्तरापोशनं पश्चादमृतापिधानमसि ।
वामे गण्डूषपात्रं स्यात्तत्र गण्डूषमर्पयेत् ।
मूलेन पुष्पत्रितयमर्पयित्वा ततो वदेत् ।
नागवल्लीदलैर्युक्तं ताम्बूलं गृह्यतां विभो’ ।
जयत्यादि पठन्मन्त्रान्पुनर्धूपं समर्पयेत् ।
पुष्पाण्यष्टौ समार्प्याथ मूलमन्लेण वैष्णवः ।
चामरं दर्पणं छत्रं वाहनादि निवेदयेत् ।
सर्वं निवेदयेद्भक्त्या मूलमन्त्रेण साधकः ।
धेन्वादीः सम्पदर्श्याथ तोयं शङ्खगतं स्पृशेत् ।
शङ्खोदकं तु तत्पात्रे स्थापयित्वा पृथक् सुधीः ।
आरुह्य वेदिकां पश्चात्पूजासाद्गुण्यकारकम् ।
रमाब्रह्मादिदेवानां दत्वा तीर्थादिकं बलिम् ।
पुनर्ध्यात्वा हरिं देवमात्मा देवेत्यृचं पठेत् ।
एह्येहीति पुनः प्रोच्य पुनरावहयेद्धृदि ।
‘याचेऽहं त्वां हृषीकेश नमामि पुरुषोत्तम ।
इति प्रार्थ्य हरिं पश्चाद्विदध्यात्तत्त्वमातृकाः ।
तीर्थप्रसादगन्धादीन् दत्वा विष्णुपराय च ।
पद्यपाठे मनुष्याणां श्रमो नातिभवेदिति ।
प्रमादतो निरोधाद्वा हरेः पूजा भवेन्न चेत् ।
इति श्रीजयतीर्थार्यभिक्षुणा रचिता सती ।