Jump to content

Anuvyakyanam/C4/S1

From Anandamakaranda
Revision as of 18:58, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

प्रथमः पादः

समन्वयाविरोधाभ्यां सिद्धे वस्तुनि साधने ।विचारितेष्वशेषेषु साधनेषु विशेषतः ॥1॥

नित्यशः कार्यमत्यन्तमवश्यम्भावि साधनम् ।चिन्त्यते प्रथमं तत्र श्रवणादिसकृत्क्रिया ॥2॥

आवृत्तिर्वेति सन्देहे कर्तव्यावृत्तिरेव हि ।उपदेशोऽतत्त्वमसीत्यादि ह्यसकृदेव यत् ॥3॥

‘लिङ्गाल्लातव्यतः पूर्वमृजोर्ब्रह्मत्वतः शतात् ।शुश्रावोग्रतपा नाम योग्यो रुद्रपदस्य यः ॥4॥

सार्धं परार्धं विष्णोस्तु गुणान् भक्त्या सदोद्यतः ।तत्त्रिभागमुपासां च चक्रे सम्भृतमानसः ॥5॥

दशमन्वन्तरं शक्रपदयोग्यो गरुत्मतः ।पदयोग्यात्सुमनसः सुनन्दो नाम चाशृणोत् ॥6॥

उपासां चक्र उद्युक्तो मन्वन्तरचतुष्टयम् ।सूर्याचन्द्रमसोश्चैव पदयोग्यौ सुतेजसौ ॥7॥

सुरूपः शान्तरूपश्च मन्वन्तरचतुष्टयम् ।अशृण्वतां सुमनसो मन्वन्तरमुपासताम् ॥8॥

ततः प्रोक्तास्तु ते सर्वे भक्त्योग्रतपआदयः ।अपश्यन् परमं विष्णुं तत्प्रसादैधिताः(तत्प्रसादेधिताः) सदा ॥9॥

इत्युक्तं विष्णुना साक्षात् ग्रन्थे सत्तत्त्वसञ्ज्ञिते ।आत्मेति नाम कथितं साक्षान्नारायणस्य हि ॥10॥

आत्माधिकरणम्

‘आत्मा ब्रह्म महांस्तारः परमेशः शुचिश्रवाः ।विष्णुर्नारायणोऽनन्त इति श्रीपतिरीर्यते’ ॥11॥


न प्रतीकाधिकरणम्

प्रतीकविषयत्वेन न कार्या विष्णुभावना ॥19॥


ब्रह्माधिकरणम्

ब्रह्मेति च सदा ध्येयो भगवान् विष्णुरञ्जसा ।उत्कृष्टो ब्रह्मशब्दार्थः पूर्णत्वं ब्रह्मतां यतः ॥35॥


तदधिगमाधिकरणम्

तथोपास्यञ्जसा दृष्टं ब्रह्म पापं च भस्मसात् ॥63॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य प्रथमः पादः ॥