Bhagavadgitatatparya/Vyakhya/Nyayadeepika
गीतातात्पर्यनिर्णयटीका — न्यायदीपिका
अध्याय 1
इन्दिरावदनाम्भोजराजहंसाय विष्णवे । अमन्दानन्दसन्दोहसुन्दराकृतये नमः ॥ १ ॥
समस्तेति ॥
अन्तरायपरिजिहीर्षादिमन्तो देवतान्तरनतिमाचरन्तो दृष्टाः । तत्किं नारायणप्रणामेनेत्यत उक्तम्
समस्तेत्यादि ॥
नारायणस्यैव समस्तगुणसम्पूर्णत्वेनाशेषदोषदूरत्वेन निखिलप्रार्थितप्रदानसामर्थ्यादितरेषां तत्प्रसादासादितशक्तिमत्त्वात्तत्प्रणाम एव कर्तव्य इति भावः । सम्पूर्णमिति गुणानां प्रत्येकं पूर्णतामाह । विवर्जितमिति च दोषवर्जनस्य निःशेषताम् । समस्तगीतासु भगवद्गीतायाः प्राधान्यज्ञापनाय गीतेत्येवोक्तम् । ‘मुख्यस्य निर्विशेषेण शब्दः’ इति स्मृतेः । स्वयमेव गीताभाष्यस्य कृतत्वात् किं पुनरारम्भेणेत्यतस्तात्पर्यमित्युक्तम् । व्याख्यातत्वेऽपि गीतायास्तदर्थस्य शिष्याणां बुध्द्यारोहार्थं शब्दानुकरणाद्यन्तरेण पुनस्तात्पर्यमेवोच्यत इति भावः ।सुदुर्दर्शमिति ॥
सुदुर्दर्शमित्यनेनापरोक्षज्ञानित्वमवगम्यते । देवैः सह पठितत्वेन देवत्वं च ।
इष्टोऽसीति॥
प्रियतमत्वम् ।
दैवीति॥
देवत्वम् ।
महात्मान॥
इत्यनन्यमनस्कतया भगवन्तं भजतां देवत्वमपरोक्षज्ञानित्वं चावगम्यते । तादृशभजनवतश्चार्जुनस्य तज्ज्ञायते । दर्शयामासेत्यपरोक्षज्ञानित्वम् । भगवदतिप्रियत्वं देवत्वं चेति संयोज्यम् । देवत्वेनैवोत्तमाधिकारित्वं चावगतम् ॥॥ अस्येति ॥
अस्याभिलषितसेचकस्य, आसमन्तादीशस्य, विष्णोर्देवस्य हविर्भिः प्रभरणे कृते बन्धको रुद्रो रौद्रं महिमानं लेभे यथा तथाश्विनौ युवामप्यन्नवद्वर्तनं प्राप्तौ स्थ इत्यर्थः । आसीज्जगदादौ । मुनिर्मौनी । समचिन्तयत् ‘एते जायन्ताम्’ इति । विश्वो वायुः । इदमग्रे अस्य जगतोऽग्रे । सर्वोत्कर्ष इति श्रुतिः सर्वशास्त्राणां तत्परत्वे तज्ज्ञानान्मोक्षे च मानं भवति । सत्यं मुख्यम् । ततः विष्णुतः । विष्णो त्वं मितेः परोऽसि । मूर्त्यैव पूर्णोऽसि न तु कीर्त्यादिमात्रेण । अतस्ते महिमानं नान्ये प्राप्नुवन्तीत्यर्थः ।अध्याय 2
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः॥११ ॥
प्रकर्षणेति ॥
तदवादो न तदुपेक्षितः । अपि तु तद्वादविरुद्ध इत्यभिप्रेत्योक्तं विवृण्वन् वाक्यार्थमाह
प्राज्ञेति ॥
ननु कथं विनशिष्यन्तोऽशोच्याः । येनाशोच्यानन्वशोचस्त्वमित्युच्यते । कथं च न योत्स्य इति वाक्यं प्राज्ञमतविरुद्धम्? दृष्ट्वेममित्यादिनोपपत्तेरुक्तत्वादित्याक्षिपति
कथमिति ॥
तत्राऽद्यचोद्यपरिहारतयोत्तरार्धमुपादत्ते
गतासूनिति ॥
११ ॥न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम्॥१२ ॥
बन्धुस्नेहादिति ॥
बन्धुस्नेहनिमित्तात्तन्नाशभयादित्यर्थः । सत्यमित्यतो विकल्पासहत्वात्तत्प्राज्ञमतविरुद्धमिति भावेन बन्धुशब्दस्य शरीरविशिष्टचेतने प्रयोगाद्विकल्पयति
तत्रेति ॥
आद्यं दूषयितुं देहिन इति श्लोकतात्पर्यमाह
देहस्येति ॥
न तत्र भये प्रयोजनमिति ॥
देहनाशभयनिमित्तया स्वधर्महान्या प्रयोजनं नास्तीत्यर्थः ।देहिनोस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति॥१३ ॥
ममेति ॥
न देहिन इत्यत्रेश्वरस्य देहान्तरप्राप्तिरुच्यते । अपि तु जीवानामेव । न चेश्वरव्यावर्तकाभावः । ईश्वरव्यावृत्त्यर्थमेव देहिन इति विशेषणस्य प्रयुक्तत्वात् । विष्णोर्भिन्नदेहाभावेन देहित्वाभावादिति भावः । ईश्वरस्यापि जीवदेहान्तरप्राप्तिसद्भवात् स्वकीयेत्युक्तम् । एवं चेत् कः श्लोकार्थ इत्यतस्तमाह
भवदिति ॥
इदानीमेकस्मिन्नपि शरीरे कौमारादिरूपेणान्यथात्वदर्शनात् तत्र यथा शोकाभावस्तथैवेत्यर्थः ॥ १३ ॥मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोनित्यास्तांस्तितिक्षस्व भारत॥१४ ॥
तदिति ॥
दुःखमिति शेषः ।
सोढव्यमिति ॥
अनभिमानेन परिहर्तव्यमित्यर्थः । मात्रास्पर्शा इत्येतच्छब्दश्रवणेन भिन्नपदत्वशङ्कापरिहाराय व्याचष्टे
विषयेति ॥
१४ ॥यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोमृतत्वाय कल्पते॥१५ ॥
फलमिति ॥
अनभिमानेन दुःखपरिहारस्येति शेषः । कथं व्यथापरिहारमात्रेणामृतत्वम्? तमेवं विद्वान्, इत्यादिश्रुतिविरोधादित्याशङ्कापरिहाराय पुरुषपदमवतारयति
नेति ॥
कथमनेनैतच्छङ्कापरिहार इत्यतः स्मृत्यैव व्याचष्टे
पुरु ब्रह्मेति ॥
अस्तु पुरुपदेन ब्रह्म । तज्ज्ञानात्पुरुष इत्येतत्कथं लभ्यत इत्यत आह
पुरु सरणादिति ॥
सरणं
गमनम् । तदेव ज्ञानमिति भावः ॥ १५ ॥नासतो विद्यतेभावो नाभावो विद्यते सतः । उभयोरपि दृष्टोन्तस्त्वनयोस्तत्त्वदर्शिभिः॥१६ ॥
न चेति ॥
कुतो नेत्यतो हेतुतया नासत इति श्लोकं व्याचष्टे
असदिति ॥
असत्कर्मण इति दृष्टान्तः । नियतत्वादित्यनेनोत्तरार्धतात्पर्यमुक्तं भवति । इदं च नारायणद्विट्तदनुबन्धिनिग्रहरूपत्वात् सत्कर्मैवेति भावः ।अविनाशि तु तद् विदि्ध येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति॥१७ ॥
यद्यपीति ॥
इति जीवादीश्वरस्यातिशयं तुशब्दो ज्ञापयतीत्यर्थः । नाशस्यानेकविधत्वं कथम्? कुतश्चेश्वरस्य तदभाव इत्यत आह
अनित्यत्वमिति ॥
अनित्यत्वं स्वरूपनाशः । अत्र विष्णुवाचकाभावात्कथमुच्यते विष्णोरित्यतो येन सर्वमिदं ततमित्येतदेव तद्वाचकमिति भावेनैतच्छ्रुत्यैव व्याचष्टे
देशत इति ॥
१७ ॥अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोप्रमेयस्य तस्माद् युद्ध्यस्व भारत॥१८ ॥
अन्तवन्त इति ॥
तत्रैकस्य शरीरिणो देहनाशमात्रम् उच्यत इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे
शरीरिणामिति ॥
ईश्वरः सर्वप्रकारेणाविनाशी । शरीरिणां तु नित्यत्वमात्रमेवास्ति । न तु सर्वप्रकारेणाविनाशित्वम् । देहहान्यादिसद्भावात् । अतोऽस्ति जीवादीश्वरस्यातिशय इति भावः ।य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥१९ ॥
य एनमिति ॥
तत्र जीवस्य देहवियोगादौ कथमपि कर्तृत्वं नास्तीत्यन्यथाप्रतीतिनिरासायाह
य एनमिति ॥
य एनं जीवं स्वातन्त्र्येण देहवियोगकर्तारं पश्यति, यश्चैनं जीवं जीवान्तरेण स्वातन्त्र्येण देहाद्वियोजितं पश्यति तावुभौ न विजानीत इत्येवं व्याख्यायेम् । न तु पारतन्त्र्येणापि जीवस्य हन्तृत्वादिकं पश्यन् न जानातीत्यर्थः । कुतोऽन्योऽर्थो न स्यादित्यत आह
अन्यथेति ॥
जीवस्य पारतन्त्र्येणापि हन्तृत्वाभावे ‘मया हतांस्त्वं जहि’ इतीश्वराधीनतया जीवस्य हन्तृत्वोक्तिविरोधः स्यादित्यर्थः ।न जायते म्रियते वा कदाचि- न्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोयं पुराणो न हन्यते हन्यमाने शरीरे॥ २० ॥
जीवेति ॥
नेदं भगवद्वाक्यं, येन पुनरुक्तिः स्यात् । किन्तु यदुक्तं स्वयं जीवेश्वरयोरुत्पत्तिविनाशराहित्यम्, ईश्वरस्य शरीरतोऽप्युत्पत्त्याद्यभावेन स्वातन्त्र्यं, जीवस्य स्वरूपतो जन्मादिशून्यस्यापि देहोत्पत्त्यादिनाऽस्वातन्त्र्यं तत्र प्रमाणत्वेन मन्त्रवर्णोऽयमुदाह्रियत इति भावः ।वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम्॥२१ ॥
वेदेति ॥
तत्राविनाशिनित्यपदयोः पौनरुक्त्यपरिहारायार्थभेदमाह
अविनाशिनमिति ॥
जीवस्य समीपोक्तत्वादेनमित्यस्य जीवविषयत्वप्रतीतिनिरासायाह
एनमिति ॥
समस्तश्लोकं श्रुत्यैव व्याचष्टे
कर्तृत्वमिति ॥
जानन् अविनाशित्वादिहेतुनेति शेषः । कर्ता कर्तृत्वाभिमानी । जीवस्य समीपोक्तत्वात्तद्विषयोऽयं श्लोकः किं न स्यादित्यत आह
अन्यथेति ॥
ईश्वरस्य शरीरापायरहितत्वात् तत्परत्वे शक्यते पुनरुक्तिपरिहारः । न तु जीवपरत्वे । तस्य देहनाशसद्भावात् । अतः पुनरुक्तिविरोधात् समीपोक्तमपि जीवं विहायेश्वरग्रहणं युक्तमिति भावः ॥ २१ ॥वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि तथा शरीराणि विहाय जीर्णा- न्यन्यानि संयाति नवानि देही॥ २२ ॥
जीवस्येति ॥
शरीरयोगवियोगयोः कौमारादिवच्छोककारणत्वाभावोऽङ्गीकृतश्चेत्तर्हि जनिमृती अपि न शोककारणम्, यतः शरीरयोगवियोगावेव जनिमृती इत्यर्थः ॥ २२ ॥'नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । नचैनं क्लेदयन्त्यापो न शोषयति मारुतः॥२३ ॥
कारणतोऽपीति ॥
अन्यथात्वं॥
छेदादि ॥ २३ ॥अच्छेद्योयमदाह्योयमक्लेद्योशोष्य एव च । नित्यः सर्वगतस्थाणुरचलोयं सनातनः॥२४ ॥
अच्छेद्यत्वेति ॥
ननु ‘नित्यः सर्वगतः’ इति नित्यत्वं पुनः किमर्थमुच्यते । अत्र सर्वगतवस्तुप्रतिपादनात् कथं चास्य जीवविषयत्वम् ? न चायमर्ध ईश्वरविषयः । जीवस्य समीपोक्तत्वादित्यत आह
नित्यमिति ॥
नित्यं सर्वगतस्थाणुरित्यर्थः । कः सर्वगतः? किं च तत्स्थत्वमित्यत आह
सर्वगत इति ॥
नात्र नित्यत्वं सर्वगतत्वं चोच्यते । येन पुनरुक्तिरीश्वरविषयत्वं चाशङ्क्येत । किन्तु जीवस्यापीश्वरवदच्छेद्यत्वादिसद्भावे सर्वसाम्यम् । तथाच किं तत्पूजया इत्यतो नित्यं तदधीनत्वाद्येवोच्यत इति भावः । सर्वगतस्थाणुत्वोक्त्या वैषम्यहेतुर्दर्शितः ।अव्यक्तोयमचिन्त्योयमविकार्योयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि॥२५ ॥
सर्वेति ॥
देहित्वेऽव्यक्तत्वं कथं युज्यत इत्याशङ्क्य तत्परिहारत्वेनाचिन्त्यपदं व्याचष्टे
कथमिति ॥
अचिन्त्यशक्तेः प्रतिबन्धे नाशे वा सति प्रतीतिप्रसङ्ग इत्याशङ्कापरिहारायाविकार्यपदं व्याचष्टे
न चेति ॥
नन्वेकेनैव शब्देन पूर्तेः किमर्थं नैनमित्यत्र प्रति प्रत्येनमिति वचनम् । ‘अव्यक्तोऽयम्’ इत्यत्र प्रति प्रतिविशेषणम् ‘अयम्’ इति वचनं च किमर्थमित्यत आह
यानीति ॥
आदिपदेन नञो ग्रहणम् । अनेन प्रतिविशेषणमपि वीप्सारूपेण ‘एनम्’ इत्यादिबहुशब्दयोजनां सूचयति । एवं चेज्जीवस्य स्वरूपबाहुल्याभावात् ‘अच्छेद्योऽयम्’ इति पृथग्वचनं व्यर्थमित्यत आह
जीवे त्विति ॥
जीवे पृथग्वचनमिति शेषः ।अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैनं शोचितुमर्हसि॥२६ ॥
तिष्ठत्विति ॥
‘अथ च’ इत्यस्यार्थस्तिष्ठत्विति । तथापीत्यनूद्य तावन्मात्रज्ञानेनापीति व्याख्यानम् । नित्यपदस्य नियमवाचित्वे मानाभावात्कथं नियमेनेति व्याख्येत्यत आह
नित्यमिति ॥
एवं नित्यपदस्योभयार्थत्वे नियमार्थग्रहणे को हेतुरित्यत आह
अत्र त्विति ॥
एतच्छ्लोकार्थविवरणात्मकोत्तरश्लोके नित्यपदस्य ध्रुव इति विवृतत्वादित्यर्थः ॥ २६ ॥अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना॥२८ ॥
आश्चर्यवत् पश्यति कश्चिदेनमाश्चर्यवद् वदति तथैव चान्यः । आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद नचैव कश्चित्॥ २९ ॥
किं तर्हीति ॥
नन्वत्राश्चर्योऽन्य एव, ईश्वरस्तु तत्सदृश एव, न स्वयमाश्चर्य ति प्रतीतेः कथमाश्चर्यो भगवानेवेत्युच्यत इत्यत आह
आश्चर्यमिति ॥
आश्चर्यवदित्यनेन नेश्वरस्यानाश्चर्यत्वमभिप्रेयते किन्त्वाश्चर्यस्यैव सत आश्चर्योपमत्वमुच्यत इति भावः । एवमपि भगवदितरस्य स्वातन्त्र्यमङ्गीकार्यम् । तस्यैव स्वतन्त्रतायामाश्चर्यवदित्युक्त्यसम्भवात् । स्वोपमायाः क्वाप्यदर्शनात् । तथाच भगवानेवेत्यवधारणायोग इत्यत आह
गगनमिति ॥
इतिवत्स्वोपमाभिधानमुखेन भगवदितरस्य स्वातन्त्र्याभावे तात्पर्यमत्रेति भावः ।
सागरं
सागरसमूहः ।देही नित्यमवध्योयं देहे सर्वस्य भारत । तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि॥३० ॥
देहीति ॥
जीवो नित्य इत्युक्तम् । तत्र किं स्वत एव नित्योऽथेश्वरसामर्थ्येन? नाद्यः । सर्वं परमेश्वराधीनमित्यभिमतविरोधात् । न द्वितीयः । नित्यत्वस्य स्वाभाविकत्वेनेश्वराधीनत्वानुपपत्तेरिति भावः । एतत्परिहाराय देहीति श्लोकं व्याचष्टे
यस्मादिति ॥
देहे रक्षकत्वेन स्थितश्चेत् प्रलयादौ नाशः स्यादित्यत उक्तम्
सूक्ष्म इति ॥
सूक्ष्मदेहपदेन लिङ्गशरीरं चैतन्यशरीरं चोच्यते । नित्यत्वादेः स्वाभाविकत्वात् कथमीश्वराधीनत्वमित्यत आह
द्रव्यमिति ॥
स्वाभाविकत्वेऽपि नित्यत्वादेरीश्वराधीनत्वं युज्यते । स्वभावस्यापि भगवदधीनतया स्मृतिसिद्धत्वादिति भावः । जीवसत्ताया भगवदधीनत्वे चेयं स्मृतिः प्रमाणम् । तथापि जीवे स्थित्वा तद्रक्षक ईश्वर इति विशेषः कुत इत्यत आह
तत्रेति ॥
॥ततः
तदधीने ।
तत्
तस्मात्तन्नियन्तृत्वात् । भावाभावयोरपि नित्यानित्याबहिर्भावात् ॥ ३० ॥हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः॥३७ ॥
‘‘हतो वा’ इति ॥
तत्र ‘हतो वा प्राप्स्यसि स्वर्गम्’ इत्यत्रेव ‘जित्वा वा भोक्ष्यसे महीम्’ इत्यत्रापि महीमात्रं न स्वर्ग इत्यन्यथाप्रतीनिरासायाऽह
जित्वेति ॥
‘युद्धे मृत एव स्वर्गं प्राप्स्यसि, जित्वा महीमेव भोक्ष्यसे’ इति प्रतीत एवार्थः किं न स्यादित्यत आह
य इति ॥
ये शूराः युद्धेषु युध्यन्ति, ये च तत्र म्रियन्ते, ये च सहस्रसङ्ख्यासङ्ख्यातधनदक्षिणादातारः तानेवायं प्रेतोऽपि गच्छतादिति यमं प्रति प्रेतस्य स्वर्गप्रार्थनाज्जयेऽपि स्वर्गप्राप्तिः श्रूयते । अतो न प्रतीत एवार्थ इति भावः ॥ ३७ ॥एषा तेभिहिता साङ्ख्ये बुदि्धर्योगे त्विमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि॥३९ ॥
‘एषा’ इति ॥
तत्र साङ्ख्ययोगशब्दौ दर्शनविशेषपराविति प्रतीतिनिरासाय तदर्थं सप्रमाणकमाह
सम्यगिति ॥
अत्र दर्शनविशेषपरत्वमेवैतच्छब्दयोः किं न स्यादित्यत आह
ब्रह्मतर्क इति ॥
अत्रोक्तयोः साङ्ख्ययोगयोर्बुद्ध्या युक्त इति प्रशस्तत्वादितरयोर्निन्दितत्वान्न तावत्रोक्ताविति भावः । इतोऽपि न साङ्ख्यपदेनात्र प्रसिद्धसाङ्ख्यं विवक्षितमित्याह
साङ्ख्यस्येति ॥
अत्र साङ्ख्यपदेन प्रसिद्धसाङ्ख्यग्रहणे साङ्ख्योक्तमभिहितमित्युक्तं स्यात् । न च तद्युक्तम् । अत्र ‘न जायते’ इत्यादावीश्वरस्योक्तत्वात्, साङ्ख्यस्य निरीश्वरत्वात् । अतश्च नात्र साङ्ख्यं शास्त्रविशेष इत्यर्थः । इतोऽपि नात्र साङ्ख्ययोगशब्दौ प्रसिद्धशास्त्रपरावित्याह
साङ्ख्यैरिति ॥
अत्र
पूर्वोत्तरप्रकरणयोः । साङ्ख्यादिभिः पारत्रिकानर्थहेतुत्वमेव हिंसाया अङ्गीक्रियते । न त्वैहिके । अत्र पुना राज्यार्थमेव हिंसा विधीयते । अतो न विरोध इत्यत आह
मोक्षेति ॥
साङ्ख्ययोगशब्दयोः सोपपत्तिकमर्थान्तरं चाह
परमेति ॥
पूर्वोत्तरप्रकरणोक्तार्थप्रतिपादकत्वादित्यर्थः । न विरोधोऽत्र तदुक्तग्रहण इति शेषः ॥ ३९ ॥नेहाभिक्रमनाशोस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥४० ॥
‘नेह’ इति ।
तत्र योगातिक्रमे नाशः प्रत्यवायश्च नास्तीत्यन्यथाप्रतीतिनिरासाय पूर्वार्धं स्मृत्यैव व्याचष्टे
प्रारम्भेति ॥
तमेव विष्णुधर्मं स्मृत्या दर्शयति
स्वोचितेनेति ॥
प्रवृत्तिर्विहितकरणमप्रवृत्तिर्निषिद्धपरित्यागश्चान्यविषये नानुष्ठीयत इत्यर्थः । तस्मिन् धर्मेऽधिकारिकालप्रमाणान्याह
एनमिति ॥
तमेव विवृणोति
तदिति ॥
कार्तयुगत्वे त्रेतादिषु न फलप्रदोऽनध्यायाधीतवेदवदित्यत आह
त्रेतेति ॥
कार्तयुगत्वोक्तिस्तत्र प्राचुर्येण सम्भवाभिप्रायेणेति भावः । किमस्य फलं यत् त्रेतादिष्वधिकं स्यादित्यत आह
एवमिति ॥
कथं स एव मुच्यते? त्रैविद्यस्यापि मोक्षसद्भावादित्यतः त्रैविद्यधर्मस्वरूपमुक्त्वा तद्वतो मोक्षाभावमाह
त्रैविद्य इति ॥
त्रैविद्यस्यापि भगवज्ज्ञानादिसद्भावात्तस्यैव मोक्षहेतुत्वात्कथमसौ स्वर्गं भुक्त्वा निवर्तत इत्यत आह
सम्यगिति ॥
किं तस्य कदापि न मोक्ष इत्यतः स्वर्गगमनावधिकथनेनैवार्थतः सिद्धमर्थं स्फुटमाह
क्रमेणेति ॥
अन्ते समर्पयन् त्रैविद्यो यदि नियमात् प्रत्येकं सर्वाणि समर्पयतीत्यर्थः । त्रय्युक्तकर्मकरणमात्रेण त्रैविद्यो भवेत्, किं भगवत्सर्वोत्तमत्वज्ञानादिनेत्यत आह
परमिति ॥व्यवसायात्मिका बुदि्धरेकेह कुरुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोव्यवसायिनाम्॥४१ ॥
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुदि्धः समाधौ न विधीयते॥४४ ॥
अव्यवसायेति ॥
तत्परिहाराय ‘याम्’ इति श्लोकान् योजयति
यामिति ॥
समाधान इति निश्चयस्य तत्त्वविषयतया दार्ढ्यमुच्यते । ‘समाधानाभावे च न विष्णुधर्मानुष्ठानम्’ इति वाक्यशेषः ।त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्॥४५ ॥
‘त्रैगुण्य’ इति ॥
तत्र वेदानां त्रैगुण्यविषयत्वात् तान् परित्यज्य निस्त्रैगुण्यो भवेत्यन्यथाप्रतीतिनिरासायाह
त्रैगुण्येति ॥
‘यापयन्ति’ इत्यस्य ‘प्रापयन्ति’ इत्यन्यथाप्रतीतिनिरासायाह
अपगमयन्तीति ॥यावानर्थ उदपाने सर्वतः सम्प्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः॥४६ ॥
‘यावान्’ इति ।
तत्रोदपानशब्दं, सर्वतः संप्लुतोदकशब्दं च स्मृत्यैव व्याचष्टे
उद्रेकादिति ॥
सर्वकार्याणां प्रलीनत्वात् कथं सर्वतः संप्लुतोदकशब्दार्थतया प्रलयो गृह्यत इत्यत आह
प्रकृतिरिति ॥कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोस्त्वकर्मणि॥४७ ॥
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते॥४८ ॥
दूरेण ह्यवरं कर्म बुदि्धयोगाद् धनञ्जय । बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः॥४९ ॥
बुद्धाविति ॥
तत्रैतच्छङ्कापरिहारः कथमुक्त इत्यत आह
बुद्धाविति ॥
अस्मिन्नेवार्थे स्मृतिसम्मतिं दर्शयंस्तयैवोत्तरपादमपि व्याचष्टे
अज्ञानामिति ॥
फलहेतुपदव्याख्यानं ‘तं ये स्वैक्येन’ इत्यादि पूर्ववत् । कृपणाः कृपाऽविषयाः । तत्र हेतुमाह
तमसीति ॥
४९ ॥कर्मजं बुदि्धयुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्॥५१ ॥
श्रुतिविप्रतिपन्ना ते यथा स्थास्यति निश्चला ॥ समाधावचला बुदि्धस्तदा योगमवाप्स्यसि॥ ५३ ॥
यदेति ॥
तत्र निर्वेदपदेन वैराग्यमुच्यत इत्यन्यथाप्रतीतिनिरासायाह
निर्वेदमिति ॥
एतच्छ्लोकार्थविवरणपूर्वकं बुद्धिमोहतरणपदोक्तज्ञानफलमुच्यते
श्रुतीति ॥
एतच्छ्लोकद्वयं स्मृत्यैव व्याचष्टे
बुद्धीति ॥
श्रोतव्यश्रुतपदं सर्वकर्मोपलक्षकम् । समाधानेन श्रुत्यर्थज्ञाननिश्चयत्वेनापरोक्षज्ञानं भवति । अनेन ‘समाधावचला’ इति समाधौ सत्यपरोक्षज्ञानं तेन विष्णावचलेति व्याख्यातं भवति । तद्योगं भगवद्योगम् । भगवद्योगस्य सर्वेषामपि विद्यमानत्वात् को विशेष इत्युक्तं विवृणोति
मुक्त इति ॥
तदश्नुते ब्रह्माऽप्नोतीत्यर्थः । अत्रापि यदा तदेति सम्बध्यते । नन्वत्र ‘श्रुतिविप्रपतिपन्ना’ इति श्रुतिविरुद्धत्वमुच्यते । तत्कथं श्रुतिमार्गं प्रपन्नेति व्याख्येत्यत आह
श्रुताविति ॥
५२ ॥ ५३ ॥स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्॥५४ ॥
स्थितेति ॥
तत्र ‘का भाषा’ इत्येतदन्यथाप्रतीतिनिरासाय व्याचष्टे
केति ॥
ननु ज्ञानीति भाष्यत इति सिद्धत्वात्किं प्रश्नेनेत्यत आह
कैरिति॥
ए‘समाधिस्थस्य’ इत्यस्य समाधिं कुर्वतो ज्ञानिनो लक्षणादि पृच्छत इत्यन्यथाप्रतीतिनिरासायार्थमाह
समाधीति ॥
५४ ॥प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते॥५५ ॥
प्रजहातीति ॥
तत्र ज्ञानिनः सर्वकामप्रहाणं नाम निषिद्धानिषिद्धसर्वकामप्रहाणमित्यन्यथाप्रतीतिनिरासाय तत्स्मृत्यैव व्याचष्टे
सर्वेति ॥
कुतो न ज्ञानिनः सर्वकामनिवृत्तिः, यतः सर्वशब्दसङ्कोचः क्रियत इत्यत आह
अपरोक्षेति ॥
ज्ञानिनः कदाचिन्निषिद्धकामनिवृत्तिरपि नास्ति । कुतः सर्वकामनिवृत्तिरित्यर्थः । तर्हि ज्ञानस्याभिभवकाले ज्ञानिलक्षणाभावाज्ज्ञानित्वाभावः प्रसज्यत इत्यतः सत्यमित्याह
अत इति ॥
निषिद्धकामराहित्यस्य ज्ञानानभिभवकाल एव सत्त्वादित्यर्थः ।विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोप्यस्य परं दृष्ट्वा निवर्तते॥५९ ॥
‘विषयाः’ इति ॥
तत्र रसशब्दस्यापूर्वमर्थमाह
रस इति ॥
५९ ॥क्रोधाद् भवति सम्मोहः सम्मोहात् स्मृऽतिविभ्रमः । स्मृऽतिभ्रंशाद् बुदि्धनाशो बुदि्धनाशाद् प्र(वि)नश्यति ॥६३ ॥
‘ध्यायत’ इति ।
तत्र संमोहस्मृतिविभ्रमपदाभ्यां विपरीतज्ञानमेवोच्यते । अतः कथं हेतुहेतुमद्भाव इत्यत आह
संमोहादिति ॥
अत्र संमोहपदेन परवित्तापहरणाद्यधर्मे धर्मबुद्धिरित्यादिमिथ्याज्ञानमुच्यते । स्मृतिविभ्रमपदेन च परवित्तापहरणादेरधर्मत्वाभिधायकश्रुत्याद्यर्थस्य पूर्वं स्वयं ज्ञातस्याप्यन्यथास्मरणमुच्यते । तयोश्च हेतुहेतुमद्भावस्सम्भवतीति भावः । स्मृतिभ्रंशाद्बुद्धिनाश इति दुर्घटम् । चेतनस्य बुद्ध्यविनाभावित्वेन बुद्धेर्नाशायोगादित्यत उक्तं विवृण्वन्नाह
वाक्येति ॥
निर्णीतं॥
केवलवाक्यसापेक्षतां विनापि निश्चितम् । न तु ज्ञानमात्रमिति भावः ॥ ६३ ॥नास्ति बुदि्धरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्॥६६ ॥
शान्तिरिति
॥ ६६ ॥या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः॥६९ ॥
या निशेति ।।
तत्र सर्वप्रेरकाणां देवानामपि ज्ञानित्वाज्ज्ञानिनां परमात्मेतरादर्शने लोकयात्रोच्छेदः स्यादित्यतस्तद्वाक्यं देवेतरज्ञानिविषयतया स्मृत्यैव व्याचष्टे
देवेभ्य इति ॥
‘यथाऽन्यैः’ इत्यनेन पूर्वार्धतात्पर्यमुक्तं भवति । यथाज्ञैर्ब्रह्म न ज्ञायत इत्यर्थः ॥
सूर्यवदिति ॥
सूर्यो यथा स्वतेजसा सर्वं प्रकाशयत्येवं स्वज्ञानेन सर्वं विषयीकुर्वन्तीत्यर्थः ॥ ६९ ॥आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी॥ ७० ॥
आपूर्यमाणमिति ॥
तत्स्मृत्यैव व्याचष्टे
भुञ्जान इति ॥
धर्ममयीं धर्माख्याम् । विषयभोक्ता न कामी कथमुच्यत इत्यत उक्तस्य ‘न कामकामी’ इत्यस्यार्थो नासाविति । ननु कामाभावे विषयभोगासम्भवात् कथं ज्ञानिनः कामाभावो मोक्षसिद्ध्यर्थमुच्यत इत्यतोऽत्र कामपदेन निषिद्धेच्छैवाभिप्रेता । तस्या एव मोक्षविरोधित्वात् । नेच्छामात्रं तस्य मोक्षाविरोधित्वादित्याह
केति ॥
कुत्सितेयमिति मानं यद्विषयं सैवेच्छा काम इत्यर्थः। इतश्च ‘न कामकामी’इत्यत्र नेच्छामात्रनिषेध इत्याह
न चेति ॥
ननु शान्तिशब्दस्य भगवन्निष्ठावाचित्वात् कथं स मुच्यत इति व्याख्येत्यतो भगवन्निष्ठासम्बन्धादेव मोक्षोऽपि शान्तिशब्दाभिधेय इति स्मृत्यैवाऽह
शान्तिरिति
॥ ७० ॥विहाय कामान् यः सर्वान् पुमांश्चरति निःस्पृहः । निर्ममो निरहङ्कारः स शान्तिमधिगच्छति॥७१ ॥
विहायेति ।
तत्र कामपदेन यदीच्छा गृह्यते तर्हि निःस्पृह इति पुनरुक्तिः । यदि विषयास्तर्हि विषयत्यागे किं भक्षयति । निःस्पृहत्वं च कथं युज्यते । सर्वकामनिवृत्तिरिति वचनविरोधात् । जीवनाद्यभावप्रसङ्गाच्चेत्यत आह
निषिद्धेति ॥
सर्वकामपदेन विषयाणां ग्रहणान्न पुनरुक्तिदोषः । नापि चरणासम्भवः । अत्र निःस्पृह इत्यनेन विषयाणां स्वरूपतो हानमन्तरेण स्पृहाभावमात्रेण हानस्याभिप्रेतत्वात् । नापि स्मृतिवचनादिविरोधः । निःस्पृह इति निषिद्धविषयस्पृहाभावस्य विवक्षितत्वादिति भावः ॥एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेपि ब्रह्म निर्वाणमृच्छति॥७२ ॥
एषेति ।
तत्र ब्राह्मीति ब्रह्मधर्मभूतेति प्रतीतिनिरासायाह
ब्राह्मीति ॥
ननु ‘क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे’ इत्यादेर्ज्ञानमात्रेण सर्वकर्मणां क्षयाज्ज्ञानानन्तरमेव मोक्षसद्भावेन ‘स्थित्वाऽस्याम्’ इत्यन्तकाले भगवत्स्मृत्यादिविधानं ब्रह्मप्राप्त्यर्थं किमिति क्रियत इत्यत आह
ज्ञानिनामिति ॥
ज्ञानिनामपि यद्यन्तकाले भगवत्स्मरणादिकं नास्ति तर्हि जन्मान्तरमेव भवति । न ब्रह्मप्राप्तिः । अतस्तदर्थमन्तकाले तत्स्मरणादिविधानं युक्तमेव । न च ज्ञानिनः क्षीणकर्मत्वाज्जन्मान्तरायोगः । ज्ञानमात्रेणाप्रारब्धकर्मनाशेऽपि येषामन्तकालेऽपि न भगवत्स्मरणं तेषां प्रारब्धकर्मभावादिति भावः ।अध्याय 3
ज्यायसी चेत् कर्मणस्ते मता बुदि्धर्जनार्दन । तत् किं कर्मणि घोरे मां नियोजयसि केशव॥१ ॥
ज्ञानमिति ॥
‘एषा तेऽभिहिता’ इत्यन्तेन ज्ञायत इति ज्ञानमीश्वरादिस्वरूपं निरूपितम् । ततोऽध्यायपरिसमाप्तिपर्यन्तं तत्स्वरूपज्ञानोपायश्चोक्तः पूर्वाध्याय इत्यर्थः। तत्सङ्गतत्वेनैतदध्यायार्थमाह
तत्रेति ॥
तयोर्ज्ञानयोगयोर्मध्ये योगोऽपि द्विविधो भवति । कर्मध्यानयोगभेदात् । तत्र प्रागुक्तमेव कर्मयोगं प्रपञ्चयत्यनेनाध्यायेन भगवानित्यर्थः । ननु ‘कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा’ इत्यादिना पूर्वत्रापि कर्मयोगस्य प्रपञ्चितत्वात् किमनेनाध्यायेनेत्यत उक्तम्
विशेषत इति ॥
नन्वत्रापि ‘इन्द्रियाणि पराणि’ इत्यादिना ज्ञानस्याप्युक्तेः कथं कर्मयोगं प्रपञ्चयतीत्युच्यत इत्यतो वाऽह
विशेषत इति ॥
प्राचुर्येणेत्यर्थः ।व्यामिश्रेणैव वाक्येन बुदि्धं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोहमाप्नुयाम्॥२ ॥
ज्ञानेति ॥
नात्र ज्ञानयोगपदेन ज्ञानमात्रं विवक्षितं, कर्मयोगपदेन च कर्ममात्रमुच्यते । किन्तु प्रत्येकमुभयम् । तर्ह्युभावपि ज्ञानकर्मयोगाविति वक्तव्यौ । कथं कश्चिज्ज्ञानयोगः कश्चित्कर्मयोग उच्यत इति चेन्न । एकैकत्र ज्ञानकर्मणोः प्राचुर्याभिप्रायेणाल्पजलमिश्रेऽपि क्षीरे क्षीरशब्दप्रयोगवत् प्रयोगोपपत्तेरिति भावः ।न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः॥५ ॥
कर्तृत्वमिति ॥
अत्र गुणानां विकारिकर्तृत्वमेवोच्यते । न तु स्वतन्त्रकर्तृत्वम् । अवश इति विष्णोः स्वतन्त्रकर्तृत्वोक्तेः । अवशपदेन स्वानधीनत्वं गृहित्वा गुणानां स्वतन्त्रकर्तृत्वमेव किं न गृह्यत इति चेन्न । ‘कर्तृत्वम्’ इति श्रुतिविरोधादिति भावः । श्रुतिरिति कुत्रचित्पाठः । तत्रान्यथाप्रतीतिनिरासाय श्रुत्यैव व्याख्यातं विष्णोः स्वतन्त्रकर्तृत्वमत्र न प्रतीयत इत्यत उक्तम्
अवश इति ॥
अवशपदं कथं विष्णुवशत्वं वक्तीत्यत आह
अः इति ॥
५-८ ॥यज्ञार्थात् कर्मणोन्यत्र लोकोयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर॥९ ॥
कर्मणेति ॥
अयज्ञार्थं कर्म बन्धकमित्येवात्र प्रतीयते, न त्ववैष्णवं कर्म बन्धकमित्यतो यज्ञशब्दार्थं श्रुत्यैवाह
ज्ञ इति ॥
नात्र यज्ञपदेन प्रसिद्धयज्ञ उच्यते । अपि तु यातो विषयीकृतो ज्ञानरूपत्वाज्ज्ञो भगवान् येनोद्देशेन स एवेत्यर्थः । य एष उद्देश इति योजना ॥ ९ ॥अन्नाद् भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः॥१४ ॥
‘अन्नादिति’ ।
तत्र कथमन्नस्य पर्जन्याद्देवविशेषादुत्पत्तिः । कथं च तस्य यज्ञादुत्पत्तिः । कथं चान्नादिति परम्पराया एवोक्तत्वात् चक्रमित्युच्यत इत्याशङ्कां परिहर्तुं ब्रह्माक्षरशब्दयोरन्यार्थकल्पनां च निराकर्तुं स्मृत्यैव व्याचष्टे
जननादिति ॥
परं जन्यं यस्यासौ तथोक्तः ।
यज्ञादिति ॥
यज्ञसमाराधितदेवताया भवतीत्यर्थः । यज्ञो देवतोद्देशेन द्रव्यपरित्यागः । कर्म तदितरक्रिया । वाक्याज्जायते । कथं नित्यो जायते गम्यते अवगम्यत इत्यर्थः । वेदेन यथावदवगत एवेश्वरः सत्कर्म कारयतीति भावः । यत एवं परम्परया यज्ञाभिव्यङ्ग्यस्तस्मात् । भगवतो यज्ञे प्रतिष्ठितत्वाद्यज्ञानुष्ठानेन चक्रप्रवृत्तौ भगवदभिव्यक्तिनिमित्तं च सुकृतं भवति, न केवलं भूतस्थितिहेतुत्वं निमित्तमिति भावः ॥
चक्रं नानुवर्तयतीति ॥
कर्म न करोतीत्यर्थः ।यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते॥१७ ॥
यस्त्विति ॥
तत्र ‘सन्तोषस्तृप्तिरापूर्तिः’ इत्यादेस्तृप्तिसन्तोषशब्दयोरेकार्थत्वात् ‘आत्मतृप्तः’ इत्युक्तत्वात् ‘आत्मन्येव च सन्तुष्टः’ इति पुनरुक्तिरित्यत आह
तृप्तीति ॥
विशेषोऽर्थ इति शेषः । कुत एवमर्थकल्पनेत्यतः श्लोकं स्मृत्यैव व्याचष्टे
विष्ण्विति ॥
एवं तृप्तिसन्तोषशब्दयोरेकार्थत्वमङ्गीकृत्य विग्रहभेदेनार्थभेद उक्तः । अथ तृप्तिसन्तोषशब्दयोरेवार्थभेदाच्च न पुनरुक्तिरिति भावेन तयोरर्थभेदे प्रमाणमाह
रतिरिति ॥
आनन्दः
स्वरूपभूतः । कर्मज उपकारादिजातः । रतितृप्तिप्रीतिशब्दानां भिन्नार्थत्वे किमायातं तृप्तिसन्तोषशब्दयोरर्थभेद इत्यतः प्रीतिसन्तोषशब्दयोः पर्यायत्वात् तृप्तिप्रीतिशब्दयोरर्थभेदे तृप्तिसन्तोषशब्दयोरर्थभेदः सिद्ध एवेति भावेन तत्पर्यायत्वे प्रमाणमाह
सन्तोष इति ॥
पर्यायवाचकाः
पर्यायेण वाचकाः ॥ १७ ॥तस्मादसक्तः सततं कार्यं कर्म समाचर । असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः॥१९ ॥
यस्मादिति ॥
यथा मुक्तस्य प्रयोजनाभावात्कार्याभावः एवं मुमुक्षोरपि कर्मणा प्रयोजनाभावात् कार्याभावः किं न स्यादित्यत उच्यते
असक्त इति ॥
तत्र कर्मणैव मोक्षप्राप्तिरुच्यत इत्यन्यथाप्रतीतिनिरासाय तद्व्याचष्टे
असक्त इति ॥
कर्माऽचरन्नेवेत्येवार्थो न तु कर्मैवाचरन्निति भावः । तस्मादमुक्तस्य कर्मणा फलसद्भावादस्त्येव तस्य कार्यमिति वाक्यशेषः ।कर्मणैव हि संसिदि्धमास्थिता जनकादयः । लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्हसि॥२० ॥
कर्मणैवेति ॥
तत्र कर्मणैव मोक्ष उच्यत इत्यन्यथाप्रतीतिनिरासाय तत्स्मृत्यैव व्याचष्टे
सहैवेति ॥
कार्यं कर्म ज्ञानिनोऽपीति शेषः । कर्म कर्तव्यमित्यत्र हेत्वन्तरमुच्यते
लोकेति ॥
तत्र लोकसङ्ग्रहसम्भवेऽपि तेन प्रयोजनाभावात्कथं ज्ञानिनो लोकसङ्ग्रहार्थं कर्म विधीयत इत्यतो लोकेत्यादिश्लोकान् स्मृत्यैव व्याचष्टे
अज्ञानामिति ॥
सा
तुष्टिः ॥ २० ॥न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि॥२२ ॥
ममैवेति ॥
नन्वीश्वरः प्रयोजनाभावेऽपि लोकरक्षादि करोतीति न युज्यते । प्रयोजनाभावे प्रवृत्त्ययोगादित्याशङ्कां श्रुत्यैव परिहरति
रक्षयेति ॥
प्रयोजनाभावेऽपीश्वरस्य कर्तृत्वस्वभाववत्त्वाद् रक्षादिसर्वकर्मकरणं युक्तमित्यर्थः । ननु तादृशस्वभावत्वेन प्रवृत्तिरचेतनेष्वेव दृष्टा । यथा दहनपवनादीनां प्रयोजनं विना स्वभावादेव दहनगमनादिप्रवृत्तिः । चेतनप्रवृत्तेः प्रयोजनहीनाया अदर्शनात्कथमीश्वरस्यापि प्रयोजनानुद्देशेन प्रवृत्तिरित्यत आह
मत्त इति ॥
॥२२ ॥मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युद्ध्यस्व विगतज्वरः॥३० ॥
‘प्रकृतेः’ इति ।
विद्वदविद्वत्कर्मविशेषमुक्त्वा विद्वत्कर्मकरणं विधीयते
‘मयि’ इति ।
तत्र कर्माणि सन्न्यस्य युध्यस्वेति व्याहतमित्यतः तत्स्मृत्यैव व्याचष्टे
नाहमिति ॥
‘नाहं कर्ता’ इति निर्ममत्वम् । ‘हरिः कर्ता तत्पूजा कर्म चाखिलम्’ इति हरौ कर्मन्यासः। हरिरेव कर्ता चेत्कथं तत्पूजेत्यादिनिरूपणं युक्तमित्यत आह
तथापीति ॥
यद्यपि हरिरेव कर्ता, तथापि तत्प्रेरणेनैव ममापि कर्तृत्वात् तत्पूजेत्यादिनिरूपणं युक्तमिति भावः ।
तद्भक्तिरिति
निराशीस्त्वम् ।
तत्फलं
पूजाफलम् । कर्मन्यासो निर्ममत्वादियुक्तः विष्णोस्तृप्तिकर इत्यनेन ‘‘ये मे मतम्’’ इत्यादेस्तात्पर्यमुक्तं भवति । एवं निर्ममत्वादियुक्तेन हरौ कर्मन्यासेन कुतो विष्णोस्तृप्तिरित्यत आह
यस्मादिति ॥
यस्मादेवमर्थस्थितिः तस्मात्तथा भावनं विष्णोस्तृप्तिकरं भवत्येव । यथार्थज्ञानप्रियत्वाद्विष्णोरिति भावः ।अथ केन प्रयुक्तोयं पापं चरति पूरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः॥३६ ॥
‘अथ’ इति ॥
तत्र ‘प्रकृतेः’ इत्यादौ भगवतः प्रेरकत्वस्योक्तत्वात्, स्वयं देवत्वेन देवानां प्रेरकत्वस्यापि ज्ञातत्वात्, ‘इन्द्रियस्य’ इति कामाद्यधमानां प्रेरकाणां च कथितत्वात् सिद्धप्रश्नोऽयमित्यत आह
परमेश्वरादिति ॥
अर्वाक्तनं बलवन्तमिति शेषः । प्रश्नवाक्ये नैतदुच्यत इत्यात आह
अथेति ॥
आनन्तर्यवाचिनाऽथशब्देन परमेश्वराद् देवेभ्यश्चानन्तरमित्यर्थो ज्ञायत इति भावः ॥ ३६ ॥काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्॥३७ ॥
अखिलेति ॥
तत्रेति
‘कामः’ इत्यस्य व्याख्यानम् । कामः प्रबल इति योज्यम् ।
‘अशुभेषु’
इत्यनेनैव
‘वैरिणम्’
इत्येतद्व्याख्यातं भवति । कथं कामोऽशुभप्रेरकेषु प्रबल इत्यत आह
सर्वमिति ॥
अग्न्यादर्शगर्भान् यथा धूमाद्यावृणोति तथेत्वर्थः ॥
क्रमादिति ॥
शुभजनं धूमोऽग्निमिव किञ्चिदावृणोतीत्यादि द्रष्टव्यम् । कामश्च तदपेक्षितं दत्त्वा जेतव्य इत्यत आह
महाशनस्येति
॥इंद्रियाणि पराण्याहुरिंद्रियेभ्यः परं मनः । मनसस्तु परा बुदि्धर्यो बुद्धेः परतस्तु सः॥४२ ॥
सर्वेभ्य इति ॥
सर्वेभ्योऽर्थाद्यभिमानिभ्यः । ‘ततो ब्रह्मा’ इत्यादि तु ‘बुद्धेरात्मा महान् परः । महतः परमव्यक्तम् अव्यक्तात् पुरुषः परः । पुरुषान्न परं किञ्चित्’ इति श्रुतिव्याख्यानम् । परमात्मनोऽत्र बुद्धिपरत्वमात्रोक्तावप्यन्यत्रोक्तमत्र संयोज्यमिति ज्ञापयितुमुदाहृतम्ी ॥४२ ॥एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम्॥४३ ॥
न चेति ॥
कुतो न विरोध इत्यत आह
सर्वेति ॥
तर्हि श्रीरव्यक्तस्य, ब्रह्मा महत इत्यादिपृथगभिमन्यमानस्थानोक्तिः लक्ष्म्यादीनां शास्त्रेषु कथमित्यत आह
उत्तरेति ॥
अव्यक्तादीनां क्रमेणाधिकत्वात् तदभिमानित्वोक्त्याभिमानिनामप्युत्तरोत्तराधिक्यं ज्ञापयितुं पृथगभिमन्यमानस्थानान्युच्यन्त इत्यर्थः । किमर्थमुत्तरोत्तराधिक्यं ज्ञाप्यमित्यत आह
आधिक्येति ॥
सर्वेऽपि सर्वाभिमानिन इत्युक्तस्यापवादमाह
स्थानेष्विति ॥
अधमानामुक्तेष्वभिमन्यमानस्थानेष्वभिमानित्वेनोत्तमा वर्तन्ते । न तूत्तमाभिमन्यमानत्वेनोक्तस्थानेष्वधमा इत्यर्थः । एवं चेदव्यक्ताभिमानित्वं सरस्वत्यादीनां पुराणादौ कथमुच्यत इत्यत आह
तथापीति ॥
उपचर्यते, यस्मादिति शेषः ।अध्याय 4
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेब्रवीत्॥१ ॥
उक्तयोरिति ॥
ज्ञानकर्मणोर्मध्येऽन्यतरस्येति प्रतीतिनिरासाय उभयोरित्युक्तम् । कर्मणोऽतीताध्याये विवृतत्वात् किमनेनेत्यतो विशेषेत्युक्तम् । उक्तकर्मयोगे रुचिजननाय पूर्वानुष्ठितोऽयं धर्म इत्युच्यते
‘इममिति’’ ॥
तत्तात्पर्यं स्मृत्यैवाह
ब्रह्मेति ॥
गीता पञ्चरात्रसङ्क्षेपश्चेत्तर्हि तस्याः सर्वोत्तमशास्त्रत्वहानिरित्यतः शब्दत एव सङ्क्षेपो नार्थत इत्याह
यथेति ॥
सर्वपञ्चरात्रार्थत्वे गीतायाः पञ्चरात्रादधमत्वमात्रं मास्तु । तावता सर्वशास्त्रोत्तमत्वं कथमित्यत आह
वेदेति ॥
सर्वशास्त्रेभ्योऽतिशयेन वेदार्थपूरकपञ्चरात्राशेषार्थत्वेन गीतायाः सर्वशास्त्रोत्तमत्वं युक्तमिति भावः ॥ १ ॥अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति॥४ ॥
जानन्तोऽपीति ॥
नैवं प्रश्नेनार्जुनो भगवन्तमनादिनित्यं न जानातीति कल्प्यम् । जानन्तोऽपीति वचनात् प्रश्नस्य विशेषज्ञानाद्यर्थत्वोपपत्तेरिति भावः । स्थापनाय ज्ञातस्य दृढीकरणाय ॥ ४ ॥अजोपि सन्नव्ययात्मा भूतानामीश्वरोपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया॥६ ॥
अत एवेति ॥
यतोऽत्र प्रकृतिपदं स्वभाववाच्यत एव स्वामिति विशेषणं प्रयुक्तम् । केवलमन्यार्थत्वे स्वाधीनत्वस्य ममेत्यसाधारणशब्देनाभिधानं विनोभयसाधारणमेतन्न स्यादित्यर्थः । एतमेव न्यायमन्यत्राप्यतिदिशति
प्रकृतिमिति ॥
इत्यादिषु च स्वशब्देन विशेषणमत एवेत्यर्थः। यदि प्रकृतिपदं स्वभाववाचि तर्हि ‘मयाऽध्यक्षेण प्रकृतिः’,
‘प्रकृतिं विद्धि’
इत्यत्रापि किं स्वभाववाचीत्यपेक्षायामाह
मयेति ॥
अतः स्वभावादन्यैव तत्र प्रकृतिरिति शेषः ।जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोर्जुन॥९ ॥
‘जन्मेति’ ।
तत्रेश्वरजन्मकर्मज्ञानमात्रेण मोक्षो भवतीत्यन्यथाप्रतीतिं निराचष्टे
येषामिति ॥
समुच्चयादेव भवतीति ज्ञातव्यमिति शेषः । शमादीनां समुच्चयादेव ज्ञानं भवतीति ज्ञातव्यम् । पृथक्पृथग्ज्ञानसाधनत्वोक्तावपीत्यर्थः । उक्तो ग्राह्य इति शेषः ॥ ९ ॥वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावमागताः॥१० ॥
‘वीतेति’ ॥
तत्र ‘मन्मयाः’ ‘मद्भावमागताः’ इत्येतदन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे
मयमिति ॥
यद्यपि भगवान् प्रधानो येषां ते भगवन्मया इति साक्षादर्थः । तथापि सर्वेषां भगवान् प्रधानो एव । ज्ञानिनां को विशेष इत्यतः ‘प्राधान्यं यैर्हरेर्मतम्’ इत्युक्तम् । ‘मद्भावमागताः’ इत्यस्यार्थः ‘ते मुच्यन्ते’ इति । मद्भावपदं कथं मोक्षवाचकमित्यत आह
मयीति ॥
मयि भावः सायुज्यादिः ॥ १० ॥ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥११ ॥
‘ये यथा’ इति ॥
तत्र नमन्तं नमतीत्याद्यन्यथाप्रतीतिनिरासायाऽह
तथैवेति ॥
न ज्ञानिनां त्रैविद्यानां च फलसाम्यम् । सेवानुसारेणैव मम फलदत्वात् । सेवायाश्च वैषम्यादिति भावः । त्रैविद्यानामन्यदेवतायाजित्वात् कथमुच्यते मां प्रपद्यन्त इतीत्यतो देवता यजन्तो यदि कर्मणां सिद्धिमाकाङ्क्षन्तो भवन्ति तर्हि मम वर्त्मानुवर्तन्त एव । अन्यथा कर्मफलाभावादित्युच्यते ‘मम’ इति । तत्र त्रैविद्या अपि चेद्भगवद्वर्त्मानुवर्तन्ते तर्हि भागवतत्रैविद्यभेदो न स्यादित्यतः श्लोकं व्याचष्टे
अन्येति ॥
मत्समर्पणेन अन्त इति शेषः ।चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम्॥१३ ॥
सत्त्वेति ॥
राजससात्त्विकेषु सात्त्विको ब्राह्मणः । सत्त्वमधिकं यतो रजसस्तद्वान् क्षत्रियः । समसत्त्वरजोवान् वैश्यः । रजोपेक्षयाऽधिकतमोवान् शूद्र इत्यर्थः । अनेन सत्त्वप्रधानत्वं ब्राह्मणादीनामुक्तम् । तस्यापवादमाह
सात्त्विका एवेति ॥
वैष्णवा एव सात्त्विकाः सत्त्वप्रधानाः । न ब्राह्मणत्वादिप्रयुक्तं सात्त्विकत्वादीत्यर्थः ।न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां योभिजानाति कर्मभिर्न स बद्ध्यते॥१४ ॥
जीवेति ॥
स्वस्येश्वराभेदाभिप्रायेण स्वात्मानमुद्दिश्य ‘न मां कर्माणि लिम्पन्ति’ इत्यादि यो जानातीत्यन्यथाप्रतीतिः स्यात् । तन्निराकरणार्थम् इति मां योऽभिजानाति, न स्वात्मानमिति भावेन मामिति विशेषणं प्रयुक्तमित्यर्थः ॥ १४ ॥कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः॥१७ ॥
‘कर्मणः’ इति ॥
तद्दुर्गमार्थत्वाद्व्याचष्टे
कर्मेति ॥
मत्त एव भवतीति बोद्धव्यम् । असमानपदस्थस्य रेफोत्तरस्य नस्य णत्वं दृष्टं ‘ब्रह्मण इन्द्र उपयाहि विद्वान्’ इत्यादौ । आदिपदेन ‘बोद्धव्यं च’ इत्यादेरपि पूर्ववद्योजनां सूचयति ॥ १७ ॥कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुदि्धमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत्॥१८ ॥
‘कर्मणि’ इति ।
तत्र पूर्वार्धं दुर्गमार्थत्वाद् व्याचष्टे
कर्मणीति ॥
कर्मविधिफलयोरभावाद् अकर्मेत्यनेन तद्भावाज्जीवः कर्मेति सूचितम् । जीवेश्वरयोरेवं व्युत्पत्त्या कर्माकर्मपदवाच्यत्वं कुत इत्यत आह
कर इति ॥
अमितत्वादविषयीकृतत्वादित्यर्थः । कोऽयं करो नामेत्यत आह
कर इति ॥
करशब्दस्य हस्तादिवाचित्वमेव दृष्टं, नादृष्टादिवाचित्वमित्यत उक्तम् ।
सकारान्त इति ॥
हस्तादिवाचिनोऽयम्, सकारान्तोऽन्य एवेति भावः । कर्मविधिवाची चेति द्रष्टव्यम् । अत एव कर्मविधीत्याद्युक्तम् । अनेन विधिशब्देनामित त्वम् अकर्मपदेन कथमुच्यत इति परास्तम् । अकर्तरि जीवे कथं करो मीयत इत्यत आह
तदिति ॥
नाकर्तरि क्रियादर्शनं विरुद्धं, स्वातन्त्र्येणाकर्तृत्वेऽपि भगवदधीनकर्तृत्वादिति भावः । अत एव पूर्वमस्वातन्त्र्यादित्याद्युक्तम् । कर्मशब्दस्य जीवे विद्वद्रूढिं च दर्शयति
प्रसिद्धश्चेति ॥
ननु ज्ञानिनः स्वातन्त्र्येण पारतन्त्र्येण वा कृत्स्नकर्माकरणात् कथं कृत्स्नकर्मकृत्त्वमुच्यत इत्यत आह
कृत्स्नेति ॥
स्वयोग्याशेषकर्मफलमोक्षस्य नियतत्वादिति भावः ॥ १८ ॥त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तोनिराश्रयः । कर्मण्यभिप्रवृत्तोपि नैव किञ्चित्करोति सः॥२० ॥
अनिराश्रय इति ॥
प्रतीतप्रकारेणैव पदविभागः किं न स्यादित्यत आह
भगवदिति ॥
ज्ञानिनोऽपि भगवदाश्रयत्वेन ‘अज्ञानां ज्ञानिनां चैव’ इत्यादावुक्तत्वान्निराश्रयत्वानुपपत्तेर्न प्रतीतप्रकारेण पदविभाग इत्यर्थः ॥ २० ॥गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते॥२३ ॥
मुक्तस्येति ॥
२३ ॥ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना॥२४ ॥
ब्रह्मेति ॥
अत्रार्पणादीनां ब्रह्मैक्यमुच्यते, नाभिमानपरित्यागप्रकार इत्यन्यथाप्रतीतिनिरासायाह
ब्रह्मणीति ॥
प्रतीतार्थ एव किं न स्यादित्यतः स्वोक्तार्थे स्मृतिसम्मतिमाह
एक इति ॥
अनेन हविरादिषु स्वस्य स्वातन्त्र्यमनिरूप्य ब्रह्माधीनतां ज्ञात्वा होमादिकरणं स्वातन्त्र्याभिमानपरित्यागः । ब्रह्मार्पणं तु यज्ञार्थत्वमित्युक्तं भवति ॥ २४ ॥दैवमेवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति॥२५ ॥
‘दैवम्’ इत्यादिना ॥
तत्र पूर्वार्धे कस्यचिद्देवस्योपासनमेवोच्यते न तु ब्रह्मार्पणबुद्ध्या यजनम् । अतो नायमर्धः पूर्वसङ्गत इत्यत आह
दैवमिति ॥
भगवन्तं यज्ञ इत्युपासत इत्यनेन भगवानेव यज्ञः तस्य तथोपासनमेव यज्ञकरणमित्युक्तं भवति । कथं भगवतो यज्ञत्वम्? येन तथोपासनं यज्ञकरणं स्यादित्यत आह
स्वेति ॥
स्वरूपमेवानन्दादिहविः स्वयमेवाग्निर्भगवान् भुङ्क्ते, अतोऽयं यज्ञ इत्यर्थः । ‘ब्रह्माग्नौ’ इत्येतद्दुर्गमार्थत्वात् पूर्वसङ्गतत्वेन व्याचष्टे
ब्रह्मेति ॥
यज्ञाख्येनेत्यस्य सर्वं तदधीनं ज्ञात्वेत्यर्थः ॥ २५ ॥श्रोत्रादीनींद्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीन्विषयानन्य इंद्रियाग्निषु जुह्वति॥२६ ॥
तदिति ॥
अत्रापि ब्रह्मार्पणस्य ‘एवं बहुविधाः’ इति वक्ष्यमाणपर्यालोचनया विवक्षितत्वावगमान्नासङ्गतिरिति भावः ॥ २६ ॥सर्वाणींद्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते॥२७ ॥
कर्मेन्द्रियाणां प्राणापानादीनां च संयममित्यर्थः । नन्वत्र क्रियायज्ञ एव यज्ञेनैवेत्यभिमानत्यागोक्तेः कथं दैवमित्यादि पूर्वसङ्गतमित्यत आह
यज्ञेनैवेति ॥
स्वयमेव यज्ञ इत्याद्यपूर्वार्थोऽयं कुत इत्यत आह
तेनैवेति ॥
२७-३०॥एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान्विदि्ध तान् सर्वानेवं ज्ञात्वा विमोक्ष्यसे॥३२ ॥
श्रोत्रेति ॥
इति शङ्का स्यात् तामिति शेषः । प्रतीत एवार्थः किं न स्यादित्यत उक्तार्थे स्मृतिसम्मतिमाह
सर्वेति ॥
३२ ॥श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते॥३३ ॥
‘सर्वमिति’ ॥
तत्र सर्वाखिलशब्दयोरेकार्थत्वप्रतीतेः ज्ञानानन्तरं कर्म नास्तीन्यथाप्रतीतेश्च निरासायाह
सर्वमिति ॥
पूर्यते
सफलं भवतीत्याशयः । समाप्तिशब्दस्य पूर्तिवाचित्वादर्शनात् कथमत्र पूर्तिवाचित्वमित्यत आह
समाप्तेति ॥
धनुर्विद्याविषये सम्पूर्णविद्यान् कृष्णसात्यकियुक्तपञ्चपाण्डवान् सप्त श्रेष्ठान्् मन्यस इत्युद्योगपर्वणि धृतराष्टं प्रति सञ्जयवचनम् । अस्तु पूर्तावपि समाप्तिशब्दप्रयोगः । तथाप्यत्र पूर्तिवाचित्वं कुतः? प्रतीतार्थ एव किं न स्यादित्यत आह
ज्ञानेति ॥
पुनर्योगकथनाज्ज्ञानानन्तरमपि कर्मानुष्ठानकथनात् ॥ ३३ ॥तद्विदि्ध प्रणिपातेन परिप्रश्रेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः॥३४ ॥
‘तत्’ इति।
तत्र स्वयं ज्ञानोपदेशायैव प्रवृत्तत्वात् ‘न त्वेवाहम्’ इति ज्ञानस्योपदिष्टत्वाच्च कथम् ‘उपदेक्ष्यन्ति ते ज्ञानम्’ इत्युच्यत इत्यत आह
ज्ञानमिति ॥
उपदेक्ष्यन्तीति निश्चितत्वाभिप्रायेण । परोक्षतयोपदेक्ष्याम इत्येवोच्यमानत्वान्न ज्ञानोपदेशार्थं प्रवृत्तत्वविरोधः । न च ज्ञानस्योपदिष्टत्वविरोधः । सङ्क्षेपेणोपदिष्टत्वेऽपि ‘ज्ञानं तेऽहम्’ इत्यादिना पुनरुपदेक्ष्यमाणत्वादिति भावः ॥ ३४ ॥यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि॥३५ ॥
‘यत्’ इति ॥
तत्र स्वस्मिन्, मयि चेत्यन्यथाप्रतीतिनिरासायाऽऽह
आत्मनीति ॥
ईश्वरमन्तरेण सर्वभूताधारत्वस्यान्यत्रानुपपत्तेर्न प्रतीत एवार्थ इत्यर्थः । एवं चेत् ‘अथो’ इति समुच्चयवाची शब्दो व्यर्थ इत्यत आह
अथो इति ॥
३५ ॥तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत॥४२ ॥
‘योग’
इति । तत्र ‘आत्मवन्तम्’ इत्यात्मा जीवश्चेत् स्वसम्बन्धोक्तिरयुक्ताऽनुपयुक्ता च । परमात्मा चेत्सर्वेषामपि तद्वत्त्वसाम्यात् को विशेषो ज्ञानिन इत्यत आह
आत्मेति ॥
४२ ॥अध्याय 5
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्॥१ ॥
योगेति ॥
पूर्वं समुच्चितः कर्मयोगो निरूपितः । सच योगसंन्यासभेदेन द्विविधः । द्विविधयोश्च स्वरूपं सङ्क्षेपेण ‘कुरु कर्र्माणि’, ‘सङ्गं त्यक्त्वा’ इत्यादावुक्तम् । तदेवानेनाध्यायेन स्पष्टयतीत्यर्थः ।संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते॥२ ॥
एकेति ॥
उभयोरेकपुंयोग्यत्वात्, निःश्रेयसकरत्वाच्च अनुष्ठेयत्वादन्यतरस्य श्रेष्ठत्वे प्रश्नो व्यर्थ एव । अथ स्वरूपज्ञानमात्रार्थः प्रश्नश्चेद्योग एव विशिष्ट इति भावः । योगसंन्यासयोरेकपुंयोग्यत्वाभिधायकं पदमत्र न श्रूयत इत्यतस्तत्पठित्वा व्याचष्टे
उभाविति ॥
द्वावपि प्रत्येकं श्रेयस्करावित्यर्थः किं न स्यादित्यत आह
संन्यासस्त्विति ॥
योगरहितसंन्यासस्य अनर्थकरत्वोक्तेः संन्यासरहितयोगस्यैवासम्भवात् समुच्चितयोरेवात्र निःश्रेयसकरत्वमुच्यते न प्रत्येकमिति भावः ॥ २ ॥ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते॥३ ॥
द्वेषादीति ॥
अत्र
‘संन्यस्तकर्माणम् ’इत्यादौ । एवं ‘योगमातिष्ठ’ इत्यादौ भगवदर्पणादियोग एवाभिप्रेतो न गृहस्थाश्रम इत्यपि द्रष्टव्यम् । ननु कथं द्वेषादिवर्जनस्य संन्यासत्वमत्रोच्यते ? ‘काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः’ इति काम्यकर्मपरित्यागस्य संन्यासत्वाभिधायकवाक्यविरोधादित्यत आह
न चेति ॥
भवेत्तद्विरोधो यद्यत्र द्वेषादिवर्जनमात्रं संन्यासत्वेन विवक्षितं स्यात् । नैतदस्ति । काम्यकर्मपरित्यागेनापि सहितस्य द्वेषादिवर्जनस्य संन्यासत्वेनाभिप्रेतत्वादित्यर्थः । कथमत्र काङ्क्षादिवर्जनस्य संन्यासत्वमुच्यते? ‘सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः’ इति तस्य त्यागत्वेनोक्तत्वात् । न च संन्यासत्यागयोरैक्यादविरोधः । ‘काम्यानाम्’ इति श्लोके न्यासात्त्यागस्य पृथक्त्वेनोक्तेस्तद्विरोधादित्यत आह
न चेति ॥
भवत्येवाकाङ्क्षादिवर्जनं न्यासः । न च तस्य त्यागत्वोक्तिविरोधः । न्यासत्यागयोरैक्यात् । न च पृथक्त्वोक्तिविरोधः । यथा खलु पाण्डवानां कुरुत्वेऽपि ‘सन्तानबीजं कुरुपाण्डवानाम्’ इति पृथगुक्तिर्युज्यते, पाण्डवानां कुर्ववान्तरभेदत्वेन कुरुपाण्डवानां साक्षादैक्याभावात्, एवं त्यागस्य न्यासत्वेऽपि न्यासावान्तरभेदत्वेन त्यागन्यासयोः साक्षादैक्याभावात् पृथग्वचनोपपत्तेरिति भावः । न्यासादिशब्दस्य यत्याद्याश्रमार्थत्वं गृहीत्वा तयोरधिकारभेदात् समावेशायोगो यश्चोदितोऽसौ न्यासादिशब्दस्य तदर्थत्वानङ्गीकारेण परिहृतः ॥ ३ ॥साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्॥४ ॥
‘साङ्ख्य’ इति ॥
दुर्गमार्थत्वाच्छ्लोकं व्याचष्टे
बाला इति ॥
ज्ञानमार्गं सम्यगास्थित एव ज्ञानफलं प्राप्नोति । कर्ममार्गं च सम्यगास्थित एव कर्मफलं प्राप्नोतीत्यर्थः ।यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति॥५ ॥
तस्मादिति ॥
ज्ञानिनां
यतीनामिति शेषः । ननु सम्यक्कर्मानुष्ठानेनैव कर्मी कर्मफलं प्राप्नोति चेत्तथापि कुतस्तस्य ज्ञानमित्यत आह
न हीति ॥
एवं सम्यग्ज्ञानमार्गानुष्ठानैनैव ज्ञानफलं प्राप्नोति चेत्तथापि कुतो ज्ञनिनः कर्मेति शङ्कायां न हि कर्म विना ज्ञानमार्गस्य सम्यगनुष्ठानं भवति । सम्पूर्णफलसाधनत्वाभावादिति परिहारो द्रष्टव्यः । अत्र स्मृतिसम्मतिं चाह
निष्काममिति ॥
अनेन कर्मिणां ज्ञानमुच्यते
‘बुद्ध्या’ इति ॥
ज्ञानिनां कर्म, मुक्तिः इत्युभयम् ।संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति॥६ ॥
‘संन्यासस्तु’ इति ॥
तत्स्मृत्यैव व्याचष्टे
मोक्षेति ॥
योग इति ॥
उच्यत इति शेषः । विष्ण्वर्पिततया तद्रूप इति सम्बन्धः । पादत्रयम् उत्तरार्धव्याख्यानम् । ‘नान्यः’ इति पूर्वार्धस्य । तद्विवृणोति
विष्ण्विति ॥
आदिपदेन स्वोचितकर्मणां विष्ण्वर्पणादिकं न कार्यमिति बुद्ध्या कृतो नरकफल इति ज्ञातव्यम् । ‘अयोगतः’ इति योगरूपत्वं विनेति किमर्थमुच्यते । योगं विनेत्येव किं न स्यादित्यत आह
यमिति ॥
‘यं संन्यासम्’ इति योगसंन्यासयोरैक्यस्य वक्ष्यमाणत्वात् संन्यासस्य योगरूपत्वमेव वाच्यमित्यर्थः । योगसंन्यासयोरैक्ये ‘संन्यासः कर्मयोगश्च’ इति पृथगुक्तिः कथमित्यत आह
योगेति ॥
योगो न्यासश्चेत्येक एवार्थः । अपि तु न्यासो योगावान्तरभेदः । अतः कुरुपाण्डववत् पृथगुक्तिरुपपन्नेत्यर्थः ॥ ६ ॥योगयुक्तो विशुद्धात्मा विजितात्मा जितेंद्रियः सर्वभूतात्मभूतात्माकुर्वन्नपि न लिप्यते॥ ७ ॥
योगयुक्त इति ॥
तत्र योगसंन्यासयोरेव वक्तव्यत्वात् तयोश्च योगयुक्तादिपदैरुक्तत्वात् ‘सर्वभूतात्मभूतात्मा’ इति किमुच्यत इत्यत आह
सर्वेति ॥
अनेनापि योग एवोच्यत इति नासङ्गतिः । नापि योगयुक्तपदेन योगस्योक्तत्वाद्वैय्यर्थ्यम् । योगयुक्तपदेन कर्मयोगस्योक्तत्वात् , अनेन ध्यानयोगस्योक्तत्वादिति भावः ।प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि । इंद्रियाणींद्रियार्थेषु वर्तन्त इति धारयन्॥९ ॥
यथेति ॥
तत्रेन्द्रियाणामेव स्वातन्त्र्येण कर्तृत्वमुच्यत इत्यन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे
विष्णुनेति ॥
९ ॥ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा॥१० ॥
ब्रह्मणि इति ॥
तत्र कर्मणां ब्रह्मण्याधानं नामाकरणमेवेत्यन्यथाप्रतीतिनिरासायाह
तत्पूजेति ॥
आधानं कर्मणामिति शेषः । अन्यथा करोतीत्यस्य व्याघातादिति भावः । भवत्पक्षेऽपि यदि कर्माणि भगवत्कृतानि तर्हि जीवस्याकर्तृत्वं स्यात् । तथाच करोतीति व्याहतं स्यात् । मम शुभार्थमिति चासम्भवीत्यत आह
स्वातन्त्र्येति ॥
कर्मणां भगवत्कृतत्वे जीवस्याकर्तृत्वं स्यादिति सत्यमेव । न च तावता जीवस्य कर्तृत्वफलसम्बन्धानुपपत्तिः । स्वातन्त्र्याभावविवक्षयैव अकर्तृत्वस्याभ्युपगतत्वेन भगवदधीनतया कर्तृत्वोपपत्तेरिति भावः । अस्वतन्त्रत्वे च जीवस्य भगवत्पूजाकर्तृत्वं शुभयोगश्च न युज्यते । अस्वतन्त्रे कर्तृशब्दप्रयोगस्य फलसम्बन्धस्य चादर्शनादित्याशङ्कां स्मृत्यैव परिहरति
स्ववन्दनमिति ॥
कारितं
शिशुनेति शेषः । शिशुकर्तृकं भवेदिति सम्बन्धः ॥ १० ॥सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन्॥१३ ॥
अत इति ॥
‘ब्रह्मण्याधाय कर्माणि’ इति संन्यासो ह्युच्यते । तल्लक्षणं च ‘सर्वकर्माणि’ इत्यनेन प्रपञ्च्यते । तत्र कर्मणां स्वरूपपरित्यागाभावादेव हि मनसैव त्यागोऽभिहितः । अतश्च नात्रापि कर्मणां स्वरूपत्यागोऽर्थ इति भावः । मनसैव त्यागाभिधाने कथं स्वरूपत्यागाभाव इत्यह आह
अस्वातन्त्र्येति ॥
मनसैव कर्मन्यासो नाम स्वातन्त्र्याभिमानपरित्याग एव । न तु स्वरूपत्यागः । तथात्वे मनसेति विशेषणवैय्यर्थ्यादिति भावः ॥ १३ ॥न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते॥१४ ॥
यथेति ॥
स्वतो जीवानां स्वतन्त्रकर्तृत्वाद्यभावेऽपि परमात्मदत्तं तदस्ति । अतः कथं ब्रह्मण्याधानमुच्यत इत्याशङ्कामेवात्र परिहरति । न तु सर्वात्मना जीवानां कर्तृत्वाभावं वक्तीति भावः । कर्मफलसंयोगे च स्वातन्त्र्यमित्यपि संयोज्यम् । अनेन ‘न कर्तृत्वं न कर्माणि’ इति पौनरुक्त्यं च परिहृतम् । नन्वत्र कर्तृत्वाद्यभाव एवोच्यते, न तु तत्रास्वातन्त्र्यम् । अतः कथमनेनैषा शङ्का परिह्रियत इत्यत आह
क्रियायामिति ॥
कर्तृत्वादिकं न सृजतीत्यस्य तत्र स्वातन्त्र्यं न सृजतीत्येवार्थः । अतो भवत्येतदाशङ्कापरिहार इत्यर्थः । नन्वत्रेश्वरस्यैव कर्तृत्वाद्यभाव उच्यत इति किं न स्यादित्यत आह
अन्यथेति ॥
यद्यत्रेश्वरस्यैव कर्तृत्वाद्यभाव उच्यते तदा लोकस्य कर्तृत्वादिकं न सृजतीति व्यर्थं स्यादित्यर्थः ।विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः॥१८ ॥
विषमेष्विति ॥
अनेन ‘निर्दोषं हि समं ब्रह्म’ इत्येतदपि व्याख्यातं भवति ॥ १८ ॥बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते॥२१ ॥
‘बाह्य’ इति ॥
तद्दुर्गमार्थत्वाद्व्याचष्टे
इदानीमिति ॥
संसारेऽपि परमात्मस्मरणाद्यल्पयोगयुक्तः संन्यासी सुखं विन्दति यदा तदा ध्यानादिमहायोगयुक्तो मोक्षादिनिःश्रेयसं विन्दतीति किमु वाच्यमित्यर्थः ॥ २१-२३ ॥योन्तः सुखोन्तरारामस्तथान्तर्ज्योतिरेव यः । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोधिगच्छति॥२४ ॥
ब्रह्मणीति ॥
मनसेति शेषः । प्रतीत एवार्थः किं न स्यादिति चेन्न । ज्ञानिनोऽपि ब्रह्मभेदस्य साधितत्वात् । दोषान्तरं चाह
अन्यथेति ॥
यद्यत्र ज्ञानिनो ब्रह्मभावोऽभिधीयते तर्हि ब्रह्माधिगच्छतीति विरुद्धं स्यात् । न हि कश्चित् स्वयं स्वात्मानं गच्छतीत्यर्थः । नन्वत्र अन्तःसुखत्वादिकं भवतु ज्ञानिलक्षणम् । अन्तर्ज्योतिष्ट्वं कथं ब्रह्मदर्शिनो लक्षणं स्यात् । यावता ब्रह्मदर्शित्वमेव तदित्यत आह
अन्तःसुखत्वादिकमिति ॥
नात्रान्तर्ज्योतिष्ट्वं ज्ञानिलक्षणमुच्यते । किन्तु अन्तःसुखत्वाद्येव । तत्र कारणत्वेनान्तर्ज्योतिष्ट्वमुच्यत इति भावः ॥ २४ ॥यतेंद्रियमनोबुदि्धर्मुनिर्मोक्षपरायणः । विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः॥२८ ॥
॥ अमुक्त इति ॥
मुक्तसादृश्यमभिमानादिपरित्यागः । मुक्त एवोच्यत इति शेषः । यस्माज्ज्ञानसामर्थ्येन एवं फलं भवति तस्मात् ॥ २८ ॥अध्याय 6
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते॥३ ॥
सम्पूर्णेति ॥
अत्र ज्ञानार्थिनः कर्म अपेक्षितमित्युक्त्वा ज्ञनिनः कर्मोपशमोऽपेक्षित इत्युच्यते । तथाच ‘न निरग्निर्न चाक्रिय’ इत्यादिविरोध इत्यत आह
नानेति ॥
नानाजनस्य उत्तमाधममध्यमजनस्य ॥
करवन्मितेरिति ॥
राजादिकरवदावश्यकतया प्रमितत्वादित्यर्थः । योगस्थेनापि शुश्रूषायाः कार्यत्वे को विशेषो योगार्थियोगस्थयोरित्यत आह
तेनापीति ॥
अन्यैर्योगार्थिभिः । योगार्थियोगस्थयोर्विशेषे वक्तव्ये असिद्धसिद्धयोर्विशेषः किमर्थमुच्यत इत्यत आह
प्राप्तेति ॥
नानाजनस्य शुश्रूषा कथं ज्ञानस्य साधनमित्यतो भगवत्प्रसादद्वारेत्याह
तस्येति ॥
नन्वज्ञानामपि हरौ स्थितत्वाद्योगस्थेन हरौ स्थितिः कार्येति किमुच्यत इत्यत उक्तं विवृणोति
सिद्धेति ॥
अन्यत् नानाजनशुश्रूषादि । ज्ञानिनो मोक्षनियमात् किं ध्यानादिनेत्यत आह
तस्येति ॥
ततश्च मुक्तावानन्दपूर्तिरिति भावः । अत्र कर्मपदेन नानाजनशुश्रूषैवोच्यते न तु सन्ध्यावन्दनादि । शमपदेन च नानाजनशुश्रूषोपशम एवोच्यते । भगवद्ध्यानादिकं च । न सन्ध्यावन्दनादिकर्मोपशमः । नानाजनस्येति स्मृतिसमाख्यानात् । अतो नास्य पूर्वोक्तविरोध इति भावः । शमपदस्य विष्णुध्यानादिवाचित्वे स्पष्टार्थां स्मृतिं चाह
शम इति ॥
३ ॥यदा हि नेंद्रियार्थेषु न कर्मस्वनुषज्जते । सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते॥४ ॥
कथमिति ॥
नात्र ज्ञानिनः स्वरूपतः कर्मानुषङ्गोऽभिधीयते । किन्तु सर्वकर्मसु सङ्कल्पन्यासेेनैव । तथा स्वयमेव व्याख्यातत्वादिति भावः । यदि सर्वकर्मसु सङ्कल्पन्यासस्तर्हि कर्मस्वरूपन्यास एव प्राप्नोति । स्वरूपात्यागे सङ्कल्पत्यागायोगादित्यत आह
मयीति ॥
भवेत्कर्मस्वरूपत्यागप्राप्तिर्यदि सङ्कल्पस्वरूपत्यागोऽभिप्रेतः स्यात् । न चासावस्ति । सङ्कल्पसंन्यासपदेन सङ्कल्पादेर्भगवदधीनताज्ञानस्यैवाभिप्रेतत्वात् । मयि सर्वाणि कर्माणि संन्यस्येत्यत्र संन्यासपदस्य भगवदधीनताज्ञानार्थतायाः समर्थितत्वादिति भावः । प्रमाणान्तरं चाह
मदधीनमिति ॥
४ ॥उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः॥५ ॥
‘उद्धरेत्’ इति ।
तत्राऽत्मपदं जीवादिमात्रविषयं न परमात्मविषयमित्यन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे
उद्धरेतेति ॥
कुतः परमात्मना स्वात्मानमुद्धरेदित्यत आह
विष्णुरिति ॥
कीदृशाः सन्तः कीदृशा असन्त इत्यत उक्तं विवृणोति
तदिति ॥
तदन्यस्य भक्त्याऽवशीकृतपरमात्मनः पुरुषस्य । इतोऽप्यत्र आत्मपदेन परमात्मग्रहणं युक्तमित्याह
परमात्मेति ॥
५ ॥बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्॥६ ॥
ज्ञानविज्ञानतृप्तात्मा कूढस्थो विजितेंद्रियः । युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः॥८ ॥
‘शीतोष्ण’ इति ।
तत्र ज्ञानविज्ञानशब्दयोरर्थभेदं स्मृत्यैवाह
सर्वत्रेति ॥
सर्वत्र
वेदादौ ॥ ८ ॥सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुदि्धर्विशिष्यते॥९ ॥
यस्येति ॥
सुहृन्मित्रपदयोः अरिद्वेष्यपदयो उदासीनमध्यस्थपदयोश्च एकार्थत्वप्रतीतिनिरासाय स्मृत्यैव तदर्थमाह
अनिमित्तेति ॥
ज्ञात्वोपकारकृदिति ॥
स्वयमेव तस्य क्लेशस्थानं निरूप्योपकारकर्तेत्यर्थः ॥ ९ ॥यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति॥२० ॥
‘यदा’ इत्यादिना ।
तत्र आत्मनाऽऽत्मानमित्यात्मशब्दयोर्जीवादिविषयत्वप्रतीतिनिरासायाह
आत्मानमिति ॥
अन्यथा तोषायोगादिति भावः ॥ २० ॥प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम्॥२७ ॥
‘प्रशान्त’ इति ।
तत्र ब्रह्मभूतपदस्य अन्यार्थप्रतीतिनिरासायार्थमाह
ब्रह्मणीति ॥
अन्यथा बहुप्रमाणविरोधादिति भावः ॥ अनेन पूर्वोक्तं मत्संस्थापदमपि व्याख्यातं भवति ॥ २७ ॥सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः॥२९ ॥
‘सर्वभूतस्थम्’ इति ।
तत्रात्मपदेन जीव उच्यत इत्यन्यथाप्रतीतिनिरासायाऽह
सर्वेति ॥
भोक्तारमिति सङ्क्षेपोक्तौ परमात्मन एव ध्येयत्वोक्तेः, यो मामित्यनुवादाच्चेति भावः ॥ २९ ॥सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोपि स योगी मयि वर्तते॥३१ ॥
‘सर्व’ इति ।
तत्र ‘एकत्वमास्थितः’ इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे
सर्वत्र इति ॥
अन्यथा सर्वभूतस्थितमिति स्ववचनविरोधादिति भावः ॥ ३१ ॥आत्मौपम्येन सर्वत्र समं पश्यति योर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः॥३२ ॥
‘आत्मा’ इति ।
तत्सर्वं प्राणिविषयमित्यन्यथाप्रतीतिनिरासाय व्याचष्टे
अत इति ॥
अत्र भगवदीयेष्वेव स्वस्मिन्निव स्नेहो विधीयते, न त्ववैष्णवेषु । बन्धुरात्मेति वैष्णवानामेव भगवत्प्रियत्वस्योक्तत्वात्, ‘अनात्मनः’ इत्यवैष्णवानां भगवदप्रियत्वस्योक्तत्वादिति भावः ॥ ३२ ॥पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति॥४० ॥
अयतिरिति ॥
गृहस्थादिरेवार्थः किं न स्यादित्यत आह
प्रयत्नादिति ॥
अयतेस्तत्र श्रद्धावतः का गतिरिति प्रश्ने जन्मान्तरे प्रयत्नवान् भवतीति परिहारस्योक्तत्वादप्रयत्न एव अयतिरवगम्यते । अन्यथा जन्मान्तरे श्रद्धावशाच्चतुर्थाश्रमी भवतीति परिहारप्रसङ्गादिति भावः । ननु योगशब्दस्य ज्ञानोपायार्थत्वात्, ‘श्रद्धावान् लभते ज्ञानम्’ इत्यादेः श्रद्धाया अपि ज्ञानोपायत्वात् ‘श्रद्धयोपेतो योगाच्चलितमानस’ इति परस्परविरोध इत्यत आह
योगेति ॥
भवेदयं विरोधो यदि योगशब्देनात्र सामान्यतो ज्ञानोपायोऽभिधीयते । न च तदस्ति । ध्यानस्यैव विवक्षितत्वात् । न च योगशब्दस्य ज्ञानोपायवाचित्वविरोधः । ध्यानस्यापि ज्ञानोपायविशेषत्वादिति भावः ।पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोपि सः । जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते॥४४ ॥
‘जिज्ञासुः’ इति ।
तत्र योगजिज्ञासोः विधिनिषेधाभावप्रतीतिनिरासाय तत्स्मृत्यैव व्याचष्टे
मोक्षेति ॥
तदास्थित इति ॥
तत्राल्पप्रवृत्तिमानित्यर्थः ॥ ४४ ॥तपस्विभ्योधिको योगी ज्ञानिभ्योपि मतोधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन॥४६ ॥
‘तपस्विभ्यः’ इति ।
तत्र योगस्य ज्ञानार्थत्वात् कथं ज्ञानादुत्तमत्वमुक्तमित्यतः तत्स्मृत्यैव व्याचष्टे
तपस इति ॥
अज्ञानिध्यानत इति ॥
सम्यग् ध्यानप्रकाराज्ञस्य ध्यानतो ध्यानप्रकारज्ञानमेवोत्तमम् । ध्यानप्रकारज्ञानसहितं ध्यानं ध्यानप्रकारज्ञानमात्रतोऽधिकमित्यर्थः। ध्यानिष्वपि तारतम्यमाह
तत्रापीति ॥
कीदृशोऽभक्त इत्यत आह
अन्येति ॥
न भक्तिर्येषु तेऽभक्तयः । अन्यान् मदधीनान् जानन्नित्यनेन परिवारतया अन्योपासनमुच्यते । मदुपासकेष्वपि विषुद्धधीः निष्कामो वर इत्यर्थः । अनेन योगिनामिति श्लोको व्याख्यातो भवति । तथाहि सर्वेषां योगिनां मध्ये यः श्रद्धाशब्दोदितमद्भक्तिमान् स एव युक्तो मतः । तत्रापि यो मां भजते स एव युक्ततरो मतः । तत्रापि फलकामनां विना यो मां भजते स युक्ततमो मत इति ॥४६ ॥अध्याय 7
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः॥३ ॥
भगवदिति ॥
यत्पूर्वोक्तं ध्यानं तद्भक्तिपूर्वकमेव ज्ञानसाधनं, नान्यथा । अतो भक्त्यर्थं भगवन्महिमाऽस्मिन्नध्यायेऽभिधीयत इत्यर्थः । न त्वेवाहमित्यादिना प्रागपि भगवन्महिम्नो वर्णितत्वात् किमनेनेत्यत उक्तम्
विशेषत इति ॥
प्राक् सङ्क्षेपेणोक्तोऽत्र विस्तरेणोच्यत इत्यर्थः । उपरितनाध्यायानामपि भगवन्महिमाभिधायकत्वादत्रेत्यादिनोक्तम् ।भूमिरापोनलो वायुः खं मनो बुदि्धरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा॥४ ॥
‘भूमिः’ इत्यादिना ।
तत्स्मृत्यैव व्याचष्टे
अचेतनेति ॥
‘चेतना श्रीः’ इत्यनेन
‘जीवभूताम्’
इति व्याख्यातं भवति । ‘ते उभे’ इत्यनेन
‘मे प्रकृतिः’
इत्यस्यार्थ उक्तो भवति ।
‘एतद्योनीनि’
इत्यस्यार्थः
‘जगतः’ इति ।
विष्णोरेव जगत्कारणत्वात् कथमेतदित्यत आह
पितेति ॥
पितृत्वेनैव कारणं विष्णुरित्यर्थः । अनेनाहं कृत्स्नस्येति व्याख्यातं भवति । तर्हि प्रकृत्योः कीदृशं कारणत्वमित्यत आह
मातेति ॥
अचेतनप्रकृतेरुपादानत्वशक्तिरपि भगवदधीनेत्युच्यते
विष्णुबलेरितेति ॥
४-६ ॥मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव॥७ ॥
मत्त इति ॥
नात्र स्वव्यतिरिक्तनिषेधः, किन्तु मत्तोऽन्यद्वस्तु परतरं न भवति । किन्त्वहमेव परतरः । अतः ‘अहं कृत्स्नस्य’ इत्यादि युक्तमेवोच्यत इति भावः । स्वातिरिक्तनिषेधोऽयं किं न स्यादित्यत आह
अन्यथेति ॥
यद्यत्र स्वातिरिक्तनिषेधस्तर्हि परतरपदेनैव स्वातिरिक्तस्योक्तत्वादन्यदिति व्यर्थं स्यात् । अन्यदिति पदस्य स्वातिरिक्तार्थताभ्युपगमे च परतरमिति व्यर्थं स्यादित्यर्थः । यदि विष्णुरेव परतरस्तर्हि परावरादिना भाव्यम् । तत्किमित्यत उक्तार्थे स्मृतिमाह
अवरा इति ॥
दुःखसम्बन्धित्वान्न परो, दुःखेन सम्यगपीडितत्वाच्च नावरः । अतो मध्यम इत्यर्थः । विष्णुः परतरश्चेत् कः परतम इत्यत आह
अभावादिति ॥
अत्र परतरपरतमपदाभ्यां विष्णुरेक एवोच्यते । न त्वसौ परतम एव । परभूतश्रीतत्त्वस्य परतमभूतविष्णोेश्च मध्ये परतरस्यान्यस्याभावात् । नापि विष्णुः परतर एव । परतमस्यान्यस्याभावादिति भावः । ननु जडप्रकृतेरपि नित्यनिर्दुःखत्वात् कथं श्रीरेकैव परेत्यत आह
यस्या इति ॥
निर्दुःखत्वेऽपि दुःखकारणत्वेन जडप्रकृतेरसन्दिग्धमवरत्वमेवेत्यर्थः ।एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा॥६ ॥
स इति ॥
अनेन विज्ञानप्रदर्शकं रसोऽहमित्यादि व्याख्यातं भवति । रसयति रसमादत्ते रसं प्रेरयति । प्रभासनात् स्वयं प्रभासमानत्वात्, प्रभाप्रेरणाच्च । प्रणौति स्तौति स्तावकत्वं प्रेरयति च । शब्दयति वक्ति शब्दं प्रेरयति च ॥ ८ ॥पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु॥९ ॥
बीजं मां सर्वभूतानां विदि्ध पार्थ सनातनम् । बुदि्धर्बुदि्धमतामस्मि तेजस्तेजस्विनामहम्॥१० ॥
बलं बलवतां (चाहं) अस्मि कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोस्मि भरतर्षभ॥११ ॥
एतादृशेति ॥
एतादृशबलात्मेत्यनुवादः । अर्थान्तरं चोच्यते
वेति ॥
तद्रतेः पूर्णरतित्वात् । अत्रापि कामरागराहित्यं पूर्ववत् । धर्माविरुद्धेच्छाप्रेरकत्वाच्चेति ज्ञातव्यम् । अप्सु रस इत्यादिव्यवस्थयाऽबादिसर्वेषां रसादिसर्वदोऽतो रसादिनामेत्यर्थः । रसाद्यभेदात्तन्नामा किं न स्यादित्यत आह
सर्वत इति ॥
तत्र स्वातन्त्र्यं हेतुः । रसादेरस्वातन्त्र्यं प्रसिद्धमिति भावः ॥ ११ ॥ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । मत्त एवेति तान्विदि्ध न त्वहं तेषु ते मयि॥१२ ॥
ये चेति ॥
यथा भगवदधीनमिदमेवं भगवानेतदधीनोऽस्तु, भूभूधरादिवदित्यत आह
तदायत्तमिति ॥
इदमेव तदायत्तं न त्वसावेतदायत्त इति भावः । अनेन
‘न त्वहं तेषु ते मयि’
इत्यस्य वैलोम्येनार्थ उक्तो भवति ॥ १२ ॥त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम्॥१३ ॥
अचेतनयेति ॥
प्रकृत्येति शेषः ॥
तन्मेयत्वादिति ॥
विष्णुनैव सम्यग् ज्ञातत्वात् । लक्ष्म्या चेत्यर्थः । अनेन त्रिभिरित्यादेरर्थ उक्तो भवति । ममेत्यस्यार्थो वशगयेति । विष्णुनैवेत्यनेनाचेतनप्रकृत्याद्याहितं स्वविषयमोहं भगवान् कुतो न वारयतीत्याशङ्कानिवारकस्य नाहं प्रकाश इत्यस्यार्थ उक्तो भवति ॥ १३ ॥दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते॥१४ ॥
ये त्विति ॥
अनेन मामेवेत्येतद्व्याख्यातं भवति । भगवत्प्रपत्त्या कथं मायातरणमित्यत आह
लक्ष्मीरिति ॥
ननु पूर्वं लक्ष्म्या एव भगवद्वशत्वस्योक्तत्वात् कथं ते उभे अपि विष्णोर्वशे उच्येते इत्यत उक्तम्
लक्ष्मीः सा जडमाया या देवतेति ॥
लक्ष्म्या भगवद्वशत्वे उभयोरपि भगवद्वशत्वं भवति । अचेतनप्रकृतेर्लक्ष्मीवशत्वात् । अतो मोहकप्रकृत्योर्भगवद्वशत्वात् तत्प्रपत्त्या मायातरणं युक्तमेव । अतस्तं प्रपद्येतेत्यर्थः । अनेन गुणमयीत्येतद् व्याख्यातं भवति । ततोऽनन्यभक्त्येत्यनेनैकभक्तिरित्यादेः तात्पर्यमुक्तं भवति । अनन्यभक्तिर्नाम कीदृशीत्यत आह
यादृशीति ॥
तत्र
भक्तिविषये । अनेनैकस्मिन् भक्तिर्यस्येति विग्रहः सूचितः । तेन सामानाधिकरण्याङ्गीकारे भक्तिशब्दस्य प्रियादित्वेन पुंवद्भावाप्राप्तिश्च परिहृता ॥ १४ ॥बहूनां जन्मनामन्ते ज्ञानावान्मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः॥१९ ॥
एवमिति ॥
एवं जानन्निति ॥
ज्ञात्वा भजन्नित्यर्थः । अनेन
‘ज्ञानी त्वात्मैव मे मतम्’
इत्याद्युक्तार्थं भवति । अवधारणार्थतुशब्दस्यार्थो
नान्यथेति ॥
भगवज्ज्ञानिनामेव मोक्षो नान्येषामिति कुत इत्यत आह
पूर्णमिति ॥
भगवत एव पूर्णत्वेन मोक्षदानशक्तिर्नान्येषामित्यर्थः । अनेन वासुदेव इत्यस्यार्थ उक्तो भवति । यदि भगवज्ज्ञानेन मोक्षस्तर्हि सर्वेषां स्यादित्यत आह
एवंविदिति ॥
१९ ॥कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेन्यदेवताः । तं तं नियममास्थाय प्रकृत्या नियताः स्वया॥२० ॥
यदिति ॥
मिश्रयाजिन इति ॥
वैपरीत्येन यजन्त इत्यर्थः । एतेन कामैरित्यादेस्तात्पर्यमुक्तं भवति । किं तेषां फलमित्यत आह
विष्णुमिति ॥
तत्परं
रमादिभ्यः परम् ।
अज्ञात्वा
विपरीतं ज्ञात्वा च । कारणविशेषाज्ज्ञानरहितस्य विपरीतज्ञानाभावेनान्यदेवताराधनेन किं स्यादित्यत आह
अज्ञानामिति ॥
उपलक्षणं चैतत् । निर्णेत्रभावादिकारणान्तरं च द्रष्टव्यम् । समर्चनं कर्तव्यमितीति शेषः । पृथक्सेवापरिवारतां विनैव, अन्यदेवतायजनं वा विद्यादि तद्विषयज्ञानं स्तवनादि चेत्यर्थः । एतच्च फलं नाज्ञानिमात्रस्य, अपि तु ज्ञानानन्तरं यः पूर्वमार्गं त्यक्त्वा भगवद्भजनमेव कुर्यात् तस्यैव । केषाञ्चित्तमोयोग्यानामपि कदाचिदज्ञत्वसम्भवादिति भावेनाह
यदीति ॥
इदं च तमोयोग्यव्यावृत्तिमात्रम् । नित्यत्रैविद्यानामपि फलसद्भावात् । प्राचीनापराधसद्भावात् कथमुत्तरापेक्षया फलमित्यत आह
अजानतेति ॥
स्वतो भागवत एव यदि विष्णुतत्त्वं ज्ञात्वाऽपि कारणविशेषात् पूर्वमार्गं न जहाति तस्य किं स्यादित्यत आह
अत्याग इति ॥
ज्ञापयति त्यक्तुमिति शेषः । जन्मान्तर इत्युपलक्षणम् । यदि स्वीय इति सम्बन्धः । किञ्चन गुर्वादिकं निमित्तीकृत्य, न तु साक्षात् । अनेन लभते चेत्यादेर्विषय उक्तो भवति । एवं रसादिकारणत्वाद्रसादिनामवत्वं विष्णोर्नाभेदेनेति प्रमाणवचनेनोक्तम् । उपक्रमोपसंहारयोः सर्वस्य भगवदधीनत्वोक्तेश्च तज्ज्ञायत इत्याह
मत्त एवेति ॥
‘ज्ञानी त्वात्मैव मे मतम्’ इत्येतत् ‘एवं जानंस्तमाप्नोति’ इति प्रमाणवचनेन व्याख्यातम् । युक्त्या च तदुक्तार्थमेव न त्वभेदार्थमिति साधयितुमाह
आप्नोतीति ॥
आत्मशब्दस्याप्तिवाचित्वं कुत इत्यत आह
यच्चेति ॥
‘यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यते ॥’ इति भारतवाक्यम् । कुतोऽयमात्मशब्द आप्त्यर्थः, स्वरूपार्थः किं न स्यादित्यत आह
आस्थित इति ॥
एतदर्थविवरणात्मके वाक्यशेषे परमां गतिमुद्दिश्य भगवन्तमुपासीनस्य ज्ञानिनस्तत्प्राप्तेरुक्तत्वात् अत्रापि प्राप्त्यर्थ एवाऽत्मशब्दो न स्वरूपार्थ इत्यर्थः । ननु ज्ञानानन्तरं मोक्षस्य कर्मक्षयमात्रावधित्वाद् ‘बहूनां जन्मनाम्’ इति बहुजन्मनियतिः कथमुच्यत इत्यत आह
बहूनामिति ॥
वासुदेव इत्येतत् पूर्णं वस्त्विति प्रमाणवचनेन व्याख्यातम् । युक्त्या चैतमर्थं साधयितुमाह
वासुदेव इति ॥
अत्र वासुदेवस्य पूर्णत्वमेवोच्यते, न तु सर्वाभेद इत्यर्थः । प्रमाणवचनेन भगवज्ज्ञानिन एवानुत्तमगतिर्भवतीत्यत्र हेत्वभिधायकतयैव एतद्योजितम् । अथ ‘बहूनां जन्मनामन्ते’, ‘वासुदेवः सर्वमिति ज्ञानवान् भवति’ इत्यपि योजनां सूचयति
जानन्निति ॥
अभेदार्थमेवेदं वाक्यं किं न स्यादित्यत आह
प्रपद्यन्त इति ॥
‘देवान् देवयजो यान्ति’ इत्येतद्
‘विष्णुं तत्परमं ज्ञात्वा’
इत्यादिना विवृतम् ॥ २० ॥अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि॥२३ ॥
ज्ञात्वेति ॥
किमज्ञानमात्रेण तम इति, नेत्याह
तथापीति ॥
यद्यप्येवमुच्यते तथापीत्यर्थः। तावदिति संयोज्यम् । केचन भागवताः पुरुषाः । केचन त्रैविद्याः सन्ति । तेषां च मोक्षादिकं फलमित्युक्तम् ॥ २३ ॥अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः । परं भावमजानन्तो ममाव्ययमनुत्तमम्॥२४ ॥
‘अव्यक्तम्’ इति ।
तदर्थं पूर्ववदेषां फलस्यानुक्तत्वात् फलं च स्मृत्यैवाह
अव्यक्त इति ॥
एवं सर्वप्रेरकत्वादिमहिमवांश्चेद्भगवान् तत्कथं भगवतः केचिज्जीवाभेदं मन्यन्त इत्यतो वैतदुच्यते । सर्वात्मना ज्ञेयत्वाज्ञेयत्वाभ्यां जीवेश्वरयोर्व्यक्ताव्यक्तत्वम् ॥२४ ॥वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन॥२६ ॥
वेदाहमिति ॥
तत्र कस्यापि भगवज्ज्ञानाभावे वेदादिवैय्यर्थ्यापत्तेः कथं ‘मां तु वेद न कश्चन’ इत्युच्यत इत्यतस्तत्स्मृत्यैव व्याचष्टे
यथेति ॥
२६ ॥इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । सर्वभूतानि संमोहं सर्गे यान्ति परन्तप॥२७ ॥
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाणकालेपि च मां ते विदुर्युक्तचेतसः॥३० ॥
तदिति ॥
इत्युक्ते जातामिति शेषः ॥३०॥अध्याय 8
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते॥१ ॥
॥ उक्तेति ॥
यदुक्तम् ‘ते ब्रह्म तद्विदुः’ इत्यादि तद्व्याख्यानमत्रादौ क्रियते ॥ ‘प्रयाणकालेऽपि च माम्’ इत्युक्तव्याख्यानप्रसङ्गेन अन्तकालस्मरणफलं, तदुपायप्रकारो, ब्रह्मप्राप्तिमार्गश्चेत्येतदुच्यत इत्यर्थः । अन्तकालस्मरणादीनां ब्रह्म प्राप्यते एभिरिति ब्रह्मप्राप्तिशब्दाभिधेयत्वं ज्ञातव्यम् ।अक्षरं ब्रह्म परमं स्वभावोध्यात्ममुच्यते । भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः॥३ ॥
परमेति ॥
तथैव परमाक्षरं ब्रह्मेत्येव ।अक्षरं ब्रह्म परमं स्वभावोध्यात्ममुच्यते । भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः॥३ ॥
ये चेति ॥
अक्षरशब्दस्य विष्णौ मुख्यत्वेऽपि ‘ये चाप्यक्षरमव्यक्तम्’ इत्यत्र तावद्विष्णोरन्यदेव अक्षरशब्दवाच्यमित्येवावसीयते । ‘ये भक्तास्त्वां पर्युपासते’, ‘ये चाप्यक्षरम्’ इति भगवदक्षरयोः पृथक्त्वेन तदुपासकयोस्तारतम्यस्य पृष्टत्वात् । ‘ये त्वक्षरम् अनिर्देश्यम्’, ‘ये तु सर्वाणि कर्माणि’ इत्यादिनाऽक्षरोपासकानां भगवदुपासकानां च फलतारतम्यस्य कथनाच्च । तथा ‘कूटस्थोऽक्षर उच्यते’ इत्यत्रापि विष्णोरितर देवाक्षरमित्यवसीयते । ‘अहमक्षरादपि चोत्तमः’ इति विष्णोरक्षरादुत्तमत्वकथनान्मुख्यार्थासम्भवे गौणाङ्गीकारस्य न्याय्यत्वात् । प्रकृते तु बाधकाभावाद्विष्णुविषयत्वमेवेति भावः ।अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः॥५ ॥
मद्भावमिति ॥
अन्यथा तं तमेवैतीति वाक्यशेषविरोध इति भावः ।कविं पुराणमनुशासितारम् अणोरणीयांसमनुस्मरेद्यः। सर्वस्य धातारमचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात् ॥॥ ९ ॥
‘कविम्’ इति ॥
तत्राऽदित्यवर्णश्चेच्छरीरित्वेन जन्मादिप्रसङ्ग इत्यत उक्तम् ‘तमसः परस्तात्’ इति । तदनूद्य व्याचष्टे
तमस इति ॥
‘अव्यक्तं वै तमः’ इति हि श्रुतिः ॥ ९ ॥यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥॥ ११ ॥
मन आदीनामिति ॥
‘तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये’ इत्यस्य तत्स्मरणप्रकारं प्रवक्ष्य इत्यर्थः ॥ ११ ॥ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् । यः प्रयाति त्यजन् देहं स याति परमां गतिम्॥१३ ॥
एकेति ॥
ओमित्येकमक्षरं वाचकं यस्य तदेकाक्षरमित्यर्थः । ब्रह्मशब्दस्य परब्रह्मण्येव मुख्यत्वान्न प्रतीत एवार्थः ॥ १३ ॥आब्रह्मभवनाल्लोकाः पुनरावर्तिनोर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते॥१६ ॥
‘आब्रह्मे’ति ।
तत्र ‘आ जनान्न जनिर्भुवि’ इति वचनाज्जनलोकादिस्थितानामपि जन्माद्यभावात् कथं ब्रह्मभवनमारभ्य पुनरावृत्तिरुच्यत इत्याशङ्कां स्मृत्यैव परिहरति
नियमादिति ॥
अत्र जन्मपदं मरणस्याप्युपलक्षणकम्
अंशलयाविति ॥
अंशेन भूमौ जननं, लयान्ते च यद् जननं, तदादौ मरणं चेत्यर्थः ।सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः । रात्रिं युगसहस्रान्तां तेहोरात्रविदो जनाः॥१७ ॥
‘सहस्र’ इति ।
तत्र सहस्रपदं दशशतवाचीत्यन्यथाप्रतीतिनिरासाय व्याचष्टे
सहस्रमिति ॥
बह्वेव प्रसिद्धसहस्रादिति शेषः ।यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ॥२३ ॥
‘यत्र’ इति ।
यत्र यस्मिन् काले मृता अनावृत्तिं गच्छन्ति, यस्मिंश्च पुनरावृत्तिं गच्छन्ति, तं कालं वक्ष्यामीत्यन्यथाप्रतीतिनिरासाय व्याचष्टे
यत्रेति ॥शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुनः॥२६ ॥
अग्नीति ॥
अग्निर्ज्योतिर्धूमानां गम्यतया वक्ष्यमाणानामिति शेषः । गम्यतया वक्ष्यमाणेषु कालाभिमानिनां बाहुल्याद् अल्पसलिलयुतपयसि पयःपदस्य सलिलोपलक्षकत्ववत् कालपदस्येतरोपलक्षकत्वादिति भावः ।नैते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥२७ ॥
‘नैते’ इति ।
तत्र परोक्षतः सृतिज्ञानमात्रेणेदं फलमित्यन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे
मार्गाविति ॥
योगीत्यस्यार्थो ब्रह्म च पश्येदिति । वेदेष्वित्यस्यार्थः ‘सर्वपुण्यातिगो योगी यात्यसौ ब्रह्म तत्परम्’ इति ॥ २७-२८ ॥अध्याय 9
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेशुभात्॥१ ॥
॥ सप्तमेति ॥
भगवन्महिमानमिति शेषः । न चैवमस्याष्टमत्वेन भवितव्यमिति वाच्यम् । अर्जुनप्रश्नपरिहारेणान्तरितत्वात् ।न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन्न च भूतस्थो ममात्मा भूतभावनः॥५ ॥
‘मया’ इति ।
तत्र ‘मत्स्थानि सर्वभूतानि’, ‘न च मत्स्थानि भूतानि’ इति व्याहतमित्याशङ्कां स्मृत्यैव परिहरति
विष्णुगानीति ॥
विष्णोः स्पर्शरहितत्वात् स्पृष्ट्वा तत्रस्थत्वाभावादविरोध इत्यर्थः ।मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद्विपरिवर्तते॥१० ॥
‘मया’ इति ।
तत्राप्यध्यक्षपदेनौदासीन्यमेवोच्यत इत्यन्यथाप्रतीतिनिरासाय तत्स्मृत्यैव व्याचष्टे
अध्यक्ष इति ॥
एतदधिकृत्याक्षाणि यस्यासावध्यक्ष इत्यर्थः॥ १० ॥अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम्॥११ ॥
मानुषीमिति ॥
नात्र भगवद्देहस्य मानुषत्वमुच्यते, येन विरोधः स्यात् । किन्तु मूढानामवज्ञानकारणतया मानुषसादृश्येन प्रतीयमानत्वमेवेत्यर्थः । तथाप्यत्र ‘तनुमाश्रितम्’ इति भगवतस्तद्देहस्य च भेदोक्तेः पूर्वोक्तविरोध इत्याशङ्कां स्मृत्यैव परिहरति
तन्वेति ॥
यथा देवदत्तशरीरं तदधीनमेवं भगवद्देहस्यापि तदधीनत्वाद् भगवतस्तदाश्रितत्वप्रयोगो गौण इत्यर्थः।ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्॥१५ ॥
‘महात्मानः’ इति ।
तत्रैकत्वेनेत्येतदन्यथाप्रतीतिनिरसाय स्मृत्यैव व्याचष्टे
एकेति ॥
एकत्वेनेत्यादिपदचतुष्टयस्यैकमूर्तिरित्यादि यथाक्रमं व्याख्यानम्॥ १५ ॥अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् । मन्त्रोहमहमेवाज्यमहमग्निरहं हुतम्॥१६ ॥
अर्च्यत्वादिति ॥
ऋगञ्चन इति धातुः । ‘सर्वदा समः, तेन साम’ इति हि श्रुतिः । यदस्ति तज्जानातीति यज्ञः । स्वात्मानं धत्त इति स्वधा । मानात् त्रातीति मन्त्रो, ज्ञातो रक्षतीत्यर्थः । उष प्लुष दाह इति धातोस्तापत्रयदग्धा उष्टाः । दर्भशब्दो दरं बिभर्तीत्यन्यत्रस्थो व्याक्रियते । आहूतत्वाद्यज्ञादाविति शेषः । अगतेः स्वशक्त्या गन्तुमशक्तस्य जगतः ॥१६॥पिताहमस्य जगतो माता धाता पितामहः । वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च॥१७ ॥
तत्तदिति ॥
एतत्स्मृतावपि पूर्वमेवास्यार्थस्योक्तत्वं द्योतयत्येवंशब्दः । तत्तत्पदार्थभिन्नत्वे हेतुः स्वातन्त्र्यं सर्वकर्तृत्वं च । भिन्नत्वे कथं तत्तन्नामवाच्यत्वम्? केवलं तत्तच्छब्दप्रवृत्तिनिमित्तानन्तगुणत्वादेवेत्यर्थः । तदधीनत्वादर्थवदिति न्यायेन स्वातन्त्र्यादिकं च तत्तच्छब्दवाच्यत्वे कारणम् ।गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्॥१८ ॥
प्रलयेति ॥
१८ ॥तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन॥१९ ॥
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते॥ २१ ॥
अनन्येति ॥
अन्यदेवताभक्ता यजन्त इति त्रैविद्यानामन्यदेवतायाजित्वमुक्तम् । भागवतानां तत्प्रतियोगितयोक्तस्य ‘अनन्याः’ इत्यस्यार्थः ‘अनन्यदेवतायागात्’ इति । ‘न तु मामभिजानन्ति तत्त्वेन’ इति त्रैविद्यस्यातिशयभक्तिज्ञानाभाव उक्तः । तत्त्वज्ञानाभावे भक्त्यभावात् । तत्प्रतियोगितयोक्तस्य ‘पर्युपासते’ इत्यस्यार्थो ‘भक्त्युद्रेकात्’ इति । भक्युद्रेकेणोपासनस्यैव पर्युपासनत्वात् । स्वर्गतिं प्रर्थयन्ते कामकामाः इति त्रैविद्यानां कामनमुक्तम् । तत्प्रतियोगितयोक्तस्य ‘चिन्तयन्तो माम्’ इत्यस्यार्थः ‘अकामनात्’ इति । मामेव चिन्तयन्तो न तु काममित्यर्थः । ‘मामिष्ट्वा मामैव यजन्ति’ इति त्रैविद्यानामन्ते समर्पणमुक्तम् । तत्प्रतियोगितयोक्तस्य ‘नित्याभियुक्तानाम्’ इत्यस्यार्थः ‘सदायोगात्’ इति । सर्वदा स्मरणोद्देशादियोगादित्यर्थः । वैशिष्ट्यं फलेनाधिक्यम् । ‘योगक्षेमं वहामि’ इत्यपुनरावृत्तिपुरुषार्थदानस्योक्तत्वात् । वैष्णवादपि भगवद्याजित्वेऽपीत्यर्थः । ‘पशून् देवताभ्यः प्रत्यौहत्’ इत्यादौ ब्रह्मादीनामप्यन्यदेवतायाजित्वं श्रूयत इत्यत आह
वैष्णवा इति ॥
न तु देवतात्वेनेत्यर्थः ।यान्ति देवव्रता देवान् पितॄन् यान्ति पितॄव्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोपि माम् ॥॥ २५ ॥
मामिष्ट्वेति ॥
न चात्र ‘न तु मामभिजानन्ति तत्त्वेन’ इत्युक्तत्वाद् भगवन्तमजानतां मिथ्याज्ञानिनां वा त्रैविद्यानां स्वर्गात् च्यवनमुच्यत इति कल्प्यम् । ‘न तु मामभिजानन्ति तत्त्वेन’ इत्यस्य सर्वदेववरत्वेन जानन्तोऽपि ब्रह्मरुद्रादीनां तत्परिवारत्वादिकं सम्यङ् न जानन्तीत्यर्थोपपत्तेः । कुतोऽयमर्थः कल्प्यते? ‘त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते’ इति त्रैविद्यस्यान्ते भगवत्समर्पणेन भगवद्यजनप्रार्थनयोरुक्तत्वात् सर्वदेववरत्वाज्ञाने तदसम्भवात् । अभिशब्दबलाच्चेति भावः ।अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः॥३० ॥
नास्येति ॥
भक्तोऽपि यो द्वेष्योऽसौ नास्ति । अभक्तोऽपि यः प्रियोऽसौ नास्तीत्यर्थः । अनेन ‘न मे द्वेष्योऽस्ति न प्रियः’ इत्यत्रापि भक्तोऽभक्तश्चेति संयोज्यमित्युक्तं भवति । भक्त्यनुसारेण फलद इति भक्तेष्वेव प्रीतिं करोम्यभक्तेष्वेवाप्रीतिमित्यर्थः । यदि भक्तेषु द्वेषम् अभक्तेषु प्रीतिं कुर्यात्तर्ह्येव विषमः स्यात् । न चैवम् । अतः सम एवेति भावः । ये भजन्ति तु मां भक्त्या तेषु प्रीतिं करोमीति वक्तव्यम् । किमेतदभक्तसाधारणं मयि त इत्याद्युच्यत इत्यत आह
प्रीत्येति ॥
वर्तन्त इत्यादि शेषः । तदेवोच्यत इति भावः ॥ २९ ॥किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा । अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्॥३३ ॥
पापादीति ॥
स्वतो विप्राद्युत्तमवर्णानां क्षत्रियाद्यधमवर्णित्वं पापकारितम् । स्वतः शूद्राद्यधमवर्णानां वैश्याद्युत्तमवर्णित्वं पुण्यकारितमित्यर्थः । अत्रादिपदेन कामश्च भवति । स्वाभाविकविप्रत्वाद्याः पुण्या इत्युच्यन्त इत्यर्थः ।अध्याय 10
भूय एव महाबाहो शृृणु मे परमं वचः । यत्तेहं प्रीयमाणाय वक्ष्यामि हितकाम्यया॥१ ॥
न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः॥२ ॥
उपलक्षणार्थमिति ॥
सुरगणा महर्षय इति पदद्वयं सर्वोपलक्षकम् । सुरगणादीनामज्ञानेऽन्येषां सुतरां तद्भावादिति भावः ॥ २ ॥यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते॥३ ॥
अनस्येति ॥
अनो मुख्यप्राणः ॥ ३ ॥बुदि्धर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवोभावो भयं चाभयमेव च॥४ ॥
बुद्धिरिति ॥
बुत् बोधः । तदाश्रयत्वाज्जलधिरितिवत् तज्ज्ञानाश्रयोऽन्तः करणं बुद्धिरित्युच्यत इत्यर्थः ॥४॥महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥६ ॥
॥ मरीचिरिति ॥
ए चतुर्दशमनुषु चत्वारोऽत्र के विवक्षिता इत्यतो न केवलमत्र मनुपदेन प्रसिद्धमनवोऽपि तु सर्वदेवाः । तेषां चतुष्ट्वं विप्रादिवर्णविवक्षयेत्येत्र स्मृतिमाह
मनव इति ॥
मनु अवबोधन इति धातोः बोधवत्त्वान्मनव इत्युक्ते बोधस्य सर्वप्राणिसाधारणत्वात् को विशेषो देवादीनामित्यतो बोधवैशेष्यादित्युक्तम् ।एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोविकम्पेन योगेन युज्यते नात्र संशयः॥७ ॥
॥ युज्यत इति ॥
युज्यते उपेयं सम्भवतीत्यर्थः। शक्तिश्च, युज्यते शक्यमनयेति योग इत्यर्थः ।अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः॥८ ॥
भजन्ते मामिति ॥
मामित्यनुक्ते जीवैश्वरैक्याभिप्रायेण स्वात्मानमुद्दिश्याहमेव सर्वस्य प्रभव इत्यादि मत्वा भजन्त इति प्रतीतिः स्यात् । तन्निवृत्त्यर्थं मामित्युक्तमित्यर्थः ॥ ८ ॥मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च॥९ ॥
वेदानां सामवेदोस्मि देवानामस्मि वासवः । इंद्रियाणां मनश्चास्मि भूतानामस्मि चेतना॥२२ ॥
येषामिति ॥
स्वजातेरिति ॥
स्वजात्येकदेशाद्युपलक्षणम् । तदेव प्रपञ्चयति
ब्रह्मेति ॥
आधिक्यहेतुरित्यादौ ब्रह्मण इत्यादि शेषः ॥ २२ ॥नान्तोस्ति मम दिव्यानां विभूतीनां परन्तप । एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया॥४० ॥
केष्विति ॥
यद्यत्र रव्यादिकमेव विभूतिरूपं न तु तदन्तर्गतमिति स्यात् तदा ‘केषु केषु च भावेषु चिन्त्योऽसि’ इति प्रश्नाननुगुणत्वं परिहारस्य स्यादिति भावः । जीवपदं जडस्याप्युपलक्षणकम् । यदि तत्तत्पदार्थगतमेव विभूतिरूपं तर्हि ‘सिद्धानां कपिलो मुनिः’, ‘मुनीनामप्यहं व्यासः’, ‘वृष्णीनां वासुदेवोऽस्मि’, ‘रामः शस्त्रभृतामहम्’, ‘आदित्यानामहं विष्णुः’, इत्युक्तानां कपिलादीनामपि भगवद्रूपत्वाभावः स्यादित्याशङ्कां स्मृत्यैव परिहरति
॥ द्विविधमिति ॥
वैभवं रूपं विभूतिरूपम् । अत्रापि स्वजातिपदमन्योपलक्षकम् । केषु केष्विति प्रश्नस्तिरोहितरूपविषय इति भावः ।यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम्॥४१ ॥
यद्यदिति ॥
तत्र यद्यद्विभूत्यादिमत्तत्तन्मयाऽधिष्ठितमित्यनुक्त्वा मम तेजोंऽशासम्भवमिति स्वांशजातत्वं तस्य किमर्थमुच्यत इत्यत आह
ममेति ॥
प्रकाशरूपांशेन संयुक्तं भवतीति तेजोंऽशसम्भवं न तु तेजोंऽशात् सम्भवो यस्येति । येनासङ्गतिरिति भावः ॥ ४१ ॥अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नं एकांशेन स्थितो जगत्॥४२ ॥
किमिति ॥
किं ज्ञातेनेति वचनमुक्तज्ञानादपि वक्ष्यमाणज्ञानस्याधिकफलत्वज्ञापनार्थमेव, न तूक्तज्ञानस्य निष्फलत्वज्ञापकमित्यर्थः । उक्तज्ञानस्य निष्फलत्वज्ञापकमेव किं न स्यादित्यत आह
अन्यथेति ॥अध्याय 11
मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोयं विगतो मम॥१ ॥
आत्मानमिति ॥
दर्शयाऽत्मानमव्ययमित्यात्मप्रदर्शनप्रार्थनानन्तरं दर्शयामास पार्थाय परमं रूपमैश्वरमिति विश्वरूपप्रदर्शनस्योक्तत्वाद् विश्वरूपस्य साक्षादीश्वरस्वरूपत्वं सिद्धम् । अन्यथा प्रदर्शनस्य प्रार्थनाननुगुणत्वप्रसङ्गात् । देवमित्युक्त्या साक्षादपि तत्सिद्धम् । ‘अव्ययम्’ ‘परमम्’ ‘सर्वाश्चर्यमयम्’ ‘अनन्तं विश्वतोमुखम्’ इत्यादीश्वरविशेषणयुक्ततया विश्वरूपस्योक्तत्वाच्च तस्य साक्षादीश्वरस्वरूपत्वं सिद्धम् । साक्षादीश्वरस्वरूपत्वे च तस्य नित्यत्वं चिदानन्दाद्यात्मकत्वं च सिद्धम् । भगवतो नित्यत्वाच्चिदानन्दाद्यात्मकत्वात् । अतो विश्वरूपमचेतनोपादानकं निर्मायोत्युक्तमयुक्तमिति भावः ।ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः । प्रणम्य शिरसा देवं कृताञ्जलिरभाषत॥१४ ॥
॥ एकमिति ॥
‘विशेषादेव केवलम्’ इत्युपपादकान्तरम् । भेदाभावे कथं विशेषमात्रेण व्यवहारविशेष इत्यत आह
अभाव इति ॥
यत्र वस्तुनि भेदाभावः प्रमाणावसितो भवेत्तत्र व्यवहारविशेषनिर्वाहक एव हि विशेषो नामतः । अतो विशेषादेव प्रमाणावसितभेदाभावेषु भगवद्रूपेषु व्यवहारविशेषो युक्त इति भावः ।पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् । ब्रह्माणमीशं कमलासनस्थं ऋषींश्च सर्वान् उरगांश्च दिव्यान्॥ १५ ॥
कमलेति ॥
कथं ब्रह्मणो ब्रह्मणि स्थितत्वमित्यतो रुद्रस्येशपदोदितस्येदं विशेषणमिति भावेनाह
रुद्रमिति ॥
भवेदिदं व्याख्यानं यदि रुद्रस्य ब्रह्मणि स्थितत्वं भवेत्, तदेव कुत इत्यत आह
विष्णुमिति ॥
१५ । ।द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः । दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन्॥ २० ॥
द्यावापृथिव्योरिति ॥
‘अनादिमध्यान्तम्’ इति परिमाणाऽनन्त्यमुच्यत इत्यन्यथाप्रतीतिनिरासायाह
नान्तमिति ॥
अनादिमध्यान्तमित्यत्र परिमाणेतरगुणाऽनन्त्यमेवोच्यते, न तु परिमाणाऽनन्त्यम् । तस्य ‘नान्तं न मध्यम्’ इत्यनेनोक्तत्वादित्यर्थः । ‘त्वया ततं विश्वमनन्तरूप’ इत्यत्रानन्तरूपेति पुनरुक्तिरित्यत आह
त्वयेति ॥
तर्हि ‘नान्तं न मध्यं न पुनस्तवादिं पश्यामि’ इति परिमाणाऽनन्त्यस्योक्तत्वात् ‘त्वया ततं विश्वम्’ इति पुनरुक्तिरित्यत आह
स्वयमिति ॥
नान्तं पश्यामीत्युक्ते नेश्वरस्य परिमाणाऽनन्त्यं सिध्यति । विद्यमानमन्तं स्वयं न पश्यतीत्यपि प्रतीतेः । तन्निवृत्त्यर्थं न केवलमहं पश्यामि, किन्तु त्वया ततं विश्वमित्युक्तत्वेन सप्रयोजनत्वान्न पुनरुक्तिरिति भावः । तथापि ‘पश्यामि त्वां सर्वतोऽनन्तरूपम्’ , ‘द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः’ इत्यादिपुनरुक्तिरित्यत आह
अन्यदिति ॥
एतद्वाक्यजातस्य विष्णोदर्ेेशतः कालतो गुणतश्चानन्त्ये स्वस्य महातात्पर्यज्ञापनायाभ्यासरूपत्वान्न पुनरुक्तिदोष इति भावः ।दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि । दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास॥ २५ ॥
त्रिलोकेष्विति ॥
किं विश्वरूपदर्शनं सर्वभयङ्करमित्यत आह
दर्शनेति ॥आख्याहि मे को भवानुग्ररूपो नमोस्तु ते देववर प्रसीद । विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम्॥ ३१ ॥
विशेषेति ॥
गुणादेः स्वयमेवोक्तत्वात् किं पुनः प्रश्नेनेत्यतो विशेषेत्युक्तम् । स्वाज्ञातविषय इत्यर्थः । स्वरूपविषय एव किं न स्यादित्यत आह
‘विष्णो’ इतीति ॥
‘भासस्तवोग्राः प्रतपन्ति विष्णो’ इत्यर्जुनेन भगवतः सम्बोधितत्वेन विष्णुरिति पूर्वमेव ज्ञातत्वाद् विशेषगुणकर्मादिविषय एवायं प्रश्नो न स्वरूपमात्रविषय इत्यर्थः ॥ ३१ ॥कालोस्मि लोकक्षयकृत्प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः । ऋतेपि त्वा न भविष्यन्ति सर्वे येवस्थिताः प्रत्यनीकेषु योधाः॥ ३२ ॥
काल इति ॥
कलिताः स्वसम्बद्धाः । कल बन्धने, कल संहरणे, कल ज्ञाने, कल विद्रावण इति पठन्ति । उग्ररूपः किमर्थमिति प्रश्नपरिहारायोक्तम् ‘लोकक्षयकृत्’ इत्यादि । तदुपपाद्यते ‘ऋतेऽपि’ इति । तत्र युधिष्ठिरादीनामप्युर्वरितत्वात् कथं त्वामृते सर्वे मरिष्यन्तीत्युच्यत इत्यत आह
अपीति ॥
नात्रार्जुनमेकमृते सर्वे मरिष्यन्तीत्युच्यते । किन्तु अर्जुनभ्रातॄनश्वत्थामादींश्च विना । अपिपदेन तेषां समुच्चितत्वादिति भावः । ३२ ॥द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् । मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान्॥ ३४ ॥
जयद्रथस्येति ॥
योऽस्य शिरः छिन्नं भूमौ पातयेत्तच्छिरो भिद्यतामिति पितृदत्तातिबलिष्ठवरादेवास्य विशेषोक्तिर्न तु द्रोणादिवत् सामर्थ्यविशेषादित्यर्थः ।वायुर्यमोग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च । नमो नमस्तेस्तु सहस्रकृत्वः पुनश्च भूयोपि नमो नमस्ते॥ ३९ ॥
॥ वायुरिति ॥
वबयोरभेदाद् वकारो बलवाची । अयपय गताविति धातोः आयुशब्दो ज्ञानवाची । इदि परमैश्वर्य इति धातुः ॥३९ ॥यच्चापहासार्थमसत्कृतोसि विहारशय्यासनभोजनेषु । एकोथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम्॥ ४२ ॥
एक इति ॥
तर्ह्यन्वयो नोपपद्यत इत्यतस्तं दर्शयति
॥ अपीति ॥
सर्वोत्तमत्वेनासत्कारायोग्योऽप्यसत्कृतोऽसीत्येवात्रोच्यते । नान्यत् । अर्जुनस्य भगवदैक्ये मानाभावादिति भावः ।किरीटिनं गदिनं चक्रहस्त- मिच्छामि त्वां द्रष्टुमहं तथैव । तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते॥ ४६ ॥
तेनैवेति ॥
यदा रूपान्तरं प्रतीयते तदा विश्वरूपत्याग एव किं न स्यात्, किं तद्गोपनेनेत्यत आह
पञ्चाननमिति ॥
नरसिंहरूपेऽपि गोपितविश्वरूपत्वोक्तेर्न रूपान्तरप्रतीतौ विश्वरूपत्याग इति भावः ॥ ४६ ॥मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् । तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम्॥ ४७ ॥
विश्वेति ॥
‘यन्मे त्वदन्येन न दृष्टपूर्वम्’ इत्यर्जुनेतरैर्विश्वरूपस्यादृष्टत्वमुच्यते इत्यन्यथाप्रतीतिनिरासायाह
त्वदिति ॥
नात्र विश्वरूपस्यार्जुनेतरैरदृष्टत्वमुच्यते । प्रत्युतेतः पूर्वं केनापि न दृष्टमित्यनुक्त्वा त्वदन्येनेत्युक्तत्वात् तैनैवेतः पूर्वम् इन्द्रशरीरेण दृष्टमित्येवोच्यते इत्यर्थः । तर्हि ब्रह्मादिभिरपि न दृष्टमित्यपि नाशङ्कनीयम् । त्वदन्येनेत्यर्जुनादधमविवक्षयोक्तत्वादित्याह
त्वदिति ॥
नैतावताऽर्जुनाधमैर्न दृष्टमिति कल्पनीयम् । अधमैरप्यर्जुनवन्न दृष्टमित्यभिप्रायेणैवादृष्टत्वस्योक्तत्वादित्याह
तैरिति ॥
भवेदेवैतद् व्याख्यानं यदि विश्वरूपं ब्रह्मादिभिरिन्द्रेणार्जुनादधमैश्च दृष्टम्, इन्द्रेण चार्जुनवदेव दृष्टम्, अर्जुनादधमैस्तद्वन्न दृष्टमित्येतत्सिध्येत्, तदेव कुत इत्यत आह
विश्वरूपमिति ॥
इन्द्रस्याधिकदर्शित्वेऽल्पदर्शित्वे वा विशिष्य त्वयेन्द्रशरीरेण दृष्टमित्युक्तिर्न सम्भवति । आधिक्येऽनुक्तेराधम्ये निषेधस्य चादर्शनात् ॥ ४७ ॥न वेदयज्ञाध्ययनैर्न दानै- र्न च क्रियाभिर्न तपोभिरुग्रैः । एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर॥ ४८ ॥
वेदेति ॥
नोत्तरवाक्येऽर्जुनादन्येषां विश्वरूपदर्शनाभाव उच्यते । किन्तु त्वदवरैस्त्वद्वन्न दृष्टमित्युक्तेः स्वतस्तथा दर्शनाभावेऽपि वेदादिसाधनैस्तथा तैर्दृश्यतामित्याशङ्क्य त्वदवरैर्वेदादिसाधनैरपि त्वद्वन्न द्रष्टुं शक्यत इत्येवोच्यत इति भावः । विश्वरूपस्यार्जुनादन्येनादृष्टत्वमेवार्थः किं न स्यादिति चेन्न । उदाहृतस्मृतिविरोधात् । अत्रापि दृष्ट्वाऽद्भुतं रूपम्, ‘दृष्ट्वा लोकाः’ इत्यादिपूर्ववाक्यविरोधः स्यादित्यत आह
अन्यथेति ॥
४८ ॥इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः । आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा॥ ५० ॥
स्ववदिति ॥
नात्र स्वकशब्देन कृष्णरूपस्य स्वकीयत्वमुच्यते, येन विश्वरूपस्यास्वकीयत्वं स्यात् । किन्तु स्ववत् स्वकीयवत् क्रियते प्रदर्श्यत इति व्युत्पत्त्या स्वकीयतया प्रदर्शनीयत्वमेवेत्यर्थः ।दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः॥५१ ॥
किञ्चिदिति ॥
अन्यथोदाहृतवाक्यविरोधः स्यादित्यर्थः ॥ ५१ ॥सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः॥५२ ॥
य इति ॥
अनेन यन्मम रूपं त्वं दृष्टवानसि, अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणो ये देवास्तेऽपि यद्दृष्टवन्तस्तदिदं सुदुर्दर्शमिति योजना सूचिता भवति । अन्यथोक्तविरोध इति भावः ॥ ५२ ॥अध्याय 12
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः॥१ ॥
॥ साधनेति ॥
मोक्षसाधनयोरव्यक्तभगवदुपासनयोर्मध्ये प्रागुक्तभगवदुपासनस्याधिक्यनिर्णयोऽस्मिन्नध्याये क्रियत इत्यर्थः ।मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः॥२ ॥
नेति ॥
‘अनिर्देश्यमव्यक्तमचिन्त्यं पर्युपासते’ इति व्याहतम् । अनिर्देश्याव्यक्ताचिन्त्यस्योपासनायोगादित्यतः अनिर्देश्यत्वादिकमुपास्यत्वाविरोधेन स्मृत्यैव घटयति
सूक्ष्मत्वादिति ॥ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते॥६ ॥
॥ विष्णोरिति
नात्रानन्ययोगपदेन अन्योपासनसम्बन्धो निषिध्द्यते । किन्त्वन्यस्य भगवदधीनत्वं तत्परिवारत्वं विनोपासनम् । अतो युक्तं प्राचीनव्याख्यानमिति भावः ।श्रेयो हि ज्ञानमभ्यासात् ज्ञानाद्ध्यानं विशिष्यते । ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्॥१२ ॥
वैष्णवानीति ॥
सर्वकर्माणि वैष्णवानि करोतीति योजना । विष्णुविषयतया करोतीत्यर्थः। अर्चामार्चनं प्रतिमास्नापनम् । आदिपदेन ध्यानं च ग्राह्यम् । तद्योगमात्रवान् तत्कर्मत्वोपायमात्रवान् । अनेन मद्योगमिति मत्कर्मत्वयोगमिति व्याख्यातम् । यदि भगवत्कर्मत्वं कामयते तर्ह्येव तद्योगो भवति । न तु काम्येनान्योपासनादिनेत्यर्थः । अनेन ‘सर्वकर्म’ इत्युक्तार्थं भवति । भगवदुपासनेऽपि तारतम्यमाह
असम्यगिति ॥
ध्यानालाभे ज्ञानं, तदलाभेऽभ्यास इत्येतत्समर्थ्यते‘श्रेयो हि’ इति । तदनेन व्याख्यातं भवति । ज्ञानपूर्वध्यानेऽपि सकामान्निष्काममेवाधिकमित्याह
तस्मादिति ॥
तत्र हेतुमाह
तस्मादिति ॥
अनेन ‘ध्यानात्’ इत्येतद् व्याख्यातं भवति ।यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः॥१७ ॥
‘ओष्टा’ इति ॥
तत्र ‘सर्वारम्भपरित्यागी’ इत्येतदन्यथाप्रतीतिनिरासाय चतुर्धा व्याचष्टे
अवैष्णवेति ॥
उक्तार्थानुपपादयति
सर्वेति ॥
सर्वकर्मफलत्यागमित्यनेन सर्वारम्भफलपरित्यागेन सर्वारम्भपरित्यागीत्युक्तं सिध्द्यति । मयीत्यनेन सर्वारम्भाभिमानत्यागेन सर्वारम्भाणां भगवति समर्पणेन च सर्वारम्भपरित्यागीत्युक्तं सिध्द्यति । ‘मयि’ इति वाक्यस्य स्मृत्यैव तथा व्याख्यातत्वात् । आदिपदगृहीतेन ‘सर्वधर्मान् परित्यज्य’ इत्यादिनाऽवैष्णवारम्भपरित्यागेन सर्वारम्भपरित्यागीत्युक्तं सिद्ध्यति । तस्य तथा सयुक्तिकं व्याकरिष्यमाणत्वात् ।ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेतीव मे प्रियाः॥२० ॥
अध्याय 13
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च । एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव॥१ ॥
॥ सर्वेति ॥
यत् प्रथमषट्के प्राचुर्येण ज्ञानसाधनमुक्तं, यच्च द्वितीये भगवत्स्वरूपं निरूपितं, ‘न त्वेवाहम्’ इत्यादौ यज्जीवस्वरूपं प्रदर्शितम्, ‘भूमिरापोऽनलः’ इत्यदौ यत् क्षेत्रमभिहितं तद्विप्रकीर्णतयोक्तं सर्वं बुध्द्यारोहार्थं सङ्क्षिप्यास्मिन्नध्याये प्रदर्शयतीत्यर्थः । सर्वेषामध्यायानामर्थान् सङ्क्षिपति सङ्क्षिप्य दर्शयतीति सर्वार्थसङ्क्षेपः ।क्षेत्रज्ञं चापि मां विदि्ध सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम॥३ ॥
क्षेत्रज्ञ इति ॥
यः क्षेत्रं जानाति स सर्वोऽपि क्षेत्रज्ञः, अतो विष्णुरिति किं विशिष्योच्यत इत्यत आह
न हीति ॥
किमयं स्वयं क्षेत्रान्तर्भूतः सन् तज्जानातीत्यपेक्षायामाह
असाविति ॥
अनेन ‘न सत्तत्’ इति व्याख्यातं भवति । सर्वासन्निहितत्वात् कथं सर्वज्ञानं हरेरित्यत आह
स इति ॥
एतेन ‘बहिरन्तश्च’ इति व्याख्यातं भवति । विष्णोः सर्वजीवाभिन्नत्वात् कथं तेषु स्थितिरित्यत आह
विलक्षणश्चेति ॥
कथं वैलक्षण्यमित्यत आह
सर्वत इति ॥
केशादिषु पाण्यादिशक्तिमत्त्वं युक्तिविरुद्धमित्यतः प्रतीतत्वान्न युक्तिविरुद्धमिति भावेनाह
कृष्णेति ॥
अनेन ‘सर्वतः’ इत्युक्तार्थं भवति । का नाम भगवत्पाण्यादिशक्तिरित्यत आह
सर्वेति ॥
वेत्तीत्येतत् कर्मणोऽप्युपलक्षकम् । अनेन ‘सर्वेन्द्रियगुण’ इति व्याख्यातं भवति । सर्वेन्द्रियगुणा आभास्यन्तेेऽनुभूयन्तेऽनेनेति ।इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम्॥७ ॥
यतश्चेति ॥
तर्हि ‘सा च या’ इति वक्तव्यमित्यतस्तत्प्रतिज्ञान्तरमिति भावेनाह
स चेति ॥
केयमनुमतिरित्यत आह
अनुसारिणीति ॥
कार्योत्पादस्येति शेषः । अनेनानुमन्तृशब्दार्थोऽप्युक्तो भवति ।अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोन्यथा॥१२ ॥
तत्त्वेति ॥
ननु ‘अमानित्वम्’ इत्यादिना ज्ञानसाधनं तत्त्वज्ञानार्थदर्शनमिति ज्ञानं चोक्त्वोपसंहारे कथम् ‘एतज्ज्ञानमिति प्रोक्तम्’ इत्युच्यत इत्यत आह
ज्ञायत इति ॥
प्रोक्तमित्यत्र ज्ञानशब्देनेति शेषः । उक्तमित्युच्यत इति वा ॥ १२ ॥ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते॥१३ ॥
अनादीति ॥
न चात्र भाष्यविरोधः । तत्रोक्तस्य मतुपो मुख्यार्थस्यानङ्गीकारे भाष्ये दोषस्योक्तत्वात् । अत्र पुनस्तमङ्गीकृत्यैव प्रयोजनान्तरं मतुपा चिनोतीति ॥ ‘परं ब्रह्म’ ‘न सत्तन्नासदुच्यते’ इत्येतत् प्रमाणवाक्येनैव व्याचष्टे
मुख्यत इति ॥
कथं मूर्तामूर्तयोः सदसच्छब्दवाच्यत्वं, कथं च भगवतस्तद्विलक्षणत्वमित्यत आह
मूर्तमिति ॥
परम् अमूर्तम् ॥१३॥ज्योतिषामपि तज्जयोतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्॥१८ ॥
ज्ञानेनेति ॥
ज्ञेयपदेनान्यज्ञेयत्वमुच्यत इत्यन्यथाप्रतीतिनिरासायाह
स्वयमेवेति ॥
अत्र स्वज्ञेयत्वमेवोच्यते, न तु परज्ञेयत्वम् । न च भगवतः स्वज्ञेयत्वाभावः । स्वयमिति तस्योक्तत्वादित्यर्थः । अन्यज्ञेयत्वमर्थः किं न स्यादित्यत आह
अन्येति ॥
ज्ञानं ज्ञेयमिति ज्ञेयशब्देनैकस्यां क्रियायां कर्तृकर्मणोरैक्यविरोधान्नेश्वरस्य ज्ञेयत्वमुक्तमिति वदतां वादिनां मतनिरासाय स्वज्ञेयत्वमेवोच्यते । न त्वन्यज्ञेयत्वम् । तस्य ‘ज्ञेयं यत्तत् प्रवक्ष्यामि’ इत्युपक्रमवाक्य एवोक्तत्वेन पुनरुक्तिप्रसङ्गादिति भावः । स्वज्ञेयार्थत्वे प्रभावोक्तिरियं कथमित्यत आह
कर्तृकर्मेति ॥
अघटितमप्येकस्यां ज्ञानक्रियायां कर्तृकर्मभावमात्मनि ईश्वरो घटयतीत्येवमभिप्रायेणेदमुच्यते । अतो भवति प्रभावोक्तिरियमिति भावः ।इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते॥१९ ॥
इतीति ॥
तत्र मद्भावपदमन्यथाप्रतीतिनिरासाय व्याचष्टे
मद्भावायेति ॥
१९ ॥प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि । विकारांश्च गुणांश्चैव विदि्ध प्रकृतिसम्भवान्॥२० ॥
‘प्रकृतिम्’ इति’ ।
‘तत्र प्रकृतिं पुरुषं च’ इत्युक्त्यैवोभाविति सिद्धेः किमुभावित्युक्तेनेत्यत आह
प्रकृतिमिति ॥
इत्युक्तमिति शेषः । उभावित्युक्तस्य पुल्लिङ्गेनान्वयाय व्युत्क्रमः । अनेनोभावित्येतत् पृथग्वाक्यमित्युक्तं भवति । उभे अपीति सङ्ग्रहश्च ।कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते॥२१ ॥
स्वदेहेति ॥
विष्णुतत्त्वमावृत्येति ॥
विष्णोर्यथास्थितिमज्ञापयित्वेत्यर्थः । विष्णुतत्त्वाज्ञस्यैव बन्धकर्मसम्भवेन देहेन्द्रियहेतुत्वादज्ञानहेतुचित्प्रकृतेर्जीवस्य शरीरेन्द्रियहेतुत्वम् । ईश्वरपरतयोत्तरार्धं व्याचष्टे
जीवस्येति ॥
सर्वकर्तृत्वादीश्वरस्य भोगशक्तिकर्तृत्वं किं विशिष्योच्यत इत्यत आह
सर्वेति ॥
यथा सर्वपालोऽपि विकुण्ठपो विशिष्योच्यते, स्थानान्तरस्येव विकुण्ठस्य पालकान्तररहितत्वात् तथा सर्वकर्ताऽपि हरिः केषाञ्चिद्भोक्तृत्वादीनां कर्ता विशिष्योच्यते । कार्यान्तर इव भोक्तृत्वादावन्येषां प्रवृत्त्यभावादित्यर्थः । विशेषेण स्वकर्मणा केवलेन स्वकर्मणा ।पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् । कारणं गुणसङ्गोस्य सदसद्योनिजन्मसु॥२२ ॥
कार्येति ॥
कार्यकारणसम्बन्धस्य सुखादिभोगस्य च प्रागुक्तत्वेऽपि तन्मिथ्यात्ववादिनां निरासाय ‘पुरुषः प्रकृतिस्थो हि’ इत्युक्तत्वान्न पुनरुक्तिदोष इति भावः ।उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेस्मिन्पुरुषः परः॥२३ ॥
स्वतन्त्रेति ॥
कथमनेन हरेः स्वतन्त्रकारणत्वमुच्यत इत्यतः प्रमाणवाक्येन श्लोकं व्याचष्टे
सर्वेभ्य इति ॥
उपरि उपरि वर्तमानः, उत्तम इति यावत् । स्वानुकूल्येन स्वात्मनोऽविक्षेपकतया । मत्या बुद्धिपूर्वकम् । तत्र स्वातन्त्र्यं हेतुत्वेनैवोक्तम् । परमत्वादित्यनेन परमात्मेतीत्युक्तार्थं भवति । उपद्रष्टेत्यादौ सर्वत्रेतिशब्दान्वयेनानुमन्तृत्वे हेत्वभिधायकत्वं द्रष्टव्यम् । देहिनोऽन्य इत्यनेन परशब्दो व्याख्यातो भवति ।ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे॥२५ ॥
‘य एनम्’ इति ।
तत्प्रमाणवचनेनैव व्याचष्टे
द्विविधमिति ॥
ज्ञात्वा परोक्षतः । ‘सर्वथा वर्तमानः’ इत्यस्य प्रमादादन्यायेन वर्तमानोऽपि नियतमोक्ष इत्यर्थः । परमपुरुषादिदर्शने किं साधनमित्यत आह
अनादीति ॥
कथं नानात्वमित्यत आह
तत्रेति ॥
स्वयमिति ॥
स्वप्रतिभया
॥ तथेति ॥
उक्तप्रकारद्वयेन । अनेन ‘ध्यानेन’ इत्युक्तार्थं भवति ।अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते । तेपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः॥२६ ॥
केचिदिति ॥
ऋष्यन्तरविषया श्रुतिरिति भावः । ‘देवाः’ इत्यनेन ‘अन्ये साङ्ख्येन’ इत्युक्तार्थं भवति । क्रमेण कालक्रमेण ।यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् । क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्वि भरतर्षभ॥२७ ॥
क्षेत्रेति ॥
‘यावत् सञ्जायते’ इत्येतद्विवरणरूपे ‘मम योनिः’ इत्युत्तराध्यायगतवाक्ये लक्ष्मीनारायणसंयोगात्सर्वभूतसम्भवस्योक्तत्वादत्रापि क्षेत्रपदेन श्रीरेवोच्यत इति भावः । अव्यक्ततत्त्वे प्रसिद्धः क्षेत्रशब्दः श्रीवाचीत्येतत्कुत इत्यतः श्रियः श्रेत्रशब्दवाच्यत्वं, प्रसङ्गात् महाभूतानीत्याद्युक्ताहङ्कारादिशब्दानां च देवतावाचित्वं प्रमाणेन दर्शयति
अव्यक्तमिति ॥
सरस्वत्यादीनामपि श्रीशब्दवाच्यत्वात् तद्व्यावृत्त्यर्थमाह
सदेति ॥
किं जडाव्यक्ताभेदात् तच्छब्दवाच्येत्यत आह
निर्दोषेति ॥
कथं तर्हि अव्यक्तादिपदवाच्यत्वमित्यत आह
सा हीति ॥
न व्यज्यत इत्यव्यक्तम् । विष्णुरस्यां निवसतीति क्षेत्रम् । महागुणेति महद्ब्रह्म, जीवोत्तमेति प्रधानमुच्यत इत्यर्थः । अत्र महतोऽनुक्तत्वेप्यादिकार्यत्वाद् ग्राह्य एव । क्रियाः उद्दिश्य ।समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति॥२८ ॥
जीवेष्विति ॥
२८ ॥समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो याति परां गतिम्॥२९ ॥
दुःखेति ॥
न हिनस्तीत्यस्यार्थः
‘स एव’ इति ॥
२९ ॥प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानमकर्तारं स पश्यति॥३० ॥
प्रकृत्येति ॥
स्वयमेव प्रारभ्येति ॥
पूर्वकर्मादिकं स्वयमेव प्रबोध्येत्यर्थः । अभिप्रायं वक्ति
विष्णोरिति ॥
कर्मसापेक्षत्वेऽपि न भगवतः स्वातन्त्र्यप्रच्युतिः । यावताऽसौ स्वयमेव पूर्वकर्मादिकमुद्बोध्य तदपेक्ष्येदानीं कर्माणि कारयति । न तु कर्मादिकं विष्णोरुद्बोधयतीति भावः ।यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म सम्पद्यते तदा॥३१ ॥
एकेति ॥
भूतपृथग्भावस्य परमात्मस्थत्वोक्त्या पृथग्भूतानां तत्स्थत्वमभिप्रेतम् । तदेवात्रोक्तम् ॥३१ ॥अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोपि कौन्तेय न करोति न लिप्यते॥३२ ॥
शरीरस्थ इति ॥
शरीरस्थशब्दस्य कुतो जीववाचित्वमित्यतः तत्प्रयोगं दर्शयति
स्वप्नेनेति ॥क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्॥३५ ॥
॥ क्षेत्रेति ॥
तत्र भूतप्रकृतिमोक्षपदं तिरोहितार्थत्वाद् व्याचष्टे
जीवानामिति ॥
मोक्षं मोक्षसाधनममानित्वमित्याद्युक्तम् ३५ ॥अध्याय 14
मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारत॥३ ॥
॥ क्षेत्रेति ॥
प्राधान्येनोत्तराध्यायैः साधनमेवोच्यते । तत्र बन्धप्रकारपरिज्ञान एव तन्मोक्षसाधनानुष्ठानं युज्यते । बन्धश्च त्रिगुणात्मकः । अतो ‘यावत्सञ्जायते’ इत्युक्तविवरणपूर्वकं त्रिगुणविकारस्थितिं तदत्ययोपायं च दर्शयत्यनेनाध्यायेनेति भावः । ‘कार्यते ह्यवशः कर्म’ इत्यादौ त्रैगुण्यस्य सङ्क्षेपेणोक्तत्वात् विविच्येत्युक्तम् ।ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः॥१८ ॥
नान्यमिति ॥
अत्र गुणानामेव कर्तृत्वं, नेश्वरस्यैत्यन्यथाप्रतीतिनिरसायाह
एतेभ्य इति ॥
अज्ञस्यापि पुरुषत्वात् को विशेषो ज्ञानिन इत्यत आह
अन्येति ॥
एवं योजनायां ‘मद्भावं सोऽधिगच्छति’ इति व्यर्थं स्यात् । वाक्यस्य तद्विनैव समाप्तत्वादित्यतः तत्सार्थक्यं दर्शयति
॥ कथमिति ॥
१९ ॥नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोधिगच्छति॥१९ ॥
महालक्ष्मीरिति ॥
परा षड्भ्योऽधिका । सद्गुणत्वात् सत्, त्विष दीप्ताविति धातोः प्रभारूपत्वात् त्वमिति सत्त्वमित्यर्थः। सृष्ट्या हि रञ्जनं भवति । किमियं प्रसिद्धा पृथिवीदेवताऽसावित्यत आह
यदिति ॥
तमु ग्लपन इति धातुः । ग्लपनं संसारेण ग्लानिदानम् । अमुक्तिगा इत्यनेन ‘देहे देहिनम्’ इत्यस्यार्थ उक्तो भवति ।प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति॥२२ ॥
लोकेति ॥
पुरुषान्तरे स्थितं प्रकाशादि साधु न द्वेष्टि । तत्र मोहाद्यसाधु नेच्छतीत्यर्थः ।उदासीनवदासीनो गुणैर्यो न विचाल्यते । गुणा वर्तन्त इत्येव योवतिष्ठति नेङ्गते॥२३ ॥
उदासीनवदिति ॥
‘नेङ्गते’ इति पूर्ववाक्ये कर्माभावस्योक्तत्वात् कथं केवलोदासीनत्वाभाव इत्यत आह
नेङ्गत इति ॥
‘नेङ्गते’ इति न सर्वप्रवृत्तिनिषेधः, किन्तु भगवदुदासीनप्रवृत्तिनिषेध एवेत्यर्थः ।ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च॥२७ ॥
लक्ष्म्यादिभिरिति ॥
लक्ष्मीति श्रीरुच्यते । स्मृत्युक्तार्थानुवादेनार्थान्तरं चाह
तदिति ॥
उभयत्र प्रयोगं दर्शयति
॥ यथेति ॥
यथा द्वारपालकृतबन्धात्ययेन गच्छन् द्वारपालमतीत्य राजानं गच्छतीत्युच्यते, यथा च यो राजानं गच्छति स द्वारपालमतीत्य गच्छतीत्युच्यते तथैवेत्यर्थः ।अध्याय 15
ऊर्ध्वमूलमधःशाखं अश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१ ॥
॥ त्रयोदशेति ॥
यत् त्रयोदशाध्याये जगत्स्वरूपं वर्णितं तदस्मिन्नध्याये विविच्य दर्शयति । तस्यैव संसाररूपत्वात् । संसारं जिहासता तत्स्वरूपस्य ज्ञातव्यत्वात् । यश्च तत्र संसारात्ययोपायो निरूपितस्तं चात्र दर्शयतीत्यर्थः । तत्राप्रतिपत्त्यन्यथाप्रतिपत्तिनिरासाय श्रुत्यैवाध्यायो व्याख्यायते
॥ पृथगिति ॥
तत्रोर्ध्वमूलमित्यस्यार्थः पृथगिति । जगद्वृक्षस्य हरिर्मूलं चेत्तर्हि तस्य जगदेकदेशत्वं स्यादित्यतः ‘पृथक्’ इत्युक्तम् । यथा प्रसिद्धस्य वृक्षस्य भूमिरतदेकदेशत्वेन मूलं तथैवेत्यर्थः ।अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः । अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥
अन्योन्येति ॥
अनेनाधोभूताः शाखा ऊर्ध्वमूलेषु प्रसृताः, मूलानि चाधः शाखासु सन्ततानीत्युक्तं भवति । तस्योपपादनम्
कारणेष्विति ॥
कारणेषु कार्यस्य स्थितत्वाच्छाखानां मूलेषु प्रसृतिर्युज्यते । कार्येषु कारणस्य व्याप्तत्वान्मूलानां शाखासु सन्ततिर्युक्तेत्यर्थः ॥ २ ॥न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा । अश्वत्थमेनं सुविरूढमूल- मसङ्गशस्रेण दृढेन छित्त्वा॥ ३ ॥
जगदिति ॥
अश्ववत् स्थितोऽश्वत्थ इत्यर्थः । चञ्चलश्चेत् किं सर्वात्मनोच्छिद्यत इत्यत आह
अव्यय इति ॥
किमतो यद्येवं जगद्वृक्ष इत्यत आह
स्वशक्तीति ॥
सङ्गराहित्यसहितज्ञानासिनेत्यर्थः ।ममैवांशो जीवलोके जीवभूतः सनातनः । मनःषष्ठानींद्रियाणि प्रकृतिस्थानि कर्षति॥७ ॥
किञ्चिदिति ॥
अनेन ‘ममैव’ इत्युक्तार्थं भवति । किञ्च जीवस्य विषयान् प्रतीन्द्रियप्रेरणादिकमपीश्वराधीनमिति तत्प्रपत्तिर्जगद्वृक्षच्छेदनोपाय इति भावेन भगवन्महिमानं दर्शयति
॥ ईश्वर इति ॥
प्रकृतिस्थानि शरीरस्थानि । अनेन ‘मनःषष्ठानि’ इत्युक्तार्थं भवति ॥ ७ ॥शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्॥८ ॥
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते॥९ ॥
पूर्णेति ॥
९ ॥अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्॥१४ ॥
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोक्षर उच्यते॥१६ ॥
अध्याय 16
अभयं सत्त्वसंशुदि्धर्ज्ञानयोगव्यवस्थितिः। दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्॥ १ ॥
॥ देवेति ॥
अभयादिदेवतालक्षणानां मोक्षहेतुत्वात् तदापादनाय दम्भाद्यसुरलक्षणानां तद्विरोधित्वात् तत्परित्यागाय तदुभयमस्मिन्नध्याये निरूप्यत इति भावः ।तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति सम्पदं दैवीमभिजातस्य भारत॥३ ॥
ये त्विति ॥
अनेन ‘ज्ञानयोगव्यवस्थितिर्दानम्’ इत्यादि व्याख्यातं भवति । कुत एवंविधानां देवत्वमित्यत आह
प्रत्यक्षेति ॥
विमुक्तिगा इत्यनेनैव दैवीत्युक्तार्थं भवति ।आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्॥२० ॥
विमोक्षायेति ॥
ननु देवत्वादेः कारणविशेषेण हानोपादानदर्शनात् ‘द्वौ भूतसर्गौ’ इति निसर्गत्वोक्तिः कथमित्यत आह
देवेति ॥
निसर्गत्वादेव नान्यथा भवतीत्यर्थः ।अध्याय 17
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः॥१ ॥
॥ सदिति ॥
सत्कर्मण एव पुरुषार्थसाधनत्वेनानुष्ठेयत्वाद् असत्कर्मणस्तद्विरुद्धत्वेन त्याज्यत्वाद् अनुष्ठानत्यागयोश्च विविच्याज्ञानेऽसम्भवात् सदसत्कर्मणी विविच्यात्रोच्येते इति भावः ॥सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोयं पुरुषो यो यच्छ्रद्धः स एव सः॥३ ॥
त्रिविधेति ॥
तत्र नाज्ञानाच्छास्त्रविधिमुत्सृज्य यजनं सात्त्विकत्वादिज्ञापकम् । किन्तु सात्त्विकत्वादिभेदेन श्रद्धा त्रिविधा भवति । तत्र यो यजमानो यादृशश्रद्धः स तादृश इति श्रद्धयैव तज्ज्ञानमित्युक्तस्योपपादनायोक्तम्
सत्त्वानुरूपेति ॥
तत्र श्रद्धायाः सत्त्वगुणानुरूपत्वोक्त्या कथं यो यच्छ्रद्धः स एव स इत्यस्योपपादनमित्यत आह
सत्त्वेति ॥
सत्त्वशब्दस्य जीववाचित्वं पूर्वमेव साधितम् । किमतो यद्येवमित्यत आह
अत इति ॥
श्रद्धाया जीवानुरूपत्वात् तया तत्स्वरूपं ज्ञायत इत्यर्थः । श्रद्धाया जीवस्वरूपत्वं कुत इत्यत आह
श्रद्धामय इति ॥
तत्र मयट्च्छब्दस्यानेकार्थत्वादत्रोपयुक्तमर्थमाह
श्रद्धेति ॥यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः॥४ ॥
श्रद्धेति ॥
अनेन यजन्त इत्युक्तार्थं भवति । व्यामिश्रयाजिनोऽक्रमेण याजिनः । अखिलं जगन्मिथ्येति मन्यन्त इत्यर्थः । अनेन सर्वयाजिनां देवतायाजित्वसाम्येऽपि भोक्तृविवक्षया देवानित्याद्युक्तिरित्युक्तं भवति । ‘अध्यक्षविद्याख्या’, ‘दीनत्वात्’, ‘शिवस्कन्दादि’ इत्यनेन क्वचित्तथोक्तीनां गतिरुक्ता स्यात् । त्रिविधानां तेषां यजनफलमाह
मोक्ष इति ॥
स्वर्गप्रतिनिधित्वेन कल्पितः साङ्कल्पिकः स्वर्गः । उक्तरीत्या सात्त्विकानां किं शास्त्रविधिं जानतामजानतामपि मोक्ष इत्यत आह
त्यक्त्वेति ॥
अनेन शास्त्रविध्युत्सर्गाद्यप्रयोजकीकृत्य श्रद्धाया एव प्रयोजकत्वकथनस्याभिप्रायोऽपि वर्णितो भवति ॥ ४ ॥अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः॥५ ॥
अशास्त्रेति ॥
५ ॥कर्शयन्तः शरीरस्थं भूतग्राममचेतसः । मां चैवान्तः शरीरस्थं तान्विद्ध्यासुरनिश्चयान्॥६ ॥
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृृणु॥७ ॥
सात्त्विका इति ॥
अत्र जीवानां सात्त्विकत्वादि उत्तमत्वादीति ज्ञेयम् । सात्त्विकयज्ञादीनामित्थंभावान्तरविधानायाह
ओमिति ॥
अनेन ॐ तत्सत् ‘कर्म’ च इत्यादि व्याख्यातं भवति ।आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥८ ॥
स्थिरा इति ॥
बहुकालं गुणप्रदा इत्यर्थः । कट्वाम्ललवणेति कट्वादीनां यद्राजसत्वमुक्तं तन्न नियतं, कदाचित् सात्त्विकत्वमपि स्यादित्याह
कटूवादीनामिति ॥
रसो रसायनम् । एवं रस्याः स्थिग्धाः स्थिरा हृद्या इति सात्त्विकत्वेनोक्तानां रस्यादीनां सात्त्विकत्वं न नियतं, कदाचित् राजसत्त्वमपि भवतीत्याह
रस्येति ॥कवाम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः॥९ ॥
रूक्षमिति ॥
अन्नस्य तीक्ष्णत्वं घटयन्नाह
तीक्ष्णमिति ॥
९॥यातयामं गतरसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥१० ॥
यामेति ॥
यामं याम्यं नियम्यम् । अपेक्षितांशः सार इति यावत् ।तर्हि गतरसमिति पुनरुक्तिरित्यत आह
पूर्वमिति ॥
यो वा को वा यस्य रसस्तदपगमे यातयामं, स्वादुत्वापगमे गतरसमित्यर्थभेद इति भावः। रूक्षशब्देन राजसतयोक्तनीरसस्य कथं तामसत्वमुच्यत इत्यतो वाऽह
पूर्वमिति ॥
स्वत एव नीरसं रूक्षम्, पूर्वं स्वाद्वेव पश्चादन्यथा जातं गतरसमित्यदोष इति भावः । अपगतस्वादुत्वं तामसत्त्वमिति दुर्गमम् । एकस्यैव वस्तुनः पुरुषभेदेन स्वादुत्वास्वादुत्वसम्भवेन स्वाद्वादेरनिश्चयादित्यत आह
शुद्धेति ॥
१०११ ॥अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विदि्ध राजसम्॥१२ ॥
॥ यागादिति ॥
स्वर्गाभिसन्धानात्तत्र प्रवृत्तेेः कथं तदभाव इत्यत आह
विष्णाविति ॥
स्वर्गकामनेन प्रत्युत नरक एव भवति, न स्वर्गः । तेषां विष्णावश्रद्धासद्भावेन स्वर्गयोग्यानां तत्कामस्यायोग्यत्वादिति भावः । राजसानां सकामयज्ञाभावेऽपि नरकसद्भावात् कथमयोग्यकामादि तत्कारणमित्यत आह
विनेति ॥
क्वचिन्नरकदर्शनस्य गतिमाह
निषिद्धमिति ॥
अत्र नरकलोकप्रचुरत्वोक्त्या राजसेषु मध्यमा विवक्षिताः न तु नित्यत्रैविद्या इति ज्ञातव्यम् । यदि राजसकर्मणा नरकः स्यात्तर्हि सात्त्विकानामपि तत्करणसम्भवात् नरकप्राप्तिः स्यादित्यत आह
कदाचिदिति ॥मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुदि्धरित्येतत्तपो मानसमुच्यते॥१६ ॥
मौनमिति ॥
कथमन्यथा मानसं तपः स्यादिति भावः ॥ १६ ॥श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते॥१७ ॥
ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृऽतः । ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥२३ ॥
सदिति ॥
ततश्च किमित्यत आह
ओमिति ॥
कर्मादीनां सत्सम्बन्धित्वादेव हि सत्त्वम् । तच्च परं ब्रह्मैव । ओंतत्सदिति नाम्नां विष्णौ प्रसिद्धत्वात् । अतो विष्णुसम्बन्ध्येव कर्मादि सदिति भावः । अनेन ‘ॐ तत्सदिति यद्विष्णोः’ इति विवृतं भवति । ‘अनोङ्कृतं ह्यासुरं स्यात्’ इत्यनोङ्कृतस्यासुरत्वप्रसिद्धिः तदुच्चारणे हेतुतयोक्ता । काऽसावित्यतो वैदिकीत्याह
स्रवतीति ॥
‘ओङ्कृतं त्वपि’इत्युक्तार्थे श्रुतिं चाऽह
अनर्थज्ञेति ॥
निरर्थो निष्प्रयोजनः । कुतः? यस्मादर्थज्ञानत एव ज्ञातारं त्राति तेन हि मन्त्रः कथितः ।अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥२८ ॥
राजसस्येति ॥
नात्र तामसमेवासच्छब्देनोच्यते अपि तु राजसमपीति भावः । तत्कुत इत्यतोऽश्रद्धयेत्युक्तासल्लक्षणस्य राजसेऽपि भावादित्याह
विष्ण्विति ॥
‘न च तत्प्रेत्य नो इह’ इति यद्राजसतामसकर्मणोः फलमुक्तं तद्विविच्य स्मृत्या दर्शयति
॥ सात्त्विकमिति ॥
२८ ॥अध्याय 18
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । यज्ञदानतपः कर्म न त्याज्यमिति चापरे॥३ ॥
॥ सर्वेति ॥
यत्सर्वेष्वध्यायेषु विप्रकीर्णतया पुरुषार्थसाधनमुक्तं तन्मन्दानां बुध्द्यारोहार्थं सङ्क्षेपेणास्मिन्नध्याये निरूप्यते । चतुर्दशाद्यनुक्तं त्रैगुण्यं चोच्यत इत्यर्थः ॥यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्॥५ ॥
यज्ञेति ॥
तत्र ज्योतिष्टोमादियज्ञेषु हिरण्यादिदानेषु यत्यादीनां शूद्रादीनां चाधिकाराभावाद् ऊर्ध्वरेतस्त्वादितपस्सु गृहस्थादीनाम् अधिकाराभावात् कथं सर्वेषां यज्ञादि विधीयत इत्यत आह
द्रव्येति ॥
नात्र सर्वेषां ज्योतिष्टोमादियज्ञः, हिरण्यादिदानानि, ऊर्ध्वरेतस्त्वादितपांस्येव विधीयन्ते, किन्तु द्रव्ययज्ञादियज्ञाः, विद्यादिदानानि, सत्यवचनादितपांसि । तेषां च यत्यादीनामप्युचितत्वाद्युक्तं सर्वेषां तद्विधिरिति भावः ।दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्॥८ ॥
सङ्गेति ॥
स्वरूपत्यागस्यापि मोहनिमित्तत्वं कुतः ? येनायमर्थः स्यादित्यत आह
स्वेति ॥
ननु पुरुषार्थसाधनेऽपि कर्मणि दुःखसाधनमिति मिथ्याज्ञानेन तत्स्वरूपपरित्यागस्य राजसत्वकथनात् कथं तामसत्वमित्यत आह
मोहमिति ॥
मोहं विनेति ॥
परत्रापीदं दुःखसाधनमिति मिथ्याज्ञानं विनेत्यर्थः । दुःखशब्देन शरीरायास उच्यत इत्यन्यथाप्रतीतिनिरासायाह
दुःखेति ॥
केवलमिति ॥
शरीरायासद्वारा प्राप्तं न चेत्यर्थः । शरीरायास एवार्थः किं न स्यादित्यत आह
कार्येति ॥
न केवलमन्यथा पुनरुक्तिप्रसङ्गादत्र दुःखशब्दो मानसदुःखार्थः । किन्तु तथा वचनाच्चेत्याह
दुःखमिति ॥
अर्थविशेषविवक्षायामेवं ज्ञेयम् । तदभावे द्वयमपि शब्दद्वयेनोच्यत इति भावः ॥ ८ ॥न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः॥१० ॥
‘न द्वेष्टि’ इति ॥
तत्र कथं सात्त्विकत्यागिनोऽकुशलकर्माद्वेषः कुशलकर्मासङ्गश्चोच्यते । ‘कार्यमित्येव’ इत्युक्तिविरोधादित्यतः प्रमाणान्तरेण तद्व्याचष्टे
न द्वेष्टीति ॥
पुण्य इति ॥
तत्फल इति यावत् ॥ तमेव स्तौति
य इति ॥
सम्यगित्यनेन मेधावीत्याद्युक्तार्थं भवति । तदर्पणेनेत्यनेन त्यागीत्युक्तार्थं स्यात् । तस्येत्यनेनानिष्टमित्यस्य तात्पर्यमुक्तं भवति । किं तस्य सर्वथा बन्धकं कर्म न बन्धाय भवतीत्यत आह
बहुलं चेदिति ॥
बहुलं चेत् सर्वदा त्यागिनामप्यत्यल्पदोषकरं कियत्पर्यन्तमित्यत आह
यावदिति ॥
१० ॥अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्॥१२ ॥
अन्येषामिति ॥
त्यागिन एवेष्टं किं न स्यादित्यत आह
अस्येति ॥
न त्यागिनो बन्धकं कर्मफलमिष्टम् । त्यागित्वादेव ‘यस्तु कर्मफलत्यागी’ इति कर्मफलेच्छात्यागिन एव त्यागित्वेनोक्तत्वादिति भावः । भवेदन्येषामिष्टमिति व्याख्यानं यद्यत्र ‘अनिष्टमिष्टं मिश्रं च’ इत्यत्र बन्धककर्मफलं विवक्षितं स्यात् । न चैवमबन्धककर्मफलस्यापि ग्रहणे बाधकाभावादित्यतस्त्यागिनो बन्धककर्मफलस्यैवाभावेऽत्यागिनो बन्धककर्मफलभावे प्रमाणमाह
ज्ञानादेरिति ॥
त्यागिमात्रस्य ज्ञानभक्त्यादेः । तस्यैवापरोक्षतस्तत्त्वसंवेत्तुः मोक्षभोग्यानन्दातिशयात् । तदृते ज्ञानादिकमृते । अनेन ’भवत्यत्यागिनाम्’ इत्युक्तार्थं भवति । भवत्यत्यागिनां प्रेत्य न तु त्यागिनामित्यत्यागिनां प्रतियोगित्वेन त्यागिन एव वक्तव्याः । संन्यासिनस्तु किमित्युच्यन्त इत्यत आह
केवलेति ॥
अत्यागिप्रतियोगितया संन्यासिकथनं नानुपपन्नम् । स्वार्थे फलेच्छाभावेऽपि परोपकारार्थं कारीर्यादिकेवलकाम्यकर्मकरणमस्ति त्यागिनाम् । तदपि न्यासिनां नास्तीत्येतावन्मात्रविशेषवत्त्वात् त्यागिभ्यो विशेषो न्यासिनामित्यर्थः । एतावानेव चेद्विशेषः तत् किं तयोः साम्यम्? येन त्यागिषु वक्तव्येषु न्यासिनामुक्तिरित्यत आह
त्यागित्वमिति ॥
कर्मफलेच्छाभावो द्वयोरपि सम इत्यर्थः । त्यागिभ्यो न्यासिनामुक्त एव विशेष इत्येतत् कुत इत्यत आह
परेति ॥
१२ ॥पञ्चैतानि महाबाहो कारणानि निबोध मे । साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्॥१३ ॥
कथितमिति ॥
१३ ॥अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्॥१४ ॥
अधिष्ठानमिति ॥
१४ ॥यस्य नाहङ्कृतो भावो बुदि्धर्यस्य न लिप्यते । हत्वापि स इमाल्लोकान्न हन्ति न निबध्यते॥१७ ॥
स्वातन्त्र्यमिति ॥
आत्मन् आत्मनि ॥ लक्ष्म्यादेश्च स्वातन्त्र्यं वेत्तीत्यनुषज्यते । तदर्थं लोकहननार्थम् । तदर्थं जातत्वेनैवालं, किमीश्वरस्वातन्त्र्यादिज्ञानेनेत्यत आह
अज्ञ इति ॥
लोकान् हन्ति चेदिति शेषः । तर्हि ज्ञानेनैवालं, किं तदर्थं जातत्वेनेत्यतः परोक्षापरोक्षज्ञानिनोरपि तदर्थमजातयोर्लोकहनेन विभागेन बाधकमाह
अपरोक्षेति ॥
परोक्षज्ञस्तदर्थजातो यदि लोकान् हन्ति तर्हि किञ्चिद्दोषेण लिप्यत इत्यर्थः । अपरोक्षेत्युक्त्या ज्ञानं चापरोक्षमपेक्षितमिति सूचितम् । परोक्षज्ञानेन तदर्थं जातत्वेनैवालं, किमपरोक्षज्ञानेनेत्यतो वाऽऽह
परोक्षेति ॥
अत्र तदर्थं जातइति ग्राह्यम् ।ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः॥१८ ॥
सम्प्रेरयितुरिति ॥
प्रेरणाया भगवद्धर्मत्वात् कथं ज्ञातृत्वादीत्यत आह
सेति ॥
प्रेरणाया ज्ञानादिरूपभगवत्स्वरूपत्वेन तथात्वमुपपद्यत इत्यर्थः ।ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः । प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि॥१९ ॥
एवमिति ॥
प्रसिद्धसाङ्ख्यशास्त्रमेवात्र किं न स्यादित्यत एवमित्युक्तम् । एवं सर्वगतस्येश्वरस्य सर्वतो भेदादिविषयं ज्ञानं सात्त्विकमित्यादि गुणसङ्ख्याने प्रोच्यत इति ह्यत्रोच्यते । तच्च परमसाङ्ख्यशास्त्रग्रहण एवोपपद्यते, न निरीश्वरसाङ्ख्यग्रहण इति भावः ॥ १९ ॥सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विदि्ध सात्त्विकम्॥२० ॥
अस्तित्वादिति ॥
पृथक्त्वेनेत्यन्तेन सर्वभूतेष्विति सप्तम्या अभिप्रायोऽप्युक्तो भवति । विष्णोरित्यादिना अविभक्तमित्युक्तार्थं भवति । तारतम्येनेत्यनेन विभक्तेष्विति द्वेधा व्याख्यातं भवति । अथ भूतशब्देन भवतीति जडं चोच्यत इत्यभिप्रेत्य विभक्तेष्वित्यस्यार्थ उच्यते
जडेभ्य इति ॥
तेभ्यो जडेभ्य इत्यनेन सप्तम्यर्थ उक्तो भवति ॥
सम्यगिति ॥
विष्णुः सर्वोत्तमः जीवास्तदधीनज्ञानादिमन्तः, जडं तद्रहितमित्यतो विष्ण्वादीनां भेद इत्यर्थः । अनेनैकमित्युक्ताभिप्रायं भवति ॥ २० ॥पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विदि्ध राजसम्॥२१ ॥
यदीति ॥
मिश्रतत्त्ववित् सन्दिग्धतया भगवत्स्वरूपं जानन्नित्यर्थः । अन्यथेत्यनेन यत्तु इत्युक्तार्थं भवति । यत्किञ्चिदेकं कृत्स्नं जानातीति चादौ द्रष्टव्यम् । जानातीत्यन्तेन कार्ये कृत्स्नवत् सक्तमित्यस्य तात्पर्यमुक्तं भवति । कृत्स्नमकार्यत्वादिगुणपूर्णं ब्रह्म यथा विषयीकरोति तथेत्यर्थः । स एवेत्यनेन कार्ये कृत्स्नवत् सक्तमित्यस्य कृत्स्नपदमखिलजगद्विषयमङ्गीकृत्य अर्थान्तरमुक्तं भवति । एकेत्यनेन एकस्मिन् कार्ये कृत्स्नवत्सक्तमित्युक्ततात्पर्यं भवति । युक्तीत्यनेनाहैतुकमित्यस्य तात्पर्यमुक्तं भवति । साधकयुक्तिज्ञानाभावात् तज्ज्ञेयार्थस्य युक्तिराहित्याच्च तथा मन्यत इत्यर्थः । अल्पेत्यनेनाल्पमित्युक्तार्थं भवति । अल्पसम्यग्ज्ञान इत्यर्थः । भ्रान्तस्याप्यधिष्ठानादि विषयसम्यग्ज्ञानवत्त्वात् । अतत्त्वार्थमित्यनेनातत्त्वार्थवदित्युक्तार्थं भवति । यथावस्थिताकाराद् विपरीताकारमित्यर्थः ।
तत्त्वार्थज्ञानवर्जनादिति ॥
यथास्थिताकारज्ञानाभावादित्यर्थः ॥नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते॥२३ ॥
‘नियतम्’ इति ।
तत्र नियतपदेन स्ववर्णाश्रमोचितमात्रमुच्यत इत्यन्यथाप्रतीतिनिरासायाह
मयीति ॥
विष्णोः सर्वोत्तमत्वज्ञानपूर्वकं तद्भक्त्या तदर्पणबुद्ध्या क्रियमाणमेव कर्म नियतमित्यत्रोच्यते । न तु स्ववर्णाश्रमोचितमात्रम् । कुतः ? ‘मयि सर्वाणि कर्माणि’ इति भगवत्सर्वोत्तमत्वज्ञानपूर्वकं तदर्पणबुध्द्या कर्मकरणं विधाय ‘ये मे मतमिदम्’ इति तस्य मोक्षसाधनत्वोक्तेः । ‘ये त्वेतत्’ इति तदकरणे प्रत्यवायस्य चोक्तेः । यत्करणे फलप्राप्तिः, यदकरणे प्रत्यवायः तस्यैव नियतत्वादिति भावः ।मुक्तसङ्गोनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योः निर्विकारः कर्ता सात्विक उच्यते॥२६ ॥
सर्वस्येति ॥
कर्ताऽप्यहमेव कर्तेति सात्त्विको न वदति । तेन स्वकर्तृत्वादेः सर्वस्य भगवदधीनतया निश्चितत्वादित्यर्थः ॥ २६ ॥बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृृणु । प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय॥२९ ॥
॥ भगवदिति ॥
स्मरन्निति ॥
चिन्तयन्नित्यर्थः । पश्चात् कुर्यामिति चिन्तनं सात्त्विकेऽपि सममित्यत आह
प्राप्तेति ॥
यस्य कर्मणो यः कालो विहितः तस्मिन् काले प्राप्तेऽपि पश्चात् कुर्यामिति चिन्तयन् दीर्घसूत्रीत्यर्थः । अनेन अलसादप्यस्य वैलक्षण्यं सूचितम् । सः प्राप्तकालं कर्म उदास्त एवेति ।यया स्वप्नं भयं शोकं विषादं मदमेव च । न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी॥३५ ॥
॥ किञ्चिदिति ॥
अनेन ‘अयथावत् ’ इति नियमेन यथावन्नेत्युक्तं भवति । ‘योगेन’ इति उपायबलेनेत्यल्पार्थप्रतीतिनिरासाय तद् वाक्यान्तरेण व्याचष्टे
वैष्णव इति ॥
अनेन योगेन युक्त्येति पूरितं भवति ।यत्तदग्रे विषमिव परिणामेमृतोपमम् । तत्सुखं सात्त्विकं प्रोक्तमात्मबुदि्धप्रसादजम्॥३७ ॥
‘अभ्यासात्’ इति ।
तत्र ‘आत्मबुद्धिप्रसादजम्’ इत्यस्य स्वमनःप्रसादजमित्यन्यथाप्रतीतिनिरासाय स्मृत्यैवार्थमाह
विष्णोरिति ॥
जातमिति शेषः । मनःप्रसादो नाम मनसः स्वतोऽपि प्रायो विषयागतिः ॥ ३७ ॥ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः॥४१ ॥
सत्त्वमिति ॥
ननु गुणातीतं सत्त्वं नास्तीत्येतावता पूर्णत्वात् पृथिव्यां दिवीति विशेषोक्तिः किमर्थेत्यत आह
मुक्तानामिति ॥
मुक्तानां गुणबद्धत्वाभावात् गुणातीतं सत्त्वं नास्तीत्युक्ते तेषामपि तत्प्रसक्तेस्तद्व्यावृत्त्यर्थं पृथिव्यामित्यादिविशेषोक्तिर्युक्तेत्यर्थः ।शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्॥४२ ॥
शम इति ॥
अनेन ब्राह्मणे तदुक्तिराधिक्यविवक्षयेत्युक्तं भवति । तपो ब्रह्मचर्यादि । शौचं शुद्धिः । क्षान्तिः क्रोधासमुत्थितिः । आर्जवं मनोवाक्कायकर्मणामवैपरीत्यम् । ज्ञानं सामान्यतः । विज्ञानं विशेषतः । आस्तिक्यं धर्मादौ ‘अस्त्येवानेन मम प्रयोजनम्’ इति भावः । कार्तवीर्यादिक्षत्रियेषु ब्राह्मणेभ्योऽप्याधिक्येनैतद्गुणदर्शनात् कथमेतदित्यत आह
अधिका वेति ॥
सत्यं क्षत्रियेषु ब्राह्मणाधिकाः शमादयः सन्तीति, तथापि नोक्तविरोधः । तेषाम् ऋषित्वात् । तदितरक्षत्रियाणामत्र विवक्षितत्वादिति भावः ॥ ४२ ॥शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ॥ दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्॥ ४३ ॥
कृषिगोरक्षवाणिज्यं वैश्यकर्म स्वभावजम् । परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्॥४४ ॥
अधिकाश्चेदिति ॥
ब्राह्मणादिरिति ।
ब्राह्मणसमशमादिगुण इत्यादि द्रष्टव्यम् । शूद्र एवेत्युपलक्षणम् । तत्तत्समगुणोऽसाविति ज्ञातव्यम् । जातिमनपेक्ष्य गुणमात्रेण कथं ब्राह्मणत्वादिकल्पनेत्यत आह
नरोऽपीति ॥
यथेति शेषः ।असक्तबुदि्धः सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिदि्धं परमां सन्न्यासेनाधिगच्छति॥४९ ॥
नैष्कर्म्येति ॥
सर्वपदमप्रारब्धविषयम् ॥४९ ॥सिदि्धं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे । समासेनैव कौन्तेव निष्ठा ज्ञानस्य या परा॥५० ॥
वक्ष्यमाणेति ॥
अत्र यथा येन वक्ष्यमाणप्रकारेण वर्तमानो नेष्कर्म्यसिद्धिं प्राप्तो भूत्वा महालक्ष्मीं प्राप्नोति तं प्रकारं निबोधेत्येवोच्यते । न तु नैष्कर्म्यसिध्द्यनन्तरं परब्रह्मप्राप्तिसाधनं निबोधेत्यर्थः । ब्रह्मशब्दस्य लक्ष्मीवाचकत्वमेव कुत इत्यत आह
ममेति ॥
अत्र ब्रह्मपदेन परब्रह्मैव किं न स्यादित्यत आह
ब्रह्मेति ॥
एतद्ब्रह्मप्राप्त्यनन्तरमपि भक्त्यादिलाभश्रवणात् लक्ष्मीतत्त्वमेवेदं, न तु परं ब्रह्मेत्यर्थः । भवेदेतद्यदि नैष्कर्म्यसिद्धिं प्राप्तस्य लक्ष्मीप्राप्त्यनन्तरमपि भक्त्यादिलाभोऽस्ति, न तु परब्रह्मप्राप्त्यनन्तरमिति सिद्ध्यति । तदेव कुत इत्यत आह
सर्वेति ॥
पापपदम् अप्रारब्धानिष्टकर्मपरम् । नन्वपरोक्षज्ञानिनो हि नैष्कर्म्यसिद्धिः । तत्कथं तदनन्तरमपि ज्ञानादिलाभः? तथात्वे मुक्तावापि तत्प्रसङ्गादित्यत आह
अपरोक्षेति ॥
पुरा देहत्यागात् । अपरोक्षज्ञानानन्तरमपि ज्ञानादिवृद्धिर्भवेदेव । न चातिप्रसङ्गः । प्रमाणानुगुणेन मुक्तौ तदभावोपपत्तेरिति भावः ॥ ५० ॥अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते॥५३ ॥
विमुच्येति ॥
ज्ञानानन्तरं लक्ष्मीप्राप्तौ साधनानामनावश्यकत्वात् नैष्कर्म्यसिद्धिं प्राप्तो भूत्वेत्यत्राभिप्रेतमेवेति भावः ॥ ५३ ॥भक्त्या मां अभिजानाति यावान्यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्॥५५ ॥
विहितानीति ॥
मद्व्यपाश्रय इति ॥
मय्येव समर्पयन्नित्यर्थः । प्रतीतार्थ एव किं न स्यादित्यत आह
न हीति ॥
नात्र यथेष्टतो निषिद्धानिषिद्धकर्माचरणे तात्पर्यं कल्प्यम् । तथासति भगवदाश्रयस्य विहिताकारणेऽप्यत्र तात्पर्यप्रसङ्गात् । निषिद्धकरणविहिताकरणयोः समानत्वादित्यर्थः ।चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः । बुदि्धयोगमुपाश्रित्य मच्चित्तः सततं भव॥५७ ॥
भगवदिति ॥
भगवदाश्रितत्रैविद्ययोर्विहितकरणादिसाम्येऽपि मोक्षभावाभावावुपपद्येति । विहिताशेषकर्माणि चेतसा भगवति संन्यस्य भगवदाश्रितः करोति । न तथा त्रैविद्य इति तयोश्चेतसैव विशेषसद्भावादिति भावः ।यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति॥५९ ॥
प्रकृतिरिति॥
ईश्वरेच्छायाः प्रकृतिशब्दवाच्यत्वं कुत इत्यत आह
प्रकृतिरिति ॥
प्रसङ्गादुक्तार्थमन्यत्राप्यतिदिशति ॥
एषेति ॥
अत्र प्रकृतिशब्दः परमेश्वरेच्छावाची कुतः? स्वभावाद्यर्थ एव किं न स्यादित्यत आह
तस्या एवेति ॥
प्रकृतिस्त्वां नियोक्ष्यतीत्यत्र प्रकृतेः जीवनियोक्तृत्वमुच्यते । तच्चेश्वरेच्छाया एव मुख्यमिति सैवात्रोच्यत इति भावः ।ईश्वरः सर्वभूतानां हृद्देशेर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया॥६१ ॥
तदेवेति ॥
एतद्विवरणात्मकोत्तरश्लोके भगवदिच्छाया एव सर्वनियोक्तृत्वस्योक्तत्वाच्च अत्र प्रकृतिपदं तदर्थमिति भावः । मायेतीश्वरेच्छैवोच्यते ॥ ६१ ॥इति ते ज्ञानमाख्यातं गुह्यात् गुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु॥६३ ॥
निश्चितेति ॥
परोक्ष्येणोक्तेः अन्यथाऽप्युपपत्तेर्न तन्मात्रेणेश्वरस्य भगवदतिरितक्तत्वं कल्प्यमिति भावः ।सर्वगुह्यतमं भूयः शृृणु मे परमं वचः । इष्टोसि मे दृढमिति ततो वक्ष्यामि ते हितम्॥६४ ॥
तत्त्वेति ॥
नात्र ‘इदं तु ते गुह्यतमम्’ इत्यादिनोक्तं गुह्यतमं ज्ञेयमुच्यते । तत्कथनस्य द्वाविमावित्यत्रैवोपसंहृतत्वादित्यर्थः । ‘इति गुह्यतमम्’ इति वाक्यशेषादुपसंहृतत्वं ज्ञातव्यम् । तर्हि किमत्र गुह्यतममुच्यत इत्यत आह
अत्रेति ॥सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः॥६६ ॥
अन्येति ॥
अन्यधर्मान् सर्वान् परित्यज्य मन्मना भवेत्येवंप्रकारेण सर्वधर्मान् परित्यज्येति वचनं मन्मना इत्याद्युक्तशेषत्वेन हि वर्तते । अतोऽन्यव्यावृत्तिपूर्वकं स्वभजनमत्रोपदिष्टमेवेति भावः ।इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योभ्यसूयति॥६७ ॥
अतपस्कायेति ॥
यथाऽतपस्कादतिशयेन अशुश्रूषोर्न वाच्यं, एवमशुश्रूषोरप्यतिशयेन अभक्ताय न वाच्यमिति कदाचनेत्यनेन ज्ञायत इत्यर्थः । नन्वतपस्कादीनामपि कदाचन न वाच्यमेव । अतः कदाचनेति विशिष्यात्रोक्त्या कथमस्य दोषाधिक्यं सूच्यत इत्यत आह
कदाचिदिति ॥
विशेषो दोषाधिक्यसूचको भवतीति शेषः । अभक्ताच्चातिशयेनेत्यर्थः । इति सूचयितुमिति शेषः । चशब्दस्य दोषाधिक्यसूचकत्वं कुत इत्यत आह
समुच्चय इति ॥
अभक्ताच्च न वाच्यमसूयोरित्यत्र स्मृतिं चाह
अभक्तादपीति ॥
६७ ॥श्रद्धावाननसूयश्च शृृणुयादपि यो नरः । सोपि मुक्तः शुभान् लोकान् प्राप्नुयात्पुण्यकर्मणाम् । ॥७१ ॥
‘यः’ इति ।
तत्र व्याख्यात्रादीनामुक्तो मोक्षः किमेकप्रकार इत्यतो गीतावाक्यैरेव तत्तारतम्यं दर्शयति
सोऽपीति ॥
मुक्तानां व्याख्यात्रादीनामिति शेषः । एवं चेत् किं व्याख्यातुरेव मुक्तौ सर्वाधिक्यमित्यत आह
मनुष्येष्विति ॥
तत्र मुक्तेष्वपि । तदेव प्रमाणान्तरेण दृढयति
मुक्तिरिति ॥
मुख्यव्याख्याकृत इति ॥
अन्येषां व्याख्यातृत्वे मुख्यकारणभूता इत्यर्थः ॥ ७१ ॥यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥७८ ॥
यथेति ॥
भगवदुक्तानुसरणमर्जुनेन कृतमित्यत्रैवोक्तत्वात् ततः प्रागेव तज्ज्ञस्य भगवतः तद्बोधनोपरमो युक्त इति भावः ॥ ७३ ॥यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥७८ ॥
नम इति ॥
स्वस्वरूपपरिज्ञानस्यापि कैवल्याद्यखिलपुरुषार्थहेतुत्वात् स्वकृतां ग्रन्थनिर्माणरूपपरिचर्यां केशवे समर्पयन् तदाह
यस्येति ॥
अथ तमेव हरिमादरविशेषात् पुनः स्तौति
निःशेषेति ॥
भूतिर्महालक्ष्मीः ।