Karmanirnaya/Ullekha
उल्लेखसूची — कर्मनिर्णयः
इस ग्रन्थे उद्धृतानि प्रमाणस्थानानि — 39 स्रोताः
Aitareyaaranyaka
6 उद्धरणानि
- ‘प्रचेतन प्रचेतय’(ऐ.आ.४.१.१)
- ‘आयाहि पिब मत्स्व’ (ऐ.आ.(बह्वृचब्राह्मणारण्यककाण्डे)४.१.१)
- ‘क्रतुश्छन्द ऋतं बृहत्’(ऐ.आ.(बह्वृचब्राह्मणारण्यककाण्डे)४.१.१)
- ‘सुम्न आ धेहि नो वसो’(ऐ.आ.(बह्वृचब्राह्मणारण्यककाण्डे)४.१.१)
- ‘ता नदेन विहरति’(ऐ.आ.१.३.५)
- ‘अथ सूददोहाः प्राणो वै सूददोहाः’(ऐ.आ.१.४.१)
Ashvalayanashroutasutra
2 उद्धरणानि
- ‘पादान्व्यवधायार्धर्चशः शंसेत् । पूर्वासां पूर्वाणि पदानि । गायत्र्यः पङ्क्तिभिः। पङ्क्तीनां तु द्वे द्वे पदे शिष्येते ताभ्यां प्रणुयात् । उष्णिहो बृहतीभिः । उष्णिहान्तूत्तमान्पादान् द्वौ कुर्यात्। चतुरक्षरमाद्यम् । द्विपदाश्चतुर्धा कृत्वा प्रथमां त्रिष्टुभोत्तरा जगतीभिः । उत्तमायाश्चतुर्थमक्षरमन्त्यं पूर्वस्याऽऽद्यमुत्तरस्य । अनुष्टुभमतिच्छन्दःस्वव(द)दध्यात् । द्वितीयतृतीययोस्तृतीययोः पादयोरवसानत उपदध्यात् प्रचेतनेति पूर्वस्यां प्रचेतयेत्युत्तरस्याम् । उत्तरास्वितरान् पादान् षष्ठान्कृत्वाऽनुष्टुप्कारं शंसेत् ॥’ (आ.श्रौ.सू.६.३.३-१३)
- ‘एवाह्येवा(वैव) अपाः पूर्वेषां हरिवः सुतानाम् (एवै)एवाहीन्द्रम् अथो इदं सवनं केवलं ते । एवा हि शक्रो ममद्धि सोमं मधुमन्तमिन्द्र वशीहि शक्रः सत्रा वृषं जठर आवृषस्वेति’(आ.श्रौ.सू.६.३.१७)
Atharvanopanishat
1 उद्धरणानि
- ‘इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।
नाकस्य पृष्ठे सुकृते तेऽनुभूत्वा इमं लोकं हीनकरं वाऽऽविशन्ति॥’((मुण्डक)आथ.२.१०)
Bhagavadgeeta
11 उद्धरणानि
- ‘श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप’(भ.गी.४.३३)
- ‘न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत् सर्वकर्माणि विद्वान्युक्तस्समाचरन् ॥’(भ.गी.२.२६) - ‘तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि नचिरात् पार्थ मय्यावेशितचेतसाम्’(भगी.१२.७) - ‘द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ।
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ।
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।
एतद्बुद्ध्वा बुदि्धमान् स्यात् कृतकृत्यश्च भारत॥’(भ.गी.१५.१६-२०) - ‘श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप’(भ.गी.४.३३)
- ‘दूरेण ह्यवरं कर्म बुद्धियोगाद् धनञ्जय।’(भ.गी.२.४९)
- ‘यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः॥’(भ.गी.१८.४६) - ‘त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान्॥’(भ.गी.१९.२०) - ‘मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा। निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः॥
ये मे मतमिदं नित्यमनुतिषष्ठन्ति मानवाः ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः॥’(भ.गी.३.३०-३२) - ‘परं भावमजानन्तो मम भूतमहेश्वरम् ॥
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः।’(भ.गी.९.११-१२) - ‘सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे॥’(भ.गी.१८.६४-६५)
Bhagavata
4 उद्धरणानि
- ‘कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम्’(भाग.३.३२.१३)
- ‘प्रत्युद्गमप्रश्रयणाभिवादनं विधीयते साधु मिथस्सुमध्यमे ।
प्राज्ञैः परस्मै पुरुषाय चेतसा गुहाशयायैव न देहमानिने ॥’(भाग.४.३.२२) - ‘नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् ।
कुतः पुनः शश्वदभद्रमीश्वरे विनार्पितं कर्म यदप्यकारणम्॥’(भाग.१२.१२.५२) - ‘तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः ।
क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नमः॥’(भाग.२.४.१७)
Brahmasutra
2 उद्धरणानि
- ‘ओं स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि’(ब्र.सू.४.४.१६)
- ‘ओं भाक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति’(ब्र.सू.३.१.७)
Brahmatarka
1 उद्धरणानि
- ‘रूढियोगौ विना कश्चिन्नैवार्थो वेदगो भवेत् ।
तत्रापि यौगिको मुख्यः सर्वत्रास्ति स वैदिके ।
अनवस्थानिवृत्त्यर्थं यौगिके रूढकल्पना ।
ज्ञाते विशेषविज्ञानं व्यवहारोऽपि रूढितः॥’
Bruhadaranyakopanishat
3 उद्धरणानि
- ‘विज्ञानमानन्दं ब्रह्म’(बृह. ३,९.३५)
- ‘वाचं धेनुमुपासीत। तस्याश्चत्वारः स्तनासः स्वाहाकारो वषट्कारो हन्तकारसः स्वधाकार(स्तस्यै) इति । तस्या द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च हन्तकारं मनुष्याः स्वधाकारं पितरः। तस्याः प्राण ऋषभो मनो वत्सः’(बृ.उ.७.१०)
- ‘विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् ।
तिष्ठमानस्य तद्विदः’(बृ.उ.५.९.७(३.९.२८))
Chandogyopanishat
2 उद्धरणानि
- ‘सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः।’(छां.उ.३.१४.२,४)
- ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’(छां.उ.१.१.८(१०))
Karmaviveka
1 उद्धरणानि
- ‘अशेषकर्मपूगोऽपि न विष्णुध्यानलेशभाक् ।
तच्च ध्यानं हरेर्ज्ञानकोट्यंशाय न पूर्यते’
Kathopanishat
1 उद्धरणानि
- ‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्’(कठ.उ.१.२.२३)
Mahabharata
1 उद्धरणानि
- ‘न देवा यष्टिमादाय रक्षन्ति पशुपालवत् । यं तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ॥’(म.भा.५.३५.३३)
Mahanarayanopanishat
1 उद्धरणानि
- ‘त्रीणि पदा निहिता गुहासु यस्तद्वेद स पितुष्पितासत्(यस्तद्वेद सवितुः पिता सत् )’(महानारायणोपनिषत्.१.१५)
Manyasamhita
1 उद्धरणानि
- ‘ओतमस्मिन् जगद्यस्मादोमित्युक्तो हरिसः सदा ।
तमेव जगदाधारं यतयः समुपासते॥’
Manyasamhitayam
1 उद्धरणानि
- ‘जीवदेहं परित्यज्य सह जीवेन चेश्वरः ।
जीवस्यान्यच्छरीरं च समुत्पाद्य विशत्यजः’
Mundakopanishat
2 उद्धरणानि
- ‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः। तस्मादेतद् ब्रह्म नामरूपमन्नं च जायते॥’(मुण्डक.उ.१.१.९)
- ‘दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः॥’(मुण्डक.उ.३.२(२.१.२))
Padmapurana
1 उद्धरणानि
- ‘समीपे दूरतोऽभिज्ञं(दूरतो ज्ञं) त्वामुद्दिश्यैव मद्गतम् ।
एहि विष्णो न मे शक्तिस्त्वदाह्वाने हि मामुप ॥
इति ब्रह्माऽस्तुवद्विष्णुं तन्नाभ्युत्थितपद्मगः’
Prakashasamhita
1 उद्धरणानि
- ‘विशेषेणाधिकत्वेन व्यतयो देवतास्स्मृताः ।
नित्ययोगरताश्चैव नारायणपरायणाः ।
ता एव चेन्द्रियात्मानस्तान्विस्तारयतीश्वरः ।
मन आदीन्द्रियाणां तु शक्तिविस्तार एव तु(हि) ।
विस्तारो देवतानां स्याद् भक्तेषु हरिणा कृतः’
Praman
1 उद्धरणानि
- ‘ध्यानं त्वखिलकर्मभ्यो ध्यानाच्च ज्ञानमुत्तमम् ।
न ज्ञानसदृशं किञ्चित् पुरुषार्थप्रसिद्धये॥’
Pramana
10 उद्धरणानि
- ‘त्रिलोकगेन हरिणा निर्मितः षोळशीक्रतुः ।
एवं ज्ञात्वा हरिं तं च कर्म कुर्वन्न जायते’ - ‘यज्ञो वै देवजन्म तत्र हि देवाः प्रादुर्भवन्त्या सूर्याचन्द्रमसावा विद्युतं ते वै लोकानधिश्रिताः’
- ‘द्यौर्वाव विद्युत् तत्पतिं वायुमुपगम्य तेनैव परमुपगच्छति सैषा ब्रह्मलोके विराजते’
- ‘नदीसमुद्रघोषाश्च नादत्वाच्छ्रैष्ठ्यवाचकाः।
नादो हि श्रैष्ठ्यवाची स्यादेवं घोषाः परेपि च’ - ‘तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति’
- ‘ज्ञानपूर्णं विधातारं मोक्षदानेन केशवः ।
स्वपुत्रं पूरयामास महिषं महतां महान्’ - ‘विलोमः शत्रुज (क्ष)यकृत्संसर्गः पापनाशनः ।
यथास्थितः श्रीकरः स्यात्स्वाध्यायः शंसनेऽपि च’ - ‘ऋक्षु संसृज्यमानासु प्रोच्यमानं जनार्दनम् ।
पुंसंसृष्टस्य पापस्य निहन्तारं विशेषतः ।
तत्प्रसादेन मुक्तस्य पापासंसृष्टतामपि ।
ध्यायन्कर्माणि कृत्वापि मुच्यते सर्वपातकैः॥’ - ‘मुख्यार्थानां च सर्वेषां तारतम्यं (च) तु विद्यते ।
तत्राऽपि परमो मुख्यो वाच्योऽशेषरवैर्हरिः ।
(तत्र मुख्यविरोधेन)तत्तन्मुख्याविरोधेन तदन्यार्थस्य सङ्ग्रहः ।
स्वतो मुख्यविरोधे तु त्याज्योऽन्योऽर्थोऽखिलेष्वपि ।
इति सर्वत्र नियमः शब्दार्थज्ञानभूमिषु’ - ‘एकविंशति दिव्यानि स्थानानि दिवि चक्रिणः ।
वज्रिणो वाऽपि तद्भक्तैर्भुज्यन्ते तानि याज्ञिकैः॥’
Purushottanasamhita
1 उद्धरणानि
- ‘विशुद्धविज्ञानमरीचिमालया (वि)सचित्ररत्नप्रकरप्रकाशया ।
प्रकाशिताशेषजगत्स्वरूपया प्रभुः सदा ह्लादतनुर्विभूषितः॥’
Rigveda
12 उद्धरणानि
- ‘एतावानस्य महिमाऽतो ज्यायांश्च पुरुषः।’(ऋ.सं.१०.९०.३)
- ‘यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा।’(ऋ.सं.१०.८२.३)
- ‘विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि।’(ऋ.सं.१.१५४.१)
- ‘परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति।’(ऋ.सं.७.९९.१)
- ‘न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप।’(ऋ.सं.७.९९.२)
- ‘तेभिरिन्द्रं चोदय दातवे मघम्’(ऋ.सं.९.७५.५)
- ‘इन्द्र एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः’(ऋ.सं.४.५८.४)
- ‘प्रथमा या महानाम्नी तद्वाच्यः पार्थिवो हरिः ।
द्वितीयाया आन्तरिक्ष्यस्तृतीयाया द्युगः प्रभुः’ - ‘(त्र्युचा)तृचास्तिस्त्रो महानाम्न्यः पञ्चर्चा प्रथमा परा ।
(त्र्युचा)तृचा द्व्यृचा च निगदैस्तार्तीया सप्तभिर्युता ।
इति द्वेधा(त्रेधा) विभागः स्याज्जपध्यानादिकर्मसु’ - ‘अधा ते विष्णो विदुषा चिदर्ध्यस्तोमो यज्ञश्च राध्यो हविष्मता’(ऋ.सं.१.१५६.१)
- ‘चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीँरवीविपत्’(ऋ.सं.१.१५५.६)
- ‘न वर्तवे प्रसवः सर्गतक्तः’(ऋ.सं.३.३३.४)
Samaveda
1 उद्धरणानि
- ‘दाता राधस्तुवते काम्यं वसु 'प्रचेतय'’(सामवेद.३.६)
Shabdanirnaya
4 उद्धरणानि
- ‘अन्तर्गतं बहिर्गञ्च(र्गतञ्च) द्विधा स्यादुपसर्जनम् ।
हस्तवद्धेतिवच्चैव पदानां चोपसर्गवत्’ - ‘अल्पाक्षरेण शक्येऽपि वक्तुं बह्वक्षरं यदि ।
उक्तस्याऽधिक्यमेवात्र निषेधेऽशेषतो भवेत्॥’ - ‘किञ्चित्वे चोभयत्वे च संशये सदृशे तथा । इवशब्दः प्रयुज्येत न्यक्कारेऽपि च पण्डितैः॥’
- ‘शमलं पापमुद्दिष्टं रागद्वेषादिकं तथा ।
अपराधश्च शमलं मलं च शमलं विदुः॥’
Shabdatattve
1 उद्धरणानि
- ‘दध्नो मथनशब्दश्चाप्यन्तर्नादस्वरूपतः ।
भीषकत्वं हरेर्ब्रूयादन्तर्नादो हि भीषणे ।
गजबृंहितमप्येवं धिक्कारसहितं वदेत् ।
स्वरितेन समायोगाद् धिक्कृतौ स्वरितो यतः ।
महामत्रं(मन्त्रं) जलाद्यैश्च युक्तमेतादृशं वदेत् ।
पादभूषा च धिक्कारं तत्कृतं स्वरितं(तो) वदेत् ।
अद्भुतत्वं हरेर्वक्ति पिङ्गाकण्ठगशब्दवत् ।
तामेवाद्भुततां वक्ति गृहगोधा पराऽपि च’
Shvetashvataropanishat
1 उद्धरणानि
- ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च’(श्वे.उ.६.११)
Skandapurana
1 उद्धरणानि
- ‘समीपे दूरतश्चैव ध्यायन्तं त्वा सदा (प्र)विभो ।
मामेहि ज्ञानदानायेत्याह गाधिसुतो हरिम्॥’
Soukarayanashruti
1 उद्धरणानि
- ‘वानात्सूतेर्देवनाद्वासुदेवो वासाद्द्युतेश्छादनात्क्रीडया वा ।
बलादसुत्वाद् दातृतो वर्तनाच्च तं वासुदेवं प्रवदन्ति वेदाः॥’
Svadhyayatattva
1 उद्धरणानि
- ‘गतश्रियः श्रियो हानिं पापहानिं परस्य च ।
संसर्गश्छन्दसां कुर्याच्छ्रियो वृद्धिं यथास्थितः’
Svadhyayatattve
1 उद्धरणानि
- ‘पापानां व्यतिषिक्तत्वाद्व्यतिषक्तं विनाशकम् ।
धनस्याव्यतिषङ्गेण व्यतिषङ्गोविनाशकः ।
सदृशं सदृशस्यैव यतः स्यात्प्रविनाशकम् ।
तथाप्यप्राप्तनाशस्य धनस्य बलवत्त्वतः ।
शक्नुयान्न विनाशाय पापस्येच्छासमेधितम् ।
संसृष्टं स्याद्विनाशाय नहीच्छा धनसङ्क्षये॥’
Taittiriyaaranyaka
1 उद्धरणानि
- ‘स्त्रियः सतीस्ताँ उ मे पुंस आहुः पश्यदक्षण्वान् न विचेतदन्धः । कविर्यः पुत्रः स इमा चिकेत यस्ता विजानात् (सवितुः पिता सत्)स पितुष्पितासत्।’(तैत्तिरीयारण्यकम्.१.११)
Taittiriyaranyaka
1 उद्धरणानि
- ‘तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते’(तै.आ.३.१३)
Taittiriyopanishat
2 उद्धरणानि
- ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.उ.२.१,ब्रह्मवल्लि.२)
- ‘स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देव धारणो भूयासम् । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम्’(तै.उ.१.९(शिक्षावल्लि.९))
Vaihayasasaamhita
1 उद्धरणानि
- ‘भूतादिभूतोम्बुनिधानमध्ये भूत्वा हरिः सर्वहरोऽतिधाम्ना । अगाधमम्भो विदधाति भस्म यो वाडवाग्निर्नृहरिर्विचिन्त्यः॥’
Varahapurana
1 उद्धरणानि
- ‘कुहकञ्चेन्द्रजालं च विरुद्धाचरणानि च ।
दर्शयित्वा जनं सर्वं मोहयाशु महेश्वर॥’
Vyasasamhita
1 उद्धरणानि
- ‘संश्लेषादोदनं कर्म पच्यमानं गिरैव हि । अभिनद्भगवान् व्यासः स्वभक्तानामशेषतः’
Vyasasmruti
1 उद्धरणानि
- ‘सदेहमानिहरये प्रणमेत्केवलाय वा ।
न देहाय न तन्मानपराय च कथञ्चन ॥’ इति व्यासस्मृतौ
पद्मपुराणम्
1 उद्धरणानि
- ‘देहदेहिविभागश्च न क्वचित्परमेश्वरे । गुणतद्वद्विभागो वा नेह नानेति हि श्रुतिः॥’
श्रुतिः
10 उद्धरणानि
- ‘पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥’ - ‘तं वा एतं मघ(ख)वन्तं सन्तं मघवानित्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः’
- ‘तन्न आयातु मघाय । यशो वा मघम् । मघमनु प्रापत्सि’, ‘आ मामेतु मघम् । मघमनुप्रापत्सि । धनं वाव मघम्’
- ‘प्रजा वै वाजः’
- ‘इन्द्रो वा एताभिर्महानात्मानं निरमिमीत’
- ‘यस्तद्वेद स पितुष्पितासत्’
- ‘वायुर्वाव गवां पतिः’
- ‘ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एव(प्राण ऋच इत्येव विद्यात्)’
- ‘सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।
ज्ञानज्ञानः सुखसुखः स विष्णुः परमोऽक्षरः’॥ - ‘एष उ एव दाश्वान् य (एनमेवं)एवं वेद’