Jump to content

Tattvodyota/Ullekha

From Anandamakaranda
Revision as of 17:28, 28 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
उल्लेखसूची — तत्त्वोद्योतम्
इस ग्रन्थे उद्धृतानि प्रमाणस्थानानि — 14 स्रोताः
Atharvanopanishat
1 उद्धरणानि
  1. ‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
    तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥’ (आथर्वण.४.३.३)
Bhagavadgeeta
5 उद्धरणानि
  1. ‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
    यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः’ इति भगवद्राद्धान्तः ।(भ.गी.२४.१७)
  2. ‘तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥’ (भ.गी ४.५)
  3. ‘सुखं दुःखं भवोभावो भयं चाभयमेव च ॥
    अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।
    भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥’ (भ.गी १०.४,५ )
  4. ‘यस्माद् क्षरमतीतोहमक्षरादपि चोत्तमः ।
    अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥’ (भ.गी १५.१८ )
  5. ‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
    सर्गेऽपि नोपजायन्ते प्रलये न व्यथयन्ति च ॥’ (भ.गी १४.२)
Bhagavadgita
1 उद्धरणानि
  1. ‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
    अपरस्परसम्भूतं किमन्यत् कामहैतुकम् ॥
    एतां दृष्टिमवष्टभ्य नष्टात्मानोल्पबुद्धयः ।
    प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥’(भ.गी.१६.८,९)
Bhagavata
1 उद्धरणानि
  1. ‘मय्यनन्तगुणेनन्ते गुणतोनन्तविग्रहे ।
    यदासीत् तत एवाद्यः स्वयम्भूः समभूदजः ॥’(भाग.६.४.४८)
Brahmasutra
3 उद्धरणानि
  1. ‘नासतो दृष्टत्वात्’ (ब्रह्मसूत्रम् - २.२.२६)
  2. ‘नाभाव उपलब्धेः’ (ब्रह्मसूत्रम् -२.२.२८)
  3. ‘वैधर्म्याच्च न स्वप्नादिवत्’ (ब्रह्मसूत्रम् - २.२.२९)
Brhmanda
2 उद्धरणानि
  1. ‘न च मायाविना माया दृश्यते विश्वमीश्वरः ।
    सदा पश्यति तेनेदं न मायेत्यवधार्यताम् ॥
  2. अपरोक्षदृशो मिथ्यादर्शनं न क्वचिद्भवेत् ।
    सर्वापरोक्षविद्विष्णुर्विश्वदृक्तन्न तन्मृषा ॥’
Ishavasyopanishat
1 उद्धरणानि
  1. ‘कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधात् शाश्वतीभ्यः समाभ्यः’ (ईशावास्य.८)
Mahabharata
1 उद्धरणानि
  1. ‘उद्यतायुधदोर्दण्डाः पतितास्वशिरोक्षिभिः ।
    पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीन् युधि ॥’
Pramana
16 उद्धरणानि
  1. ‘सत्यं तु द्विविधं प्रोक्तं सांवृतं पारमार्थिकम् ।
  2. सांवृतं व्यावहार्यं स्यान्निवृत्तौ पारमार्थिकम् ॥
  3. विचार्यमाणे नो सत्त्वं सत्त्वं चापि प्रतीयते ।
    यस्य तत्सांवृतं ज्ञेयं
  4. व्यवहारपदञ्च यत् ॥’
  5. ‘निर्विशेषं स्वयं भातं निर्लेपमजरामरम् ।
    शून्यं तत्त्वम्
  6. अविज्ञेयं
  7. मनोवाचामगोचरम् ॥
  8. जाड्यसंवृतिदुःखान्तपूर्वदोषविरोधि यत् ।
  9. नित्यभावनया भातं तद्भावं योगिनं नयेत् ॥
  10. भावार्थप्रतियोगित्वं भावत्वं वा न तत्त्वतः ।
  11. विश्वाकारं च संवृत्त्या यस्य तत्पदमक्षयम् ॥’
  12. ‘अनृतजडविरोधिरूपमन्तत्रयमलबन्धनदुःखताविरुद्धम्’
  13. ‘नास्य सत्त्वमसत्त्वं वा न दोषो गुण एव वा ।
    हेयोपादेयरहितं तच्छून्यं पदमक्षयम् ॥’
  14. ‘अवाच्यं सर्वशब्दैस्तल्लक्ष्यते चाखिलैः पदैः ।
    अज्ञेयं ज्ञानलक्ष्यं च तच्छून्यं पदमक्षयम् ॥’
  15. ‘यदखण्डपदं लक्ष्यं सर्वैरपि विशेषणैः ।
    सर्वैर्विशेषणैर्मुक्तं तच्छून्यं पदमक्षयम् ॥’
  16. ‘विरुद्धवत्प्रतीयन्त आगमा यत्र वै मिथः ।
    तत्र दृष्टानुसारेण तेषामर्थोऽन्ववेक्ष्यते ॥’
Rigveda
6 उद्धरणानि
  1. ‘नासदासीन्नो सदासीत् तदानीं नासीद्रजो नो व्योमापरो यत्’(ऋ.१०.१२९.१)
  2. ‘आनीदवातं स्वधया तदेकम्’(ऋ.१०.१२९.२)
  3. ‘विश्वं सत्यं मघवाना युवोरिदापश्च न प्रमिनन्ति व्रतं वाम् ।’ (ऋ.सं.२.२४.१२)
  4. ‘प्रघान्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्’ (ऋ.सं.२.१५.१)
  5. ‘सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्ररातज्ये’(ऋ.सं.८.३.४)
  6. ‘परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।’(ऋ.सं.७.९९)
Shwetashwataropanishat
1 उद्धरणानि
  1. ‘पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’(श्वेत.उ.६.८)
Smriti
3 उद्धरणानि
  1. ‘ईशोनीशो जगन्मिथ्या न पूज्यो गुरुरित्यपि ।
    एक आत्मा परब्रह्मभावो मुक्तिरिति ह्यपि ॥
  2. एवमादि विरुद्धानि वचनान्यथ युक्तयः ।
    प्रमाणैर्बहुभिः ज्ञेया आभासा इति वैदिकैः ॥
  3. वेदवेदानुसारेषु विरोघेन्यार्थकल्पना ।
    इतराणि विरुद्धानि प्रलम्भभ्रमजान्यपि ॥’
Smruti
15 उद्धरणानि
  1. ‘अद्भुतत्वादनिर्वाच्यं ब्रह्म चिच्चेत्यमेव च ।
  2. अचिन्त्यं तत एवैतद्
  3. अतर्क्याज्ञेयमेव च ॥
  4. ऋगतावितिधातोस्तु पूर्वावगतवत् सदा ।
    स्थितेः, ‘ब्रह्मर्तम्’इत्युक्तमनृतं परिणामतः ॥
    प्रकृतिप्राकृतं प्रोक्तम्
  5. असत्तदशुभत्वतः ।
  6. असतां बुद्धिगम्यत्वाद् असत्यमिति चोच्यते ॥
  7. नियमेन बहिश्चित्तास्तेसन्तो ब्रह्मणि स्थिताः ।
  8. विश्वं सत्यं
  9. वशे विष्णोः
  10. नित्यमेव
  11. प्रवाहतः ॥
  12. न क्वाप्यनीदृशं विश्वं
  13. तत्तत्कालानुसारतः ।
  14. असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ॥
    त आसुरा
  15. स्वयं नष्टा जगतः क्षयकारिणः ॥’
श्रुतिः
2 उद्धरणानि
  1. ‘मूर्तं सदिति सम्प्रोक्तम् अमूर्तमसदुच्यते ।
    मूर्तामूर्तेतरद्ब्रह्म न सत्तन्नासदुच्यते ॥’
  2. ‘यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सत्’